← Varaha Purana

Varaha Purana — Chapter 17

VrP 17.17

धरण्युवाच । ये ते मणौ तदा देव उत्पन्ना नरपुंगवाः । तेषां वरो भगवता दत्तस्त्रेतायुगे किल राजानो भवितारो वै कथं तेषां समुद्भवः । किं च चक्रुर्हि ते कर्म पृथङ् नामानि शंस मे श्रीवराह उवाच । सुप्रभो मणिजो यस्तु राजा नाम्ना महामनाः । तस्योत्पत्तिं वरारोहे श्रृणु त्वं भूतधारिणि आसीद् राजा महाबाहुरादौ कृतयुगे पुरा । श्रुतकीर्तिरिति ख्यातस्त्रैलोक्ये बलवत्तरः तस्य पुत्रत्वमापेदे सुप्रभो मणिजो धरे । प्रजापालेति वै नाम्ना श्रुतकीर्तिर्महाबलः सैकस्मिंश्चिद् दिने प्रायाद् विपिनं श्वापदाकुम् । तत्रापश्यदृषेर्धन्यं महदाश्रममण्डलम् तस्मिन् महातपा नाम ऋषिः परधार्मिकः । तपस्तेपे निराहारो जपन् ब्रह्म सनातनम् तत्रासौ पार्थिवः श्रीमान् प्रवेशाय मतिं तदा । चकार चाविशद् राजा प्रजापालो महातपाः तस्मिन् वराश्रमपदे वनवृक्षजात्या धराप्रसूतोर्जितमार्गजुष्टाः । लतागृहा इन्दुरविप्रकाशिनो नायासितज्ञाः कुलभृङ्गराजाः सुरक्तपद्मोदरकोमलाग्र- नखाङ्गुलीभिः प्रसृतैः सुराणाम् । वराङ्गनाभिः पदपङ्क्तिमुच्चै- विंहाय भूमिं त्वपि वृत्रशत्रोः क्वचित् समीपे तमतीव हृष्टै- र्नानाद्विजैः षट्चृरणैश्च मत्तैः । वासद्भिरुच्चैर्विविधप्रमाणाः शाखाः सुपुष्पाः समयोगयुक्ताः कदम्बनीपार्ज्जुनशीलशाल- लतागृहस्थैर्मधुरस्वरेण । जुष्टं विहङ्गैः सुजनप्रयोगा निराकुला कार्यधृतिर्यथास्थैः मखाग्निधूमैरुदिताग्निहोमै- स्ततः समन्तात् गृहमेधिभिर्द्विजैः । सिंहैरिवाधर्म्मकरी विदारितः स तीक्ष्णदंष्ट्रैर्वरमत्तकेसरैः एवं स राजा विविधानुपायान् वराश्रमे प्रेक्षमाणो विवेश । तस्मिद् प्रविष्टे तु स तीव्रतेजा महातपाः पुण्यकृतां प्रधानः । दृष्टो यथा भानुरनन्तभानुः कौश्यासने ब्रह्मविदां प्रधानः दृष्ट्वा स राजा विजयी मृगाणां मतिं विसस्मार मुनेः प्रसङ्गात् । चकार धर्मं प्रति मानसं सो अनुत्तमं प्राप्य नृपो मुनिं सः स मुनिस्तं नृपं दृष्ट्वा प्रजापालमकल्मषम् । अभ्यागतक्रियां चक्रे आसनस्वागतादिभिः ततः कृतासनो राजा प्रणम्य ऋषिपुङ्गवम् । पप्रच्छ वसुधे प्रश्नमिमं परमदुर्लभम् भगवन् दुःखसंसारमग्नैः पुम्भिस्तितीर्षुभिः । यत्कार्यं तन्ममाचक्ष्व प्रणते शंसितव्रत महातपा उवाच । संसारार्णवमज्जमानमनुजैः पोतः स्थिरोऽतिध्रुवः कार्यः पूजनदानहोमविविधैर्यज्ञैः समं ध्यायनैः । कीलैः कीलितमोक्षभिः सुरभटैरूर्ध्वं महारज्जुभिः प्राणाद्यैरधुना कुरुष्व नृपते पोतं त्रिलोकेश्वरम् नारायणं नरकहरं सुरेशं भक्त्या नमस्कुर्वति यो नृपेश । स वीतशोकः परमं विशोकं प्राप्नोति विष्णोः पदमव्ययं तत् नृप उवाच । भगवन् सर्वधर्मज्ञ कथं विष्णुः सनातनः । पूज्यते मोक्षमिच्छद्भिः पुरुषैर्वद तत्त्वतः महातपा उवाच । श्रृणु राजन् महाप्राज्ञ यथा विष्णुः प्रसीदति । पुरुषाणां तथा स्त्रीणां सर्वयोगीश्वरो हरिः सर्वे देवाः सपितरो ब्रह्माद्याश्चाण्डमध्यगाः । विष्णोः सकाशादुत्पन्ना इतीयं वैदिकी श्रुतिः अग्निस्तथाश्विनौ गौरी गजवक्त्रभुजंगमाः । कार्तिकेयस्तथादित्यो मातरो दुर्गया सह दिशो धनपतिर्विष्णुर्यमो रुद्रः शशी तथा । पितरश्चेति संभूताः प्राधान्येन जगत्पतेः हिरण्यगर्भस्य तनौ सर्वं एव समुद्भवाः । पृथक्पृथक् ततो गर्वं वहमानाः समन्ततः अहं योग्यस्त्वहं याज्य इति तेषां स्वनो महान् । श्रूयते देवसमितौ सागरक्षुब्धसन्निभः तेषां विवदमानानां वह्निरुत्थाय पार्थिव । उवाच मां यजस्वेति ध्यायध्वं मामिति ब्रुवन् प्राजापत्यमिदं नूनं शरीरं मद्विनाकृतम् । विनाशमुपपद्येत यतो नाहं महानहम् एवमुक्त्वा शरीरं तु त्यक्त्वा वह्निर्विनिर्ययौ । निर्गतेऽपि ततस्तस्मिंस्तच्छरीरं न शीर्यते ततोऽश्विनौ मूर्तिमन्तौ प्राणापानौ शरीरगौ । आवां प्रधानावित्येवमूचतुर्याज्यसत्तमौ एवमुक्त्वा शरीरं तु विहाय क्वचिदास्थितौ । तयोरपि क्षयं कृत्वा क्षेत्री तत्पुरमास्थितः ततो वागब्रबीद् गौरी प्राधान्यं मयि संस्थितम् । साऽप्येवमुक्त्वा क्षेत्रात् तु निश्चक्राम बहिः शुभा तया विनापि तत्क्षेत्रं वागूनं व्यवतिष्ठत । ततो गणपतिर्वाक्यमाकाशाख्योऽब्रवीत् तदा न मया रहितं किञ्चिच्छरीरं स्थायि दूरतः । कालान्तरेत्येवमुक्त्वा सोऽपि निष्क्रम्य देहतः पृथग्भूतस्तथाप्येतच्छरीरं नाप्यनीनशत् । विनाकाशाख्यतत्त्वेन तथापि न विशीर्यते सुषिरैस्तु विहीनं तु दृष्ट्वा क्षेत्रं व्यवस्थितम् । शरीरधातवः सर्वे ते ब्रूयुर्वाक्यमेव हि अस्माभिर्व्यतिरिक्तस्य न शरीरस्य धारणम् । भवतीत्येवमुक्त्वा ते जहुः सर्वे शरीरिणः तैर्व्यपेतमपि क्षेत्रं पुरुषेण प्रपाल्यते । तं दृष्ट्वा त्वब्रवीत् स्कन्दः सोऽहंकारः प्रकीर्तितः मया विना शरीरस्य संभूतिरपि नेष्यते । एवमुक्त्वा शरीरात् तु सोऽभ्यपेतः पृथक् स्थितः तेनाक्षतेन तत्क्षेत्रं विना मुक्तवदास्थितम् । तं दृष्ट्वा कुपितो भानुः स आदित्यः प्रकीर्तितः मया विना कथं क्षेत्रमिमं क्षणमपीष्यते । एवमुक्त्वा प्रयातः स तच्छरीरं न शीर्यते ततः कामादिरुत्थाय गणो मातृविसंज्ञितः । न मया व्यतिरिक्तस्य शरीरस्य व्यवस्थितिः । एवमुक्त्वा स यातस्तु शरीरं तन्न शीर्यते ततो मायाऽब्रवीत्कोपात् सा च दुर्गा प्रकीर्तिता । न मयाऽस्य विना भूतिरित्युक्त्वाऽन्तर्दधे पुनः ततो दिशः समुत्तस्थुरूचुश्चेदं वचो महत् । नास्माभी रहितं कार्यं भवतीति न संशयः । चतस्र आगताः काष्ठा अपयाताः क्षणात् तदा ततो धनपतिर्वायुर्मय्यपेते क्व संभवः । शरीरस्येति सोप्येवमुक्त्वा मूर्धानगोऽभवत् ततो विष्णुर्मनो ब्रूयान्नायं देहो मया विना । क्षणमप्युत्सहेत् स्थातुमित्युक्त्वाऽन्तर्दधे पुनः ततो धर्मोऽब्रवीत् सर्वमिदं पालितवानहम् । इदानीमप्युपगते कथमेतद्भविष्यति एवमुक्त्वा गतो धर्मस्तच्छरीरं न शीर्यते । ततोब्रवीन्महादेवः अव्यक्तो भूतनायकः महत्संज्ञो मया हीनं शरीरं नो भवेद् यथा । एवमुक्त्वा गतः शम्भुस्तच्छरीरं न शीर्यते तं दृष्ट्वा पितरश्चोचुस्तन्मात्रा यावदस्मभिः । प्रगतैरेभिरेतच्च शरीरं शीर्यते ध्रुवम् । एवमुक्त्वा तु ते देहं त्यक्त्वाऽन्तर्द्धानमागताः अग्निः प्राणो अपानश्च आकाशं सर्वधातवः । क्षेत्रं तद्वदहंकारो भानुः कामादयो मया । काष्ठा वायुर्विष्णुर्धर्म शम्भुस्तथेन्द्रियार्थकाः एतैर्मुक्तं तु तत्क्षेत्रं तत् तथैव व्यवस्थितम् । सोमेन पाल्यमानं तु पुरुषेणेन्दुरूपिणा एवं व्यवस्थिते सोमे षोडशात्मन्यथाक्षरे । प्राग्वत् तत्र गुणोपेतं क्षेत्रमुत्थाय बभ्रम प्रागवस्थं शरीरं तु दृष्ट्वा सर्वज्ञपालितम् । ताः क्षेत्रदेवताः सर्वा वैलक्षं भावमाश्रिताः तमेवं तुष्टुवुः सर्वास्तं देवं परमेश्वरम् । स्वस्थानमीयिषुः सर्वास्तदा नृपतिसत्तम त्वमग्निस्त्वं तथा प्राणस्त्वमपानः सरस्वती । त्वमाकाशं धनाध्यक्षस्त्वं शरीरस्य धातवः अहंकारो भवान् देव त्वमादित्योऽष्टको गणः । त्वं माया पृथिवी दुर्गा त्वं दिशस्त्वं मरुत्पतिः त्वं विष्णुस्त्वं तथा धर्मस्त्वं जिष्णुस्त्वं पराजितः । अक्षरार्थस्वरूपेण परमेश्वरसंज्ञितः अस्माभिरपयातैस्तु कथमेतद्भविष्यति । एवमत्र शरीरं तु त्यक्तमस्माभिरेव च तत् परं भवता देव तदवस्थं प्रपाल्यते । स्थानभङ्गो न नः कार्यः स्वयं सृष्ट्वा प्रजापते एवं स्तुतस्ततो देवस्तेषां तोषं परं ययौ । उवाच चैतान् क्रीडार्थं भवन्तोत्पादिता मया कृतकृत्यस्य मे किं नु भवद्भिर्विप्रयोजनम् । तथापि दद्मि वो रूपे द्वे द्वे प्रत्येकशोऽधुना भूतकार्येष्वमूर्तेन देवलोके तु मूर्तिना । तिष्ठध्वमपि कालान्ते लयं त्वाविशत द्रुतम् शरीराणि पुनर्नैवं कर्त्तव्योऽहमिति क्वचित् । मूर्त्तीनां च तथा तुभ्यं दद्मि नामानि वोऽधुना अग्नेर्वैश्वानरो नाम प्राणापानौ तथाश्विनौ । भविष्यति तथा गौरी हिमशैलसुता तथा पृथिव्यादिगणस्त्वेष गजवक्त्रो भविष्यति । शरीरधातवश्चेमे नानाभूतानि एव तु । अहंकारस्तथा स्कन्दः कार्त्तिकेयो भविष्यति भानुश्चादित्यरूपोऽसौ मूर्त्तामूर्त्त च चक्षुषी । कामाद्योऽयं गणो भूयो मातृरूपो भविष्यति शरीरमाया दुर्गैषा कारणान्ते भविष्यति । दश कन्या भविष्यन्ति काष्ठास्त्वेतास्तु वारुणाः अयं वायुर्धनेशस्तु कारणान्ते भविष्यति । अयं मनो विष्णुनामा भविष्यति न संशयः धर्मोऽपि यमनामा च भविष्यति न संशयः । महत्तत्त्वं च भगवान् महादेवो भविष्यति इन्द्रियार्थाश्च पितरो भविष्यन्ति न संशयः । अयं सोमः स्वयं भूत्वा यामित्रं सर्वदामराः एवं वेदान्तपुरुषः प्रोक्तो नारायणात्मकः । स्वस्थाने देवताः सर्वा देवस्तु विरराम ह एवं प्रभावो देवोऽसौ वेदवेद्यो जनार्दनः । कथितो नृपते तुभ्यं किमन्यच्छ्रोतुमिच्छसि

dharaṇyuvāca | ye te maṇau tadā deva utpannā narapuṃgavāḥ | teṣāṃ varo bhagavatā dattastretāyuge kila rājāno bhavitāro vai kathaṃ teṣāṃ samudbhavaḥ | kiṃ ca cakrurhi te karma pṛthaṅ nāmāni śaṃsa me śrīvarāha uvāca | suprabho maṇijo yastu rājā nāmnā mahāmanāḥ | tasyotpattiṃ varārohe śrṛṇu tvaṃ bhūtadhāriṇi āsīd rājā mahābāhurādau kṛtayuge purā | śrutakīrtiriti khyātastrailokye balavattaraḥ tasya putratvamāpede suprabho maṇijo dhare | prajāpāleti vai nāmnā śrutakīrtirmahābalaḥ saikasmiṃścid dine prāyād vipinaṃ śvāpadākum | tatrāpaśyadṛṣerdhanyaṃ mahadāśramamaṇḍalam tasmin mahātapā nāma ṛṣiḥ paradhārmikaḥ | tapastepe nirāhāro japan brahma sanātanam tatrāsau pārthivaḥ śrīmān praveśāya matiṃ tadā | cakāra cāviśad rājā prajāpālo mahātapāḥ tasmin varāśramapade vanavṛkṣajātyā dharāprasūtorjitamārgajuṣṭāḥ | latāgṛhā induraviprakāśino nāyāsitajñāḥ kulabhṛṅgarājāḥ suraktapadmodarakomalāgra- nakhāṅgulībhiḥ prasṛtaiḥ surāṇām | varāṅganābhiḥ padapaṅktimuccai- viṃhāya bhūmiṃ tvapi vṛtraśatroḥ kvacit samīpe tamatīva hṛṣṭai- rnānādvijaiḥ ṣaṭcṛraṇaiśca mattaiḥ | vāsadbhiruccairvividhapramāṇāḥ śākhāḥ supuṣpāḥ samayogayuktāḥ kadambanīpārjjunaśīlaśāla- latāgṛhasthairmadhurasvareṇa | juṣṭaṃ vihaṅgaiḥ sujanaprayogā nirākulā kāryadhṛtiryathāsthaiḥ makhāgnidhūmairuditāgnihomai- stataḥ samantāt gṛhamedhibhirdvijaiḥ | siṃhairivādharmmakarī vidāritaḥ sa tīkṣṇadaṃṣṭrairvaramattakesaraiḥ evaṃ sa rājā vividhānupāyān varāśrame prekṣamāṇo viveśa | tasmid praviṣṭe tu sa tīvratejā mahātapāḥ puṇyakṛtāṃ pradhānaḥ | dṛṣṭo yathā bhānuranantabhānuḥ kauśyāsane brahmavidāṃ pradhānaḥ dṛṣṭvā sa rājā vijayī mṛgāṇāṃ matiṃ visasmāra muneḥ prasaṅgāt | cakāra dharmaṃ prati mānasaṃ so anuttamaṃ prāpya nṛpo muniṃ saḥ sa munistaṃ nṛpaṃ dṛṣṭvā prajāpālamakalmaṣam | abhyāgatakriyāṃ cakre āsanasvāgatādibhiḥ tataḥ kṛtāsano rājā praṇamya ṛṣipuṅgavam | papraccha vasudhe praśnamimaṃ paramadurlabham bhagavan duḥkhasaṃsāramagnaiḥ pumbhistitīrṣubhiḥ | yatkāryaṃ tanmamācakṣva praṇate śaṃsitavrata mahātapā uvāca | saṃsārārṇavamajjamānamanujaiḥ potaḥ sthiro'tidhruvaḥ kāryaḥ pūjanadānahomavividhairyajñaiḥ samaṃ dhyāyanaiḥ | kīlaiḥ kīlitamokṣabhiḥ surabhaṭairūrdhvaṃ mahārajjubhiḥ prāṇādyairadhunā kuruṣva nṛpate potaṃ trilokeśvaram nārāyaṇaṃ narakaharaṃ sureśaṃ bhaktyā namaskurvati yo nṛpeśa | sa vītaśokaḥ paramaṃ viśokaṃ prāpnoti viṣṇoḥ padamavyayaṃ tat nṛpa uvāca | bhagavan sarvadharmajña kathaṃ viṣṇuḥ sanātanaḥ | pūjyate mokṣamicchadbhiḥ puruṣairvada tattvataḥ mahātapā uvāca | śrṛṇu rājan mahāprājña yathā viṣṇuḥ prasīdati | puruṣāṇāṃ tathā strīṇāṃ sarvayogīśvaro hariḥ sarve devāḥ sapitaro brahmādyāścāṇḍamadhyagāḥ | viṣṇoḥ sakāśādutpannā itīyaṃ vaidikī śrutiḥ agnistathāśvinau gaurī gajavaktrabhujaṃgamāḥ | kārtikeyastathādityo mātaro durgayā saha diśo dhanapatirviṣṇuryamo rudraḥ śaśī tathā | pitaraśceti saṃbhūtāḥ prādhānyena jagatpateḥ hiraṇyagarbhasya tanau sarvaṃ eva samudbhavāḥ | pṛthakpṛthak tato garvaṃ vahamānāḥ samantataḥ ahaṃ yogyastvahaṃ yājya iti teṣāṃ svano mahān | śrūyate devasamitau sāgarakṣubdhasannibhaḥ teṣāṃ vivadamānānāṃ vahnirutthāya pārthiva | uvāca māṃ yajasveti dhyāyadhvaṃ māmiti bruvan prājāpatyamidaṃ nūnaṃ śarīraṃ madvinākṛtam | vināśamupapadyeta yato nāhaṃ mahānaham evamuktvā śarīraṃ tu tyaktvā vahnirviniryayau | nirgate'pi tatastasmiṃstaccharīraṃ na śīryate tato'śvinau mūrtimantau prāṇāpānau śarīragau | āvāṃ pradhānāvityevamūcaturyājyasattamau evamuktvā śarīraṃ tu vihāya kvacidāsthitau | tayorapi kṣayaṃ kṛtvā kṣetrī tatpuramāsthitaḥ tato vāgabrabīd gaurī prādhānyaṃ mayi saṃsthitam | sā'pyevamuktvā kṣetrāt tu niścakrāma bahiḥ śubhā tayā vināpi tatkṣetraṃ vāgūnaṃ vyavatiṣṭhata | tato gaṇapatirvākyamākāśākhyo'bravīt tadā na mayā rahitaṃ kiñciccharīraṃ sthāyi dūrataḥ | kālāntaretyevamuktvā so'pi niṣkramya dehataḥ pṛthagbhūtastathāpyetaccharīraṃ nāpyanīnaśat | vinākāśākhyatattvena tathāpi na viśīryate suṣiraistu vihīnaṃ tu dṛṣṭvā kṣetraṃ vyavasthitam | śarīradhātavaḥ sarve te brūyurvākyameva hi asmābhirvyatiriktasya na śarīrasya dhāraṇam | bhavatītyevamuktvā te jahuḥ sarve śarīriṇaḥ tairvyapetamapi kṣetraṃ puruṣeṇa prapālyate | taṃ dṛṣṭvā tvabravīt skandaḥ so'haṃkāraḥ prakīrtitaḥ mayā vinā śarīrasya saṃbhūtirapi neṣyate | evamuktvā śarīrāt tu so'bhyapetaḥ pṛthak sthitaḥ tenākṣatena tatkṣetraṃ vinā muktavadāsthitam | taṃ dṛṣṭvā kupito bhānuḥ sa ādityaḥ prakīrtitaḥ mayā vinā kathaṃ kṣetramimaṃ kṣaṇamapīṣyate | evamuktvā prayātaḥ sa taccharīraṃ na śīryate tataḥ kāmādirutthāya gaṇo mātṛvisaṃjñitaḥ | na mayā vyatiriktasya śarīrasya vyavasthitiḥ | evamuktvā sa yātastu śarīraṃ tanna śīryate tato māyā'bravītkopāt sā ca durgā prakīrtitā | na mayā'sya vinā bhūtirityuktvā'ntardadhe punaḥ tato diśaḥ samuttasthurūcuścedaṃ vaco mahat | nāsmābhī rahitaṃ kāryaṃ bhavatīti na saṃśayaḥ | catasra āgatāḥ kāṣṭhā apayātāḥ kṣaṇāt tadā tato dhanapatirvāyurmayyapete kva saṃbhavaḥ | śarīrasyeti sopyevamuktvā mūrdhānago'bhavat tato viṣṇurmano brūyānnāyaṃ deho mayā vinā | kṣaṇamapyutsahet sthātumityuktvā'ntardadhe punaḥ tato dharmo'bravīt sarvamidaṃ pālitavānaham | idānīmapyupagate kathametadbhaviṣyati evamuktvā gato dharmastaccharīraṃ na śīryate | tatobravīnmahādevaḥ avyakto bhūtanāyakaḥ mahatsaṃjño mayā hīnaṃ śarīraṃ no bhaved yathā | evamuktvā gataḥ śambhustaccharīraṃ na śīryate taṃ dṛṣṭvā pitaraścocustanmātrā yāvadasmabhiḥ | pragatairebhiretacca śarīraṃ śīryate dhruvam | evamuktvā tu te dehaṃ tyaktvā'ntarddhānamāgatāḥ agniḥ prāṇo apānaśca ākāśaṃ sarvadhātavaḥ | kṣetraṃ tadvadahaṃkāro bhānuḥ kāmādayo mayā | kāṣṭhā vāyurviṣṇurdharma śambhustathendriyārthakāḥ etairmuktaṃ tu tatkṣetraṃ tat tathaiva vyavasthitam | somena pālyamānaṃ tu puruṣeṇendurūpiṇā evaṃ vyavasthite some ṣoḍaśātmanyathākṣare | prāgvat tatra guṇopetaṃ kṣetramutthāya babhrama prāgavasthaṃ śarīraṃ tu dṛṣṭvā sarvajñapālitam | tāḥ kṣetradevatāḥ sarvā vailakṣaṃ bhāvamāśritāḥ tamevaṃ tuṣṭuvuḥ sarvāstaṃ devaṃ parameśvaram | svasthānamīyiṣuḥ sarvāstadā nṛpatisattama tvamagnistvaṃ tathā prāṇastvamapānaḥ sarasvatī | tvamākāśaṃ dhanādhyakṣastvaṃ śarīrasya dhātavaḥ ahaṃkāro bhavān deva tvamādityo'ṣṭako gaṇaḥ | tvaṃ māyā pṛthivī durgā tvaṃ diśastvaṃ marutpatiḥ tvaṃ viṣṇustvaṃ tathā dharmastvaṃ jiṣṇustvaṃ parājitaḥ | akṣarārthasvarūpeṇa parameśvarasaṃjñitaḥ asmābhirapayātaistu kathametadbhaviṣyati | evamatra śarīraṃ tu tyaktamasmābhireva ca tat paraṃ bhavatā deva tadavasthaṃ prapālyate | sthānabhaṅgo na naḥ kāryaḥ svayaṃ sṛṣṭvā prajāpate evaṃ stutastato devasteṣāṃ toṣaṃ paraṃ yayau | uvāca caitān krīḍārthaṃ bhavantotpāditā mayā kṛtakṛtyasya me kiṃ nu bhavadbhirviprayojanam | tathāpi dadmi vo rūpe dve dve pratyekaśo'dhunā bhūtakāryeṣvamūrtena devaloke tu mūrtinā | tiṣṭhadhvamapi kālānte layaṃ tvāviśata drutam śarīrāṇi punarnaivaṃ karttavyo'hamiti kvacit | mūrttīnāṃ ca tathā tubhyaṃ dadmi nāmāni vo'dhunā agnervaiśvānaro nāma prāṇāpānau tathāśvinau | bhaviṣyati tathā gaurī himaśailasutā tathā pṛthivyādigaṇastveṣa gajavaktro bhaviṣyati | śarīradhātavaśceme nānābhūtāni eva tu | ahaṃkārastathā skandaḥ kārttikeyo bhaviṣyati bhānuścādityarūpo'sau mūrttāmūrtta ca cakṣuṣī | kāmādyo'yaṃ gaṇo bhūyo mātṛrūpo bhaviṣyati śarīramāyā durgaiṣā kāraṇānte bhaviṣyati | daśa kanyā bhaviṣyanti kāṣṭhāstvetāstu vāruṇāḥ ayaṃ vāyurdhaneśastu kāraṇānte bhaviṣyati | ayaṃ mano viṣṇunāmā bhaviṣyati na saṃśayaḥ dharmo'pi yamanāmā ca bhaviṣyati na saṃśayaḥ | mahattattvaṃ ca bhagavān mahādevo bhaviṣyati indriyārthāśca pitaro bhaviṣyanti na saṃśayaḥ | ayaṃ somaḥ svayaṃ bhūtvā yāmitraṃ sarvadāmarāḥ evaṃ vedāntapuruṣaḥ prokto nārāyaṇātmakaḥ | svasthāne devatāḥ sarvā devastu virarāma ha evaṃ prabhāvo devo'sau vedavedyo janārdanaḥ | kathito nṛpate tubhyaṃ kimanyacchrotumicchasi