← Varaha Purana

Varaha Purana — Chapter 39

VrP 39.39

सत्यतपा उवाच । भगवन् द्वे शरीरे तु इति यत्परिकीर्त्तितम् । तन्मे कथय भेदं वै के ते ब्रह्मविदां वर दुर्वासा उवाच । न द्वे त्रीणि शरीराणि वाच्यं तद्विपरीतकम् । विभोगायतनं चैव त्रिशरीराणि प्राणिनाम् प्रागवस्थमधर्माख्यं परिज्ञानविवर्जितम् । अपरं सव्रतं तद्धि ज्ञेयमत्यन्तधार्मिकम् धर्माधर्मोपभोगाय यत् तृतीयमतीन्द्रियम् । तत्त्रिभेदं विनिर्दिष्टं ब्रह्मविद्भिर्विचक्षणैः । यातना धर्मभोगश्च भुक्तिश्चेति त्रिभेदकम् यस्तु भावः पुरा ह्यासीत् प्राणिनो निघ्नतः स वै । तत्पापाख्यं शरीरं ते पापसंज्ञं तदुच्यते इदानीं शुभवृत्तिं तु कुर्वतस्तप आर्जवम् । अपरं धर्मरूपं तु शरीरं ते व्यवस्थितम् । तेन वेदपुराणानि ज्ञातुमर्हस्यसंशयम् यदाष्टाकं संपरिवर्त्तते पुमां- स्तदा त्र्यवस्थः परिकीर्त्यते तु वै । गताष्टवर्गस्त्रिगतः सदा शुभः स्थिरो भवेदात्मनि निश्चयात्मवान् यदा पञ्च पुनः पञ्च पञ्च पञ्चापि संत्यजेत् । एकमार्गस्तदा ब्रह्म शाश्वतं लभते नरः सत्यतपा उवाच । भगवन् यदि विज्ञानं शरीरं नोपजायते । तदा केन प्रकारेण परं ब्रह्मोपलभ्यते दुर्वासा उवाच । कर्मकाण्डं ज्ञानमूलं ज्ञानं कर्मादिकं तथा । एतयोरन्तरं नास्ति यथाऽश्ममृदयोर्मुने कर्मकाण्डं चतुर्भेदं ब्राह्मणादिषु कीर्तितम् । तत्र वेदोक्तकर्माणि त्रयः कुर्वन्ति नित्यशः । त्रिशुश्रूषामथैकस्तु एषा वेदोदिता क्रिया एतान् धर्मानवस्थाय ब्रह्मणोपास्तिं रोचते । तस्य मुक्तिर्भवेन्नूनं वेदवादरतस्य च सत्यतपा उवाच । यदेतत् परमं ब्रह्म त्वया प्रोक्तं महामुने । तस्य रूपं न जानन्ति योगिनोऽपि महात्मनः अनाममसगोत्रं च अमूर्त्तं मूर्त्तिवर्जितम् । कथं स ज्ञायते ब्रह्म संज्ञानामविवर्जितम् । तस्य संज्ञां कथय मे वेदमार्गव्यवस्थिताम् दुर्वासा उवाच । यदेतत् परमं ब्रह्म वेदव्यासेषु पठ्यते । स देवः पुण्डरीकाक्षः स्वयं नारायणः परः स यज्ञैर्विविधैरिष्टैर्दानैर्दत्तैश्च सत्तम । प्राप्यते परमो देवः स्वयं नारायणो हरिः सत्यतपा उवाच । भगवन् बहुवित्तेन ऋत्विग्भिर्वेदपारगैः । प्राप्यते पुण्यकृद्भिर्हि क्वचिद् यज्ञः कथंचन । तेन प्राप्तेन भगवान् लभ्यते दुःखतो हरिः वित्तेन च विना दानं दातुं विप्र न शक्यते । विद्यमानेऽपि न मतिः कुटुम्बासक्तचेतसः । तस्य मोक्षः कथं ब्रह्मन् सर्वथा दुर्लभो हरिः अल्पायासेन लभ्येत येन देवः सनातनः । तन्मे सामान्यतो ब्रूहि सर्ववर्णेषु यद् भवेत् दुर्वासा उवाच । कथयामि परं गुह्यं रहस्यं देवनिर्मितम् । धरण्या यत्कृतं पूर्वं मज्जन्त्या तु रसातले पृथिव्याः पार्थिवो भावः सलिले नातिरेचितः । तस्मिन् सलिलमग्ने तु पृथ्वी प्रायाद् रसातलम् सा भूतधारिणी देवी रसातलगता शुभा । आराधयामास विभुं देवं नारायणं परम् । उपवासव्रतैर्देवी नियमैश्च पृथग्विधैः कालेन महता तस्याः प्रसन्नो गरुडध्वजः । उज्जहार स्थितौ चेमां स्थापयामास सोऽव्ययः सत्यतपा उवाच । कोऽसौ धरण्या संचीर्ण उपवासो महामुने । कानि व्रतानि च तथा एतन्मे वक्तुमर्हसि दुर्वासा उवाच । यदा मार्गशिरे मासि दशम्यां नियतात्मवान् । कृत्वा देवार्चनं धीमानग्निकार्यं यथाविधि शुचिवासाः प्रसन्नात्मा हव्यमन्नं सुसंस्कृतम् । भुक्त्वा पञ्चपदं गत्वा पुनः शौचं तु पादयोः कृत्वाऽष्टाङ्गुलमात्रं तु क्षीरवृक्षसमुद्भवम् । भक्षयेद् दन्तकाष्ठं तु तत आचम्य यत्नतः स्पृष्ट्वा द्वाराणि सर्वाणि चिरं ध्यात्वा जनार्दनम् । शङ्खचक्रगदापाणिं किरीटिं पीतवाससम् प्रसन्नवदनं देवं सर्वलक्षणलक्षितम् । ध्यात्वा पुनर्जलं हस्ते गृह्य भानुं जनार्दनम् ध्यात्वाऽर्ध्यं दापयेत् तस्य करतोयेन मानवः । एवमुच्चारयेद् वाचं तस्मिन् काले महामुने एकादश्यां निराहारः स्थित्वाऽहमपरेऽहनि । भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत एवमुक्त्वा ततो रात्रौ देवदेवस्य सन्निधौ । जपन्नारायणायेति स्वपेत् तत्र विधानतः ततः प्रभाते विमले नदीं गत्वा समुद्रगाम् । इतरां वा तडागं वा गृहे वा नियतात्मवान् आनीय मृत्तिकां शुद्धां मन्त्रेणानेन मानवः । धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा । तेन सत्येन मे पापं यावन्मोचय सुव्रते ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि देव ते । तेनेमां मृत्तिकां स्पृष्ट्वा मा लभामि त्वयोदिताम् त्वयि सर्वे रसा नित्याः स्थिता वरुण सर्वदा । तेनेमां मृत्तिकां प्लाव्य पूतां कुरु ममाचिरम् एवं मृदं तथा तोयं प्रसाद्यात्मानमालभेत् । त्रिः कृत्वा शेषमृदया कुण्डमालिख्य वै जले ततस्तत्र नरः सम्यक् चक्रवर्त्युपचारतः । स्नात्वा चावश्यकं कृत्वा पुनर्देवगृहं व्रजेत् तत्राराध्य महायोगिं देवं नारायणं प्रभुम् । केशवाय नमः पादौ कटिं दामोदराय च ऊरुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे । कण्ठं कौस्तुभनाथाय वक्षः श्रीपतये तथा त्रैलोक्यविजयायेति बाहू सर्वात्मने शिरः । रथाङ्गधारिणे चक्रं शंकरायेति वारिजम् गम्भीरायेति च गदामम्भोजं शान्तिमूर्त्तये । एवमभ्यर्च्य देवेशं देवं नारायणं प्रभुम् पुनस्तस्याग्रतः कुम्भान् चतुरः स्थापयेद् बुधः । जलपूर्णान् समाल्यांश्च सितचन्दनलेपितान् चूतपल्लवसग्रीवान् सितवस्त्रावगुण्ठितान् । स्थगितान् ताम्रपात्रैश्च तिलपूर्णैः सकाञ्चनैः चत्वारस्ते समुद्रास्तु कलशाः परिकीर्तिताः । तेषां मध्ये शुभं पीठं स्थापयेद् वस्त्रगर्भितम् तस्मिन् सौवर्णरौप्यं वा ताम्रं वा दारवं तथा । अलाभे सर्वपात्राणां पालाशं पात्रमिष्यते तोयपूर्णं तु तत्कृत्वा तस्मिन् पात्रे ततो न्यसेत् । सौवर्णं मत्स्य्रूपेण कृत्वा देवं जनार्दम् । वेदवेदाङ्गसंयुक्तं श्रुतिस्मृतिविभूषितम् तत्रानेकविधैर्भक्षैः फलैः पुष्पैश्च शोभितम् । गन्धधूपैश्च वस्त्रैश्च अर्चयित्वा यथाविधि रसातलगता वेदा यथा देव त्वयाहृताः । मत्स्यरूपेण तद्वन्मां भवानुद्धर केशव । एवमुच्चार्य तस्याग्रे जागरं तत्र कारयेत् यथाविभवसारेण प्रभाते विमले तथा । चतुर्णां ब्राह्मणानां च चतुरो दापयेद् घटान् पूर्वं तु बह्वृचे दद्याच्छन्दोगे दक्षिणं तथा । यजुःशाखान्विते दद्यात् पश्चिमं घटमुत्तमम् । उत्तरं कामतो तद्यादेष एव विधिः स्मृतः ऋग्वेदः प्रीयतां पूर्वे सामवेदस्तु दक्षिणे । यजुर्वेदः पश्चिमतो अथर्वश्चोत्तरेण तु अनेन क्रमयोगेन प्रीयतामिति वाचयेत् । मत्स्यरूपं च सौवर्णमाचार्याय निवेदयेत् गन्धधूपादिवस्त्रैश्च संपूज्य विधिवत् क्रमात् । यस्त्विमं सरहस्यं च मन्त्रं चैवोपपादयेत् । विधानं तस्य वै दत्त्वा फलं कोटिगुणोत्तरम् प्रतिपद्य गुरुं यस्तु मोहाद् विप्रतिपद्यते । स जन्मकोटि नरके पच्यते पुरुषाधमः । विधानस्य प्रदाता यो गुरुरित्युच्यते बुधैः एवं दत्त्वा विधानेन द्वादश्यां विष्णुमर्च्य च । विप्राणां भोजनं कुर्याद् यथाशक्त्या सदक्षिणम् ताम्रपात्रैश्च सतिलैः स्थगितान् कारयेद् घटान् । तत्र सज्जलपात्रस्थं ब्राह्मणाय कुटुम्बिने देवं दद्यान्महाभागस्ततो विप्रांश्च भोजयेत् । भूरिणा परमान्नेन ततः पश्चात् स्वयं नरः । भुञ्जीत सहितो बालैर्वाग्यतः संयतेन्द्रियः अनेन विधिना यस्तु धरणीव्रतकृन्नरः । तस्य पुण्यफलं चाग्र्यं श्रृणु बुद्धिमतां वर यदि वक्त्रसहस्त्राणि भवन्ति मम सुव्रत । आयुश्च ब्रह्मणस्तुल्यं भवेद् यदि महाव्रत तदानीमस्य धर्मस्य फलं कथयितुं भवेत् । तथाप्युद्देशतो ब्रह्मन् कथयामि श्रृणुष्व तत् दश सप्त दश द्वे च अष्टौ चत्वार एव च । लक्षायुतानि चत्वारि एकस्थं स्याच्चतुर्युगम् तैरेकसप्ततियुगं भवेन्मन्वन्तरं मुने । चतुर्दशाहो ब्राह्मस्तु तावती रात्रिरिष्यते एवं त्रिंशद्दिनो मासस्ते द्वादश समा स्मृता । तेषां शतं ब्रह्मणस्तु आयुर्नास्त्यत्र संशयः यः सकृद् द्वादशीमेतामनेन विधिना क्षिपेत् । स ब्रह्मलोकमाप्नोति तत्कालं चैव तिष्ठति ततो ब्रह्मोपसंहारे तल्लयं तिष्ठते चिरम् । पुनः सृष्टौ भवेद् देवो वैराजानां महातपाः ब्रह्महत्यादिपापानि इह लोककृतान्यपि । अकामे कामतो वापि तानि नश्यन्ति तत्क्षणात् इह लोके दरिद्रो यो भ्रष्टराज्योऽथ वा नृपः । उपोष्य तां विधानेन स राजा जायते ध्रुवम् वन्ध्या नारी भवेद् या तु अनेन विधिना शुभा । उपोष्यति भवेत् तस्याः पुत्रः परमधार्मिकः अगम्यागमनं येन कृतं जानाति मानवः । स इमं विधिमासाद्य तस्मात् पापाद् विमुच्यते ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च । उपोष्येमां सकृद् भक्त्या वेदसंस्कारमाप्नुयात् किमत्र बहुनोक्तेन न तदस्ति महामुने । अप्राप्यं प्राप्यते नैव पापं वा यन्न नश्यति अनेन विधिना ब्रह्मन् स्वयमेव ह्युपोषिता । धरण्या मग्नया तात नात्र कार्या विचारणा अदीक्षिताय नो देयं विधानं नास्तिकाय च । देवब्रह्मद्विषे वाऽपि न श्राव्यं तु कदाचन । गुरुभक्ताय दातव्यं सद्यः पापप्रणाशनम् इह जन्मनि सौभाग्यं धनं धान्यं वरस्त्रियः । भवन्ति विविधा यस्तु उपोष्य विधिना ततः य इमं श्रावयेद् भक्त्या द्वादशीकल्पमुत्तमम् । श्रृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते

satyatapā uvāca | bhagavan dve śarīre tu iti yatparikīrttitam | tanme kathaya bhedaṃ vai ke te brahmavidāṃ vara durvāsā uvāca | na dve trīṇi śarīrāṇi vācyaṃ tadviparītakam | vibhogāyatanaṃ caiva triśarīrāṇi prāṇinām prāgavasthamadharmākhyaṃ parijñānavivarjitam | aparaṃ savrataṃ taddhi jñeyamatyantadhārmikam dharmādharmopabhogāya yat tṛtīyamatīndriyam | tattribhedaṃ vinirdiṣṭaṃ brahmavidbhirvicakṣaṇaiḥ | yātanā dharmabhogaśca bhuktiśceti tribhedakam yastu bhāvaḥ purā hyāsīt prāṇino nighnataḥ sa vai | tatpāpākhyaṃ śarīraṃ te pāpasaṃjñaṃ taducyate idānīṃ śubhavṛttiṃ tu kurvatastapa ārjavam | aparaṃ dharmarūpaṃ tu śarīraṃ te vyavasthitam | tena vedapurāṇāni jñātumarhasyasaṃśayam yadāṣṭākaṃ saṃparivarttate pumāṃ- stadā tryavasthaḥ parikīrtyate tu vai | gatāṣṭavargastrigataḥ sadā śubhaḥ sthiro bhavedātmani niścayātmavān yadā pañca punaḥ pañca pañca pañcāpi saṃtyajet | ekamārgastadā brahma śāśvataṃ labhate naraḥ satyatapā uvāca | bhagavan yadi vijñānaṃ śarīraṃ nopajāyate | tadā kena prakāreṇa paraṃ brahmopalabhyate durvāsā uvāca | karmakāṇḍaṃ jñānamūlaṃ jñānaṃ karmādikaṃ tathā | etayorantaraṃ nāsti yathā'śmamṛdayormune karmakāṇḍaṃ caturbhedaṃ brāhmaṇādiṣu kīrtitam | tatra vedoktakarmāṇi trayaḥ kurvanti nityaśaḥ | triśuśrūṣāmathaikastu eṣā vedoditā kriyā etān dharmānavasthāya brahmaṇopāstiṃ rocate | tasya muktirbhavennūnaṃ vedavādaratasya ca satyatapā uvāca | yadetat paramaṃ brahma tvayā proktaṃ mahāmune | tasya rūpaṃ na jānanti yogino'pi mahātmanaḥ anāmamasagotraṃ ca amūrttaṃ mūrttivarjitam | kathaṃ sa jñāyate brahma saṃjñānāmavivarjitam | tasya saṃjñāṃ kathaya me vedamārgavyavasthitām durvāsā uvāca | yadetat paramaṃ brahma vedavyāseṣu paṭhyate | sa devaḥ puṇḍarīkākṣaḥ svayaṃ nārāyaṇaḥ paraḥ sa yajñairvividhairiṣṭairdānairdattaiśca sattama | prāpyate paramo devaḥ svayaṃ nārāyaṇo hariḥ satyatapā uvāca | bhagavan bahuvittena ṛtvigbhirvedapāragaiḥ | prāpyate puṇyakṛdbhirhi kvacid yajñaḥ kathaṃcana | tena prāptena bhagavān labhyate duḥkhato hariḥ vittena ca vinā dānaṃ dātuṃ vipra na śakyate | vidyamāne'pi na matiḥ kuṭumbāsaktacetasaḥ | tasya mokṣaḥ kathaṃ brahman sarvathā durlabho hariḥ alpāyāsena labhyeta yena devaḥ sanātanaḥ | tanme sāmānyato brūhi sarvavarṇeṣu yad bhavet durvāsā uvāca | kathayāmi paraṃ guhyaṃ rahasyaṃ devanirmitam | dharaṇyā yatkṛtaṃ pūrvaṃ majjantyā tu rasātale pṛthivyāḥ pārthivo bhāvaḥ salile nātirecitaḥ | tasmin salilamagne tu pṛthvī prāyād rasātalam sā bhūtadhāriṇī devī rasātalagatā śubhā | ārādhayāmāsa vibhuṃ devaṃ nārāyaṇaṃ param | upavāsavratairdevī niyamaiśca pṛthagvidhaiḥ kālena mahatā tasyāḥ prasanno garuḍadhvajaḥ | ujjahāra sthitau cemāṃ sthāpayāmāsa so'vyayaḥ satyatapā uvāca | ko'sau dharaṇyā saṃcīrṇa upavāso mahāmune | kāni vratāni ca tathā etanme vaktumarhasi durvāsā uvāca | yadā mārgaśire māsi daśamyāṃ niyatātmavān | kṛtvā devārcanaṃ dhīmānagnikāryaṃ yathāvidhi śucivāsāḥ prasannātmā havyamannaṃ susaṃskṛtam | bhuktvā pañcapadaṃ gatvā punaḥ śaucaṃ tu pādayoḥ kṛtvā'ṣṭāṅgulamātraṃ tu kṣīravṛkṣasamudbhavam | bhakṣayed dantakāṣṭhaṃ tu tata ācamya yatnataḥ spṛṣṭvā dvārāṇi sarvāṇi ciraṃ dhyātvā janārdanam | śaṅkhacakragadāpāṇiṃ kirīṭiṃ pītavāsasam prasannavadanaṃ devaṃ sarvalakṣaṇalakṣitam | dhyātvā punarjalaṃ haste gṛhya bhānuṃ janārdanam dhyātvā'rdhyaṃ dāpayet tasya karatoyena mānavaḥ | evamuccārayed vācaṃ tasmin kāle mahāmune ekādaśyāṃ nirāhāraḥ sthitvā'hamapare'hani | bhokṣyāmi puṇḍarīkākṣa śaraṇaṃ me bhavācyuta evamuktvā tato rātrau devadevasya sannidhau | japannārāyaṇāyeti svapet tatra vidhānataḥ tataḥ prabhāte vimale nadīṃ gatvā samudragām | itarāṃ vā taḍāgaṃ vā gṛhe vā niyatātmavān ānīya mṛttikāṃ śuddhāṃ mantreṇānena mānavaḥ | dhāraṇaṃ poṣaṇaṃ tvatto bhūtānāṃ devi sarvadā | tena satyena me pāpaṃ yāvanmocaya suvrate brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni deva te | tenemāṃ mṛttikāṃ spṛṣṭvā mā labhāmi tvayoditām tvayi sarve rasā nityāḥ sthitā varuṇa sarvadā | tenemāṃ mṛttikāṃ plāvya pūtāṃ kuru mamāciram evaṃ mṛdaṃ tathā toyaṃ prasādyātmānamālabhet | triḥ kṛtvā śeṣamṛdayā kuṇḍamālikhya vai jale tatastatra naraḥ samyak cakravartyupacārataḥ | snātvā cāvaśyakaṃ kṛtvā punardevagṛhaṃ vrajet tatrārādhya mahāyogiṃ devaṃ nārāyaṇaṃ prabhum | keśavāya namaḥ pādau kaṭiṃ dāmodarāya ca ūruyugmaṃ nṛsiṃhāya uraḥ śrīvatsadhāriṇe | kaṇṭhaṃ kaustubhanāthāya vakṣaḥ śrīpataye tathā trailokyavijayāyeti bāhū sarvātmane śiraḥ | rathāṅgadhāriṇe cakraṃ śaṃkarāyeti vārijam gambhīrāyeti ca gadāmambhojaṃ śāntimūrttaye | evamabhyarcya deveśaṃ devaṃ nārāyaṇaṃ prabhum punastasyāgrataḥ kumbhān caturaḥ sthāpayed budhaḥ | jalapūrṇān samālyāṃśca sitacandanalepitān cūtapallavasagrīvān sitavastrāvaguṇṭhitān | sthagitān tāmrapātraiśca tilapūrṇaiḥ sakāñcanaiḥ catvāraste samudrāstu kalaśāḥ parikīrtitāḥ | teṣāṃ madhye śubhaṃ pīṭhaṃ sthāpayed vastragarbhitam tasmin sauvarṇaraupyaṃ vā tāmraṃ vā dāravaṃ tathā | alābhe sarvapātrāṇāṃ pālāśaṃ pātramiṣyate toyapūrṇaṃ tu tatkṛtvā tasmin pātre tato nyaset | sauvarṇaṃ matsyrūpeṇa kṛtvā devaṃ janārdam | vedavedāṅgasaṃyuktaṃ śrutismṛtivibhūṣitam tatrānekavidhairbhakṣaiḥ phalaiḥ puṣpaiśca śobhitam | gandhadhūpaiśca vastraiśca arcayitvā yathāvidhi rasātalagatā vedā yathā deva tvayāhṛtāḥ | matsyarūpeṇa tadvanmāṃ bhavānuddhara keśava | evamuccārya tasyāgre jāgaraṃ tatra kārayet yathāvibhavasāreṇa prabhāte vimale tathā | caturṇāṃ brāhmaṇānāṃ ca caturo dāpayed ghaṭān pūrvaṃ tu bahvṛce dadyācchandoge dakṣiṇaṃ tathā | yajuḥśākhānvite dadyāt paścimaṃ ghaṭamuttamam | uttaraṃ kāmato tadyādeṣa eva vidhiḥ smṛtaḥ ṛgvedaḥ prīyatāṃ pūrve sāmavedastu dakṣiṇe | yajurvedaḥ paścimato atharvaścottareṇa tu anena kramayogena prīyatāmiti vācayet | matsyarūpaṃ ca sauvarṇamācāryāya nivedayet gandhadhūpādivastraiśca saṃpūjya vidhivat kramāt | yastvimaṃ sarahasyaṃ ca mantraṃ caivopapādayet | vidhānaṃ tasya vai dattvā phalaṃ koṭiguṇottaram pratipadya guruṃ yastu mohād vipratipadyate | sa janmakoṭi narake pacyate puruṣādhamaḥ | vidhānasya pradātā yo gururityucyate budhaiḥ evaṃ dattvā vidhānena dvādaśyāṃ viṣṇumarcya ca | viprāṇāṃ bhojanaṃ kuryād yathāśaktyā sadakṣiṇam tāmrapātraiśca satilaiḥ sthagitān kārayed ghaṭān | tatra sajjalapātrasthaṃ brāhmaṇāya kuṭumbine devaṃ dadyānmahābhāgastato viprāṃśca bhojayet | bhūriṇā paramānnena tataḥ paścāt svayaṃ naraḥ | bhuñjīta sahito bālairvāgyataḥ saṃyatendriyaḥ anena vidhinā yastu dharaṇīvratakṛnnaraḥ | tasya puṇyaphalaṃ cāgryaṃ śrṛṇu buddhimatāṃ vara yadi vaktrasahastrāṇi bhavanti mama suvrata | āyuśca brahmaṇastulyaṃ bhaved yadi mahāvrata tadānīmasya dharmasya phalaṃ kathayituṃ bhavet | tathāpyuddeśato brahman kathayāmi śrṛṇuṣva tat daśa sapta daśa dve ca aṣṭau catvāra eva ca | lakṣāyutāni catvāri ekasthaṃ syāccaturyugam tairekasaptatiyugaṃ bhavenmanvantaraṃ mune | caturdaśāho brāhmastu tāvatī rātririṣyate evaṃ triṃśaddino māsaste dvādaśa samā smṛtā | teṣāṃ śataṃ brahmaṇastu āyurnāstyatra saṃśayaḥ yaḥ sakṛd dvādaśīmetāmanena vidhinā kṣipet | sa brahmalokamāpnoti tatkālaṃ caiva tiṣṭhati tato brahmopasaṃhāre tallayaṃ tiṣṭhate ciram | punaḥ sṛṣṭau bhaved devo vairājānāṃ mahātapāḥ brahmahatyādipāpāni iha lokakṛtānyapi | akāme kāmato vāpi tāni naśyanti tatkṣaṇāt iha loke daridro yo bhraṣṭarājyo'tha vā nṛpaḥ | upoṣya tāṃ vidhānena sa rājā jāyate dhruvam vandhyā nārī bhaved yā tu anena vidhinā śubhā | upoṣyati bhavet tasyāḥ putraḥ paramadhārmikaḥ agamyāgamanaṃ yena kṛtaṃ jānāti mānavaḥ | sa imaṃ vidhimāsādya tasmāt pāpād vimucyate brahmakriyāyā lopena bahuvarṣakṛtena ca | upoṣyemāṃ sakṛd bhaktyā vedasaṃskāramāpnuyāt kimatra bahunoktena na tadasti mahāmune | aprāpyaṃ prāpyate naiva pāpaṃ vā yanna naśyati anena vidhinā brahman svayameva hyupoṣitā | dharaṇyā magnayā tāta nātra kāryā vicāraṇā adīkṣitāya no deyaṃ vidhānaṃ nāstikāya ca | devabrahmadviṣe vā'pi na śrāvyaṃ tu kadācana | gurubhaktāya dātavyaṃ sadyaḥ pāpapraṇāśanam iha janmani saubhāgyaṃ dhanaṃ dhānyaṃ varastriyaḥ | bhavanti vividhā yastu upoṣya vidhinā tataḥ ya imaṃ śrāvayed bhaktyā dvādaśīkalpamuttamam | śrṛṇoti vā sa pāpaistu sarvaireva pramucyate