← Varaha Purana

Varaha Purana — Chapter 75

VrP 75.75

रुद्र उवाच । अत ऊर्ध्वं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् । संख्यां चापि समुद्राणां द्वीपानां चैव विस्तरम् यावन्ति चैव वर्षाणि तेषु नद्यश्च याः स्मृताः । महाभूतप्रमाणं च गतिं चन्द्रार्कयोः पृथक् द्वीपभेदसहस्त्राणि सप्तस्वन्तर्गतानि च । न शक्यन्ते क्रमेणेह वक्तुं यैर्विततं जगत् सप्तद्वीपान् प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह । येषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यं विभाव्यते नव वर्षं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् । विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत शतमेकं सहस्त्राणां योजनानां समन्ततः । नानाजनपदाकीर्णं योजनैर्विविधैः शुभैः सिद्धचारणसंकीर्णं पर्वतैरुपशोभितम् । सर्वधातुविवृद्धैश्च शिलाजालसमुद्भवैः । पर्वतप्रभवाभिश्च नदीभिः सर्वतश्चितम् जम्बूद्वीपः पृथुः श्रीमान् सर्वतः परिमण्डलः । नवभिश्चावृतः श्रीमान् भुवनैर्भूतभावनः लवणेन समुद्रेण सर्वतः परिवारितः । जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः तस्य प्रागायता दीर्घा षडेते वर्षपर्वताः । उभयत्रावगाढाश्च समुद्रौ पूर्वपश्चिमौ हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् । सर्वत्र सुसुखश्चापि निषधः पर्वतो महान् चतुर्वर्णःस सौवर्णो मेरुश्चोल्बमयो गिरिः । वृत्ताकृतिप्रमाणश्च चतुरस्त्रः समुच्छितः नानावर्णस्तु पार्श्वेषु प्रजापतिगुणान्वितः । नाभिमण्डलसंभूतो ब्रह्मणः परमेष्ठिनः पूर्वतः श्वेतवर्णस्तु ब्रह्मण्यं तेन तस्य तत् । पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते भृङ्गपत्रनिभश्चासौ पश्चिमेन यतोऽथ सः । तेनास्य शूद्रता प्रोक्ता मेरोर्नामार्थकर्मणः पार्श्वमुत्तरतस्तस्य रक्तवर्णं विभाव्यते। तेनास्य क्षत्रभावः स्यादिति वर्णाः प्रकीर्तिताः वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः । नीलश्च वैदूर्यमयः श्वेतशुक्लो हिरण्मयः । मयूरबर्हिवर्णस्तु शातकौम्भश्च श्रृङ्गवान् एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्त्र उच्यते मध्ये त्विलावृतं नाम महामेरोः स संभवः । नवैव तु सहस्त्राणि विस्तीर्णः सर्वतश्च सः मध्यं तस्य महामेरुर्विधूम इव पावकः । वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् वर्षाणि यानि षडत्र तेषां ते वर्षपर्वताः । योजनाग्रं तु वर्षाणां सर्वेषां तद् विधीयते द्वे द्वे वर्षे सहस्त्राणां योजनानां समुच्छ्रयः । जम्बूद्वीपस्य विस्तारस्तेषामायाम उच्यते योजनानां सहस्त्राणि शतौ द्वौ चायतौ गिरी । नीलश्च निषधश्चैव ताभ्यां हीनाश्च ये परे । श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः जम्बूद्वीपप्रमाणेन निषधः परिकीर्तितः । तस्माद् द्वादशभागेन हेमकूटः प्रहीयते । हिमवान् विंशभागेन हेमकूटात् प्रहीयते अष्टाशीतिसहस्त्राणि हेमकूटो महागिरिः । अशीतिर्हिमवान् शैल आयतः पूर्वपश्चिमे द्वीपस्य मण्डलीभावाद् ह्रासवृद्धी प्रकीर्त्यते । वर्षाणां पर्वतानां च यथा चेमे तथोत्तरम् तेषां मध्ये जनपदास्तानि वर्षाणि चैव तत् । प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु संततानि नदीभेदैरगम्यानि परस्परम् । वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः एतद्धैमवतं वर्षं भारती यत्र सन्ततिः । हेमकूटं परं यत्र नाम्ना किंपुरुषोत्तमः हेमकूटात् तु निषधं हरिवर्षं तदुच्यते । हरिवर्षात् परं चैव मेरुपार्श्व इलावृतम् इलावृतात् परं नीलं रम्यकं नाम विश्रुतम् । रम्यकाच्च परं श्वेतं विश्रुतं तद्धिरण्मयम् । हिरण्मयात् परं चैव श्रृङ्गवन्तं कुरु स्मृतम् धनुःसंस्थे तु द्वे वर्षे विज्ञेये दक्षिणोत्तरे । द्वीपानि खलु चत्वारि चतुरस्त्रमिलावृतम् अर्वाक् च निषधस्याथ वेद्यर्धं दक्षिणं स्मृतम् । परं श्रृङ्गवतो यच्च वेद्यर्धं हि तदुत्तरम् वेद्यर्द्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे । तयोर्मध्ये तु विज्ञेयो यत्र मेरुस्त्विलावृतः दक्षिणेन तु नीलस्य निषधस्योत्तरेण च । उदगायतो महाशैलो माल्यवान्नाम पर्वतः योजनानां सहस्त्रे द्वे विष्कम्भोच्छ्रय एव च । आयामतश्चतुस्त्रिंशत् सहस्त्राणि प्रकीर्तितः तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः । आयामोच्छ्रयविस्तारात् तुल्यो माल्यवता तु सः परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः । चतुर्वर्णः ससौवर्णश्चतुरस्त्रः समुच्छ्रितः अव्यक्ता धातवः सर्वे समुत्पन्ना जलादयः । अव्यक्तात् पृथिवीपद्मं मेरुस्तस्य च कर्णिका चतुष्पत्रं समुत्पन्नं व्यक्तं पञ्चगुणं महत् । ततः सर्वाः समुद्भूता वितता हि प्रवृत्तयः अनेककल्पजीवद्भिः पुरुषैः पुण्यकारिभिः । कृतात्मभिर्महात्मभिः प्राप्यते पुरुषोत्तमः महायोगी महादेवो जगद्ध्येयो जनार्दनः । सर्वलोकगतोऽनन्तो व्यापको मूर्त्तिरव्ययः न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसंभवा । योगित्वाच्चेश्वरत्वाच्च सत्त्वरूपधरो विभुः तन्निमित्तं समुत्पन्नं लोके पद्मं सनातनम् । कल्पशेषस्य तस्यादौ कालस्य गतिरीदृशी तस्मिन् पद्मे समुत्पन्नो देवदेवश्चतुर्मुखः । प्रजापतिपतिर्देव ईशानो जगतः प्रभुः तस्य बीजनिसर्गं हि पुष्करस्य यथार्थवत् । कृत्स्नं प्रजानिसर्गेण विस्तरेणैव वर्ण्यते तदम्बु वैष्णवः कायो यतो रत्नविभूषितः । पद्माकारा समुत्पन्ना पृथिवी सवनद्रुमा तत् तस्य लोकपद्मस्य विस्तरं सिद्धभाषितम् । वर्ण्यमानं विभागेन क्रमशः श्रृणुत द्विजाः महावर्षाणि ख्यातानि चत्वार्यत्र च संस्थिताः । तत्र पर्वतसंस्थानो मेरुर्नाम महाबलः नानावर्णः स पार्श्वेषु पूर्वतः श्वेत उच्यते । पीतं च दक्षिणं तस्य भृङ्गवर्णं तु पश्चिमम् उत्तरं रक्तवर्णं तु तस्य पार्श्वं महात्मनः । मेरुस्तु शोभते शुक्लो राजवंशे तु धिष्ठितः तरुणादित्यसंकाशो विधूम इव पावकः । योजनानां सहस्त्राणि चतुराशीतिरुच्छ्रितः प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु । शरावसंस्थितत्वाच्च द्वात्रिंशन्मूर्ध्नि विस्तृतः विस्तारस्त्रिगुणश्चास्य परिणाहः समन्ततः । मण्डलेन प्रमाणेन व्यस्यमानं तदिष्यते नवतिश्च सहस्त्राणि योजनानां समन्ततः । ततः षट्काधिकानां च व्यस्यमानं प्रकीर्त्तितम् । चतुरस्त्रेण मानेन परिणाहः समन्ततः स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः । सवनैरावृतः सर्वो जातरूपमयैः शुभैः तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः । शैलराजे प्रमोदन्ते तथैवाप्सरसां गणाः स तु मेरुः परिवृतो भवनैर्भूतभावनैः । चत्वारो यस्य देशास्तु नानापार्श्वेषु धिष्ठिताः भद्राश्वो भारतश्चैव केतुमालश्च पश्चिमे । उत्तरे कुरवश्चैव कृतपुण्यप्रतिश्रयाः कर्णिका तस्य पद्मस्य समन्तात् परिमण्डला । योजनानां सहस्त्राणि योजनानां प्रमाणतः तस्य केसरजालानि नवषट् च प्रकीर्त्तिताः । चतुरशीतिरुत्सेधो विवरान्तरगोचराः त्रिंशच्चापि सहस्त्राणि योजनानां प्रमाणतः । तस्य केसरजालानि विकीर्णानि समन्ततः शतसाहस्त्रमायाममशीतिः पृथुलानि च । चत्वारि तत्र पर्णानि योजनानां चतुर्दश तत्र या सा मया तुभ्यं कर्णिकेत्यभिविश्रुता । तां वर्ण्यमानामेकाग्र्यात् समासेन निबोधत । मणिपर्णशतैश्चित्रां नानावर्णप्रभासिताम् अनेकपर्णनिचयं सौवर्णमरुणप्रभम् । कान्तं सहस्त्रपर्वाणं सहस्त्रोदरकन्दरम् । सहस्त्रशतपत्रं च वृत्तमेकं नगोत्तमम् मणिरत्नार्पितश्वभ्रैर्मणिभिश्चित्रवेदिकम् । सुवर्णमणिचित्राङ्गैर्मणिचर्चिततोरणैः तत्र ब्रह्मसभा रम्या ब्रह्मर्षिजनसंकुला । नाम्ना मनोव्रती नाम सर्वलोकेषु विश्रुता तत्रेशानस्य देवस्य सहस्त्रादित्यवर्चसः । महाविमानसंस्थस्य महिमा वर्त्तते सदा तत्र सर्वे देवगणाश्चतुर्वक्त्रं स्वयं प्रभुम् । इष्ट्वा पूज्यनमस्कारैरर्चनीयमुपस्थिताः यैस्तदा दिहसंकल्पैर्ब्रह्मचर्यं महात्मभिः । चीर्णं चारुमनोभिश्च सदाचारपथि स्थितैः सम्यगिष्ट्वा च भुक्त्वा च पितृदेवार्चने रताः । गृहाश्रमपरास्तत्र विनीता अतिथिप्रियाः गृहिणः शुक्लकर्मस्था विरक्ताः कारणात्मकाः । यमैर्नियमदानैश्च दृढनिर्दग्धकिल्बिषाः तेषां निवसनं शुक्लब्रह्मलोकमनिन्दितम् । उपर्युपरि सर्वासां गतीनां परमा गतिः । चतुर्दशसहस्त्राणि योजनानां तु कीर्त्तितम् ततोर्द्धरुचिरे कृष्णे तरुणादित्यवर्चसि । महागिरौ ततो रम्ये रत्नधातुविचित्रिते नैकरत्नसमावासे मणितोरणमन्दिरे । मेरोः सर्वेषु पार्श्वेषु समन्तात् परिमण्डले त्रिंशद्योजनसाहस्त्रं चक्रपाटो नगोत्तमः । जारुधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः एतेषां शैलमुख्यानामुत्तरेषु यथाक्रमः । स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत दशयोजनविस्तीर्णा चक्रपाटोपनिर्गता । सा तूद्र्ध्ववाहिनी चापि नदी भूमौ प्रतिष्ठिता सा पुर्याममरावत्यां क्रममाणेन्दुरा प्रभौ । तया तिरस्कृता वाऽपि सूर्येन्दुज्योतिषां गणाः उदयास्तमिते सन्ध्ये ये सेवन्ते द्विजोत्तमाः । तान् तुष्यन्ते द्विजाः सर्वानष्टावप्यचलोत्तमान् परिभ्रमज्ज्योतिषां या सा रुद्रेन्द्रमता शुभा

rudra uvāca | ata ūrdhvaṃ pravakṣyāmi jambūdvīpaṃ yathātatham | saṃkhyāṃ cāpi samudrāṇāṃ dvīpānāṃ caiva vistaram yāvanti caiva varṣāṇi teṣu nadyaśca yāḥ smṛtāḥ | mahābhūtapramāṇaṃ ca gatiṃ candrārkayoḥ pṛthak dvīpabhedasahastrāṇi saptasvantargatāni ca | na śakyante krameṇeha vaktuṃ yairvitataṃ jagat saptadvīpān pravakṣyāmi candrādityagrahaiḥ saha | yeṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate acintyāḥ khalu ye bhāvā na tāṃstarkeṇa sādhayet | prakṛtibhyaḥ paraṃ yacca tadacintyaṃ vibhāvyate nava varṣaṃ pravakṣyāmi jambūdvīpaṃ yathātatham | vistarānmaṇḍalāccaiva yojanaistannibodhata śatamekaṃ sahastrāṇāṃ yojanānāṃ samantataḥ | nānājanapadākīrṇaṃ yojanairvividhaiḥ śubhaiḥ siddhacāraṇasaṃkīrṇaṃ parvatairupaśobhitam | sarvadhātuvivṛddhaiśca śilājālasamudbhavaiḥ | parvataprabhavābhiśca nadībhiḥ sarvataścitam jambūdvīpaḥ pṛthuḥ śrīmān sarvataḥ parimaṇḍalaḥ | navabhiścāvṛtaḥ śrīmān bhuvanairbhūtabhāvanaḥ lavaṇena samudreṇa sarvataḥ parivāritaḥ | jambūdvīpasya vistārāt samena tu samantataḥ tasya prāgāyatā dīrghā ṣaḍete varṣaparvatāḥ | ubhayatrāvagāḍhāśca samudrau pūrvapaścimau himaprāyaśca himavān hemakūṭaśca hemavān | sarvatra susukhaścāpi niṣadhaḥ parvato mahān caturvarṇaḥsa sauvarṇo meruścolbamayo giriḥ | vṛttākṛtipramāṇaśca caturastraḥ samucchitaḥ nānāvarṇastu pārśveṣu prajāpatiguṇānvitaḥ | nābhimaṇḍalasaṃbhūto brahmaṇaḥ parameṣṭhinaḥ pūrvataḥ śvetavarṇastu brahmaṇyaṃ tena tasya tat | pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyate bhṛṅgapatranibhaścāsau paścimena yato'tha saḥ | tenāsya śūdratā proktā merornāmārthakarmaṇaḥ pārśvamuttaratastasya raktavarṇaṃ vibhāvyate| tenāsya kṣatrabhāvaḥ syāditi varṇāḥ prakīrtitāḥ vṛttaḥ svabhāvataḥ prokto varṇataḥ parimāṇataḥ | nīlaśca vaidūryamayaḥ śvetaśuklo hiraṇmayaḥ | mayūrabarhivarṇastu śātakaumbhaśca śrṛṅgavān ete parvatarājānaḥ siddhacāraṇasevitāḥ | teṣāmantaraviṣkambho navasāhastra ucyate madhye tvilāvṛtaṃ nāma mahāmeroḥ sa saṃbhavaḥ | navaiva tu sahastrāṇi vistīrṇaḥ sarvataśca saḥ madhyaṃ tasya mahāmerurvidhūma iva pāvakaḥ | vedyarddhaṃ dakṣiṇaṃ meroruttarārddhaṃ tathottaram varṣāṇi yāni ṣaḍatra teṣāṃ te varṣaparvatāḥ | yojanāgraṃ tu varṣāṇāṃ sarveṣāṃ tad vidhīyate dve dve varṣe sahastrāṇāṃ yojanānāṃ samucchrayaḥ | jambūdvīpasya vistārasteṣāmāyāma ucyate yojanānāṃ sahastrāṇi śatau dvau cāyatau girī | nīlaśca niṣadhaścaiva tābhyāṃ hīnāśca ye pare | śvetaśca hemakūṭaśca himavāñchṛṅgavāṃśca yaḥ jambūdvīpapramāṇena niṣadhaḥ parikīrtitaḥ | tasmād dvādaśabhāgena hemakūṭaḥ prahīyate | himavān viṃśabhāgena hemakūṭāt prahīyate aṣṭāśītisahastrāṇi hemakūṭo mahāgiriḥ | aśītirhimavān śaila āyataḥ pūrvapaścime dvīpasya maṇḍalībhāvād hrāsavṛddhī prakīrtyate | varṣāṇāṃ parvatānāṃ ca yathā ceme tathottaram teṣāṃ madhye janapadāstāni varṣāṇi caiva tat | prapātaviṣamaistaistu parvatairāvṛtāni tu saṃtatāni nadībhedairagamyāni parasparam | vasanti teṣu sattvāni nānājātīni sarvaśaḥ etaddhaimavataṃ varṣaṃ bhāratī yatra santatiḥ | hemakūṭaṃ paraṃ yatra nāmnā kiṃpuruṣottamaḥ hemakūṭāt tu niṣadhaṃ harivarṣaṃ taducyate | harivarṣāt paraṃ caiva merupārśva ilāvṛtam ilāvṛtāt paraṃ nīlaṃ ramyakaṃ nāma viśrutam | ramyakācca paraṃ śvetaṃ viśrutaṃ taddhiraṇmayam | hiraṇmayāt paraṃ caiva śrṛṅgavantaṃ kuru smṛtam dhanuḥsaṃsthe tu dve varṣe vijñeye dakṣiṇottare | dvīpāni khalu catvāri caturastramilāvṛtam arvāk ca niṣadhasyātha vedyardhaṃ dakṣiṇaṃ smṛtam | paraṃ śrṛṅgavato yacca vedyardhaṃ hi taduttaram vedyarddhe dakṣiṇe trīṇi varṣāṇi trīṇi cottare | tayormadhye tu vijñeyo yatra merustvilāvṛtaḥ dakṣiṇena tu nīlasya niṣadhasyottareṇa ca | udagāyato mahāśailo mālyavānnāma parvataḥ yojanānāṃ sahastre dve viṣkambhocchraya eva ca | āyāmataścatustriṃśat sahastrāṇi prakīrtitaḥ tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ | āyāmocchrayavistārāt tulyo mālyavatā tu saḥ parimaṇḍalastayormadhye meruḥ kanakaparvataḥ | caturvarṇaḥ sasauvarṇaścaturastraḥ samucchritaḥ avyaktā dhātavaḥ sarve samutpannā jalādayaḥ | avyaktāt pṛthivīpadmaṃ merustasya ca karṇikā catuṣpatraṃ samutpannaṃ vyaktaṃ pañcaguṇaṃ mahat | tataḥ sarvāḥ samudbhūtā vitatā hi pravṛttayaḥ anekakalpajīvadbhiḥ puruṣaiḥ puṇyakāribhiḥ | kṛtātmabhirmahātmabhiḥ prāpyate puruṣottamaḥ mahāyogī mahādevo jagaddhyeyo janārdanaḥ | sarvalokagato'nanto vyāpako mūrttiravyayaḥ na tasya prākṛtā mūrtirmāṃsamedo'sthisaṃbhavā | yogitvācceśvaratvācca sattvarūpadharo vibhuḥ tannimittaṃ samutpannaṃ loke padmaṃ sanātanam | kalpaśeṣasya tasyādau kālasya gatirīdṛśī tasmin padme samutpanno devadevaścaturmukhaḥ | prajāpatipatirdeva īśāno jagataḥ prabhuḥ tasya bījanisargaṃ hi puṣkarasya yathārthavat | kṛtsnaṃ prajānisargeṇa vistareṇaiva varṇyate tadambu vaiṣṇavaḥ kāyo yato ratnavibhūṣitaḥ | padmākārā samutpannā pṛthivī savanadrumā tat tasya lokapadmasya vistaraṃ siddhabhāṣitam | varṇyamānaṃ vibhāgena kramaśaḥ śrṛṇuta dvijāḥ mahāvarṣāṇi khyātāni catvāryatra ca saṃsthitāḥ | tatra parvatasaṃsthāno merurnāma mahābalaḥ nānāvarṇaḥ sa pārśveṣu pūrvataḥ śveta ucyate | pītaṃ ca dakṣiṇaṃ tasya bhṛṅgavarṇaṃ tu paścimam uttaraṃ raktavarṇaṃ tu tasya pārśvaṃ mahātmanaḥ | merustu śobhate śuklo rājavaṃśe tu dhiṣṭhitaḥ taruṇādityasaṃkāśo vidhūma iva pāvakaḥ | yojanānāṃ sahastrāṇi caturāśītirucchritaḥ praviṣṭaḥ ṣoḍaśādhastādvistṛtaḥ ṣoḍaśaiva tu | śarāvasaṃsthitatvācca dvātriṃśanmūrdhni vistṛtaḥ vistārastriguṇaścāsya pariṇāhaḥ samantataḥ | maṇḍalena pramāṇena vyasyamānaṃ tadiṣyate navatiśca sahastrāṇi yojanānāṃ samantataḥ | tataḥ ṣaṭkādhikānāṃ ca vyasyamānaṃ prakīrttitam | caturastreṇa mānena pariṇāhaḥ samantataḥ sa parvato mahādivyo divyauṣadhisamanvitaḥ | savanairāvṛtaḥ sarvo jātarūpamayaiḥ śubhaiḥ tatra devagaṇāḥ sarve gandharvoragarākṣasāḥ | śailarāje pramodante tathaivāpsarasāṃ gaṇāḥ sa tu meruḥ parivṛto bhavanairbhūtabhāvanaiḥ | catvāro yasya deśāstu nānāpārśveṣu dhiṣṭhitāḥ bhadrāśvo bhārataścaiva ketumālaśca paścime | uttare kuravaścaiva kṛtapuṇyapratiśrayāḥ karṇikā tasya padmasya samantāt parimaṇḍalā | yojanānāṃ sahastrāṇi yojanānāṃ pramāṇataḥ tasya kesarajālāni navaṣaṭ ca prakīrttitāḥ | caturaśītirutsedho vivarāntaragocarāḥ triṃśaccāpi sahastrāṇi yojanānāṃ pramāṇataḥ | tasya kesarajālāni vikīrṇāni samantataḥ śatasāhastramāyāmamaśītiḥ pṛthulāni ca | catvāri tatra parṇāni yojanānāṃ caturdaśa tatra yā sā mayā tubhyaṃ karṇiketyabhiviśrutā | tāṃ varṇyamānāmekāgryāt samāsena nibodhata | maṇiparṇaśataiścitrāṃ nānāvarṇaprabhāsitām anekaparṇanicayaṃ sauvarṇamaruṇaprabham | kāntaṃ sahastraparvāṇaṃ sahastrodarakandaram | sahastraśatapatraṃ ca vṛttamekaṃ nagottamam maṇiratnārpitaśvabhrairmaṇibhiścitravedikam | suvarṇamaṇicitrāṅgairmaṇicarcitatoraṇaiḥ tatra brahmasabhā ramyā brahmarṣijanasaṃkulā | nāmnā manovratī nāma sarvalokeṣu viśrutā tatreśānasya devasya sahastrādityavarcasaḥ | mahāvimānasaṃsthasya mahimā varttate sadā tatra sarve devagaṇāścaturvaktraṃ svayaṃ prabhum | iṣṭvā pūjyanamaskārairarcanīyamupasthitāḥ yaistadā dihasaṃkalpairbrahmacaryaṃ mahātmabhiḥ | cīrṇaṃ cārumanobhiśca sadācārapathi sthitaiḥ samyagiṣṭvā ca bhuktvā ca pitṛdevārcane ratāḥ | gṛhāśramaparāstatra vinītā atithipriyāḥ gṛhiṇaḥ śuklakarmasthā viraktāḥ kāraṇātmakāḥ | yamairniyamadānaiśca dṛḍhanirdagdhakilbiṣāḥ teṣāṃ nivasanaṃ śuklabrahmalokamaninditam | uparyupari sarvāsāṃ gatīnāṃ paramā gatiḥ | caturdaśasahastrāṇi yojanānāṃ tu kīrttitam tatorddharucire kṛṣṇe taruṇādityavarcasi | mahāgirau tato ramye ratnadhātuvicitrite naikaratnasamāvāse maṇitoraṇamandire | meroḥ sarveṣu pārśveṣu samantāt parimaṇḍale triṃśadyojanasāhastraṃ cakrapāṭo nagottamaḥ | jārudhiścaiva śailendra ityete uttarāḥ smṛtāḥ eteṣāṃ śailamukhyānāmuttareṣu yathākramaḥ | sthalīrantaradroṇyaśca sarāṃsi ca nibodhata daśayojanavistīrṇā cakrapāṭopanirgatā | sā tūdrdhvavāhinī cāpi nadī bhūmau pratiṣṭhitā sā puryāmamarāvatyāṃ kramamāṇendurā prabhau | tayā tiraskṛtā vā'pi sūryendujyotiṣāṃ gaṇāḥ udayāstamite sandhye ye sevante dvijottamāḥ | tān tuṣyante dvijāḥ sarvānaṣṭāvapyacalottamān paribhramajjyotiṣāṃ yā sā rudrendramatā śubhā