← Varaha Purana

Varaha Purana — Chapter 21

VrP 21.21

महातपा उवाच । पूर्वं प्रजापतिर्देवः सिसृक्षुर्विविधाः प्रजाः । चिन्तयामास धर्मात्मा यदा ता नाध्यगच्छत तदाऽस्य कोपात् संजज्ञे स च रुद्रः प्रतापवान् । रोदनात् तस्य रुद्रत्वं संजातं परमेष्ठिनः तस्य ब्रह्मा शुभां कन्यां भार्यार्थं मूर्त्तिसंभवाम् । गौरी नाम्ना स्वयं देवी भारती तां ददौ पिता रुद्रायामितदेहाय स्वयं ब्रह्मा प्रजापतिः । स तां लब्ध्वा वरारोहां मुदा परमया युतः सर्गकालेषु तं ब्रह्मा तपसा प्रत्युवाच ह । रुद्र प्रजाः सृजस्वेति पौनःपुन्येन चोदितः । असमर्थोऽहमिति जले निमज्जत महाबलः तपोर्थित्वं तपोहीनः स्त्रष्टुं शक्नोति न प्रजाः । एवं चिन्त्य जले मग्नस्ततो रुद्रः प्रतापवान् तस्मिन् निमग्ने देवेशे तां ब्रह्मा कन्यकां पुनः । अन्तःशरीरगां कृत्वा गौरीं परमशोभनाम् पुनः सिसृक्षुर्भगवानसृजत् सप्त मानसान् । दक्षं च तेषामारभ्य प्रजाः सम्यग् व्यवर्द्धिताः तत्र दाक्षायणीपुत्राः सर्वे देवाः सवासवाः । वसवोऽष्टौ च रुद्राश्च आदित्या मरुतस्तथा साऽपि दक्षाय सुश्रोणी गौरी दत्ताथ ब्रह्मणा । दुहितृत्वे पुरा या हि रुद्रेणोढा महात्मना सा च दाक्षायणी देवी पुनर्भूता नृपोत्तम । ततो दक्षः प्रहृष्टात्मा दौहित्रान् स्वान् स वृद्धिकृत् । दृष्ट्वा यज्ञमथारेभे प्रीणनाय प्रजापतिः तत्र ब्रह्मसुताः सर्वे मरीच्यादय एव च । चक्रुरार्त्त्विज्यकं कर्म्म स्वे स्वे मार्गे व्यवस्थिताः ब्रह्मा स्वयं मरीच्यस्तु बभूवाऽन्ये तथापरे । अत्रिस्तु यज्ञकर्मस्थ आग्नीध्रस्त्वङ्गिरा भवत् होता पुलस्त्यस्त्वभवदुद्गाता पुलहोऽभवत् । क्रतौ क्रतुस्तु प्रस्तोता तदा यज्ञे महातपाः प्रतिहर्ता प्रचेतास्तु तस्मिन् क्रतुवरे बभौ । सुब्रह्मण्यो वसिष्ठस्तु सनकाद्याः सभासदः । तत्र याज्यः स्वयं ब्रह्मा स च इज्यस्तु पूज्यते पूज्या दक्षस्य दौहित्रा रुद्रादित्याङ्गिरादयः । प्रत्यक्षपितरस्ते हि तैः प्रीतैः प्रीयते जगत् तत्र भागार्थिनो देवा आदित्या वसवस्तथा । विश्वेदेवाः सपितरो गन्धर्वाद्या मरुद्गणाः जगृहुर्यज्ञभागान् स्वान् यावत् ते हविषोर्पितान् । तावत्कालं जलात् सद्य उत्तस्थौ ब्रह्मणः पुनः रुद्रः कोपोद्भवो यस्तु पूर्वं मग्नो महाजले । स सहस्त्रार्कसंकाशो निश्चक्राम जलात् ततः सर्वज्ञानमयो देवः सर्वदेवमयोऽमलः । प्रत्यक्षदर्शी सर्वस्य जगतस्तपसा बभौ तस्मिंस्तु काले पञ्चानां जातः सर्गो नरोत्तम । दिव्यानां पृथिवीस्थानां चतुर्णामरजातिनाम् रौद्रसर्गस्य संभूतिस्तदा सद्योऽपि जायते । इदानीं रुद्रसर्गं त्वं श्रृणु पार्थिवसत्तम दशवर्षसहस्त्राणि तपश्चीर्त्वा महज्जले । प्रतिबुद्धो यदा रुद्रस्तदा चोर्वों सकाननाम् । दृष्ट्वा सस्यवतीं रम्यां मनुष्यपशुसंकुलाम् शुश्राव च तदा शब्दानृत्विजां दक्षसद्मनि । आश्रमे यज्ञिनां चोच्चैर्योगस्थैरिति कीर्त्तितम् ततः श्रुत्वा महातेजाः सर्वज्ञः परमेश्वरः । चुकोप सुभृशं देवो वाक्यं चेदमुवाच ह अहं पूर्वं तु कविना सृष्टः सर्वात्मना विभुः । प्रजाः सृजस्वेति तदा वाक्यमेतत् तथोक्तवान् इदानीं केन तत्कर्म कृतं सृष्ट्यादिवर्णनम् । एवमुक्त्वा भृशं कोपान्ननाद परमेश्वरः तस्य नानदतो ज्वालाः श्रोत्रेभ्यो निर्ययुस्तदा । तत्र भूतानि वेताला उच्छ्रुष्माः प्रेतपूतनाः कूष्माण्डा यातुधानाश्च सर्वे प्रज्वलिताननाः । उत्तस्थुः कोटिशस्तत्र नानाप्रहरणावृताः ते दृष्ट्वा भूतसंघाता विविधायुधपाणयः । ससर्ज वेदविद्याङ्गं रथं परमशोभनम् तस्मिन्नृगादयस्त्वश्वास्त्रितत्त्वं च त्रिवेणुकम् । त्रिपूजकं त्रिषवणं धर्माक्षं मारुतध्वनिम् अहोरात्रे पताके द्वे धर्माधर्मे तु दण्डके । शकटं सर्वविद्याश्च स्वयं ब्रह्मादिसारथिः गायत्री च धनुस्तस्य ओङ्कारो गुण एव च । स्वराः सप्त शरास्तस्य देवदेवस्य सुव्रत एवं कृत्वा स सामग्रीं देवदेवः प्रतापवान् । जगाम दक्षयज्ञाय कोपाद् रुद्रः प्रतापवान् गच्छतस्तस्य देवस्य अम्बराङ्गिरसं नयत् । ऋत्विजां मन्त्रनिचयो नष्टो रुद्रागमे तदा विपरीतमिदं दृष्ट्वा तदा सर्वे च ऋत्विजः । ऊचुः संनह्यतां देवा महद् वो भयमागतम् कश्चिदायाति बलवानसुरो ब्रह्मनिर्मितः । यज्ञभागार्थमेतस्मिन् क्रतौ परमदुर्लभम् एवमुक्तास्ततो देवा ऊचुर्मातामहं तदा । दक्ष तात किमत्रास्मत्कार्यं ब्रूहि विवक्षितम् दक्ष उवाच । गृह्यन्तां द्रुतमस्त्राणि संग्रामोऽत्र विधीयताम् । एवमुक्ते तदा देवैर्विविधायुधधारिभिः । रुद्रस्यानुचरैः सार्धं महद्युद्धं प्रवर्तितम् तत्र वेतालभूतानि कूष्माण्डा ग्रहपूतनाः । युयुधुर्लोकपालैश्च नानाशस्त्रधराणि च देवा रौद्राणि भूतानि निरसन्तो यमालयम् । चिक्षिपुः सायकान् घोरानसींश्च सपरश्वधान् भूतान्यपि मृधे धोराण्युल्मुकैरस्थिभिः शरैः । जग्मुर्देवान् मृधे रोषाद् रुद्रस्य पुरतो बलात् ततस्तस्मिन् महारौद्रे संग्रामे भीमरूपिणि । रुद्रो भगस्य नेत्रे तु बिभेदैकेषुणा मृधे रुद्रस्य शरपातेन नष्टनेत्रं भगं तदा । दृष्ट्वाऽस्य क्रोधात् तेजस्वी पूषा रुद्रमयोधयत् सृजन्तमिषुजालानि पूषणं तु महामृधे । दृष्ट्वा रुद्रोऽस्य दन्तांस्तु चकर्षं परवीरहा तस्य दन्तांस्तदा दृष्ट्वा पूष्णो रुद्रेण पातितान् । दुद्रुवुः वसवो दिक्षु रुद्रास्त्वेकादश द्रुतम् तान् भग्नान् सहसा दिक्षु दृष्ट्वा विष्णुः प्रतापवान् । आदित्यावरजो वाक्यमुवाच स्वबलं तदा क्व यात पौरुषं त्यक्त्वा दर्पं माहात्म्यमेव च । व्यवसायं कुलं भूतिं कथं न स्मर्यते द्रुतम् परमेष्ठिगुणैर्युक्तो लघुवद्भीतितः पुरा । नमस्कं कुरुते मोघं पृथिव्यां पद्मजः स्वयम् एवमुक्त्वा गरुत्मन्तमारुरोह हरिस्तदा । शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ततो हरिहरं युद्धमभवल्लोमहर्षणम् । रुद्रः पाशुपतास्त्रेण विव्याध हरिमोजसा । हरिर्नारायणास्त्रेण रुद्रं विव्याध कोपवान् नारायणं पाशुपतमुभेऽस्त्रे व्योम्नि रोषिते । युयुधाते भृशं दिव्यं परस्परजिघांसया । दिव्यं वर्षसहस्त्रं तु तयोर्युद्धमभूत् तदा तत्रैकं मुकुटोद्बद्धं मूर्द्धन्यं जटजालकम् । एकं प्रध्मापयच्छङ्खमन्यडुमरुकं शुभम् एकं खङ्गकरं तत्र तथाऽन्यं दण्डधारिणम् । एकं कौस्तुभदीप्ताङ्गमन्यं भूतिविभूषितम् एकं गदां भ्रामयति द्वितीयं दण्डमेव च । एकं शोभति कण्ठस्थैर्मणिभिस्त्वस्थिभिः परम् । एकं पीताम्बरं तत्र द्वितीयं सर्पमेखलम् एवं तौ स्पर्द्धिनावस्त्रौ रौद्रनारायणात्मकौ । अन्योऽन्यातिशयोपेतौ तदालोक्य पितामहः उवाच शाम्यतामस्त्रौ स्वस्वभावेन सुव्रतौ । एवं ते ब्रह्मणा चोक्तौ शान्तभावं प्रजग्मतुः तथा विष्णुहरौ ब्रह्मा वाक्यमेतदुवाच ह । उभौ हरिहरौ देवौ लोके ख्यातिं गमिष्यथः अयं च यज्ञो विध्वस्तः संपूर्णत्वं गमिष्यति । दक्षस्य ख्यातिमाँल्लोकः संतत्याऽयं भविष्यति एवमुक्त्वा हरिहरौ तदा लोकपितामहः । ब्रह्मा लोकानुवाचेदं रुद्रभागोऽस्य दीयताम् रुद्रभागो ज्येष्ठभाग इतीयं वैदिकी श्रुतिः । स्तुतिं च देवाः कुरुत रुद्रस्य परमेष्ठि नः भगनेत्रहरं देवं पूष्णो दन्तविनाशनम् । स्तुतिं कुरुतमा शीघ्रं गीतैरेतैस्तु नामभिः । येनायं वः प्रसन्नात्मा वरदत्वं भजेत ह एवमुक्तास्तु ते देवाः स्तोत्रं शंभोर्महात्मनः । चक्रुः परमया भक्त्या नमस्कृत्य स्वयंभुवे देवा ऊचुः । नमो विषमनेत्राय नमस्ते त्र्यम्बकाय च । नमः सहस्त्रनेत्राय नमस्ते शूलपाणये नमः खट्वाङ्गहस्ताय नमो दण्डभृते करे । त्वं देव हुतभुग्ज्वालाकोटिभानुसमप्रभः अदर्शनेऽनयद् देव मूढविज्ञानतोऽधुना । कृतमस्माभिरेवेश तदत्र क्षम्यतां प्रभो नमस्त्रिनेत्रार्त्तिहराय शंभो त्रिशूलपाणे विकृतास्यरूप । समस्तदेवेश्वर शुद्धभाव प्रसीद रुद्राच्युत सर्वभाव पूष्णोऽस्य दन्तान्तक भीमरूप प्रलम्बभोगीन्द्रलुलन्तकण्ठ । विशालदेहाच्युत नीलकण्ठ प्रसीद विश्वेश्वर विश्वमूर्त्ते भगाक्षिसंस्फोटनदक्षकर्मा गृहाण भागं मखतः प्रधानम् । प्रसीद देवेश्वर नीलकण्ठ प्रपाहि नः सर्वगुणोपपन्न सिताङ्गरागाप्रतिपन्नमूर्त्ते कपालधारिंस्त्रिपुरघ्न देव । प्रपाहि नः सर्वभयेषु चैव उमापते पुष्करनालजन्म पश्याम ते देहगतान् सुरेश सर्गादयो वेदवराननन्त । साङ्गान् सविद्यान् सपदक्रमांश्च सर्वान् निलीनांस्त्वयि देवदेव भव शर्व महादेव पिनाकिन् रुद्र ते हर । नताः स्म सर्वे विश्वेश त्राहि नः परमेश्वर इत्थं स्तुतस्तदा देवैर्देवदेवो महेश्वरः । तुतोष सर्वदेवानां वाक्यं चेदमुवाच ह रुद्र उवाच । भगस्य नेत्रं भवतु पूष्णो दन्तास्तथा मखः । दक्षस्याच्छिद्रतां यातु यज्ञश्चाप्यदितेः सुताः । पशुभावं तथा चापि अपनेष्यामि वो सुराः मद्दर्शनेन यो जातः पशुभावो दिवौकसाम् । स मयाऽपहृतः सद्यः पतित्वं वो भविष्यति अहं च सर्वविद्यानां पतिराद्यः सनातनः । अहं वै पतिभावेन पशुमध्ये व्यवस्थितः अतः पशुपतिर्नाम मम लोके भविष्यति । ये मां यजन्ति तेषां स्याद् दीक्षा पाशुपती भवेत् एवमुक्तेऽथ रुद्रेण ब्रह्मा लोकपितामहः । उवाच रुद्रं सस्नेहं स्मितपूर्वमिदं वचः ध्रुवं पाशुपतिर्देव त्वं लोके ख्यातिमेस्यति । अयं च देवस्त्वन्नाम्ना लोके ख्यातिं गमिष्यति । आराध्यश्च समस्तानां देवादीनां गमिष्यसि एवमुक्त्वा तदा ब्रह्मा दक्षं प्रोवाच बुद्धिमान् । गौरीं प्रयच्छ रुद्राय पूर्वमेवोपपादिताम् एवमुक्त्वा तदा दक्षस्तां कन्यां ब्रह्मसन्निधौ । ददौ रुद्राय महते गौरीं परमशोभनाम् स तां जग्राह विधिवद् रुद्रः परमशोभनाम् । दक्षस्य च प्रियं कुर्वन् बहुमानपुरःसरम् गृहीतायां तु कन्यायां दाक्षायण्यां पितामहः । ददौ रुद्रस्य निलयं कैलासं सुरसन्निधौ रुद्रोऽपि प्रययौ भूतैः समं कैलासपर्वतम् । देवाश्चापि यथास्थानं स्वं स्वं जग्मुर्मुदान्विताः । ब्रह्माऽपि दक्षसहितः प्राजापत्यं पुरं ययौ

mahātapā uvāca | pūrvaṃ prajāpatirdevaḥ sisṛkṣurvividhāḥ prajāḥ | cintayāmāsa dharmātmā yadā tā nādhyagacchata tadā'sya kopāt saṃjajñe sa ca rudraḥ pratāpavān | rodanāt tasya rudratvaṃ saṃjātaṃ parameṣṭhinaḥ tasya brahmā śubhāṃ kanyāṃ bhāryārthaṃ mūrttisaṃbhavām | gaurī nāmnā svayaṃ devī bhāratī tāṃ dadau pitā rudrāyāmitadehāya svayaṃ brahmā prajāpatiḥ | sa tāṃ labdhvā varārohāṃ mudā paramayā yutaḥ sargakāleṣu taṃ brahmā tapasā pratyuvāca ha | rudra prajāḥ sṛjasveti paunaḥpunyena coditaḥ | asamartho'hamiti jale nimajjata mahābalaḥ taporthitvaṃ tapohīnaḥ straṣṭuṃ śaknoti na prajāḥ | evaṃ cintya jale magnastato rudraḥ pratāpavān tasmin nimagne deveśe tāṃ brahmā kanyakāṃ punaḥ | antaḥśarīragāṃ kṛtvā gaurīṃ paramaśobhanām punaḥ sisṛkṣurbhagavānasṛjat sapta mānasān | dakṣaṃ ca teṣāmārabhya prajāḥ samyag vyavarddhitāḥ tatra dākṣāyaṇīputrāḥ sarve devāḥ savāsavāḥ | vasavo'ṣṭau ca rudrāśca ādityā marutastathā sā'pi dakṣāya suśroṇī gaurī dattātha brahmaṇā | duhitṛtve purā yā hi rudreṇoḍhā mahātmanā sā ca dākṣāyaṇī devī punarbhūtā nṛpottama | tato dakṣaḥ prahṛṣṭātmā dauhitrān svān sa vṛddhikṛt | dṛṣṭvā yajñamathārebhe prīṇanāya prajāpatiḥ tatra brahmasutāḥ sarve marīcyādaya eva ca | cakrurārttvijyakaṃ karmma sve sve mārge vyavasthitāḥ brahmā svayaṃ marīcyastu babhūvā'nye tathāpare | atristu yajñakarmastha āgnīdhrastvaṅgirā bhavat hotā pulastyastvabhavadudgātā pulaho'bhavat | kratau kratustu prastotā tadā yajñe mahātapāḥ pratihartā pracetāstu tasmin kratuvare babhau | subrahmaṇyo vasiṣṭhastu sanakādyāḥ sabhāsadaḥ | tatra yājyaḥ svayaṃ brahmā sa ca ijyastu pūjyate pūjyā dakṣasya dauhitrā rudrādityāṅgirādayaḥ | pratyakṣapitaraste hi taiḥ prītaiḥ prīyate jagat tatra bhāgārthino devā ādityā vasavastathā | viśvedevāḥ sapitaro gandharvādyā marudgaṇāḥ jagṛhuryajñabhāgān svān yāvat te haviṣorpitān | tāvatkālaṃ jalāt sadya uttasthau brahmaṇaḥ punaḥ rudraḥ kopodbhavo yastu pūrvaṃ magno mahājale | sa sahastrārkasaṃkāśo niścakrāma jalāt tataḥ sarvajñānamayo devaḥ sarvadevamayo'malaḥ | pratyakṣadarśī sarvasya jagatastapasā babhau tasmiṃstu kāle pañcānāṃ jātaḥ sargo narottama | divyānāṃ pṛthivīsthānāṃ caturṇāmarajātinām raudrasargasya saṃbhūtistadā sadyo'pi jāyate | idānīṃ rudrasargaṃ tvaṃ śrṛṇu pārthivasattama daśavarṣasahastrāṇi tapaścīrtvā mahajjale | pratibuddho yadā rudrastadā corvoṃ sakānanām | dṛṣṭvā sasyavatīṃ ramyāṃ manuṣyapaśusaṃkulām śuśrāva ca tadā śabdānṛtvijāṃ dakṣasadmani | āśrame yajñināṃ coccairyogasthairiti kīrttitam tataḥ śrutvā mahātejāḥ sarvajñaḥ parameśvaraḥ | cukopa subhṛśaṃ devo vākyaṃ cedamuvāca ha ahaṃ pūrvaṃ tu kavinā sṛṣṭaḥ sarvātmanā vibhuḥ | prajāḥ sṛjasveti tadā vākyametat tathoktavān idānīṃ kena tatkarma kṛtaṃ sṛṣṭyādivarṇanam | evamuktvā bhṛśaṃ kopānnanāda parameśvaraḥ tasya nānadato jvālāḥ śrotrebhyo niryayustadā | tatra bhūtāni vetālā ucchruṣmāḥ pretapūtanāḥ kūṣmāṇḍā yātudhānāśca sarve prajvalitānanāḥ | uttasthuḥ koṭiśastatra nānāpraharaṇāvṛtāḥ te dṛṣṭvā bhūtasaṃghātā vividhāyudhapāṇayaḥ | sasarja vedavidyāṅgaṃ rathaṃ paramaśobhanam tasminnṛgādayastvaśvāstritattvaṃ ca triveṇukam | tripūjakaṃ triṣavaṇaṃ dharmākṣaṃ mārutadhvanim ahorātre patāke dve dharmādharme tu daṇḍake | śakaṭaṃ sarvavidyāśca svayaṃ brahmādisārathiḥ gāyatrī ca dhanustasya oṅkāro guṇa eva ca | svarāḥ sapta śarāstasya devadevasya suvrata evaṃ kṛtvā sa sāmagrīṃ devadevaḥ pratāpavān | jagāma dakṣayajñāya kopād rudraḥ pratāpavān gacchatastasya devasya ambarāṅgirasaṃ nayat | ṛtvijāṃ mantranicayo naṣṭo rudrāgame tadā viparītamidaṃ dṛṣṭvā tadā sarve ca ṛtvijaḥ | ūcuḥ saṃnahyatāṃ devā mahad vo bhayamāgatam kaścidāyāti balavānasuro brahmanirmitaḥ | yajñabhāgārthametasmin kratau paramadurlabham evamuktāstato devā ūcurmātāmahaṃ tadā | dakṣa tāta kimatrāsmatkāryaṃ brūhi vivakṣitam dakṣa uvāca | gṛhyantāṃ drutamastrāṇi saṃgrāmo'tra vidhīyatām | evamukte tadā devairvividhāyudhadhāribhiḥ | rudrasyānucaraiḥ sārdhaṃ mahadyuddhaṃ pravartitam tatra vetālabhūtāni kūṣmāṇḍā grahapūtanāḥ | yuyudhurlokapālaiśca nānāśastradharāṇi ca devā raudrāṇi bhūtāni nirasanto yamālayam | cikṣipuḥ sāyakān ghorānasīṃśca saparaśvadhān bhūtānyapi mṛdhe dhorāṇyulmukairasthibhiḥ śaraiḥ | jagmurdevān mṛdhe roṣād rudrasya purato balāt tatastasmin mahāraudre saṃgrāme bhīmarūpiṇi | rudro bhagasya netre tu bibhedaikeṣuṇā mṛdhe rudrasya śarapātena naṣṭanetraṃ bhagaṃ tadā | dṛṣṭvā'sya krodhāt tejasvī pūṣā rudramayodhayat sṛjantamiṣujālāni pūṣaṇaṃ tu mahāmṛdhe | dṛṣṭvā rudro'sya dantāṃstu cakarṣaṃ paravīrahā tasya dantāṃstadā dṛṣṭvā pūṣṇo rudreṇa pātitān | dudruvuḥ vasavo dikṣu rudrāstvekādaśa drutam tān bhagnān sahasā dikṣu dṛṣṭvā viṣṇuḥ pratāpavān | ādityāvarajo vākyamuvāca svabalaṃ tadā kva yāta pauruṣaṃ tyaktvā darpaṃ māhātmyameva ca | vyavasāyaṃ kulaṃ bhūtiṃ kathaṃ na smaryate drutam parameṣṭhiguṇairyukto laghuvadbhītitaḥ purā | namaskaṃ kurute moghaṃ pṛthivyāṃ padmajaḥ svayam evamuktvā garutmantamāruroha haristadā | śaṅkhacakragadāpāṇiḥ pītavāsā janārdanaḥ tato hariharaṃ yuddhamabhavallomaharṣaṇam | rudraḥ pāśupatāstreṇa vivyādha harimojasā | harirnārāyaṇāstreṇa rudraṃ vivyādha kopavān nārāyaṇaṃ pāśupatamubhe'stre vyomni roṣite | yuyudhāte bhṛśaṃ divyaṃ parasparajighāṃsayā | divyaṃ varṣasahastraṃ tu tayoryuddhamabhūt tadā tatraikaṃ mukuṭodbaddhaṃ mūrddhanyaṃ jaṭajālakam | ekaṃ pradhmāpayacchaṅkhamanyaḍumarukaṃ śubham ekaṃ khaṅgakaraṃ tatra tathā'nyaṃ daṇḍadhāriṇam | ekaṃ kaustubhadīptāṅgamanyaṃ bhūtivibhūṣitam ekaṃ gadāṃ bhrāmayati dvitīyaṃ daṇḍameva ca | ekaṃ śobhati kaṇṭhasthairmaṇibhistvasthibhiḥ param | ekaṃ pītāmbaraṃ tatra dvitīyaṃ sarpamekhalam evaṃ tau sparddhināvastrau raudranārāyaṇātmakau | anyo'nyātiśayopetau tadālokya pitāmahaḥ uvāca śāmyatāmastrau svasvabhāvena suvratau | evaṃ te brahmaṇā coktau śāntabhāvaṃ prajagmatuḥ tathā viṣṇuharau brahmā vākyametaduvāca ha | ubhau hariharau devau loke khyātiṃ gamiṣyathaḥ ayaṃ ca yajño vidhvastaḥ saṃpūrṇatvaṃ gamiṣyati | dakṣasya khyātimā~llokaḥ saṃtatyā'yaṃ bhaviṣyati evamuktvā hariharau tadā lokapitāmahaḥ | brahmā lokānuvācedaṃ rudrabhāgo'sya dīyatām rudrabhāgo jyeṣṭhabhāga itīyaṃ vaidikī śrutiḥ | stutiṃ ca devāḥ kuruta rudrasya parameṣṭhi naḥ bhaganetraharaṃ devaṃ pūṣṇo dantavināśanam | stutiṃ kurutamā śīghraṃ gītairetaistu nāmabhiḥ | yenāyaṃ vaḥ prasannātmā varadatvaṃ bhajeta ha evamuktāstu te devāḥ stotraṃ śaṃbhormahātmanaḥ | cakruḥ paramayā bhaktyā namaskṛtya svayaṃbhuve devā ūcuḥ | namo viṣamanetrāya namaste tryambakāya ca | namaḥ sahastranetrāya namaste śūlapāṇaye namaḥ khaṭvāṅgahastāya namo daṇḍabhṛte kare | tvaṃ deva hutabhugjvālākoṭibhānusamaprabhaḥ adarśane'nayad deva mūḍhavijñānato'dhunā | kṛtamasmābhireveśa tadatra kṣamyatāṃ prabho namastrinetrārttiharāya śaṃbho triśūlapāṇe vikṛtāsyarūpa | samastadeveśvara śuddhabhāva prasīda rudrācyuta sarvabhāva pūṣṇo'sya dantāntaka bhīmarūpa pralambabhogīndralulantakaṇṭha | viśāladehācyuta nīlakaṇṭha prasīda viśveśvara viśvamūrtte bhagākṣisaṃsphoṭanadakṣakarmā gṛhāṇa bhāgaṃ makhataḥ pradhānam | prasīda deveśvara nīlakaṇṭha prapāhi naḥ sarvaguṇopapanna sitāṅgarāgāpratipannamūrtte kapāladhāriṃstripuraghna deva | prapāhi naḥ sarvabhayeṣu caiva umāpate puṣkaranālajanma paśyāma te dehagatān sureśa sargādayo vedavarānananta | sāṅgān savidyān sapadakramāṃśca sarvān nilīnāṃstvayi devadeva bhava śarva mahādeva pinākin rudra te hara | natāḥ sma sarve viśveśa trāhi naḥ parameśvara itthaṃ stutastadā devairdevadevo maheśvaraḥ | tutoṣa sarvadevānāṃ vākyaṃ cedamuvāca ha rudra uvāca | bhagasya netraṃ bhavatu pūṣṇo dantāstathā makhaḥ | dakṣasyācchidratāṃ yātu yajñaścāpyaditeḥ sutāḥ | paśubhāvaṃ tathā cāpi apaneṣyāmi vo surāḥ maddarśanena yo jātaḥ paśubhāvo divaukasām | sa mayā'pahṛtaḥ sadyaḥ patitvaṃ vo bhaviṣyati ahaṃ ca sarvavidyānāṃ patirādyaḥ sanātanaḥ | ahaṃ vai patibhāvena paśumadhye vyavasthitaḥ ataḥ paśupatirnāma mama loke bhaviṣyati | ye māṃ yajanti teṣāṃ syād dīkṣā pāśupatī bhavet evamukte'tha rudreṇa brahmā lokapitāmahaḥ | uvāca rudraṃ sasnehaṃ smitapūrvamidaṃ vacaḥ dhruvaṃ pāśupatirdeva tvaṃ loke khyātimesyati | ayaṃ ca devastvannāmnā loke khyātiṃ gamiṣyati | ārādhyaśca samastānāṃ devādīnāṃ gamiṣyasi evamuktvā tadā brahmā dakṣaṃ provāca buddhimān | gaurīṃ prayaccha rudrāya pūrvamevopapāditām evamuktvā tadā dakṣastāṃ kanyāṃ brahmasannidhau | dadau rudrāya mahate gaurīṃ paramaśobhanām sa tāṃ jagrāha vidhivad rudraḥ paramaśobhanām | dakṣasya ca priyaṃ kurvan bahumānapuraḥsaram gṛhītāyāṃ tu kanyāyāṃ dākṣāyaṇyāṃ pitāmahaḥ | dadau rudrasya nilayaṃ kailāsaṃ surasannidhau rudro'pi prayayau bhūtaiḥ samaṃ kailāsaparvatam | devāścāpi yathāsthānaṃ svaṃ svaṃ jagmurmudānvitāḥ | brahmā'pi dakṣasahitaḥ prājāpatyaṃ puraṃ yayau