Varaha Purana — Chapter 2
VrP 2.2
सूत उवाच । ततस्तुष्टो हरिर्भक्त्या धरण्यात्मशरीरगाम् । मायां प्रकाश्य तेनैव स्थितो वाराहमूर्त्तिना जगाद किं ते सुश्रोणि प्रश्नमेनं सुदुर्लभम् । कथयामि पुराणस्य विषयं सर्वशास्त्रतः पुराणानां हि सर्वेषामयं साधारणः स्मृतः । श्लोकं धरणि निश्चित्य निःशेषं त्वं पुनः श्रृणु श्रीवराह उवाच । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् आदिसर्गमहं तावत् कथयामि वरानने । यस्मादारभ्य देवानां राज्ञां चरितमेव च । ज्ञायते चतुरंशश्च परमात्मा सनातनः आदावहं व्योम महत् ततोऽणुं- रेकैव मत्तः प्रबभूव बुद्धिः । त्रिधा तु सा सत्त्वरजस्तमोभिः पृथक्पृथक्तत्त्वरूपैरुपेता तस्मिंस्त्रिकेऽहं तमसो महान् स सदोच्यते सर्वविदां प्रधानः । उतस्मादपि क्षेत्रविदूर्जितोऽभूद् बभूव वुद्धिस्तु ततो बभूव तस्मात्तु तेभ्यो श्रवणादिहेतवस् ततोऽक्षमाला जगतो व्यवस्थिता । भूतैर्गतैरेव च पिण्डमूर्ति- र्मया भद्रे विहिता त्वात्मनैव शून्यं त्वासीत् तत्र शब्दस्तु खं च तस्माद् वायुस्तत एवानु तेजः । तस्मादापस्तत एवानु देवि मया सृष्टा भवती भूतधात्री योगे पृथिव्या जलवत् ततोऽपि सबुद्बुदं कललं त्वण्डमेव । तस्मिन् प्रवृत्ते द्विगतेऽहमासी- दापोमयश्चात्मनात्मानमादौ सृष्ट्वा नारास्ता अथो तत्र चाहं येन स्यान्मे नाम नारायणेति । कल्पे कल्पे तत्र संयामि भूयः सुप्तस्य मे नाभिजः स्याद् यथाद्यः एवंभूतस्य मे देवि नाभिपद्मे चतुर्मुखः । उत्तस्थौ स मया प्रोक्तः प्रजाः सृज महामते एवमुक्त्वा तिरोभावं गतोऽहं सोऽपि चिन्तयन् । आस्ते यावज्जगद्धात्रि नाध्यगच्छत किंचन तावत् तस्य महारोषो ब्रह्मणोऽव्यक्तजन्मनः। संभूय तेन बालः स्यादङ्के रोषात्मसंभवः यो रुदन् वारितस्तेन ब्रह्मणाऽव्यक्तमूर्त्तिना । ब्रवीति नाम मे देहि तस्य रुद्रेति सो ददौ सोऽपि तेन सृजस्वेति प्रोक्तो लोकमिमं शुभे । अशक्तः सोऽथ सलिले ममज्ज तपसे धृतः तस्मिन् सलिलमग्ने तु पुनरन्यं प्रजापतिम् । ब्रह्मा ससर्ज्ज भूतेषु दक्षिणाङ्गुष्ठतो वरम् । वामे चैव तथाऽङ्गुष्ठे तस्य पत्नीमथासृजत् स तस्यां जनयामास मनुं स्वायंभुवं प्रभुः । तस्मात् संभाविता सृष्टिः प्रजानां ब्रह्मणा पुरा धरण्युवाच । विस्तरेण ममाचक्ष्व आदिसर्गं सुरेश्वर । ब्रह्मा नारायणाख्योऽयं कल्पादौ चाभवद् यथा श्रीभगवानुवाच । ससर्ज सर्वभूतानि यथा नारायणात्मकः । कथ्यमानं मया देवि तदशेषं क्षिते श्रृणु गतकल्पावसाने तु निशि सुप्तोत्थितः शुभे । सत्त्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत नारायणः परोऽचिन्त्यः पराणामपि पूर्वजः । ब्रह्मस्वरूपी भगवाननादिः सर्वसंभवः इदं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकस्तस्य प्रादुर्भूतस्तमोमयः तमो मोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः पञ्चधाऽवस्थितः सर्गो ध्यायतोऽप्रतिबोधवान् । बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः । स मुख्यसर्गो विज्ञेयः सर्गविद्भिर्विचक्षणैः पुनरन्यदभूत् तस्य ध्यायतः सर्गमुत्तमम्। तिर्यक्स्त्रोतस्तु वै यस्मात् तिर्यक्स्त्रोतस्तु वै स्मृतः पश्वादयस्ते विख्याता उत्पथग्राहिणस्तु ते। तमप्यसाधकं मत्वा तिर्यक्स्त्रोतं चतुर्मुखः ऊर्ध्वस्त्रोतस्त्रिधा यस्तु सात्त्विको धर्मवर्त्तनः । ततोर्ध्वचारिणो देवाः सर्वगर्भसमुद्भवाः ते सुखप्रीतिवहुला बहिरन्तस्त्वनावृताः । तस्मिन् सर्गेऽभवत् प्रीतिर्निष्पद्यन्ते प्रजास्तदा तदा सृष्ट्वाऽन्यसर्गं तु तदा दध्यौ प्रजापतिः । असाधकांस्तु तान् मत्वा मुख्यसर्गादिसंभवान् ततः स चिन्तयामास अर्वाक्स्त्रोतस्तु स प्रभुः । अर्वाक्स्त्रोतसि चोत्पन्ना मनुष्याः साधका मताः ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः । तस्मात् तु दुखः बहुला भूयोभूयश्च कारिणः इत्येते कथिताः सर्गाः षडेते सुभगे तव । प्रथमो महतः सर्गस्तन्मात्राणि द्वितीयकः वैकारिकस्तृतीयस्तु सर्गश्चैन्द्रियकः स्मृतः । इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः । तिर्यक्स्त्रोतश्च यः प्रोक्तस्तैर्यक्स्त्रोतः स उच्यते तथोर्ध्वस्त्रोतसां श्रेष्ठः सप्तमः स तु मानवः । अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः । प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः इत्येते वै समाख्याता नव सर्गाः प्रजापतेः । प्राकृता वैकृताश्चैव जगतो मूलहेतवः । इत्येते कथिताः सर्गाः किमन्यच्छ्रोतुमिच्छसि धरण्युवाच । नवधा सृष्टिरुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः । कथं सा ववृधे देव एतन्मे कथयाच्युत श्रीवराह उवाच । प्रथमं ब्रह्मणा सृष्टा रुद्राद्यास्तु तपोधनाः। सनकादयस्ततः सृष्टा मरीच्यादय एव च मरीचिरत्रिश्च तथा अङ्गिराः पुलहः क्रतुः । पुलस्त्यश्च महातेजाः प्रचेता भृगुरेव च । नारदो दशमश्चैव वसिष्ठश्च महातपाः सनकादयो निवृत्त्याख्ये तेन धर्मे प्रयोजिताः । प्रवृत्त्याख्ये मरीच्याद्या मुक्त्वैकं नारदं मुनिम् योऽसौ प्रजापतिस्त्वाद्यो दक्षिणाङ्गुष्ठसंभवः । तस्यादौ तत्र वंशेन जगदेतच्चराचरम् देवाश्च दानवाश्चैव गन्धर्वोरगपक्षिणः । सर्वे दक्षस्य कन्यासु जाताः परमधार्मिकाः योऽसौ रुद्रेति विख्यातः पुत्रः क्रोधसमुद्भवः । भ्रुकुटीकुटिलात् तस्य ललाटात् परमेष्ठिनः अर्द्धनारीनरवपुः प्रचण्डोऽतिभयंकरः । विभजात्मानमित्युक्तो ब्रह्मणाऽन्तर्दधे पुनः तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वं चकार सः । बिभेद पुरुषत्वं च दशधा चैकधा च सः । ततस्त्वेकादश ख्याता रुद्रा ब्रह्मसमुद्भवाः अयमुद्देशतः प्रोक्तो रुद्रसर्गो मयाऽनघे । इदानीं युगमाहात्म्यं कथयामि समासतः कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् । एतस्मिन् ये महासत्त्वा राजानो भूरिदक्षिणाः । देवासुराश्च यं चक्रुर्धर्मं कर्म च तच्छृणु आसीत् प्रथमकल्पे तु मनुः स्वायंभुवः पुरा । तस्य पुत्रद्वयं जज्ञे अतिमानुषचेष्टितम्। प्रियव्रतोत्तानपादनामानं धर्मवत्सलम् तत्र प्रियव्रतो राजा महायज्वा तपोबलः । स चेष्ट्वा विविधैर्यज्ञैर्विपुलैर्भूरिदक्षिणैः सप्तद्वीपेषु संस्थाप्य भरतादीन् सुतान् निजान् । स्वयं विशालां वरदां गत्वा तेपे महत् तपः तस्मिन् स्थितस्य तपसि राज्ञो वै चक्रवर्त्तिनः । उपेयान्नारदस्तत्र दिदृक्षुर्धर्मचारिणम् स दृष्ट्वा नारदं व्योम्नि ज्वलद्भास्करतेजसम् । अभ्युत्थानेन राजेन्द्र उत्तस्थौ हर्षितस्तदा तस्यासनं च पाद्यं च सम्यक् तस्य निवेद्य वै । स्वागतादिभिरालापैः परस्परमवोचताम् । कथान्ते नारदं राजा पप्रच्छ ब्रह्मवादिनम् प्रियव्रत उवाच । भगवन् किञ्चिदाश्चर्यमेतस्मिन् कृतसंज्ञिते । युगे दृष्टं श्रुतं वाऽपि तन्मे कथय नारद नारद उवाच । आश्चर्यमेकं दृष्टं मे तच्छृणुष्व प्रियव्रत । ह्यस्तनेऽहनि राजेन्द्र श्वेताख्यं गतवानहम् । द्वीपं तत्र सरो दृष्टं फुल्लपङ्कजमालिनम् सरसस्तस्य तीरे तु कुमारीं पृथुलोचनाम् । दृष्ट्वाऽहं विस्मयापन्नस्तां कन्यामायतेक्षणाम् पृष्टवानस्मि राजेन्द्र तदा मधुरभाषिणीम् । काऽसि भद्रे कथं वाऽसि किं वा कार्यमिह त्वया । कर्त्तव्यं चारुसर्वाङ्गि तन्ममाचक्ष्व शोभने एवमुक्ता मया सा हि मां दृष्ट्वाऽनिमिषेक्षणा । स्मृत्वा तूष्णीं स्थिता यावत् तावन्मे ज्ञानमुत्तमम् विस्मृतं सर्ववेदाश्च सर्वशास्त्राणि चैव ह । योगशास्त्राणि शिक्षाश्च वेदानां स्मृतयस्तथा सर्वं दृष्ट्वैव मे राजन् कुमार्याऽपहृतं क्षणात् । ततोऽहं विस्मयार्विष्टश्चिन्ताशोकसमन्वितः तामेव शरणं गत्वा यावत् पश्यामि पार्थिव । तावद् दिव्यः पुमांस्तस्याः शरीरे समदृश्यत तस्यापि पंसो हृदये त्वपरस्तस्य चोरसि । अन्यो रक्तेक्षणः श्रीमान् द्वादशादित्यसन्निभः एवं दृष्ट्वा पुमांसोऽत्र त्रयः कन्याशरीरगाः । क्षणेन तत्र कन्यैका न तान् पश्यामि सुव्रत ततः पृष्टा मया देवी सा कुमारी कथं मम । वेदा नष्टा ममाचक्ष्व भद्रे तन्नाशकारणम् कन्योवाच । माताऽहं सर्ववेदानां सावित्री नाम नामतः । मां न जानासि येन त्वं ततो वेदा हृतास्तव कन्योवाच य एष मच्छरीरस्थः सर्वाङ्गैश्चारुलोचनः । एष ऋग्वेदनामा तु देवो नारायणः स्वयम् । वह्निभूतो दहत्याशु पापान्युच्चारणादनु एतस्य हृदये योऽयं दृष्ट आसीत् त्वयात्मजः । स यजुर्वेदरूपेण स्थितो ब्रह्मा महाबलः तस्याप्युरसि संविष्टो य एष शुचिरुज्ज्वलः । स सामवेदनामा तु रुद्ररूपी व्यवस्थितः । एष आदित्यवत् पापान्याशु नाशयते स्मृतः एते त्रयो महावेदा ब्रह्मन् देवास्त्रयः स्मृताः । एते वर्णा अकाराद्याः सवनान्यत्र वै द्विज एतत्सर्वं समासेन कथितं ते द्विजोत्तम । गृहाण वेदान् शास्त्राणि सर्वज्ञत्वं च नारद एतस्मिन् वेदसरसि स्नानं कुरु महाव्रत । कृते स्नानेऽन्यजन्मीयं येन स्मरसि सत्तम एवमुक्त्वा तिरोभावं गता कन्या नराधिप । अहं तत्र कृतस्नानस्त्वां दिदृक्षुरिहागतः
sūta uvāca | tatastuṣṭo harirbhaktyā dharaṇyātmaśarīragām | māyāṃ prakāśya tenaiva sthito vārāhamūrttinā jagāda kiṃ te suśroṇi praśnamenaṃ sudurlabham | kathayāmi purāṇasya viṣayaṃ sarvaśāstrataḥ purāṇānāṃ hi sarveṣāmayaṃ sādhāraṇaḥ smṛtaḥ | ślokaṃ dharaṇi niścitya niḥśeṣaṃ tvaṃ punaḥ śrṛṇu śrīvarāha uvāca | sargaśca pratisargaśca vaṃśo manvantarāṇi ca | vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam ādisargamahaṃ tāvat kathayāmi varānane | yasmādārabhya devānāṃ rājñāṃ caritameva ca | jñāyate caturaṃśaśca paramātmā sanātanaḥ ādāvahaṃ vyoma mahat tato'ṇuṃ- rekaiva mattaḥ prababhūva buddhiḥ | tridhā tu sā sattvarajastamobhiḥ pṛthakpṛthaktattvarūpairupetā tasmiṃstrike'haṃ tamaso mahān sa sadocyate sarvavidāṃ pradhānaḥ | utasmādapi kṣetravidūrjito'bhūd babhūva vuddhistu tato babhūva tasmāttu tebhyo śravaṇādihetavas tato'kṣamālā jagato vyavasthitā | bhūtairgataireva ca piṇḍamūrti- rmayā bhadre vihitā tvātmanaiva śūnyaṃ tvāsīt tatra śabdastu khaṃ ca tasmād vāyustata evānu tejaḥ | tasmādāpastata evānu devi mayā sṛṣṭā bhavatī bhūtadhātrī yoge pṛthivyā jalavat tato'pi sabudbudaṃ kalalaṃ tvaṇḍameva | tasmin pravṛtte dvigate'hamāsī- dāpomayaścātmanātmānamādau sṛṣṭvā nārāstā atho tatra cāhaṃ yena syānme nāma nārāyaṇeti | kalpe kalpe tatra saṃyāmi bhūyaḥ suptasya me nābhijaḥ syād yathādyaḥ evaṃbhūtasya me devi nābhipadme caturmukhaḥ | uttasthau sa mayā proktaḥ prajāḥ sṛja mahāmate evamuktvā tirobhāvaṃ gato'haṃ so'pi cintayan | āste yāvajjagaddhātri nādhyagacchata kiṃcana tāvat tasya mahāroṣo brahmaṇo'vyaktajanmanaḥ| saṃbhūya tena bālaḥ syādaṅke roṣātmasaṃbhavaḥ yo rudan vāritastena brahmaṇā'vyaktamūrttinā | bravīti nāma me dehi tasya rudreti so dadau so'pi tena sṛjasveti prokto lokamimaṃ śubhe | aśaktaḥ so'tha salile mamajja tapase dhṛtaḥ tasmin salilamagne tu punaranyaṃ prajāpatim | brahmā sasarjja bhūteṣu dakṣiṇāṅguṣṭhato varam | vāme caiva tathā'ṅguṣṭhe tasya patnīmathāsṛjat sa tasyāṃ janayāmāsa manuṃ svāyaṃbhuvaṃ prabhuḥ | tasmāt saṃbhāvitā sṛṣṭiḥ prajānāṃ brahmaṇā purā dharaṇyuvāca | vistareṇa mamācakṣva ādisargaṃ sureśvara | brahmā nārāyaṇākhyo'yaṃ kalpādau cābhavad yathā śrībhagavānuvāca | sasarja sarvabhūtāni yathā nārāyaṇātmakaḥ | kathyamānaṃ mayā devi tadaśeṣaṃ kṣite śrṛṇu gatakalpāvasāne tu niśi suptotthitaḥ śubhe | sattvodriktastathā brahmā śūnyaṃ lokamavaikṣata nārāyaṇaḥ paro'cintyaḥ parāṇāmapi pūrvajaḥ | brahmasvarūpī bhagavānanādiḥ sarvasaṃbhavaḥ idaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati | brahmasvarūpiṇaṃ devaṃ jagataḥ prabhavāpyayam āpo nārā iti proktā āpo vai narasūnavaḥ | ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā | abuddhipūrvakastasya prādurbhūtastamomayaḥ tamo moho mahāmohastāmistro hyandhasaṃjñitaḥ | avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ pañcadhā'vasthitaḥ sargo dhyāyato'pratibodhavān | bahiranto'prakāśaśca saṃvṛtātmā nagātmakaḥ | sa mukhyasargo vijñeyaḥ sargavidbhirvicakṣaṇaiḥ punaranyadabhūt tasya dhyāyataḥ sargamuttamam| tiryakstrotastu vai yasmāt tiryakstrotastu vai smṛtaḥ paśvādayaste vikhyātā utpathagrāhiṇastu te| tamapyasādhakaṃ matvā tiryakstrotaṃ caturmukhaḥ ūrdhvastrotastridhā yastu sāttviko dharmavarttanaḥ | tatordhvacāriṇo devāḥ sarvagarbhasamudbhavāḥ te sukhaprītivahulā bahirantastvanāvṛtāḥ | tasmin sarge'bhavat prītirniṣpadyante prajāstadā tadā sṛṣṭvā'nyasargaṃ tu tadā dadhyau prajāpatiḥ | asādhakāṃstu tān matvā mukhyasargādisaṃbhavān tataḥ sa cintayāmāsa arvākstrotastu sa prabhuḥ | arvākstrotasi cotpannā manuṣyāḥ sādhakā matāḥ te ca prakāśabahulāstamodriktā rajodhikāḥ | tasmāt tu dukhaḥ bahulā bhūyobhūyaśca kāriṇaḥ ityete kathitāḥ sargāḥ ṣaḍete subhage tava | prathamo mahataḥ sargastanmātrāṇi dvitīyakaḥ vaikārikastṛtīyastu sargaścaindriyakaḥ smṛtaḥ | ityeṣa prākṛtaḥ sargaḥ saṃbhūto buddhipūrvakaḥ mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ | tiryakstrotaśca yaḥ proktastairyakstrotaḥ sa ucyate tathordhvastrotasāṃ śreṣṭhaḥ saptamaḥ sa tu mānavaḥ | aṣṭamo'nugrahaḥ sargaḥ sāttvikastāmasaśca saḥ pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ | prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ ityete vai samākhyātā nava sargāḥ prajāpateḥ | prākṛtā vaikṛtāścaiva jagato mūlahetavaḥ | ityete kathitāḥ sargāḥ kimanyacchrotumicchasi dharaṇyuvāca | navadhā sṛṣṭirutpannā brahmaṇo'vyaktajanmanaḥ | kathaṃ sā vavṛdhe deva etanme kathayācyuta śrīvarāha uvāca | prathamaṃ brahmaṇā sṛṣṭā rudrādyāstu tapodhanāḥ| sanakādayastataḥ sṛṣṭā marīcyādaya eva ca marīciratriśca tathā aṅgirāḥ pulahaḥ kratuḥ | pulastyaśca mahātejāḥ pracetā bhṛgureva ca | nārado daśamaścaiva vasiṣṭhaśca mahātapāḥ sanakādayo nivṛttyākhye tena dharme prayojitāḥ | pravṛttyākhye marīcyādyā muktvaikaṃ nāradaṃ munim yo'sau prajāpatistvādyo dakṣiṇāṅguṣṭhasaṃbhavaḥ | tasyādau tatra vaṃśena jagadetaccarācaram devāśca dānavāścaiva gandharvoragapakṣiṇaḥ | sarve dakṣasya kanyāsu jātāḥ paramadhārmikāḥ yo'sau rudreti vikhyātaḥ putraḥ krodhasamudbhavaḥ | bhrukuṭīkuṭilāt tasya lalāṭāt parameṣṭhinaḥ arddhanārīnaravapuḥ pracaṇḍo'tibhayaṃkaraḥ | vibhajātmānamityukto brahmaṇā'ntardadhe punaḥ tathokto'sau dvidhā strītvaṃ puruṣatvaṃ cakāra saḥ | bibheda puruṣatvaṃ ca daśadhā caikadhā ca saḥ | tatastvekādaśa khyātā rudrā brahmasamudbhavāḥ ayamuddeśataḥ prokto rudrasargo mayā'naghe | idānīṃ yugamāhātmyaṃ kathayāmi samāsataḥ kṛtaṃ tretā dvāparaśca kaliśceti caturyugam | etasmin ye mahāsattvā rājāno bhūridakṣiṇāḥ | devāsurāśca yaṃ cakrurdharmaṃ karma ca tacchṛṇu āsīt prathamakalpe tu manuḥ svāyaṃbhuvaḥ purā | tasya putradvayaṃ jajñe atimānuṣaceṣṭitam| priyavratottānapādanāmānaṃ dharmavatsalam tatra priyavrato rājā mahāyajvā tapobalaḥ | sa ceṣṭvā vividhairyajñairvipulairbhūridakṣiṇaiḥ saptadvīpeṣu saṃsthāpya bharatādīn sutān nijān | svayaṃ viśālāṃ varadāṃ gatvā tepe mahat tapaḥ tasmin sthitasya tapasi rājño vai cakravarttinaḥ | upeyānnāradastatra didṛkṣurdharmacāriṇam sa dṛṣṭvā nāradaṃ vyomni jvaladbhāskaratejasam | abhyutthānena rājendra uttasthau harṣitastadā tasyāsanaṃ ca pādyaṃ ca samyak tasya nivedya vai | svāgatādibhirālāpaiḥ parasparamavocatām | kathānte nāradaṃ rājā papraccha brahmavādinam priyavrata uvāca | bhagavan kiñcidāścaryametasmin kṛtasaṃjñite | yuge dṛṣṭaṃ śrutaṃ vā'pi tanme kathaya nārada nārada uvāca | āścaryamekaṃ dṛṣṭaṃ me tacchṛṇuṣva priyavrata | hyastane'hani rājendra śvetākhyaṃ gatavānaham | dvīpaṃ tatra saro dṛṣṭaṃ phullapaṅkajamālinam sarasastasya tīre tu kumārīṃ pṛthulocanām | dṛṣṭvā'haṃ vismayāpannastāṃ kanyāmāyatekṣaṇām pṛṣṭavānasmi rājendra tadā madhurabhāṣiṇīm | kā'si bhadre kathaṃ vā'si kiṃ vā kāryamiha tvayā | karttavyaṃ cārusarvāṅgi tanmamācakṣva śobhane evamuktā mayā sā hi māṃ dṛṣṭvā'nimiṣekṣaṇā | smṛtvā tūṣṇīṃ sthitā yāvat tāvanme jñānamuttamam vismṛtaṃ sarvavedāśca sarvaśāstrāṇi caiva ha | yogaśāstrāṇi śikṣāśca vedānāṃ smṛtayastathā sarvaṃ dṛṣṭvaiva me rājan kumāryā'pahṛtaṃ kṣaṇāt | tato'haṃ vismayārviṣṭaścintāśokasamanvitaḥ tāmeva śaraṇaṃ gatvā yāvat paśyāmi pārthiva | tāvad divyaḥ pumāṃstasyāḥ śarīre samadṛśyata tasyāpi paṃso hṛdaye tvaparastasya corasi | anyo raktekṣaṇaḥ śrīmān dvādaśādityasannibhaḥ evaṃ dṛṣṭvā pumāṃso'tra trayaḥ kanyāśarīragāḥ | kṣaṇena tatra kanyaikā na tān paśyāmi suvrata tataḥ pṛṣṭā mayā devī sā kumārī kathaṃ mama | vedā naṣṭā mamācakṣva bhadre tannāśakāraṇam kanyovāca | mātā'haṃ sarvavedānāṃ sāvitrī nāma nāmataḥ | māṃ na jānāsi yena tvaṃ tato vedā hṛtāstava kanyovāca ya eṣa maccharīrasthaḥ sarvāṅgaiścārulocanaḥ | eṣa ṛgvedanāmā tu devo nārāyaṇaḥ svayam | vahnibhūto dahatyāśu pāpānyuccāraṇādanu etasya hṛdaye yo'yaṃ dṛṣṭa āsīt tvayātmajaḥ | sa yajurvedarūpeṇa sthito brahmā mahābalaḥ tasyāpyurasi saṃviṣṭo ya eṣa śucirujjvalaḥ | sa sāmavedanāmā tu rudrarūpī vyavasthitaḥ | eṣa ādityavat pāpānyāśu nāśayate smṛtaḥ ete trayo mahāvedā brahman devāstrayaḥ smṛtāḥ | ete varṇā akārādyāḥ savanānyatra vai dvija etatsarvaṃ samāsena kathitaṃ te dvijottama | gṛhāṇa vedān śāstrāṇi sarvajñatvaṃ ca nārada etasmin vedasarasi snānaṃ kuru mahāvrata | kṛte snāne'nyajanmīyaṃ yena smarasi sattama evamuktvā tirobhāvaṃ gatā kanyā narādhipa | ahaṃ tatra kṛtasnānastvāṃ didṛkṣurihāgataḥ
VrP 2.69
एवमुक्ते तया राजन् विस्मयेन तपोधन । पृष्टा क एते पुरुषा एतत्कथय शोभने
evamukte tayā rājan vismayena tapodhana | pṛṣṭā ka ete puruṣā etatkathaya śobhane
When she had spoken thus, O king, O you rich in austerity, in astonishment (I) asked (her): "Who are these men? Tell me this, O lovely one."
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain