Varaha Purana — Chapter 11
VrP 11.11
श्रीवराह उवाच । ततस्तमीदृशं दृष्ट्वा तदा गौरमुखाश्रमम् । दुर्ज्जयश्चिन्तयामास रम्यमाश्रममण्डलम् प्रविशाम्यत्र पश्यामि ऋषीन् परमधार्मिकान् । चिन्तयित्वा तदा राजा प्रविवेश तमाश्रमम् तस्य प्रविष्टस्य ततो राज्ञः परमहर्षितः । चकार पूजां धर्मात्मा तदा गौरमुखो मुनिः स्वागतादिक्रियाः कृत्वा कथान्ते तं महामुनिः । स्वशक्त्याऽहं नृपश्रेष्ठ सानुगस्य च भोजनम् करिष्यामि प्रमुच्यन्तां साधु वाहा इति द्विजः । एवमुक्त्वा स्थितस्तूष्णीं स मुनिः संशितव्रतः राजाऽपि तस्थौ तद्भक्त्या स्वसहायैः समन्वितः । अक्षौहिण्यो बलस्यास्य पञ्चमात्रास्तदा स्थिताः । अयं च तापसः किं मे दास्यते भोजनं त्विह निमन्त्र्य दुर्जयं विप्रस्तदा गौरमुखो नृपम् । चिन्तयामास किं चास्य मया देयं तु भोजनम् एवं चिन्तयतस्तस्य महर्षेर्भावितात्मनः । स्थितो मनसि देवेशो हरिर्नारायणः प्रभुः ततः संस्मृत्य मनसा देवं नारायणं तदा । तोषयामास गङ्गायां प्रविश्य मुनिसत्तमः धरण्युवाच । कथं गौरमुखो विष्णुं तोषयामास भूधर । एतन्मे कौतुकं श्रोतुं सम्यगिच्छा प्रवर्त्तते नमोऽस्तु विष्णवे नित्यं नमस्ते पीतवाससे । नमस्ते चाद्यरूपाय नमस्ते जलरूपिणे नमस्ते सर्वसंस्थाय नमस्ते जलशायिने । नमस्ते क्षितिरूपाय नमस्ते तेजसात्मने नमस्ते वायुरूपाय नमस्ते व्योमरूपिणे । त्वं देवः सर्वभूतानां प्रभुस्त्वमसि हृच्छयः त्वमोङ्कारो वषट्कारः सर्वत्रैव च संस्थितः । त्वमादिः सर्वदेवानां तव चादिर्न विद्यते त्वं भूस्त्वं च भुवो देव त्वं जनस्त्वं महः स्मृतः । त्वं तपस्त्वं च सत्यं च त्वयि देव चराचरम् त्वत्तो भूतमिदं विश्वं त्वदुद्भूता ऋगादयः । त्वत्तः शास्त्राणि जातानि त्वत्तो यज्ञाः प्रतिष्ठिताः त्वत्तो वृक्षा वीरुधश्च त्वत्तः सर्वा वनौषधीः । पशवः पक्षिणः सर्पास्त्वत्त एव जनार्दन ममापि देवदेवेश राजा दुर्जयसंज्ञितः । आगतोऽभ्यागतस्तस्य आतिथ्यं कर्त्तुमुत्सहे तस्य मे निर्धनस्याद्य देवदेव जगत्पते । भक्तिनम्रस्य देवेश कुरुष्वान्नाद्यसंचयम् यं यं स्पृशामि हस्तेन यं यं पश्यामि चक्षुषा । वृक्षं वा तृणकन्दं वा तत्तदन्नं चतुर्विधम् तथा त्वन्यतमं वाऽपि यद् ध्यातं मनसा मया । तत् सर्वं सिद्ध्यतां मह्यं नमस्ते परमेश्वर इति स्तुत्या तु देवेशस्तुतोष जगतां पतिः । मुनेस्तस्य स्वकं रूपं दर्शयामास केशवः उवाच सुप्रसन्नात्मा ब्रूहि विप्र वरं परम् । एवं श्रुत्वाऽक्षिणी यावदुन्मीलयति वै मुनिः तदा शङ्खगदापाणिः पीतवासा जनार्दनः । गरुडस्थोऽपि तेजस्वी द्वादशादित्यसप्रभः दिवि सूर्यसहस्त्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा । ददर्श स मुनिर्देवि विस्मयोत्फुल्ललोचनः जगाम शिरसा देवं कृताञ्जलिरथाब्रवीत् । यदि मे वरदो देवो भूयाद् भक्तस्य केशव इदानीमेष नृपतिर्यथा सबलवाहनः । ममाश्रमे कृताहारः श्वः प्रयाता स्वकं गृहम् इत्युक्तस्तस्य देवेशो वरदः संबभूव ह । चित्तसिद्धिं ददौ तस्मै मणिं च सुमहाप्रभम् तं दत्त्वाऽन्तर्दधे देवः स च गौरमुखो मुनिः । जगाम चाश्रमं पुण्यं नाना ऋषिनिषेवितम् तत्र गत्वा स विप्रेन्द्रश्चिन्तयमास वै मुनिः । हिमवच्छिखराकारं महाभ्रमिव चोन्नतम् । शशाङ्करश्मिसङ्काशं गृहं वै शतभूमिकम् तादृशानां सहस्त्राणि लक्षकोट्यश्च सर्वशः । गृहाणि निर्ममे विप्रो विष्णोर्लब्धवरस्तदा प्राकाराणि ततोपान्ते तल्लग्नोद्यानकानि च । कोकिलाकुलघुष्टानि नानाद्विजवराणि च । चम्पकाशोकपुन्नागनागकेशरवन्ति च नानाजात्यस्तथा वृक्षा गृहोद्यानेषु सर्वशः । हस्तिनां हस्तिशालाश्च तुरगाणां च मन्दुराः चकार संचयान् विप्रो नानाभक्ष्याणि सर्वशः । भक्ष्यं भोज्यं तथा लेह्यं चोष्यं बहुविधं तथा । चकारान्नाद्यनिचयं हेमपात्र्यश्च सर्वतः एवं कृत्वा स विप्रस्तु राजानं भूरितेजसम् । उवाच सर्वसैन्यानि प्रविशन्तु गृहानिति एवमुक्तस्ततो राजा तद्गृहं पर्वतोपमम् । प्रविवेशान्तरेष्वन्ये भृत्या विविशुराशु वै ततस्तेषु प्रविष्टेषु तदा गौरमुखो मुनिः । प्रगृह्य तं मणिं दिव्यं राजानं चेदमब्रवीत् मज्जनाभ्यवहारार्थं पथि श्रमकृते तथा । विलासिनीस्तथा दासान् प्रेषयिष्यामि ते नृप एवमुक्त्वा स विप्रेन्द्रस्तं मणिं वैष्णवं शुभम् । एकान्ते स्थापयामास राज्ञस्तस्य प्रपश्चतः तस्मिन् स्थापितमात्रे तु मणौ शुद्धसमप्रभे । निश्चेरुर्योषितस्तत्र दिव्यरूपाः सहस्त्रशः सुकुमाराङ्गरागाद्याः सुकुमारवराङगनाः । सुकपोलाः सुचार्व्यङ्ग्यः सुकेशान्ताः सुलोचनाः । काश्चित्सौवर्णपात्रीश्च गृहीत्वा संप्रतस्थिरे एवं योषिद्गणास्तत्र नराः कर्मकरास्तथा । निर्जग्मुस्तस्य नृपतेः सर्वे भृत्या नृपस्य ह । केवलं भोजनं पूर्वं परिधानं च सर्वशः ताः स्त्रियः सर्वभृत्यानां राजमार्गेण मज्जनम् । ददुस्ते च नराश्वानां हस्तिनां च त्वरान्विताः नानाविधानि तूर्याणि तत्रावाद्यन्त सर्वशः । मज्जने नृपतेस्तत्र ननृतुश्चान्ययोषितः । अपराश्च जगुस्तत्र शक्रस्येव प्रमज्जतः एवं दिव्योपचारेण स्नात्वा राजा महामनाः । चिन्तयामास राजेन्द्रो विस्मयाविष्टचेतनः । किमिदं मुनिसामर्थ्यं तपसो वाऽथ वा मणेः एवं स्नात्वा शुभे वस्त्रे परिधायोत्तमे तथा । विविधान्नं तु विधिना बुभुजे स नृपोत्तमः /50 यथा च नृपतेः पूजा कृता तेन महर्षिणा । तद्वद् भृत्यजनस्यापि चकार मुनिसत्तमः यावत् स राजा बुभुजे सभृत्यबलवाहनः । तावदस्तगिरिं भानुर्जगामारुणसप्रभः ततस्तु रात्रिः समपद्यताऽधुना शरच्छशाङ्कोज्ज्वलऋक्षमण्डिता । करोति रागं स च रोहिणीधवः सुसङ्गतं सौम्यगुणेषु तापि च भृगूद्वहः कृष्णतरांशुभानुना सहोद्यतो दैत्यगुरुः सुराधिपः । अथान्तरात्पक्षगतो न राजते स्वभावयोगेन मतिस्तु देहिनाम् सुरक्ततां भूमिसुतश्च मुञ्चते राहुः सिती चन्द्रमसोंशुभिः सितैः । मुक्तः स्वभावो जगतः सुरासुरै- रनुस्वभावो बलवान् सुकृन्नृपः सितेश्वराख्यापितरश्मिमण्डले सूर्यत्वसिद्धान्तकषेव निर्मले । करोति केतुर्न परे महत्तम- स्तदा कुशीलेषु गतिश्च निर्मला बुधोच्चबुद्धिर्जगतो विभावयन् रराज राज्ञो तनयः स्वकर्मभिः । भृतेच्छकः कक्षविवाहितश्चिरं भवेदियं साधुषु सम्मितिर्ध्रुवम् करोति केतुः कपिलं वियच्चिरं राज्ञः सुराणां पथि संस्थितं भृशम् । न दुर्जनः सज्जनसंसदि क्वचित् करोति शुद्धं निजकर्मकौशलम् शशाङ्करश्मिप्रविभासिता अपि प्रकाशमीयुर्निरताः पदे पदे । कुलंभवाः संभवधर्मपत्तयो महांशुयोगान्महतां समुन्नतिम् त्रिदोषसक्तान्निकृतोऽस्य सर्वशः सुतेन राज्ञो वरुणस्य सूर्यजः । विराजते कौशिकसन्निवेशिता न वेदकर्म क्वचिदन्यथा भवेत् द्वन्द्वः समेतान् मम यः शिशुः पुरा हरिर्य आराधितवान् नृपासनम् । लक्ष्म्यापि बुद्ध्या सुचिरं प्रकाशते ध्रुवेण विष्णुस्मरणेन दुर्लभम् इतीदृशी रात्रिरभूदृषेः शुभे वराश्रमे दुर्जयभूपतेः शुभा । सभृत्यसामन्तवराश्वदन्तिनः सुभक्तवस्त्राभरणादिपूजया इतीदृशायां वररत्नचित्रिताः सुपट्टसंवीतवरास्तृतास्तदा । गृहेषु पर्यङ्कवराः समाश्रिताः सुरूपयोषित्कृतभङ्गभासुराः स तत्र राजा विससर्ज भूभृतः स्वयं सभृत्यानपि सर्वतो गृहान् । गतेषु सुष्वाप वरस्त्रिया वृतः सुरेशवत्स्वर्गगतः प्रतापवान् एवं सुमनसस्तस्य सभृत्यस्य महात्मनः । ऋषेस्तस्य प्रभावेन हृष्टास्तु सुषुपुस्तदा ततो रात्र्यां व्यतीतायां स राजा ताः स्त्रियः पुनः । अन्तर्द्धानं गतास्तत्र दृष्ट्वा तानि गृहाणि च अदृश्यानि महार्हाणि वरासनजलानि च । राजा स विस्मयाविष्टश्चिन्तयामास दुःखितः कथमेवं मणिर्मह्यं भवतीति पुनः पुनः । चिन्तयन्नधिगम्याथ स राजा दुर्जयस्तदा चिन्तामणिमिमं चास्य हरामीति विचिन्त्य सः । प्रयाणं नोदयामास स राजाश्रमबाह्यतः । आश्रमस्य बहिर्गत्वा नातिदूरे सवाहनः ततो विरोचनाख्यं वै प्रेषयामास मन्त्रिणम् । ऋषेर्गौरमुखस्यापि मणेर्याचनकर्मणि ऋषिं तं च समागत्य मणिं याचितुमुद्यतः । रत्नानां भाजनं राजा मणिं तस्मै प्रदीयताम् अमात्येनैवमुक्तस्तु क्रुद्धो गौरमुखोऽब्रवीत् । प्रतिगृह्णाति विप्रस्तु राजा चैव ददाति च । त्वं च राजा पुनर्भूत्वा याचसे दीनवत् कथम् एवं ब्रूहि दुराचारं राजानं दुर्जयं स्वयम् । गच्छ द्रुतं दुराचार मा त्वां लोकोऽत्यगादिति (एवमुक्त्वा मुनिः प्रागात् कुशेध्माहरणाय वै । चिन्तयन् मनसा तं च मणिं शत्रुविनाशनम् ) एवमुक्तस्तदा दूतो जगाम च नृपान्तिकम् । कथयामास तत्सर्वं यदुक्तं ब्राह्मणेन च ततः क्रोधपरीतात्मा श्रुत्वा ब्राह्मणभाषितम् । दुर्जयः प्राह नीलाख्यं सामन्तं गच्छ माचिरम् । ब्राह्मणस्य मणिं गृह्य तूर्णमेहि यदृच्छया एवमुक्तस्तदा नीलो बहुसेनापरिच्छदः । जगाम स च विप्रस्य वन्यमाश्रममण्डलम् तत्राग्निहोत्रशालायां दृष्ट्वा तं मणिमाहितम् । उत्तीर्य स्यन्दनान्नीलः सोऽवरोहत भूतले अवतीर्णे ततस्तस्मिन् नीले परमदारुणे । क्रूरबुद्ध्या मणेस्तस्मान्निर्जग्मुः शस्त्रपाणयः सरथाः सध्वजाः साश्वाः सबाणाः सासिचर्मिणः । सधनुष्काः सतूणीरा योधाः परमदुर्जयाः । निश्चेरुस्तं मणिं भित्वा असंख्येया महाबलाः तत्र सज्जा महाशूरा दश पञ्च च संख्यया । नामभिस्तान् महाभागे कथयामि श्रृणुष्व तान् सुप्रभो दीप्ततेजाश्च सुरश्मिः शुभदर्शनः । सुकान्तिः सुन्दरः सुन्दः प्रद्युम्नः सुमनाः शुभः सुशीलः सुखदः शम्भुः सुदान्तः सोम एव च । एते पञ्चदश प्रोक्ता नायका मणितोत्थिताः ततो विरोचनं दृष्ट्वा बहुसैन्यपरिष्कृतम् । योधयामासुरव्यग्रा विविधायुधपाणयः धनूंषि तेषां कनकप्रभाणि शरान् सुजाम्बूनदपुङ्खनद्धान् । पतन्ति खङ्गानि विभीषणानि भुशुण्डिशूलाः परमप्रधानाः रथो रथं संपरिवार्य तस्थौ गजो गजस्यापि हयो हरस्य । पदातिरत्युग्रपराक्रमश्च पदातिमेव प्रससार चाग्र्यम् द्वन्द्वन्यनेकानि तथैव युद्धे द्रवन्ति शूराः परिभर्त्सयन्तः । विभीषणं निर्गतचापमार्गं बभूव बाहुप्रभवं सुघोरम् तथा प्रवृत्ते तुमुलेऽथ युद्धे हतः स राज्ञः सचिवो विसंज्ञः । सहानुगः सर्वबलैरुपेतो जगाम वैवस्वतमन्दिराय तस्मिन् हते दुर्जयराजमन्त्रिणि उपाययौ स्वेन बलेन राजा । स दुर्जयः साश्वरथोऽतितीव्रः प्रतापवांस्तैर्मणिजैर्युयोध ततस्तस्मिंस्तदा राज्ञो महत्कदनमाबभौ । ततो हेतुप्रहेतृभ्यां श्रुत्वा जामातरं रणे युध्यमानं महाबाहुं ततस्त्वाययतुश्चमूः । तस्मिन् बले तु दैत्या ये तान् श्रृणुष्व धरेरितान् प्रघसो विघसश्चैव सङ्घसोऽशनिसप्रभः । विद्युत्प्रभः सुघोषश्च उन्मत्ताक्षो भयंकरः अग्निदन्तोऽग्नितेजाश्च बाहुशक्रः प्रतर्दनः । विराधो भीमकर्मा च विप्रचित्तिस्तथैव च एते पञ्चदश श्रेष्ठा असुराः परमायुधाः । अक्षौहिणीपरीवार एकैकोऽत्र पृथक्पृथक् महामायास्तु समरे दुर्ज्जयस्य महात्मनः । युयुधुर्मणिजैः सार्द्धं महासैन्यपरिच्छदाः (सुप्रभः प्रघसं त्वाजौ ताडयामास पञ्चभिः । शरैराशीविषाकारैः प्रतप्तैः पतगैरिव ।। ) तप्ततेजास्त्रिभिर्बाणैर्विघसं संप्रविध्यत । संघसं दशभिर्बाणैः सुरश्मिः प्रत्यविध्यत अशनिप्रभं रणेऽविध्यत् पञ्चभिः शुभदर्शनः । विद्युत्प्रभं सुकान्तिस्तु सुघोषं सुन्दरस्तथा उन्मत्ताक्षं तथाविध्यत् सुन्दः पञ्चभिराशुगैः । चकर्त्त च धनुस्तस्य शितेन नतपर्वणा सुमना अग्निदंष्ट्रं तु सुशुभश्चाग्नितेजसम् । सुशीलो वायुशक्रं तु सुमुखश्च प्रतर्दनम् (विराधेन तथा शम्भुः सुकीर्तिर्भीमकर्म्मणा । विप्रचित्तिस्तथा सोमं एतद् युद्धं महानभूत् ।।) परस्परं सुयुद्धेन योधयित्वाऽस्त्रलाघवात् । यथासंख्येन ते दैत्याः पुनर्मणिभवैर्हताः यावत् संग्रामघोरो वै महांस्तेषां व्यवर्द्धत । तावत् समित्कुशादीनि कृत्वा गौरमुखो मुनिः आगतो महदाश्चर्यं संग्रामं भीमदर्शनम् । बहुसैन्यपरीवारं स्थितं तं चापि दुर्ज्जयम् तं दृष्ट्वा स मुनिर्द्वारि चिन्तापरम एव हि । उपविश्याधिगम्याथ मणेः कारणमेव ह एवं कृत्वा मणिकृतं रौद्रं गाढं च संयुगम् । चिन्तयामास देवेशं हरिं गौरमुखो मुनिः स देवः पुरतस्तस्य पीतवासाः खगासनः । किमत्र ते मया कार्यमिति वाणीमुदीरयत् स ऋषिः प्राञ्जलिर्भूत्वा उवाच पुरुषोत्तमम् । जहीमं दुर्ज्जयं पापं ससैन्यं परिवारिणम् एवमुक्तस्तदा तेन चक्रं ज्वलनसन्निभम् । (मुमोच दुर्जयबले कालचक्रं सुदर्शनम्) तेन चक्रेण तत्सैन्यमासुरं दौर्जयं क्षणात् । निमेषान्तरमात्रेण भस्मवद् बहुधा कृतम् एवं कृत्वा ततो देवो मुनिं गौरमुखं तदा । उवाच निमिषेणेदं निहतं दानवं बलम् अरण्येऽस्मिंस्ततस्त्वेवं नैमिषारण्यसंज्ञितम् । भविष्यति यथार्थं वै ब्राह्मणानां विशेषतः अहं च यज्ञपुरुष एतस्मिन् वनगोचरे । नाम्ना याज्या सदा चेमे दश पञ्च च नायकाः । कृते युगे भविष्यन्ति राजानो मणिजा मुने एवमुक्त्वा ततो देवो गतोऽन्तर्धानमीश्वरः । द्विजोऽपि स्वाश्रमे तस्थौ मुदा परमया युतः ११.९७ पाठभेदः सुमना अग्निदंष्ट्रं तु सुवेदश्चाग्नितेजसम्। सुनलो वायुशक्रौ तु सुवेदस्तु प्रतर्दनम्
śrīvarāha uvāca | tatastamīdṛśaṃ dṛṣṭvā tadā gauramukhāśramam | durjjayaścintayāmāsa ramyamāśramamaṇḍalam praviśāmyatra paśyāmi ṛṣīn paramadhārmikān | cintayitvā tadā rājā praviveśa tamāśramam tasya praviṣṭasya tato rājñaḥ paramaharṣitaḥ | cakāra pūjāṃ dharmātmā tadā gauramukho muniḥ svāgatādikriyāḥ kṛtvā kathānte taṃ mahāmuniḥ | svaśaktyā'haṃ nṛpaśreṣṭha sānugasya ca bhojanam kariṣyāmi pramucyantāṃ sādhu vāhā iti dvijaḥ | evamuktvā sthitastūṣṇīṃ sa muniḥ saṃśitavrataḥ rājā'pi tasthau tadbhaktyā svasahāyaiḥ samanvitaḥ | akṣauhiṇyo balasyāsya pañcamātrāstadā sthitāḥ | ayaṃ ca tāpasaḥ kiṃ me dāsyate bhojanaṃ tviha nimantrya durjayaṃ viprastadā gauramukho nṛpam | cintayāmāsa kiṃ cāsya mayā deyaṃ tu bhojanam evaṃ cintayatastasya maharṣerbhāvitātmanaḥ | sthito manasi deveśo harirnārāyaṇaḥ prabhuḥ tataḥ saṃsmṛtya manasā devaṃ nārāyaṇaṃ tadā | toṣayāmāsa gaṅgāyāṃ praviśya munisattamaḥ dharaṇyuvāca | kathaṃ gauramukho viṣṇuṃ toṣayāmāsa bhūdhara | etanme kautukaṃ śrotuṃ samyagicchā pravarttate namo'stu viṣṇave nityaṃ namaste pītavāsase | namaste cādyarūpāya namaste jalarūpiṇe namaste sarvasaṃsthāya namaste jalaśāyine | namaste kṣitirūpāya namaste tejasātmane namaste vāyurūpāya namaste vyomarūpiṇe | tvaṃ devaḥ sarvabhūtānāṃ prabhustvamasi hṛcchayaḥ tvamoṅkāro vaṣaṭkāraḥ sarvatraiva ca saṃsthitaḥ | tvamādiḥ sarvadevānāṃ tava cādirna vidyate tvaṃ bhūstvaṃ ca bhuvo deva tvaṃ janastvaṃ mahaḥ smṛtaḥ | tvaṃ tapastvaṃ ca satyaṃ ca tvayi deva carācaram tvatto bhūtamidaṃ viśvaṃ tvadudbhūtā ṛgādayaḥ | tvattaḥ śāstrāṇi jātāni tvatto yajñāḥ pratiṣṭhitāḥ tvatto vṛkṣā vīrudhaśca tvattaḥ sarvā vanauṣadhīḥ | paśavaḥ pakṣiṇaḥ sarpāstvatta eva janārdana mamāpi devadeveśa rājā durjayasaṃjñitaḥ | āgato'bhyāgatastasya ātithyaṃ karttumutsahe tasya me nirdhanasyādya devadeva jagatpate | bhaktinamrasya deveśa kuruṣvānnādyasaṃcayam yaṃ yaṃ spṛśāmi hastena yaṃ yaṃ paśyāmi cakṣuṣā | vṛkṣaṃ vā tṛṇakandaṃ vā tattadannaṃ caturvidham tathā tvanyatamaṃ vā'pi yad dhyātaṃ manasā mayā | tat sarvaṃ siddhyatāṃ mahyaṃ namaste parameśvara iti stutyā tu deveśastutoṣa jagatāṃ patiḥ | munestasya svakaṃ rūpaṃ darśayāmāsa keśavaḥ uvāca suprasannātmā brūhi vipra varaṃ param | evaṃ śrutvā'kṣiṇī yāvadunmīlayati vai muniḥ tadā śaṅkhagadāpāṇiḥ pītavāsā janārdanaḥ | garuḍastho'pi tejasvī dvādaśādityasaprabhaḥ divi sūryasahastrasya bhavedyugapadutthitā | yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ tatraikasthaṃ jagat kṛtsnaṃ pravibhaktamanekadhā | dadarśa sa munirdevi vismayotphullalocanaḥ jagāma śirasā devaṃ kṛtāñjalirathābravīt | yadi me varado devo bhūyād bhaktasya keśava idānīmeṣa nṛpatiryathā sabalavāhanaḥ | mamāśrame kṛtāhāraḥ śvaḥ prayātā svakaṃ gṛham ityuktastasya deveśo varadaḥ saṃbabhūva ha | cittasiddhiṃ dadau tasmai maṇiṃ ca sumahāprabham taṃ dattvā'ntardadhe devaḥ sa ca gauramukho muniḥ | jagāma cāśramaṃ puṇyaṃ nānā ṛṣiniṣevitam tatra gatvā sa viprendraścintayamāsa vai muniḥ | himavacchikharākāraṃ mahābhramiva connatam | śaśāṅkaraśmisaṅkāśaṃ gṛhaṃ vai śatabhūmikam tādṛśānāṃ sahastrāṇi lakṣakoṭyaśca sarvaśaḥ | gṛhāṇi nirmame vipro viṣṇorlabdhavarastadā prākārāṇi tatopānte tallagnodyānakāni ca | kokilākulaghuṣṭāni nānādvijavarāṇi ca | campakāśokapunnāganāgakeśaravanti ca nānājātyastathā vṛkṣā gṛhodyāneṣu sarvaśaḥ | hastināṃ hastiśālāśca turagāṇāṃ ca mandurāḥ cakāra saṃcayān vipro nānābhakṣyāṇi sarvaśaḥ | bhakṣyaṃ bhojyaṃ tathā lehyaṃ coṣyaṃ bahuvidhaṃ tathā | cakārānnādyanicayaṃ hemapātryaśca sarvataḥ evaṃ kṛtvā sa viprastu rājānaṃ bhūritejasam | uvāca sarvasainyāni praviśantu gṛhāniti evamuktastato rājā tadgṛhaṃ parvatopamam | praviveśāntareṣvanye bhṛtyā viviśurāśu vai tatasteṣu praviṣṭeṣu tadā gauramukho muniḥ | pragṛhya taṃ maṇiṃ divyaṃ rājānaṃ cedamabravīt majjanābhyavahārārthaṃ pathi śramakṛte tathā | vilāsinīstathā dāsān preṣayiṣyāmi te nṛpa evamuktvā sa viprendrastaṃ maṇiṃ vaiṣṇavaṃ śubham | ekānte sthāpayāmāsa rājñastasya prapaścataḥ tasmin sthāpitamātre tu maṇau śuddhasamaprabhe | niśceruryoṣitastatra divyarūpāḥ sahastraśaḥ sukumārāṅgarāgādyāḥ sukumāravarāṅaganāḥ | sukapolāḥ sucārvyaṅgyaḥ sukeśāntāḥ sulocanāḥ | kāścitsauvarṇapātrīśca gṛhītvā saṃpratasthire evaṃ yoṣidgaṇāstatra narāḥ karmakarāstathā | nirjagmustasya nṛpateḥ sarve bhṛtyā nṛpasya ha | kevalaṃ bhojanaṃ pūrvaṃ paridhānaṃ ca sarvaśaḥ tāḥ striyaḥ sarvabhṛtyānāṃ rājamārgeṇa majjanam | daduste ca narāśvānāṃ hastināṃ ca tvarānvitāḥ nānāvidhāni tūryāṇi tatrāvādyanta sarvaśaḥ | majjane nṛpatestatra nanṛtuścānyayoṣitaḥ | aparāśca jagustatra śakrasyeva pramajjataḥ evaṃ divyopacāreṇa snātvā rājā mahāmanāḥ | cintayāmāsa rājendro vismayāviṣṭacetanaḥ | kimidaṃ munisāmarthyaṃ tapaso vā'tha vā maṇeḥ evaṃ snātvā śubhe vastre paridhāyottame tathā | vividhānnaṃ tu vidhinā bubhuje sa nṛpottamaḥ /50 yathā ca nṛpateḥ pūjā kṛtā tena maharṣiṇā | tadvad bhṛtyajanasyāpi cakāra munisattamaḥ yāvat sa rājā bubhuje sabhṛtyabalavāhanaḥ | tāvadastagiriṃ bhānurjagāmāruṇasaprabhaḥ tatastu rātriḥ samapadyatā'dhunā śaracchaśāṅkojjvalaṛkṣamaṇḍitā | karoti rāgaṃ sa ca rohiṇīdhavaḥ susaṅgataṃ saumyaguṇeṣu tāpi ca bhṛgūdvahaḥ kṛṣṇatarāṃśubhānunā sahodyato daityaguruḥ surādhipaḥ | athāntarātpakṣagato na rājate svabhāvayogena matistu dehinām suraktatāṃ bhūmisutaśca muñcate rāhuḥ sitī candramasoṃśubhiḥ sitaiḥ | muktaḥ svabhāvo jagataḥ surāsurai- ranusvabhāvo balavān sukṛnnṛpaḥ siteśvarākhyāpitaraśmimaṇḍale sūryatvasiddhāntakaṣeva nirmale | karoti keturna pare mahattama- stadā kuśīleṣu gatiśca nirmalā budhoccabuddhirjagato vibhāvayan rarāja rājño tanayaḥ svakarmabhiḥ | bhṛtecchakaḥ kakṣavivāhitaściraṃ bhavediyaṃ sādhuṣu sammitirdhruvam karoti ketuḥ kapilaṃ viyacciraṃ rājñaḥ surāṇāṃ pathi saṃsthitaṃ bhṛśam | na durjanaḥ sajjanasaṃsadi kvacit karoti śuddhaṃ nijakarmakauśalam śaśāṅkaraśmipravibhāsitā api prakāśamīyurniratāḥ pade pade | kulaṃbhavāḥ saṃbhavadharmapattayo mahāṃśuyogānmahatāṃ samunnatim tridoṣasaktānnikṛto'sya sarvaśaḥ sutena rājño varuṇasya sūryajaḥ | virājate kauśikasanniveśitā na vedakarma kvacidanyathā bhavet dvandvaḥ sametān mama yaḥ śiśuḥ purā harirya ārādhitavān nṛpāsanam | lakṣmyāpi buddhyā suciraṃ prakāśate dhruveṇa viṣṇusmaraṇena durlabham itīdṛśī rātrirabhūdṛṣeḥ śubhe varāśrame durjayabhūpateḥ śubhā | sabhṛtyasāmantavarāśvadantinaḥ subhaktavastrābharaṇādipūjayā itīdṛśāyāṃ vararatnacitritāḥ supaṭṭasaṃvītavarāstṛtāstadā | gṛheṣu paryaṅkavarāḥ samāśritāḥ surūpayoṣitkṛtabhaṅgabhāsurāḥ sa tatra rājā visasarja bhūbhṛtaḥ svayaṃ sabhṛtyānapi sarvato gṛhān | gateṣu suṣvāpa varastriyā vṛtaḥ sureśavatsvargagataḥ pratāpavān evaṃ sumanasastasya sabhṛtyasya mahātmanaḥ | ṛṣestasya prabhāvena hṛṣṭāstu suṣupustadā tato rātryāṃ vyatītāyāṃ sa rājā tāḥ striyaḥ punaḥ | antarddhānaṃ gatāstatra dṛṣṭvā tāni gṛhāṇi ca adṛśyāni mahārhāṇi varāsanajalāni ca | rājā sa vismayāviṣṭaścintayāmāsa duḥkhitaḥ kathamevaṃ maṇirmahyaṃ bhavatīti punaḥ punaḥ | cintayannadhigamyātha sa rājā durjayastadā cintāmaṇimimaṃ cāsya harāmīti vicintya saḥ | prayāṇaṃ nodayāmāsa sa rājāśramabāhyataḥ | āśramasya bahirgatvā nātidūre savāhanaḥ tato virocanākhyaṃ vai preṣayāmāsa mantriṇam | ṛṣergauramukhasyāpi maṇeryācanakarmaṇi ṛṣiṃ taṃ ca samāgatya maṇiṃ yācitumudyataḥ | ratnānāṃ bhājanaṃ rājā maṇiṃ tasmai pradīyatām amātyenaivamuktastu kruddho gauramukho'bravīt | pratigṛhṇāti viprastu rājā caiva dadāti ca | tvaṃ ca rājā punarbhūtvā yācase dīnavat katham evaṃ brūhi durācāraṃ rājānaṃ durjayaṃ svayam | gaccha drutaṃ durācāra mā tvāṃ loko'tyagāditi (evamuktvā muniḥ prāgāt kuśedhmāharaṇāya vai | cintayan manasā taṃ ca maṇiṃ śatruvināśanam ) evamuktastadā dūto jagāma ca nṛpāntikam | kathayāmāsa tatsarvaṃ yaduktaṃ brāhmaṇena ca tataḥ krodhaparītātmā śrutvā brāhmaṇabhāṣitam | durjayaḥ prāha nīlākhyaṃ sāmantaṃ gaccha māciram | brāhmaṇasya maṇiṃ gṛhya tūrṇamehi yadṛcchayā evamuktastadā nīlo bahusenāparicchadaḥ | jagāma sa ca viprasya vanyamāśramamaṇḍalam tatrāgnihotraśālāyāṃ dṛṣṭvā taṃ maṇimāhitam | uttīrya syandanānnīlaḥ so'varohata bhūtale avatīrṇe tatastasmin nīle paramadāruṇe | krūrabuddhyā maṇestasmānnirjagmuḥ śastrapāṇayaḥ sarathāḥ sadhvajāḥ sāśvāḥ sabāṇāḥ sāsicarmiṇaḥ | sadhanuṣkāḥ satūṇīrā yodhāḥ paramadurjayāḥ | niścerustaṃ maṇiṃ bhitvā asaṃkhyeyā mahābalāḥ tatra sajjā mahāśūrā daśa pañca ca saṃkhyayā | nāmabhistān mahābhāge kathayāmi śrṛṇuṣva tān suprabho dīptatejāśca suraśmiḥ śubhadarśanaḥ | sukāntiḥ sundaraḥ sundaḥ pradyumnaḥ sumanāḥ śubhaḥ suśīlaḥ sukhadaḥ śambhuḥ sudāntaḥ soma eva ca | ete pañcadaśa proktā nāyakā maṇitotthitāḥ tato virocanaṃ dṛṣṭvā bahusainyapariṣkṛtam | yodhayāmāsuravyagrā vividhāyudhapāṇayaḥ dhanūṃṣi teṣāṃ kanakaprabhāṇi śarān sujāmbūnadapuṅkhanaddhān | patanti khaṅgāni vibhīṣaṇāni bhuśuṇḍiśūlāḥ paramapradhānāḥ ratho rathaṃ saṃparivārya tasthau gajo gajasyāpi hayo harasya | padātiratyugraparākramaśca padātimeva prasasāra cāgryam dvandvanyanekāni tathaiva yuddhe dravanti śūrāḥ paribhartsayantaḥ | vibhīṣaṇaṃ nirgatacāpamārgaṃ babhūva bāhuprabhavaṃ sughoram tathā pravṛtte tumule'tha yuddhe hataḥ sa rājñaḥ sacivo visaṃjñaḥ | sahānugaḥ sarvabalairupeto jagāma vaivasvatamandirāya tasmin hate durjayarājamantriṇi upāyayau svena balena rājā | sa durjayaḥ sāśvaratho'titīvraḥ pratāpavāṃstairmaṇijairyuyodha tatastasmiṃstadā rājño mahatkadanamābabhau | tato hetuprahetṛbhyāṃ śrutvā jāmātaraṃ raṇe yudhyamānaṃ mahābāhuṃ tatastvāyayatuścamūḥ | tasmin bale tu daityā ye tān śrṛṇuṣva dhareritān praghaso vighasaścaiva saṅghaso'śanisaprabhaḥ | vidyutprabhaḥ sughoṣaśca unmattākṣo bhayaṃkaraḥ agnidanto'gnitejāśca bāhuśakraḥ pratardanaḥ | virādho bhīmakarmā ca vipracittistathaiva ca ete pañcadaśa śreṣṭhā asurāḥ paramāyudhāḥ | akṣauhiṇīparīvāra ekaiko'tra pṛthakpṛthak mahāmāyāstu samare durjjayasya mahātmanaḥ | yuyudhurmaṇijaiḥ sārddhaṃ mahāsainyaparicchadāḥ (suprabhaḥ praghasaṃ tvājau tāḍayāmāsa pañcabhiḥ | śarairāśīviṣākāraiḥ prataptaiḥ patagairiva || ) taptatejāstribhirbāṇairvighasaṃ saṃpravidhyata | saṃghasaṃ daśabhirbāṇaiḥ suraśmiḥ pratyavidhyata aśaniprabhaṃ raṇe'vidhyat pañcabhiḥ śubhadarśanaḥ | vidyutprabhaṃ sukāntistu sughoṣaṃ sundarastathā unmattākṣaṃ tathāvidhyat sundaḥ pañcabhirāśugaiḥ | cakartta ca dhanustasya śitena nataparvaṇā sumanā agnidaṃṣṭraṃ tu suśubhaścāgnitejasam | suśīlo vāyuśakraṃ tu sumukhaśca pratardanam (virādhena tathā śambhuḥ sukīrtirbhīmakarmmaṇā | vipracittistathā somaṃ etad yuddhaṃ mahānabhūt ||) parasparaṃ suyuddhena yodhayitvā'stralāghavāt | yathāsaṃkhyena te daityāḥ punarmaṇibhavairhatāḥ yāvat saṃgrāmaghoro vai mahāṃsteṣāṃ vyavarddhata | tāvat samitkuśādīni kṛtvā gauramukho muniḥ āgato mahadāścaryaṃ saṃgrāmaṃ bhīmadarśanam | bahusainyaparīvāraṃ sthitaṃ taṃ cāpi durjjayam taṃ dṛṣṭvā sa munirdvāri cintāparama eva hi | upaviśyādhigamyātha maṇeḥ kāraṇameva ha evaṃ kṛtvā maṇikṛtaṃ raudraṃ gāḍhaṃ ca saṃyugam | cintayāmāsa deveśaṃ hariṃ gauramukho muniḥ sa devaḥ puratastasya pītavāsāḥ khagāsanaḥ | kimatra te mayā kāryamiti vāṇīmudīrayat sa ṛṣiḥ prāñjalirbhūtvā uvāca puruṣottamam | jahīmaṃ durjjayaṃ pāpaṃ sasainyaṃ parivāriṇam evamuktastadā tena cakraṃ jvalanasannibham | (mumoca durjayabale kālacakraṃ sudarśanam) tena cakreṇa tatsainyamāsuraṃ daurjayaṃ kṣaṇāt | nimeṣāntaramātreṇa bhasmavad bahudhā kṛtam evaṃ kṛtvā tato devo muniṃ gauramukhaṃ tadā | uvāca nimiṣeṇedaṃ nihataṃ dānavaṃ balam araṇye'smiṃstatastvevaṃ naimiṣāraṇyasaṃjñitam | bhaviṣyati yathārthaṃ vai brāhmaṇānāṃ viśeṣataḥ ahaṃ ca yajñapuruṣa etasmin vanagocare | nāmnā yājyā sadā ceme daśa pañca ca nāyakāḥ | kṛte yuge bhaviṣyanti rājāno maṇijā mune evamuktvā tato devo gato'ntardhānamīśvaraḥ | dvijo'pi svāśrame tasthau mudā paramayā yutaḥ 11.97 pāṭhabhedaḥ sumanā agnidaṃṣṭraṃ tu suvedaścāgnitejasam| sunalo vāyuśakrau tu suvedastu pratardanam