Taittiriya Samhita (Black Yajurveda) — Kanda 4 — Chapter 7
TS 4 7.1.1
अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर् वाजेभिर् आगतम् ॥ वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रावश् च मे श्रुतिश् च मे ज्योतिश् च मे सुवश् च मे प्राणश् च मे ऽपान
agnāviṣṇū sajoṣasemā vardhantu vāṃ giraḥ | dyumnair vājebhir āgatam || vājaś ca me prasavaś ca me prayatiś ca me prasitiś ca me dhītiś ca me kratuś ca me svaraś ca me ślokaś ca me śrāvaś ca me śrutiś ca me jyotiś ca me suvaś ca me prāṇaś ca me 'pāna
TS 4 7.1.2
श्च मे व्यानश् च मे ऽसुश् च मे चित्तं च म आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च म ओजश् च मे सहश् च म आयुश् च मे जरा च म आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थानि च मे परूꣳषि च मे शरीराणि च मे ॥
śca me vyānaś ca me 'suś ca me cittaṃ ca ma ādhītaṃ ca me vāk ca me manaś ca me cakṣuś ca me śrotraṃ ca me dakṣaś ca me balaṃ ca ma ojaś ca me sahaś ca ma āyuś ca me jarā ca ma ātmā ca me tanūś ca me śarma ca me varma ca me 'ṅgāni ca me 'sthāni ca me parūṃṣi ca me śarīrāṇi ca me ||
TS 4 7.2.1
ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश् च मे भामस् च मे ऽमश् च मे ऽम्भश् च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश् च मे सत्यं च मे श्रद्धा च मे जगच् च
jyaiṣṭhyaṃ ca ma ādhipatyaṃ ca me manyuś ca me bhāmas ca me 'maś ca me 'mbhaś ca me jemā ca me mahimā ca me varimā ca me prathimā ca me varṣmā ca me drāghuyā ca me vṛddhaṃ ca me vṛddhiś ca me satyaṃ ca me śraddhā ca me jagac ca
TS 4 7.2.2
मे धनं च मे वशश् च मे त्विषिश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे ॥
me dhanaṃ ca me vaśaś ca me tviṣiś ca me krīḍā ca me modaś ca me jātaṃ ca me janiṣyamāṇaṃ ca me sūktaṃ ca me sukṛtaṃ ca me vittaṃ ca me vedyaṃ ca me bhūtaṃ ca me bhaviṣyac ca me sugaṃ ca me supathaṃ ca ma ṛddhaṃ ca ma ṛddhiś ca me klṛptaṃ ca me klṛptiś ca me matiś ca me sumatiś ca me ||
TS 4 7.3.1
शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भद्रं च मे श्रेयश् च मे वस्यश् च मे यशश् च मे भगश् च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च
śaṃ ca me mayaś ca me priyaṃ ca me 'nukāmaś ca me kāmaś ca me saumanasaś ca me bhadraṃ ca me śreyaś ca me vasyaś ca me yaśaś ca me bhagaś ca me draviṇaṃ ca me yantā ca me dhartā ca me kṣemaś ca me dhṛtiś ca me viśvaṃ ca
TS 4 7.3.2
मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च म ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥
me mahaś ca me saṃvic ca me jñātraṃ ca me sūś ca me prasūś ca me sīraṃ ca me layaś ca ma ṛtaṃ ca me 'mṛtaṃ ca me 'yakṣmaṃ ca me 'nāmayac ca me jīvātuś ca me dīrghāyutvaṃ ca me 'namitraṃ ca me 'bhayaṃ ca me sugaṃ ca me śayanaṃ ca me sūṣā ca me sudinaṃ ca me ||
TS 4 7.4.1
ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म औद्भिद्यं च मे रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च
ūrk ca me sūnṛtā ca me payaś ca me rasaś ca me ghṛtaṃ ca me madhu ca me sagdhiś ca me sapītiś ca me kṛṣiś ca me vṛṣṭiś ca me jaitraṃ ca ma audbhidyaṃ ca me rayiś ca me rāyaś ca me puṣṭaṃ ca me puṣṭiś ca me vibhu ca
TS 4 7.4.2
मे प्रभु च मे बहु च मे भूयश् च मे पूर्णं च मे पूर्णतरं च मे ऽक्षितिश् च मे कूयवाश् च मे ऽन्नं च मे ऽक्षुच् च मे व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे गोधूमाश् च मे मसुराश् च मे प्रियंगवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे ॥
me prabhu ca me bahu ca me bhūyaś ca me pūrṇaṃ ca me pūrṇataraṃ ca me 'kṣitiś ca me kūyavāś ca me 'nnaṃ ca me 'kṣuc ca me vrīhayaś ca me yavāś ca me māṣāś ca me tilāś ca me mudgāś ca me khalvāś ca me godhūmāś ca me masurāś ca me priyaṃgavaś ca me 'ṇavaś ca me śyāmākāś ca me nīvārāś ca me ||
TS 4 7.5.1
अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे ऽयश् च मे सीसं च मे त्रपुश् च मे श्यामं च मे लोहं च मे ऽग्निश् च म आपश् च मे वीरुधश् च म ओषधयश् च मे कृष्टपच्यं च
aśmā ca me mṛttikā ca me girayaś ca me parvatāś ca me sikatāś ca me vanaspatayaś ca me hiraṇyaṃ ca me 'yaś ca me sīsaṃ ca me trapuś ca me śyāmaṃ ca me lohaṃ ca me 'gniś ca ma āpaś ca me vīrudhaś ca ma oṣadhayaś ca me kṛṣṭapacyaṃ ca
TS 4 7.5.2
मे ऽकृष्टपच्यं च मे ग्राम्याश् च मे पशव आरण्याश् च यज्ञेन कल्पन्ताम् । वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म एमश् च म इतिश् च मे गतिश् च मे ॥
me 'kṛṣṭapacyaṃ ca me grāmyāś ca me paśava āraṇyāś ca yajñena kalpantām | vittaṃ ca me vittiś ca me bhūtaṃ ca me bhūtiś ca me vasu ca me vasatiś ca me karma ca me śaktiś ca me 'rthaś ca ma emaś ca ma itiś ca me gatiś ca me ||
TS 4 7.6.1
अग्निश् च म इन्द्रश् च मे सोमश् च म इन्द्रश् च मे सविता च म इन्द्रश् च मे सरस्वती च म इन्द्रश् च मे पूषा च म इन्द्रश् च मे बृहस्पतिश् च म इन्द्रश् च मे मित्रश् च म इन्द्रश् च मे वरुणश् च म इन्द्रश् च मे त्वष्टा च
agniś ca ma indraś ca me somaś ca ma indraś ca me savitā ca ma indraś ca me sarasvatī ca ma indraś ca me pūṣā ca ma indraś ca me bṛhaspatiś ca ma indraś ca me mitraś ca ma indraś ca me varuṇaś ca ma indraś ca me tvaṣṭā ca
TS 4 7.6.2
म इन्द्रश् च मे धाता च म इन्द्रश् च मे विष्णुश् च म इन्द्रश् च मे । अश्विनौ च म इन्द्रश् च मे मरुतश् च म इन्द्रश् च मे विश्वे च मे देवा इन्द्रश् च मे पृथिवी च म इन्द्रश् च मे । अन्तरिक्षम् च म इन्द्रश् च मे द्यौश् च म इन्द्रश् च मे दिशश् च म इन्द्रश् च मे मूर्धा च म इन्द्रश् च मे प्रजापतिश् च म इन्द्रश् च मे ॥
ma indraś ca me dhātā ca ma indraś ca me viṣṇuś ca ma indraś ca me | aśvinau ca ma indraś ca me marutaś ca ma indraś ca me viśve ca me devā indraś ca me pṛthivī ca ma indraś ca me | antarikṣam ca ma indraś ca me dyauś ca ma indraś ca me diśaś ca ma indraś ca me mūrdhā ca ma indraś ca me prajāpatiś ca ma indraś ca me ||
TS 4 7.7.1
अꣳशुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाꣳशुश् च मे ऽन्तर्यामश् च म ऐन्द्रवायवश् च मे मैत्रावरुणश् च म आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च म आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऋतुग्रहाश् च ॥
aṃśuś ca me raśmiś ca me 'dābhyaś ca me 'dhipatiś ca ma upāṃśuś ca me 'ntaryāmaś ca ma aindravāyavaś ca me maitrāvaruṇaś ca ma āśvinaś ca me pratiprasthānaś ca me śukraś ca me manthī ca ma āgrayaṇaś ca me vaiśvadevaś ca me dhruvaś ca me vaiśvānaraś ca ma ṛtugrahāś ca ||
TS 4 7.7.2
मे ऽतिग्राह्याश् च म ऐन्द्राग्नश् च मे वैश्वदेवश् च मे मरुत्वतीयाश् च मे महेन्द्रश् च म आदित्यश् च मे सावित्रश् च मे सारस्वतश् च मे पौष्णश् च मे पात्नीवतश् च मे हारियोजनश् च मे ॥
me 'tigrāhyāś ca ma aindrāgnaś ca me vaiśvadevaś ca me marutvatīyāś ca me mahendraś ca ma ādityaś ca me sāvitraś ca me sārasvataś ca me pauṣṇaś ca me pātnīvataś ca me hāriyojanaś ca me ||
TS 4 7.8.1
इध्मश् च मे बर्हिश् च मे वेदिश् च मे धिष्णियाश् च मे स्रुचश् च मे चमसाश् च मे ग्रावाणश् च मे स्वरवश् च म उपरवाश् च मे ऽधिषवणे च मे द्रोणकलशश् च मे वायव्यानि च मे पूतभृच् च म आधवनीयश् च म आग्नीध्रं च मे हविर्धानं च मे गृहाश् च मे सदश् च मे पुरोडाशाश् च मे पचताश् च मे ऽवभृथश् च मे स्वगाकारश् च मे ॥
idhmaś ca me barhiś ca me vediś ca me dhiṣṇiyāś ca me srucaś ca me camasāś ca me grāvāṇaś ca me svaravaś ca ma uparavāś ca me 'dhiṣavaṇe ca me droṇakalaśaś ca me vāyavyāni ca me pūtabhṛc ca ma ādhavanīyaś ca ma āgnīdhraṃ ca me havirdhānaṃ ca me gṛhāś ca me sadaś ca me puroḍāśāś ca me pacatāś ca me 'vabhṛthaś ca me svagākāraś ca me ||
TS 4 7.9.1
अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे शक्वरीर् अङ्गुलयो दिशश् च मे यज्ञेन कल्पन्ताम् ऋक् च मे साम च मे स्तोमश् च मे यजुश् च मे दीक्षा च मे तपश् च म ऋतुश् च मे व्रतं च मे ऽहोरात्रयोर् वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥
agniś ca me gharmaś ca me 'rkaś ca me sūryaś ca me prāṇaś ca me 'śvamedhaś ca me pṛthivī ca me 'ditiś ca me ditiś ca me dyauś ca me śakvarīr aṅgulayo diśaś ca me yajñena kalpantām ṛk ca me sāma ca me stomaś ca me yajuś ca me dīkṣā ca me tapaś ca ma ṛtuś ca me vrataṃ ca me 'horātrayor vṛṣṭyā bṛhadrathantare ca me yajñena kalpetām ||
TS 4 7.10.1
गर्भाश् च मे वत्साश् च मे त्र्यविश् च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश् च मे पञ्चावी च मे त्रिवत्सश् च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे पष्ठवाच् च मे पष्ठौही च मे । उक्षा च मे वशा च मे । ऋषभश् च
garbhāś ca me vatsāś ca me tryaviś ca me tryavī ca me dityavāṭ ca me dityauhī ca me pañcāviś ca me pañcāvī ca me trivatsaś ca me trivatsā ca me turyavāṭ ca me turyauhī ca me paṣṭhavāc ca me paṣṭhauhī ca me | ukṣā ca me vaśā ca me | ṛṣabhaś ca
TS 4 7.10.2
मे वेहच् च मे ऽनड्वाञ् च मे धेनुश् च मे । आयुर् यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् । व्यानो यज्ञेन कल्पताम् । चक्षुर् यज्ञेन कल्पताम् । श्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् । वाग् यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् । यज्ञो यज्ञेन कल्पताम् ॥
me vehac ca me 'naḍvāñ ca me dhenuś ca me | āyur yajñena kalpatām prāṇo yajñena kalpatām apāno yajñena kalpatām | vyāno yajñena kalpatām | cakṣur yajñena kalpatām | śrotraṃ yajñena kalpatām mano yajñena kalpatām | vāg yajñena kalpatām ātmā yajñena kalpatām | yajño yajñena kalpatām ||
TS 4 7.11.1
एका च मे तिस्रश् च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविꣳशतिश् च मे त्रयोविꣳशतिश् च मे पञ्चविꣳशतिश् च मे सप्तविꣳशतिश् च मे नवविꣳशतिश् च म एकत्रिꣳश्च् च मे त्रयस्त्रिꣳशच् च ॥
ekā ca me tisraś ca me pañca ca me sapta ca me nava ca ma ekādaśa ca me trayodaśa ca me pañcadaśa ca me saptadaśa ca me navadaśa ca ma ekaviṃśatiś ca me trayoviṃśatiś ca me pañcaviṃśatiś ca me saptaviṃśatiś ca me navaviṃśatiś ca ma ekatriṃśc ca me trayastriṃśac ca ||
TS 4 7.11.2
मे चतस्रश् च मे ऽष्टौ च मे द्वादश च मे षोडश च मे विꣳशतिश् च मे चतुर्विꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे द्वात्रिꣳशच् च मे षट्त्रिꣳशच् च मे चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे ऽष्टाचत्वारिꣳशच् च मे वाजश् च प्रसवश् चापिजश् च क्रतुश् च सुवश् च मूर्धा च व्यश्नियश् चाऽऽन्त्यायनश् चान्त्यश् च भौवनश् च भुवनश् चाधिपतिश् च ॥
me catasraś ca me 'ṣṭau ca me dvādaśa ca me ṣoḍaśa ca me viṃśatiś ca me caturviṃśatiś ca me 'ṣṭāviṃśatiś ca me dvātriṃśac ca me ṣaṭtriṃśac ca me catvāriṃśac ca me catuścatvāriṃśac ca me 'ṣṭācatvāriṃśac ca me vājaś ca prasavaś cāpijaś ca kratuś ca suvaś ca mūrdhā ca vyaśniyaś cā''ntyāyanaś cāntyaś ca bhauvanaś ca bhuvanaś cādhipatiś ca ||
TS 4 7.12.1
वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः । वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु ॥ विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । विश्वे नो देवा अवसा गमन्तु विश्वं अस्तु द्रविणं वाजो अस्मे ॥ वाजस्य प्रसवं देवा रथैर् याता हिरण्ययैः । अग्निर् इन्द्रो बृहस्पतिर् मरुतः सोमपीतये ॥ वाजेवाजे ऽवत वाजिनो नो धनेषु
vājo naḥ sapta pradiśaś catasro vā parāvataḥ | vājo no viśvair devair dhanasātāv ihāvatu || viśve adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ | viśve no devā avasā gamantu viśvaṃ astu draviṇaṃ vājo asme || vājasya prasavaṃ devā rathair yātā hiraṇyayaiḥ | agnir indro bṛhaspatir marutaḥ somapītaye || vājevāje 'vata vājino no dhaneṣu
TS 4 7.12.2
विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥ वाजः पुरस्ताद् उत मध्यतो नो वाजो देवाꣳ ऋतुभिः कल्पयाति । वाजस्य हि प्रसवो नंनमीति विश्वा आशा वाजपतिर् भवेयम् ॥ पयः पृथिव्याम् पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाम् । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ सम् मा सृजामि पयसा घृतेन सम् मा सृजाम्य् अप
viprā amṛtā ṛtajñāḥ | asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ || vājaḥ purastād uta madhyato no vājo devāṃ ṛtubhiḥ kalpayāti | vājasya hi prasavo naṃnamīti viśvā āśā vājapatir bhaveyam || payaḥ pṛthivyām paya oṣadhīṣu payo divyantarikṣe payo dhām | payasvatīḥ pradiśaḥ santu mahyam || sam mā sṛjāmi payasā ghṛtena sam mā sṛjāmy apa
TS 4 7.12.3
ओषधीभिः । सो ऽहं वाजꣳ सनेयम् अग्ने ॥ नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकꣳ समीची । द्यावा क्षामा रुक्मो अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाः ॥ समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहावस्युर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा ॥
oṣadhībhiḥ | so 'haṃ vājaṃ saneyam agne || naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī | dyāvā kṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodāḥ || samudro 'si nabhasvān ārdradānuḥ śambhūr mayobhūr abhi mā vāhi svāhā māruto 'si marutāṃ gaṇaḥ śambhūr mayobhūr abhi mā vāhi svāhāvasyur asi duvasvāñ chambhūr mayobhūr abhi mā vāhi svāhā ||
TS 4 7.13.1
अग्निं युनज्मि शवसा घृतेन दिव्यꣳ सुपर्णं वयसा बृहन्तम् । तेन वयम् पतेम ब्रध्नस्य विष्टपꣳ सुवो रुहाणा अधि नाक उत्तमे ॥ इमौ ते पक्षाव् अजरौ पतत्रिणो याभ्याꣳ रक्षाꣳस्य् अपहꣳस्य् अग्ने । ताभ्याम् पतेम सुकृताम् उ लोकं यत्रर्षयः प्रथमजा ये पुराणाः ॥ चिद् असि समुद्रयोनिर् इन्दुर् दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो भुरण्युर् महान्त् सधस्थे ध्रुव
agniṃ yunajmi śavasā ghṛtena divyaṃ suparṇaṃ vayasā bṛhantam | tena vayam patema bradhnasya viṣṭapaṃ suvo ruhāṇā adhi nāka uttame || imau te pakṣāv ajarau patatriṇo yābhyāṃ rakṣāṃsy apahaṃsy agne | tābhyām patema sukṛtām u lokaṃ yatrarṣayaḥ prathamajā ye purāṇāḥ || cid asi samudrayonir indur dakṣaḥ śyena ṛtāvā | hiraṇyapakṣaḥ śakuno bhuraṇyur mahānt sadhasthe dhruva
TS 4 7.13.2
आ निषत्तः ॥ नमस् ते अस्तु मा मा हिꣳसीर् विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः । समुद्रे ते हृदयम् अन्तर् आयुर् द्यावापृथिवी भुवनेष्व् अर्पिते ॥ उद्नो दत्तोदधिम् भिन्त्त दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत । दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् । विश्वायुः शर्म सप्रथा नमस् पथे ॥ येनर्षयस् तपसा सत्त्रम् ॥
ā niṣattaḥ || namas te astu mā mā hiṃsīr viśvasya mūrdhann adhi tiṣṭhasi śritaḥ | samudre te hṛdayam antar āyur dyāvāpṛthivī bhuvaneṣv arpite || udno dattodadhim bhintta divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata | divo mūrdhāsi pṛthivyā nābhir ūrg apām oṣadhīnām | viśvāyuḥ śarma saprathā namas pathe || yenarṣayas tapasā sattram ||
TS 4 7.13.3
आसतेन्धाना अग्निꣳ सुवर् आभरन्तः । तस्मिन्न् अहं नि दधे नाके अग्निम् एतं यम् आहुर् मनवः स्तीर्णबर्हिषम् ॥ तम् पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥ आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः । पृष्ठे पृथिव्या निहितो दविद्युतद् अधस्पदं कृणुते
āsatendhānā agniṃ suvar ābharantaḥ | tasminn ahaṃ ni dadhe nāke agnim etaṃ yam āhur manavaḥ stīrṇabarhiṣam || tam patnībhir anu gacchema devāḥ putrair bhrātṛbhir uta vā hiraṇyaiḥ | nākaṃ gṛhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ || ā vāco madhyam aruhad bhuraṇyur ayam agniḥ satpatiś cekitānaḥ | pṛṣṭhe pṛthivyā nihito davidyutad adhaspadaṃ kṛṇute
TS 4 7.13.4
ये पृतन्यवः ॥ अयम् अग्निर् वीरतमो वयोधाः सहस्रियो दीप्यताम् अप्रयुच्छन् । विभ्राजमानः सरिरस्य मध्य उप प्र यात दिव्यानि धाम ॥ सम् प्र च्यवध्वम् अनु सम् प्र याताग्ने पथो देवयानान् कृणुध्वम् । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥ येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह देवयानो य
ye pṛtanyavaḥ || ayam agnir vīratamo vayodhāḥ sahasriyo dīpyatām aprayucchan | vibhrājamānaḥ sarirasya madhya upa pra yāta divyāni dhāma || sam pra cyavadhvam anu sam pra yātāgne patho devayānān kṛṇudhvam | asmint sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdata || yenā sahasraṃ vahasi yenāgne sarvavedasam | tenemaṃ yajñaṃ no vaha devayāno ya
TS 4 7.13.5
उत्तमः ॥ उद् बुध्यस्वाग्ने प्रति जागृह्य् एनम् इष्टापूर्ते सꣳ सृजेथाम् अयं च । पुनः कृण्वꣳस् त्वा पितरं युवानम् अन्वाताꣳसीत् त्वयि तन्तुम् एतम् ॥ अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्न् अग्न आ रोहाथा नो वर्धया रयिम् ॥
uttamaḥ || ud budhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃ sṛjethām ayaṃ ca | punaḥ kṛṇvaṃs tvā pitaraṃ yuvānam anvātāṃsīt tvayi tantum etam || ayaṃ te yonir ṛtviyo yato jāto arocathāḥ | taṃ jānann agna ā rohāthā no vardhayā rayim ||
TS 4 7.14.1
ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तनुवम् पुषेम । मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥ मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुर् अग्निः । ममान्तरिक्षम् उरु गोपम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः । दैव्या होतारा वनिषन्त
mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanuvam puṣema | mahyaṃ namantām pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema || mama devā vihave santu sarva indrāvanto maruto viṣṇur agniḥ | mamāntarikṣam uru gopam astu mahyaṃ vātaḥ pavatāṃ kāme asmin || mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ | daivyā hotārā vaniṣanta
TS 4 7.14.2
पूर्वेऽरिष्टाः स्याम तनुवा सुवीराः ॥ मह्यं यजन्तु मम यानि हव्याऽऽकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता मे ॥ देवीः षड्उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥ अग्निर् मन्युम् प्रतिनुदन् पुरस्ता
pūrve'riṣṭāḥ syāma tanuvā suvīrāḥ || mahyaṃ yajantu mama yāni havyā''kūtiḥ satyā manaso me astu | eno mā ni gāṃ katamac canāhaṃ viśve devāso adhi vocatā me || devīḥ ṣaḍurvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam | mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan || agnir manyum pratinudan purastā
TS 4 7.14.3
दब्धो गोपाः परि पाहि नस् त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस् ते ऽमैषां चित्तम् प्रबुधा वि नेशत् ॥ धाता धातृणाम् भुवनस्य यस् पतिर् देवꣳ सवितारम् अभिमातिषाहम् । इमं यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं न्यर्थात् ॥ उरुव्यचा नो महिषः शर्म यꣳसद् अस्मिन् हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडयेन्द्र मा ॥
dabdho gopāḥ pari pāhi nas tvam | pratyañco yantu nigutaḥ punas te 'maiṣāṃ cittam prabudhā vi neśat || dhātā dhātṛṇām bhuvanasya yas patir devaṃ savitāram abhimātiṣāham | imaṃ yajñam aśvinobhā bṛhaspatir devāḥ pāntu yajamānaṃ nyarthāt || uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣu | sa naḥ prajāyai haryaśva mṛḍayendra mā ||
TS 4 7.14.4
नो रीरिषो मा परा दाः ॥ ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥ अर्वाञ्चम् इन्द्रम् अमुतो हवामहे यो गोजिद् धनजिद् अश्वजिद् यः । इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा ॥
no rīriṣo mā parā dāḥ || ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān | vasavo rudrā ādityā uparispṛśam mograṃ cettāram adhirājam akran || arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ | imaṃ no yajñaṃ vihave juṣasvāsya kurmo harivo medinaṃ tvā ||
TS 4 7.15.1
अग्नेर् मन्वे प्रथमस्य प्रचेतसो यम् पाञ्चजन्यम् बहवः समिन्धते । विश्वस्यां विशि प्रविविशिवाꣳसम् ईमहे स नो मुञ्चत्व् अꣳहसः ॥ यस्येदम् प्राणन् निमिषद् यद् एजति यस्य जातं जनमानं च केवलम् । स्तौम्य् अग्निं नाथितो जोहवीमि स नो मुञ्चत्व् अꣳहसः ॥ इन्द्रस्य मन्वे प्रथमस्य प्रचेतसो वृत्रघ्न स्तोमा उप माम् उपागुः । यो दाशुषः सुकृतो हवम् उप गन्ता
agner manve prathamasya pracetaso yam pāñcajanyam bahavaḥ samindhate | viśvasyāṃ viśi praviviśivāṃsam īmahe sa no muñcatv aṃhasaḥ || yasyedam prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam | staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ || indrasya manve prathamasya pracetaso vṛtraghna stomā upa mām upāguḥ | yo dāśuṣaḥ sukṛto havam upa gantā
TS 4 7.15.2
स नो मुञ्चत्व् अꣳहसः ॥ यः संग्रामं नयति सं वशी युधे यः पुष्टानि सꣳसृजति त्रयाणि । स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्व् अꣳहसः ॥ मन्वे वाम् मित्रावरुणा तस्य वित्तꣳ सत्यौजसा दृꣳहणा यं नुदेथे । या राजानꣳ सरथं याथ उग्रा ता नो मुञ्चतम् आगसः ॥ यो वाꣳ रथ ऋजुरश्मिः सत्यधर्मा मिथुश् चरन्तम् उपयाति दूषयन् । स्तौमि
sa no muñcatv aṃhasaḥ || yaḥ saṃgrāmaṃ nayati saṃ vaśī yudhe yaḥ puṣṭāni saṃsṛjati trayāṇi | staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ || manve vām mitrāvaruṇā tasya vittaṃ satyaujasā dṛṃhaṇā yaṃ nudethe | yā rājānaṃ sarathaṃ yātha ugrā tā no muñcatam āgasaḥ || yo vāṃ ratha ṛjuraśmiḥ satyadharmā mithuś carantam upayāti dūṣayan | staumi
TS 4 7.15.3
मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥ वायोः सवितुर् विदथानि मन्महे याव् आत्मन्वद् बिभृतो यौ च रक्षतः । यौ विश्वस्य परिभू बभूवतुस् तौ नो मुञ्चतम् आगसः ॥ उप श्रेष्ठा न आशिषो देवयोर् धर्मे अस्थिरन् । स्तौमि वायुꣳ सवितारं नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥ रथीतमौ रथीनाम् अह्व ऊतये शुभं गमिष्ठौ सुयमेभिर् अश्वैः । ययो
mitrāvaruṇā nāthito johavīmi tau no muñcatam āgasaḥ || vāyoḥ savitur vidathāni manmahe yāv ātmanvad bibhṛto yau ca rakṣataḥ | yau viśvasya paribhū babhūvatus tau no muñcatam āgasaḥ || upa śreṣṭhā na āśiṣo devayor dharme asthiran | staumi vāyuṃ savitāraṃ nāthito johavīmi tau no muñcatam āgasaḥ || rathītamau rathīnām ahva ūtaye śubhaṃ gamiṣṭhau suyamebhir aśvaiḥ | yayo
TS 4 7.15.4
र्वां देवौ देवेष्व् अनिशितम् ओजस् तौ नो मुञ्चतम् आगसः ॥ यद् अयातं वहतुꣳ सूर्यायास् त्रिचक्रेण सꣳसदम् इच्छमानौ । स्तौमि देवाव् अश्विनौ नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥ मरुताम् मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे । आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्व् एनसः ॥ तिग्मम् आयुधं वीडितꣳ सहस्वद् दिव्यꣳ शर्धः
rvāṃ devau deveṣv aniśitam ojas tau no muñcatam āgasaḥ || yad ayātaṃ vahatuṃ sūryāyās tricakreṇa saṃsadam icchamānau | staumi devāv aśvinau nāthito johavīmi tau no muñcatam āgasaḥ || marutām manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve | āśūn huve suyamān ūtaye te no muñcantv enasaḥ || tigmam āyudhaṃ vīḍitaṃ sahasvad divyaṃ śardhaḥ
TS 4 7.15.5
पृतनासु जिष्णु । स्तौमि देवान् मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥ देवानाम् मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे । आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्वेनसः ॥ यद् इदम् माभिशोचति पौरुषेयेण दैव्येन । स्तौमि विश्वान् देवान् नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥ अनु नो ऽद्यानुमतिर
pṛtanāsu jiṣṇu | staumi devān maruto nāthito johavīmi te no muñcantv enasaḥ || devānām manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve | āśūn huve suyamān ūtaye te no muñcantvenasaḥ || yad idam mābhiśocati pauruṣeyeṇa daivyena | staumi viśvān devān nāthito johavīmi te no muñcantv enasaḥ || anu no 'dyānumatira
TS 4 7.15.6
न्विदनुमते त्वम् । वैश्वानरो न ऊत्या पृष्ठो दिवि ये अप्रथेताम् अमितेभिर् ओजोभिर् ये प्रतिष्ठे अभवतां वसूनाम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अꣳहसः ॥ उर्वी रोदसी वरिवः कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रूयातम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अꣳहसः ॥ यत् ते वयम् पुरुषत्रा यविष्ठाविद्वाꣳसश् चकृमा कच्चना
nvidanumate tvam | vaiśvānaro na ūtyā pṛṣṭho divi ye aprathetām amitebhir ojobhir ye pratiṣṭhe abhavatāṃ vasūnām | staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ || urvī rodasī varivaḥ kṛṇotaṃ kṣetrasya patnī adhi no brūyātam | staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ || yat te vayam puruṣatrā yaviṣṭhāvidvāṃsaś cakṛmā kaccanā
TS 4 7.15.7
ऽऽगः । कृधी स्व् अस्माꣳ अदितेर् अनागा व्य् एनाꣳसि शिश्रथो विष्वग् अग्ने ॥ यथा ह तद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । एवा त्वम् अस्मत् प्र मुञ्चा व्य् अꣳहः प्रातार्य् अग्ने प्रतरां न आयुः ॥
''gaḥ | kṛdhī sv asmāṃ aditer anāgā vy enāṃsi śiśratho viṣvag agne || yathā ha tad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ | evā tvam asmat pra muñcā vy aṃhaḥ prātāry agne pratarāṃ na āyuḥ ||