Varaha Purana — Chapter 10
VrP 10.10
श्रीवराह उवाच । एवं सृष्ट्वा जगत्सर्वं भगवान् लोकभावनः । विरराम ततः सृष्टिर्व्यवर्द्धत धरे तदा वृद्धायामथ सृष्टौ तु सर्वे देवाः पुरातनम् । नारायणाख्यं पुरुषं यजन्तो विविधैर्मखैः द्वीपेषु चैव सर्वेषु वर्षेषु च मखैर्हरिम् । देवाः सत्रैर्महद्भिस्ते यजन्तः श्रद्धयाऽन्विताः । तोषयामासुरत्यर्थं स्वं पूज्यं कर्तुमीप्सवः एवं तोषयतां तेषां बहुवर्षसहस्त्रिकम् । काले देवस्तदा तुष्टः प्रत्यक्षत्वं जगाम ह अनेकबाहूदरवक्त्रनेत्रो महागिरेः श्रृङ्गमिवोल्लिखंस्तदा । उवाच किं कार्यमथो सुरेशो ब्रूतां वरं देववरा वरं वः देवा ऊचुः । जयस्व गोविन्द महानुभाव त्वया वयं नाथ वरेण देवाः । मनुष्यलोकेऽपि भवन्तमाद्यं विहाय नास्मान्भवते ह कश्चित् रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । सर्वे भवन्तं शरणं गताः स्म कुरुष्व पूज्यानिह विश्वमूर्ते एवमुक्तस्तदा तैस्तु महायोगेश्वरो हरिः । करोमि सर्वान् वः पूज्यानित्युक्त्वाऽन्तरधीयत देवा अपि निजौकांसि गतवन्तः सनातनम् । स्तुवन्तः परमेशोऽपि त्रिविधं भावमास्थितः एवं त्रिधा जगद्धाता भूत्वा देवान् महेश्वरः । आराध्य सात्त्विकं राजं तामसं च त्रिधा स्थितम् सात्त्विकेन पठेद् वेदान् यजेद् यज्ञेन देवताः । आत्मनोऽवयवो भूत्वा राजसेनापि केशवः स कालरूपिणं रौद्रं प्रकृत्या शूलपाणिनम् । आत्मनो राजसीं मूर्तिं पूजयामास भक्तितः । तामसेनापि भावेन असुरेषु व्यवस्थितः एवं त्रिधा जगद्धाता भूत्वा देवान् महेश्वरः । आराधयामास ततो लोकोऽपि त्रिविधोऽभवत् ब्रह्मविष्णुमहेशाननाम्ना गृह्य व्यवस्थितः । स च नारायणो देवः कृते युगवरे प्रभुः त्रेतायां रुद्ररूपस्तु द्वापरे यज्ञमूर्तिमान् । कलौ नारायणो देवो बहुरूपो व्यजायत तस्यादिकृत्ततो विष्णोश्चरितं भूरितेजसः । श्रृणुष्व सर्वं सुश्रोणि गदतो मम भामिनि आसीत् कृतयुगे राजा सुप्रतीको महाबलः । तस्य भार्याद्वयं चासीदविशिष्टं मनोरमम् विद्युत्प्रभा कान्तिमती तयोरेते तु नामनी । तयोः पुत्रं समं राजा न लेभे यत्नवानपि यदा तदा मुनिश्रेष्ठमात्रेयं वीतकल्मषम् । तोषयामास विधिना चित्रकूटे नगोत्तमे सक ऋषिस्तोषितस्तेन दीर्घकालं वरार्थिना । वरं दिदित्सया यावदब्रवीदत्रिजो मुनिः तावदिन्द्रोऽपि करिणा गतः पार्श्वेन तस्य ह । देवसैन्यैः परिवृतस्तूष्णीमेव महाबलः तं दृष्ट्वाऽन्तर्गतप्रीतिमप्रीतिं प्रीतवान् मुनिः । चुकोप देवराजाय शापमुग्रं ससर्ज ह यस्मात् त्वया ममावज्ञा कृता मूढ दिवस्पते । ततस्त्वं चालितो राज्यादन्यलोके वसिष्यसि एवमुक्त्वाऽपि कोपेन सुरेशं तं च भूपतिम् । उवाच राजन् पुत्रस्ते भविता दृढविक्रमः इन्द्ररूपोपमः श्रीमानुद्यच्छस्त्रः प्रतापवान् । विद्याप्रभावकर्म्मज्ञः क्रूरकर्मा भविष्यति । दुर्जयोऽतिबली राजा एवमुक्त्वा गतो मुनिः सोऽपि राजा सुप्रतीको भार्यायां गर्भमावहत् । विद्युत्प्रभायां धर्मज्ञः साऽपि काले त्वसूयत तस्याः पुत्रः समभवद् दुर्जयाख्यो महाबलः । जातकर्मादिसंस्कारं तस्य चक्रे मुनिः स्वयम् । (दुर्वासा नाम तपसो तस्य देहमकल्मषः ) तस्य चेष्टेर्बलेनासौ मुनेः सौम्यो बभूव ह । वेदशास्त्रार्थविद्यायां पारगो धर्मवान् शुचिः या द्वितीयाऽभवत् पत्नी तस्य राज्ञो महात्मनः । नाम्ना कीर्त्तिमती धन्या तस्याः पुत्रो बभूव ह । नाम्ना सुद्युम्न इत्येवं वेदवेदाङ्गपारगः अथ कालेन महता स राजा राजसत्तमः । सुप्रतीकः सुतं दृष्ट्वा दुर्जयं योग्यमन्तिके आत्मनो वृद्धभावं च वाराणस्याधिपो बली । चिन्तयामास राज्यार्थं दुर्जयं प्रति भामिनि एवं संचिन्त्य धर्मात्मा तस्य राज्यं ददौ नृपः । स्वयं च चित्रकूटाख्यं पर्वतं स जगाम ह दुर्जयोऽपि महद्राज्यं हस्त्यश्वरथवाजिभिः । संयोज्य चिन्तयामास राज्यवृद्धिं प्रति प्रभुः एवं संचिन्त्य मेधावी हस्त्यश्वरथपत्तिभिः । समेतां वाहिनीं कृत्वा उत्तरां दिशमाश्रितः । तस्य चोत्तरतो देशाः सर्वे सिद्धा महात्मनः भारताख्यमिदं वर्षं साधयित्वा सुदुर्जयः । ततः किंपुरुषं नाम वर्षं तेनापि साधितम् ततः परतरं चान्यद्धरिवर्षं जिगाय सः । रम्यं हिरण्मयं चापि कुरुभद्राश्वमेव च । इलावृतं मेरुमध्यमेतत् सर्वं जिगाय सः जित्वा जम्ब्वाख्यमेतद्धि द्वीपं यावदसौ नृपः । जगाम देवराजानं जेतुं सर्वसुरान्वितम् मेरुपर्वतमारुह्य देवगन्धर्वदानवान् । गुह्यकान् किं नरान् दैत्यांस्ततो ब्रह्मसुतो मुनिः । नारदो दुर्जयजयं देवराजाय शंसत तत इन्द्रस्त्वरायुक्तो लोकपालैः समन्वितः । जगाम दुर्जयं हन्तुं सोऽचिरेणास्त्रनिर्ज्जितम् । विहाय पर्वतं मेरुं मर्त्यलोकमिहागतः पूर्वदेशे च देवेन्द्रो लोकपालैः समं प्रभुः । स्थितवांस्तस्य सुमहच्चरितं संभविष्यति दुर्जयश्च सुराञ्जित्वा यावत् प्रतिनिवर्त्तते । गन्धमादनपृष्ठे तु स्कन्धावारनिवेशनम् । कृत्वाऽवस्थितसंभारमागतं तापसौ तु तम् तावगतावथाब्रूतां राजन् दुर्ज्जय लोकपाः । निवारितास्त्वया सर्वं लोकपालैर्विना जगत् । न प्रवर्त्तत तस्मान् नौ देहि तत्पदमुत्तमम् एवमुक्ते ततस्तौ तु दुर्ज्जयः प्राह धर्मवित् । कौ भवन्ताविति ततस्तावूचतुररिंदमौ । विद्युत्सुविद्युन्नामानावसुराविति मानद त्वया सम्प्रति चेच्छामो धर्म्यं सत्सु सुसंस्कृतौ । लोकपालमतं सर्वमावां कुर्म सुदुर्जय एवमुक्ते दुर्ज्जयेन तौ स्वर्गे सन्निवेशितौ । लौकपालौ कृतौ सद्यस्ततोऽन्तर्धानं जग्मतुः तयोरपि महत्कर्म चरितं च धराधरे । भविष्यति महाराजो दुर्जयो मन्दरोपरि धनदस्य वनं दिव्यं दृष्ट्वा नन्दनसन्निभम् । मुदा बभ्राम रम्येऽस्मिन् स यावद्राजसत्तमः तावत्सुवर्णवृक्षाधः कन्याद्वयमपश्यत । अतीवरूपसंपन्नमतीवाद्भुतदर्शनम् दृष्ट्वा तु विस्मयाविष्टः क इमे शुभलोचने । एवं संचिन्त्य यावत् स क्षणमेकं व्यवस्थितः । तस्मिन् वने तावदुभौ तापसौ सोऽवलोकयत् तौ दृष्ट्वा सहसा राजा ययौ प्रीत्या परां मुदम् । अवतीर्य द्विपात् तूर्णं नमश्चक्रे तयोः स्वयम् उपविष्टः स ताभ्यां तु कौश्ये दत्ते वरासने । पृष्टः कस्त्वं कुतश्चासि कस्य वा किमिह स्थितः तौ प्रहस्याब्रवीद् राजा सुप्रतीकेति विश्रुतः । तस्य पुत्रः समुत्पन्नो दुर्जयो नाम नामतः पृथिव्यां सर्वराजानो जिगीषन्निह सत्तमौ । आगतोऽस्मि ध्रुवं चैव स्मर्त्तव्योऽहं तपोधनौ । भवन्तौ कौ समाख्यातं ममानुग्रहकाङ्क्षया तापसावूचतुः । आवां हेतृप्रहेत्राख्यौ मनोः स्वायंभुवः सुतौ । आवां देवविनाशाय गतौ स्वो मेरुपर्वतम् तत्रावयोर्महासैन्यं गजाश्वरथसंकुलम् । जिगाय सर्वदेवानां शतशोऽथ सहस्त्रशः ते च देवा महत्सैन्यं दृष्ट्वा सर्वं निपातितम् । असुरैरुज्झितप्राणं ततस्ते शरणं गताः क्षीराब्धौ यत्र देवेशो हरिः शेते स्वयं प्रभुः । तत्र विज्ञापयामासुः सर्वे प्रणतिपूर्वकम् देवदेव हरे सर्वं सैन्यं त्वसुरसत्तमैः । पराजितं परित्राहि भीतं विह्वल्लोचनम् त्वया देवासुरे युद्धे पूर्वं त्राताः स्म केशव । सहस्त्रबाहोः क्रूरस्य समरे कालनेमिनः इदानीमपि देवेश असुरौ देवकण्टकौ । हेतृप्रहेतृनामानौ बहुसैन्यपरिच्छदौ । तौ हत्वा त्राहि नः सर्वान् देवदेव जगत्पते एवमुक्तस्ततो देवो विष्णुर्नारायणः प्रभुः । अहं यास्यामि तौ हन्तुमित्युवाच जगत्पतिः एवमुक्तास्ततो देवा मेरुपर्वतसन्निधौ । प्रतस्थुस्तेऽथ मनसा चिन्तयन्तो जनार्दनम् तैः संचिन्तितमात्रस्तु देवश्चक्रगदाधरः । आवयोः सैन्यमाविश्य एक एव महाबलः एकधा दशधात्मानं शतधा च सहस्त्रधा । लक्षधा कोटिधा कृत्वा स्वभूत्या च जगत्पतिः एवं स्थिते देववरे अस्मत्सैन्ये महाबलः । यः कश्चिदसुरो राजन्नावयोर्बलमाश्रितः । स हतः पतितो भूमौ दृश्यते गतचेतनः एवं तत् सहसा सैन्यं मायया विश्वमूर्तिना । निहतं साश्वकलिलं पत्तिद्विपसमाकुलम् चतुरङ्गं बलं सर्वं हत्वा देवो रथाङ्गधृक् । आवां शोषावथो दृष्ट्वा गतोऽन्तर्द्धानमीश्वरः आवयोरीदृशं कर्म दृष्टं देवस्य शार्ङ्गिणः । ततस्तमेव शरणं गतावाराधनाय वै त्वं चास्मन्मित्रतनयः सुप्रतीकात्मजो नृप । इमे च आवयोः कन्ये गृहाण मनुजेश्वर । हेतृकन्या सुकेशी तु मिश्रकेशी प्रहेतृणः दुर्जयस्त्वेवमुक्तस्तु हेतृणा ते उभे शुभे । कन्ये जग्राह धर्मेण भार्यार्थं मनुजेश्वरः ते लब्ध्वा सहसा राजा मुदा परमया युतः । आजगाम स्वकं राष्ट्रं निजसैन्यसमावृतः ततः कालेन महता तस्य पुत्रद्वयं बभौ । सुकेश्याः सुप्रभः पुत्रो मिश्रकेश्याः सुदर्शनः स राजा दुर्जयः श्रीमाँल्लब्ध्वा पुत्रद्वयं शुभम् । स्वयं कालान्तरे श्रीमाञ्जगामारण्यमन्तिके तत्रस्थो वनजातीर्हि बधयन् वै भयंकराः । ददर्शारण्यमाश्रित्य मुनिं स्थितमकल्मषम् तपस्यन्तं महाभागं नाम्ना गौरमुखं शुभम् । ऋषिवृन्दस्य गोप्तारं त्रातारं पापिनः स्वयम् तस्याश्रमे विमलजलाविलेमरु- त्सुगन्धिवृक्षप्रवरे द्विजन्मनः । रराज जीमूत इवाम्बरान्मही- मुपागतः प्रवरविमानवद् गृहः ज्वलनमखाग्निप्रतिभाषिताम्बरः सुशुद्धसंवासितवेशकुट्टकः । शिष्यैः समुच्चारितसामनादकः सुरूपयोषिदृषिकन्यकाकुलः । इतीदृशोऽस्यावसाथो वराश्रमे सुपुष्पिताशेषतरुप्रसूनः
śrīvarāha uvāca | evaṃ sṛṣṭvā jagatsarvaṃ bhagavān lokabhāvanaḥ | virarāma tataḥ sṛṣṭirvyavarddhata dhare tadā vṛddhāyāmatha sṛṣṭau tu sarve devāḥ purātanam | nārāyaṇākhyaṃ puruṣaṃ yajanto vividhairmakhaiḥ dvīpeṣu caiva sarveṣu varṣeṣu ca makhairharim | devāḥ satrairmahadbhiste yajantaḥ śraddhayā'nvitāḥ | toṣayāmāsuratyarthaṃ svaṃ pūjyaṃ kartumīpsavaḥ evaṃ toṣayatāṃ teṣāṃ bahuvarṣasahastrikam | kāle devastadā tuṣṭaḥ pratyakṣatvaṃ jagāma ha anekabāhūdaravaktranetro mahāgireḥ śrṛṅgamivollikhaṃstadā | uvāca kiṃ kāryamatho sureśo brūtāṃ varaṃ devavarā varaṃ vaḥ devā ūcuḥ | jayasva govinda mahānubhāva tvayā vayaṃ nātha vareṇa devāḥ | manuṣyaloke'pi bhavantamādyaṃ vihāya nāsmānbhavate ha kaścit rudrādityā vasavo ye ca sādhyā viśve'śvinau marutaścoṣmapāśca | sarve bhavantaṃ śaraṇaṃ gatāḥ sma kuruṣva pūjyāniha viśvamūrte evamuktastadā taistu mahāyogeśvaro hariḥ | karomi sarvān vaḥ pūjyānityuktvā'ntaradhīyata devā api nijaukāṃsi gatavantaḥ sanātanam | stuvantaḥ parameśo'pi trividhaṃ bhāvamāsthitaḥ evaṃ tridhā jagaddhātā bhūtvā devān maheśvaraḥ | ārādhya sāttvikaṃ rājaṃ tāmasaṃ ca tridhā sthitam sāttvikena paṭhed vedān yajed yajñena devatāḥ | ātmano'vayavo bhūtvā rājasenāpi keśavaḥ sa kālarūpiṇaṃ raudraṃ prakṛtyā śūlapāṇinam | ātmano rājasīṃ mūrtiṃ pūjayāmāsa bhaktitaḥ | tāmasenāpi bhāvena asureṣu vyavasthitaḥ evaṃ tridhā jagaddhātā bhūtvā devān maheśvaraḥ | ārādhayāmāsa tato loko'pi trividho'bhavat brahmaviṣṇumaheśānanāmnā gṛhya vyavasthitaḥ | sa ca nārāyaṇo devaḥ kṛte yugavare prabhuḥ tretāyāṃ rudrarūpastu dvāpare yajñamūrtimān | kalau nārāyaṇo devo bahurūpo vyajāyata tasyādikṛttato viṣṇoścaritaṃ bhūritejasaḥ | śrṛṇuṣva sarvaṃ suśroṇi gadato mama bhāmini āsīt kṛtayuge rājā supratīko mahābalaḥ | tasya bhāryādvayaṃ cāsīdaviśiṣṭaṃ manoramam vidyutprabhā kāntimatī tayorete tu nāmanī | tayoḥ putraṃ samaṃ rājā na lebhe yatnavānapi yadā tadā muniśreṣṭhamātreyaṃ vītakalmaṣam | toṣayāmāsa vidhinā citrakūṭe nagottame saka ṛṣistoṣitastena dīrghakālaṃ varārthinā | varaṃ diditsayā yāvadabravīdatrijo muniḥ tāvadindro'pi kariṇā gataḥ pārśvena tasya ha | devasainyaiḥ parivṛtastūṣṇīmeva mahābalaḥ taṃ dṛṣṭvā'ntargataprītimaprītiṃ prītavān muniḥ | cukopa devarājāya śāpamugraṃ sasarja ha yasmāt tvayā mamāvajñā kṛtā mūḍha divaspate | tatastvaṃ cālito rājyādanyaloke vasiṣyasi evamuktvā'pi kopena sureśaṃ taṃ ca bhūpatim | uvāca rājan putraste bhavitā dṛḍhavikramaḥ indrarūpopamaḥ śrīmānudyacchastraḥ pratāpavān | vidyāprabhāvakarmmajñaḥ krūrakarmā bhaviṣyati | durjayo'tibalī rājā evamuktvā gato muniḥ so'pi rājā supratīko bhāryāyāṃ garbhamāvahat | vidyutprabhāyāṃ dharmajñaḥ sā'pi kāle tvasūyata tasyāḥ putraḥ samabhavad durjayākhyo mahābalaḥ | jātakarmādisaṃskāraṃ tasya cakre muniḥ svayam | (durvāsā nāma tapaso tasya dehamakalmaṣaḥ ) tasya ceṣṭerbalenāsau muneḥ saumyo babhūva ha | vedaśāstrārthavidyāyāṃ pārago dharmavān śuciḥ yā dvitīyā'bhavat patnī tasya rājño mahātmanaḥ | nāmnā kīrttimatī dhanyā tasyāḥ putro babhūva ha | nāmnā sudyumna ityevaṃ vedavedāṅgapāragaḥ atha kālena mahatā sa rājā rājasattamaḥ | supratīkaḥ sutaṃ dṛṣṭvā durjayaṃ yogyamantike ātmano vṛddhabhāvaṃ ca vārāṇasyādhipo balī | cintayāmāsa rājyārthaṃ durjayaṃ prati bhāmini evaṃ saṃcintya dharmātmā tasya rājyaṃ dadau nṛpaḥ | svayaṃ ca citrakūṭākhyaṃ parvataṃ sa jagāma ha durjayo'pi mahadrājyaṃ hastyaśvarathavājibhiḥ | saṃyojya cintayāmāsa rājyavṛddhiṃ prati prabhuḥ evaṃ saṃcintya medhāvī hastyaśvarathapattibhiḥ | sametāṃ vāhinīṃ kṛtvā uttarāṃ diśamāśritaḥ | tasya cottarato deśāḥ sarve siddhā mahātmanaḥ bhāratākhyamidaṃ varṣaṃ sādhayitvā sudurjayaḥ | tataḥ kiṃpuruṣaṃ nāma varṣaṃ tenāpi sādhitam tataḥ parataraṃ cānyaddharivarṣaṃ jigāya saḥ | ramyaṃ hiraṇmayaṃ cāpi kurubhadrāśvameva ca | ilāvṛtaṃ merumadhyametat sarvaṃ jigāya saḥ jitvā jambvākhyametaddhi dvīpaṃ yāvadasau nṛpaḥ | jagāma devarājānaṃ jetuṃ sarvasurānvitam meruparvatamāruhya devagandharvadānavān | guhyakān kiṃ narān daityāṃstato brahmasuto muniḥ | nārado durjayajayaṃ devarājāya śaṃsata tata indrastvarāyukto lokapālaiḥ samanvitaḥ | jagāma durjayaṃ hantuṃ so'cireṇāstranirjjitam | vihāya parvataṃ meruṃ martyalokamihāgataḥ pūrvadeśe ca devendro lokapālaiḥ samaṃ prabhuḥ | sthitavāṃstasya sumahaccaritaṃ saṃbhaviṣyati durjayaśca surāñjitvā yāvat pratinivarttate | gandhamādanapṛṣṭhe tu skandhāvāraniveśanam | kṛtvā'vasthitasaṃbhāramāgataṃ tāpasau tu tam tāvagatāvathābrūtāṃ rājan durjjaya lokapāḥ | nivāritāstvayā sarvaṃ lokapālairvinā jagat | na pravarttata tasmān nau dehi tatpadamuttamam evamukte tatastau tu durjjayaḥ prāha dharmavit | kau bhavantāviti tatastāvūcaturariṃdamau | vidyutsuvidyunnāmānāvasurāviti mānada tvayā samprati cecchāmo dharmyaṃ satsu susaṃskṛtau | lokapālamataṃ sarvamāvāṃ kurma sudurjaya evamukte durjjayena tau svarge sanniveśitau | laukapālau kṛtau sadyastato'ntardhānaṃ jagmatuḥ tayorapi mahatkarma caritaṃ ca dharādhare | bhaviṣyati mahārājo durjayo mandaropari dhanadasya vanaṃ divyaṃ dṛṣṭvā nandanasannibham | mudā babhrāma ramye'smin sa yāvadrājasattamaḥ tāvatsuvarṇavṛkṣādhaḥ kanyādvayamapaśyata | atīvarūpasaṃpannamatīvādbhutadarśanam dṛṣṭvā tu vismayāviṣṭaḥ ka ime śubhalocane | evaṃ saṃcintya yāvat sa kṣaṇamekaṃ vyavasthitaḥ | tasmin vane tāvadubhau tāpasau so'valokayat tau dṛṣṭvā sahasā rājā yayau prītyā parāṃ mudam | avatīrya dvipāt tūrṇaṃ namaścakre tayoḥ svayam upaviṣṭaḥ sa tābhyāṃ tu kauśye datte varāsane | pṛṣṭaḥ kastvaṃ kutaścāsi kasya vā kimiha sthitaḥ tau prahasyābravīd rājā supratīketi viśrutaḥ | tasya putraḥ samutpanno durjayo nāma nāmataḥ pṛthivyāṃ sarvarājāno jigīṣanniha sattamau | āgato'smi dhruvaṃ caiva smarttavyo'haṃ tapodhanau | bhavantau kau samākhyātaṃ mamānugrahakāṅkṣayā tāpasāvūcatuḥ | āvāṃ hetṛprahetrākhyau manoḥ svāyaṃbhuvaḥ sutau | āvāṃ devavināśāya gatau svo meruparvatam tatrāvayormahāsainyaṃ gajāśvarathasaṃkulam | jigāya sarvadevānāṃ śataśo'tha sahastraśaḥ te ca devā mahatsainyaṃ dṛṣṭvā sarvaṃ nipātitam | asurairujjhitaprāṇaṃ tataste śaraṇaṃ gatāḥ kṣīrābdhau yatra deveśo hariḥ śete svayaṃ prabhuḥ | tatra vijñāpayāmāsuḥ sarve praṇatipūrvakam devadeva hare sarvaṃ sainyaṃ tvasurasattamaiḥ | parājitaṃ paritrāhi bhītaṃ vihvallocanam tvayā devāsure yuddhe pūrvaṃ trātāḥ sma keśava | sahastrabāhoḥ krūrasya samare kālaneminaḥ idānīmapi deveśa asurau devakaṇṭakau | hetṛprahetṛnāmānau bahusainyaparicchadau | tau hatvā trāhi naḥ sarvān devadeva jagatpate evamuktastato devo viṣṇurnārāyaṇaḥ prabhuḥ | ahaṃ yāsyāmi tau hantumityuvāca jagatpatiḥ evamuktāstato devā meruparvatasannidhau | pratasthuste'tha manasā cintayanto janārdanam taiḥ saṃcintitamātrastu devaścakragadādharaḥ | āvayoḥ sainyamāviśya eka eva mahābalaḥ ekadhā daśadhātmānaṃ śatadhā ca sahastradhā | lakṣadhā koṭidhā kṛtvā svabhūtyā ca jagatpatiḥ evaṃ sthite devavare asmatsainye mahābalaḥ | yaḥ kaścidasuro rājannāvayorbalamāśritaḥ | sa hataḥ patito bhūmau dṛśyate gatacetanaḥ evaṃ tat sahasā sainyaṃ māyayā viśvamūrtinā | nihataṃ sāśvakalilaṃ pattidvipasamākulam caturaṅgaṃ balaṃ sarvaṃ hatvā devo rathāṅgadhṛk | āvāṃ śoṣāvatho dṛṣṭvā gato'ntarddhānamīśvaraḥ āvayorīdṛśaṃ karma dṛṣṭaṃ devasya śārṅgiṇaḥ | tatastameva śaraṇaṃ gatāvārādhanāya vai tvaṃ cāsmanmitratanayaḥ supratīkātmajo nṛpa | ime ca āvayoḥ kanye gṛhāṇa manujeśvara | hetṛkanyā sukeśī tu miśrakeśī prahetṛṇaḥ durjayastvevamuktastu hetṛṇā te ubhe śubhe | kanye jagrāha dharmeṇa bhāryārthaṃ manujeśvaraḥ te labdhvā sahasā rājā mudā paramayā yutaḥ | ājagāma svakaṃ rāṣṭraṃ nijasainyasamāvṛtaḥ tataḥ kālena mahatā tasya putradvayaṃ babhau | sukeśyāḥ suprabhaḥ putro miśrakeśyāḥ sudarśanaḥ sa rājā durjayaḥ śrīmā~llabdhvā putradvayaṃ śubham | svayaṃ kālāntare śrīmāñjagāmāraṇyamantike tatrastho vanajātīrhi badhayan vai bhayaṃkarāḥ | dadarśāraṇyamāśritya muniṃ sthitamakalmaṣam tapasyantaṃ mahābhāgaṃ nāmnā gauramukhaṃ śubham | ṛṣivṛndasya goptāraṃ trātāraṃ pāpinaḥ svayam tasyāśrame vimalajalāvilemaru- tsugandhivṛkṣapravare dvijanmanaḥ | rarāja jīmūta ivāmbarānmahī- mupāgataḥ pravaravimānavad gṛhaḥ jvalanamakhāgnipratibhāṣitāmbaraḥ suśuddhasaṃvāsitaveśakuṭṭakaḥ | śiṣyaiḥ samuccāritasāmanādakaḥ surūpayoṣidṛṣikanyakākulaḥ | itīdṛśo'syāvasātho varāśrame supuṣpitāśeṣataruprasūnaḥ