Padma Purana — Srishti Khanda — Chapter 22
PdP 1 22.1
भीष्म उवाच भूर्लोकोथ भुवर्लोकः स्वर्लोकोथ महर्जनः तपः सत्यं च सप्तैते देवलोकाः प्रकीर्त्तिताः१ पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत् इहलोके शुभं रूपमायुरारोग्यमेव च २ लक्ष्मीश्च विपुला ब्रह्मन्कथं स्यात्सुरपूजित पुलस्त्य उवाच पुरा हुताशनः सार्द्धं मारुतेन महीतले ३ आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम् निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः ४ तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः विरोचनस्तु संह्रादः प्रयातास्ते तदा वसन् ५ अंतःसमुद्रमाविश्य सन्निवेशमकुर्वत अशक्ता इति तेप्यग्निमारुताभ्यामुपेक्षिताः ६ ततः प्रभृति वै देवान्मानुषान्स भुजंगमान् संपीड्य च मुनीन्सर्वान्प्रविशंति पुनर्जलम् ७ एवं युगसहस्राणि ते वीराः सप्त पंच च जलदुर्गबलाद्राजन्पीडयंति जगत्त्रयम् ८ ततः पुनरथो वह्निमारुतावमराधिपः आदिदेशाचिरादंबु निधिरेष विशोष्यताम्९ यस्मादस्मद्द्विषां चैष शरणं वरुणालयः तस्माद्भवद्भ्यामद्यैव शोषमेष प्रणीयताम्१० तावूचतुस्ततः शक्रं मयशम्बरसूदनम् अधर्म एष देवेंद्र सागरस्य विनाशनम्११ यस्माज्जीवनिकायस्य महतः संक्षयो भवेत् तस्मादुपायमन्यं तु समाश्रय पुरंदर१२ यस्य योजनमात्रेपि जीवकोटि शतानि च निवसंति सुरश्रेष्ठ स कथं नाशमर्हति१३ एवमुक्तः सुरेंद्रस्तु क्रोधसंरक्तलोचनः उवाचेदं वचो रोषादमरावग्निमारुतौ १४ न धर्माधर्मसंयोगं प्राप्नुवंत्यमराः क्वचित् भवंतौ तु विशेषेण महात्मानौ च तिष्ठतः १५ ममाज्ञा न कृता यस्मान्मारुतेन समं त्वया मुंनिव्रतपरो भूत्वा परिगृह्य कलेवरम्१६ धर्मार्थशास्त्ररहितां योनिं प्रति विभावसो तस्मादेकेन वपुषा मुनिरूपेण मानुषे १७ मारुतेन समं लोके तव जन्म भविष्यति यदा तु मानुषत्वेपि त्वया गंडूषशोषितः १८ भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि इतींद्रशापात्पतितौ तत्क्षणात्तौ महीतले १९ अवाप्तवंतौ देहे च कुंभाज्जन्म ततोभवत् मित्रावरुणयोर्वीर्याद्वसिष्ठश्चात्मजोभवत् २० ततोगस्त्य उग्रतपा बभूव मुनिसत्तमः अस्माद्भ्रातुः स वै भ्राता वसिष्ठस्यानुजो मुनिः२१ भीष्म उवाच कथं च मित्रावरुणौ पितरावस्य तौ स्मृतौ जन्म कुंभादगस्त्यस्य यथाभूत्तद्वदाधुना २२ पुलस्त्य उवाच पुरा पुराणपुरुषः कदाचिद्गंधमादने भूत्वा धर्मसुतो विष्णुश्चचार विपुलं तपः २३ तपसा चास्य भीतेन विघ्नार्थे प्रेषितावुभौ शक्रेण माधवानंगावप्सरोगणसंयुतौ २४ यदा च गीतवाद्येन भावहावादिना हरिः न काममाधवाभ्यां च मोहं नेतुमशक्यत २५ तदा काममधुस्त्रीणां विषादमभजद्गणः संक्षोभायत तस्तेषामूरुदेशान्नराग्रजः२६ नारीमुत्पादयामास त्रैलोक्यस्यापि मोहिनीम् संमोहितास्तया देवास्तौ तु चैव सुरावुभौ२७ अप्सराणां समक्षं हि देवानामब्रवीद्धरिः उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति२८ ततः कामयमानेन मित्रेणाहूयतोर्वशी प्रोक्ता मां रमयस्वेति बाढमित्यब्रवीच्च सा २९ गच्छंती तु ततः सूर्यलोकमिंदीवरेक्षणा वरुणेन वृता पश्चाद्वचनं तमभाषत ३० मित्रेणाहं वृता पूर्वं मम सूर्यः पतिः प्रभो उवाच वरुणश्चित्तं मयि संन्यस्य गम्यताम् ३१ गतायां बाढमित्युक्त्वा मित्रः शापमदादथ अद्यैव मानुषे लोके गच्छ सोमसुतात्मजम्३२ भजस्वेति यतो मिथ्या धर्म एष त्वया कृतः जलकुंभे ततो वीर्यं मित्रेण वरुणेन च ३३ प्रक्षिप्तमथ संजातौ द्वावेव मुनिसत्तमौ निमिर्नाम नृपः स्त्रीभिः पुरा द्यूतमदीव्यत ३४ तदंतरेभ्याजगाम वसिष्ठो ब्रह्मसंभवः तस्य पूजामकुर्वाणं शशाप स मुनिर्नृपम् ३५ विदेहस्त्वं भवस्वेति शप्तस्तेनाप्यसौ मुनिः अन्योन्यशापादुभयोर्विशरीरे तु तेजसी ३६ जग्मतुश्शापनाशाय ब्रह्माणं जगतः पतिम् अथ ब्रह्मसमादेशाल्लोचनेष्ववसन्निमिः ३७ निमेषाः स्युश्चलोकानां तद्विश्रामाय पार्थिव वसिष्ठोप्यभवत्तस्मिञ्जलकुंभे च पूर्ववत् ३८ ततो जातश्चतुर्बाहुः साक्षसूत्रकमंडलुः अगस्त्य इति शांतात्मा बभूव ऋषिसत्तमः३९ मलयस्यैकदेशे तु वैखानस विधानतः सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुष्करम् ४० ततः कालेन महता तारकादिनिपीडितम् जगद्वीक्ष्यसकोपेन पीतवान्वरुणालयम्४१ ततोस्य वरदास्सर्वे बभूवुः शंकरादयः ब्रह्माविष्णुश्च भगवान्वरदानाय जग्मतुः४२ वरं वृणीश्व भद्रं ते यश्चाभीष्टोत्र वै मुने अगस्त्य उवाच यावद्ब्रह्मसहस्राणां पंचविंशतिकोटयः४३ वैमानिको भविष्यामि दक्षिणांबरवर्त्मनि मद्विमानोदयात्कुर्याद्यः कश्चित्पूजनं मम ४४ स सप्तलोकाधिपतिः पर्यायेण भविष्यति यस्त्वाश्रमं पुष्करे तु मन्नाम्ना परिकीर्तयेत् ४५ स चैव पुण्यतां यातु वर एष वृतो मया श्राद्धं येऽत्र करिष्यंति पिंडपूर्वं तु भक्तितः४६ तेषां पितृगणास्सर्वे मया सह दिवि स्थिताः एतत्कालं वसिष्यंति एष एव वरो मम४७ एवमस्त्विति तेप्युक्त्वा जग्मुर्देवा यथागतम् तस्मादर्घः प्रदातव्यो ह्यगस्त्याय सदा बुधैः४८ भीष्म उवाच कथमर्घप्रदानं च कर्तव्यं तस्य वै मुनेः विधानं यदगस्त्यस्य पूजने तद्वदस्व मे ४९ पुलस्त्य उवाच प्रत्यूष समये विद्वान्कुर्यादस्योदये निशि स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्यांबरो गृही ५० 1.22.50 स्थापयेदव्रणं कुंभं माल्यवस्त्रविभूषितम् पंचरत्नसमायुक्तं घृतपात्रेणसंयुतम्५१ अंगुष्ठमात्रं पुरुषं तथैव सुवर्णमध्यायतबाहुदंडम् चतुर्भुजं कुंभमुखे निधाय धान्यानि सप्ताचलसंयुतानि५२ सकांस्यपात्राक्षतशुक्लयुक्तं मंत्रेण दद्याद्द्विजपुंगवाय उत्क्षिप्य कुंभोपरिदीर्घबाहुमनन्यचेता यमदिङ्मुखस्थम्५३ श्वेतां च दद्याद्यदिशक्तिरस्ति रौप्यैः खुरैर्हेममुखीं सवत्सां धेनुं नरः क्षीरवतीं प्रणम्य स्रग्वस्त्रघंटाभराणां द्विजाय५४ आसप्तरात्रादुदये नृपास्य दातव्यमेतत्सकलं नरेण यावत्समास्सप्तदशाथ वा स्युरथोर्द्ध्वमप्यत्र वदंति केचित्५५ काशपुष्पप्रतीकाश अग्निमारुतसंभव मित्रावरुणयोः पुत्र कुंभयोने नमोस्तु ते५६ प्रत्यब्दं च फलत्यागमेवं कुर्वन्नसीदति होमं कृत्वा ततः पश्चाद्वर्तयेन्मानवः फलम्५७ अनेनविधिना यस्तु पुमानर्घं निवेदयेत् अर्घ्य इमं लोकमवाप्नोति रूपारोग्यफलप्रदम्५८ द्वितीयेन भुवर्लोकं स्वर्लोकं च ततः परम् सप्तैव लोकानाप्नोति सप्तार्घान्यः प्रयच्छति५९ इति पठति शृणोति यो हि सम्यक्चरितमगस्त्यसमर्चनं च पश्येत् मतिमपि च ददाति सोपि विष्णोर्भवनगतः परिपूज्यतेमरौघैः६० भीष्म उवाच सौभाग्यारोग्यफलदममित्रक्षयकारकम् भुक्तिमुक्तिप्रदं यच्च तन्मे ब्रूहि महामते६१ पुलस्त्य उवाच यदुमाया पुरा देव उवाचांधकसूदनः कथासु संप्रवृत्तासु धर्म्यासु ललितासु च६२ तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम् गौर्युवाच दत्तः शापो हि सावित्र्या मह्यं लक्ष्म्यै सुरेश्वर६३ यथा लक्ष्मीप्रधानत्वमहं यामि तथा वद शंकर उवाच शुणुष्वावहिता देवि तथैवान्यत्स्वयंकृतम्६४ नराणामथ नारीणामाराधनमनुत्तमम् नभस्ये वाथ वैशाखे पुण्ये मार्गशिरस्यथ६५ शुक्लपक्षे तृतीयायां स्नातः स गौरसर्षपैः गोरोचनं सगोमूत्रं गोदुग्धं च घृतं तथा६६ दधिचंदनसंमिश्रं ललाटे तिलकं न्यसेत् सौभाग्यारोग्यकृद्यस्मात्सदा च ललिताप्रियम्६७ प्रतिपक्षं तृतीयायां पुमान्वापि सुवासिनी धारयेद्रक्तवस्त्राणि कुसुमानि सितानि च ६८ विधवा शुक्लवस्त्रं वै त्वेकमेव हि धारयेत् कुमारी शुक्ल सूक्ष्मे च परिदध्यात्तु वाससी ६९ देवीं च पंचगव्येन ततः क्षीरेण केवलं स्नापयेन्मधुना तद्वत्पुष्पगंधोदकेन तु७० पूजयेच्छुक्लपुष्पैस्तु फलैर्नानाविधैरपि धान्यलाजादिलवणगुडक्षीरघृतान्वितैः७१ शुक्लाक्षततिलैरर्चा कार्या देवि सदा त्वया पादयोरर्चनं कुर्यात्प्रतिपक्षं वरानने ७२ वरदायै नमः पादौ तथा गुल्फौ श्रियै नमः अशोकायै नमो जंघे पार्वत्यै जानुनी तथा ७३ ऊरू मांगल्यकारिण्यै वामदेव्यै तथा कटिम् पद्मोदरायै जठरं नमः कंठे श्रियै नमः७४ करौ सौभाग्यदायिन्यै बाहू च सुमुखश्रियै मुखं दर्पविनाशिन्यै स्मरदायै स्मितं पुनः७५ गौर्यै नमस्तथानासामुत्पलायै च लोचने तुष्ट्यै ललाटमलकं कात्यायन्यै नमः शिरः७६ नमो गोर्य्यै नमः पुष्ट्यै नमः कांत्यै नमः श्रियै रंभायै ललितायै च वामदेव्यै नमो नमः७७ एवं संपूज्य विधिवदग्रतः पद्ममालिखेत् पत्रैः षोडशभिर्युक्तं क्रमेणैव सकर्णिकम्७८ पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परम् भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परम्७९ विन्यसेत्पश्चिमे भागे सौम्यां मदनवासिनीम् वायव्ये पाटलामुग्रामुत्तरेण तथा उमाम्८० साध्यां पथ्यां तथा सौम्यां मंगलां कुमदां सतीम् भद्रां च मध्ये संस्थाप्य ललितां कर्णिकोपरि८१ कुसुमैरक्षताद्भिर्वा नमस्कारेण विन्यसेत् गीतमंगलघोषं च कारयित्वा सुवासिनीम्८२ पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः सिंदूरं स्नानचूर्णं च तासां शिरसि पातयेत्८३ सिंदूरं कुंकुमं स्नानमतीवेष्टं यतस्ततः तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम्८४ न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः जप्यैश्च पूजयेद्गौरीमुत्पलैरसितैः सदा८५ बंधुजीवैः प्रिये पूज्या कार्तिके मासि यत्नतः जातीपुष्पैर्मार्गशिरे पौषे पीतैः कुरंटकैः८६ कुंदैः कुमुदपुष्पैश्च देवीं माघेपि पूजयेत् सिंदुवारेण जात्या वा फाल्गुनेप्यर्चयेन्नरः८७ चैत्रे तु मल्लिकाशोकैर्वैशाखे गंधपाटलैः ज्येष्ठे कमलमंदारैराषाढे च जलांबुजैः८८ मंदारैरथ मालत्या श्रावणे पूजयेत्सदा गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्८९ बिल्वपत्रार्ककुसुमांबुज गोशृंगवारि च पंचगव्यं च बिल्वं च प्राशयेत्क्रमशः सदा९० एतद्भाद्रपदादौ तु प्राशनं समुदाहृतम् प्रतिपक्षं च मिथुनं तृतीयायां वरानने९१ भोजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः पुंसः पीतांबरे दद्यात्स्त्रियाः कौशेयवाससी९२ निष्पाव जीरलवणमिक्षुदंड गुडान्वितम् स्त्रियै दद्यात्फलं पुंसः सुवर्णोत्पलसंयुतम्९३ यथा न देवि देवस्त्वां संपरित्यज्य गच्छति तथा मामुद्धराशेष दुःखसंसारसागरात्९४ कुमुदा विमला नंदा भवानी वसुधा शिवा ललिता कमला गौरी सती रम्भाथ पार्वती९५ नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत् व्रतांते शयनं दद्यात्सुवर्णकमलान्वितम्९६ मिथुनानि चतुर्विशद्द्वादशाथ समर्चयेत् अष्टावष्टाथवा भूयश्चतुर्मासेथ वार्चयेत्९७ पूर्वं दत्वाथ गुरवे पश्चादन्यान्समर्चयेत् उक्तानन्ततृतीयैषा सदानंतफलप्रदा९८ सर्वपापहरा देवी सौभाग्यारोग्यवर्धिनी न चैनं वित्तशाठ्येन कदाचिदपि लंघयेत्९९ नरो वा यदि वा नारी सोपवासव्रतं चरेत् गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी१०० 1.22.100 यदाऽशुद्धा तदान्येन कारयेत्प्रयता स्वयम् इमामनंतफलदां यस्तृतीयां समाचरेत्१०१ कल्पकोटिशतं साग्रं शिवलोके महीयते वित्तहीनोपि कुर्वीत यावद्वर्षमुपोषणम्१०२ पुष्पमंत्रविधाने सोपि तत्फलमाप्नुयात् नारी वा कुरुते या तु आत्मनः शुभमिच्छती१०३ जन्मपौरुषमाप्नोति गौर्यनुग्रहकारितम् इति पठति शृणोति वा य इत्थं गिरितनयाव्रतमिंद्रलोकसंस्थः१०४ मतिमपि च ददाति योपि देवैरमरवधूजनकिन्नरैः स पूज्यः अन्यामपि प्रवक्ष्यामि तृतीयां पापनाशिनीम्१०५ रसकल्याणिनीमेतां पुराकल्पभवा विदुः माघेमासि तु संप्राप्य तृतीयां शुक्लपक्षतः१०६ प्रातर्गंधेन पयसा तिलैः स्नानं समाचरेत् स्नापयेन्मधुना देवीं तथैवेक्षुरसेन तु१०७ गंधोदकेन च पुनः पूजनं कुंकुमेन तु दक्षिणांगानि संपूज्य ततो वामानि पूजयेत्१०८ ललितायै पदं देव्यै वामगुल्फौ ततोर्चयेत् जंघे जानु तथा शांत्यै तथैवोरुं श्रियै नमः१०९ मदालसायै च कटिममलायै तथोदरम् स्तनौ मदनवासिन्यै कुमुदायै च कंधराम्११० भुजं भुजाग्रं माधव्यै कमलायै सुखस्मिते भ्रूललाटं च रुद्राण्यै शंकरायै तथालकं१११ मदनायै ललाटं तु मोहनायै पुनर्भ्रुवौ नेत्रे चंद्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः११२ उत्कंठिन्यै नमः कंठममृतायै नमस्तनुम् रंभायै च महाबाहू विशोकायै नमः करौ११३ हृदयं मन्मथाह्वायै पाटलायै तथोदरं कटिं सुरतवासिन्यै तथोरू पंकजश्रियै११४ जानुजंघे नमो गौर्यै गुल्फौ शांत्यै तथार्चयेत् धराधरायै पादौ तु विश्वकायै नमः शिरः११५ नमो भवान्यै कामिन्यै वासुदेव्यै जगच्छ्रियै आनंददायै नंदायै सुभद्रायै नमोनमः११६ एवं संपूज्य विधिवद्द्विजदांपत्यमर्चयेत् भोजयित्त्वा तथान्नेन मधुरेण विमत्सरः११७ समोदकं वारिकुंभं शुक्लांबरयुगद्वयं दत्त्वा सुवर्णकमलं गंधमाल्यैरथार्चयेत्११८ प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम् अनेन विधिना देवीं मासिमासि सदार्चयेत्११९ लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः नवनीतं तथा चैत्रे वर्ज्यं मधु च माधवे१२० पानीयं ज्येष्ठमासे तु तथाषाढे च जीरकं श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा१२१ घृतमाश्वयुजे तद्वदूर्जे वर्ज्यं च माक्षिकं धान्याकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा१२२ व्रतांते करकं पूर्णमेतेषां मासिमासि च दद्याद्विकालवेलायां भक्ष्यपात्रेण संयुतं१२३ विकाल लड्डुकास्सेवकाश्चैव संयावमथ पूरिका नारिका घृतपूर्णाश्च पिष्टपूर्णा च नंदिकी१२४ क्षीरशाकं च दध्यन्नं पिंडशाकं तथैव च माघादौ क्रमशो दद्यादेतानि करकोपरि१२५ कुमुदा माधवी रंभा सुभद्रा च शिवा जया ललिता कमलानंगा मंगला रति लालसा१२६ क्रमान्माघादिमासेषु प्रीयतामिति कीर्तयेत् सर्वत्र पंचगव्यं च प्राशनं समुदाहृतं१२७ उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते कुर्यादेवमिदं नारी रसकल्याणिनी व्रतं१२८ पुनर्माघे च संप्राप्ते शर्करा कलशोपरि कृत्वा तु कांचनीं गौरीं पंचरत्नसमन्वितां१२९ स्वकीयांगुष्ठमात्रं च साक्षसूत्रकमंडलुं चतुर्भुजामिंदुयुतां सितनेत्रपटावृतां१३० तद्वद्गोमिथुनं चैव सुवर्णस्य सितांबरं सवस्त्रं भाजनं दद्याद्भवानी प्रीयतामिति१३१ अनेनविधिना यस्तु रसकल्याणिनीव्रतं कुर्याच्च सर्वपापेभ्यस्तत्क्षणादेव मुच्यते१३२ भवानां च सहस्रं तु न दुःखी जायते क्वचित् अग्निष्टोमसहस्रेण यत्फलं तदवाप्नुयात्१३३ नारी वा कुरुते या तु कुमारी वा वरानने विधवा च वराकी वा सापि तत्फलभागिनी१३४ सौभाग्यारोग्यसंपन्ना गौरीलोके महीयते इति पठति य इत्थं यः शृणोति प्रसंगात् सकलकलुषमुक्तः पार्वतीलोकमेति१३५ मतिमपि च विधत्ते यो नराणां प्रियार्थं विबुधपतिजनानां लोकगः स्यादमोघः तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम्१३६ नाम्ना च लोकविख्यातामग्र्यानंदकरीमिमां यदा शुक्लतृतीयायामषाढर्क्षं भवेत्क्वचित्१३७ ब्रह्मर्क्षं वाथ च मघा हस्तो मूलमथापि वा दर्भगंधोदकैः स्नानं तदा सम्यक्समाचरेत्१३८ शुक्लमाल्यांबरधरः शुक्लगंधानुलेपनः भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगंधिभिः१३९ महादेवं च सकलमुपविष्टं महासने वासुदेव्यै नमः पादौ शंकरायै नमो हरेः१४० जंघेशोकविनाशिन्यै मानदायै नमः प्रभोः रंभायै पूजयेदूरू शिवाय च पिनाकिने१४१ आनंदिन्यै कटिं देव्याः शूलिनश्शूलपाणये माधव्यै च तथा नाभिमथ शंभोर्भवाय वै१४२ स्तनौ चानंदकारिण्यै शंकरस्येंदुधारिणे उत्कंठिन्यै नमः कंठं नीलकंठाय वै हरेः१४३ करावुत्पलधारिण्यै रुद्राय जगतः प्रभो बाहू च परिरंभिण्यै नृत्यप्रीताय वै हरेः१४४ देव्या मुखं विलासिन्यै वृषभाय पुनर्विभोः स्मितं च स्मरणीयायै विश्ववक्त्राय वै विभोः१४५ नेत्रे मंदारवासिन्यै विश्वधाम्ने त्रिशूलिनः भ्रुवौ नृत्यप्रियायै च शंभोर्वै पाशशूलिने१४६ देव्या ललाटमिंद्राण्यै वृषवाहाय वै विभोः स्वाहायै मकुटं देव्या विभो गंगाधराय वै१४७ विश्वकायौ विश्वभुजौ विश्वपादमुखौ शिवौ प्रसन्नवरदौ वंदे पार्वतीपरमेश्वरौ१४८ एवं संपूज्य विधिवदग्रतः शिवयोः पुनः पद्मोत्पलानि रजसा नानावर्णेन कारयेत्१४९ शंखचक्रे सकटके स्वस्तिकं शुभकारकम् यावंतः पांसवस्तत्र रजसः पतिता भुवि१५० 1.22.150 तावद्वर्षसहस्राणि शिवलोके महीयते चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः१५१ दत्वा द्विजाय करकमुदकेन समन्वितम् प्रतिपक्षं चतुर्मासं यावदेतान्निवेदयेत्१५२ ततस्तु चतुरो मासान्पूर्ववत्करकोपरि चत्वारि घृतपात्राणि तिलपात्राण्यंनंतरं१५३ गंधोदकं पुष्पवारि चंदनं कुङ्कुमोदकं अपक्वं दधिदुग्धं च गोशृंगोदकमेव च१५४ अब्दोदकं तथा वारिकुष्ठचूर्णान्वितं पुनः उशीरसलिलं चैव यवचूर्णोदकं पुनः१५५ तिलोदकं च संप्राश्यस्वपेन्मार्गशिरादिषु मासेषु पक्षद्वितयं प्राशनं समुदाहृतम्१५६ सर्वत्रशुक्लपुष्पाणिप्रशस्तानिसदार्चने दानकाले च सर्वत्र मंत्रमेतमुदीरयेत्१५७ गौरी मे प्रीयतां नित्यमघनाशाय मंगला सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये१५८ संवत्सरांते लवणं गुडकुंकुमसंयुतम् चंदनेनयुतं कुंभं सहस्वर्णांबुजेन च१५९ उमायाः प्रीतये हैमं तद्विदिक्षुफलैर्युतम् सास्तरावरणां शय्यां सविश्रामां निवेदयेत्१६० सपत्नीकाय विप्राय गौरी मे प्रीयतामिति आत्मानंदकरीं नाम प्राप्नुयात्संपदं नरः१६१ आयुरानंदसंपन्नो न क्वचिच्छोकमाप्नुयात् नारी वा कुरुते या तु कुमारी विधवा तथा१६२ सापि तत्फलमाप्नोति देव्यनुग्रहलालिता प्रतिपक्षमुपोष्यैवं मंत्रार्चनविधानतः१६३ रुद्राणां लोकमाप्नोति पुनरावृत्तिदुर्लभम् इमां यः शृणुयान्नित्यं श्रावयेद्वापि भक्तितः१६४ शक्रलोकं स गत्वा तु पूज्यते कल्पसंस्थितः शंकर उवाच एवंविधा भवति चेन्नारी व्रतपरायणा१६५ सावित्री तु वराकी सा तस्याः शापस्तु कीदृशः न काचिद्गणना चास्ति यतस्त्रैलोक्यसुंदरी१६६ सा पूर्वस्यापि वन्द्या च लक्ष्मीर्विष्णुप्रतिग्रहात् मया पूर्वं तवार्थाय दक्षयज्ञस्तु नाशितः१६७ लक्ष्म्यर्थं विष्णुना चापि वारिधिर्मथितः पुरा आज्ञाकरौ भवत्योश्च मा कुरुष्व भयं क्वचित्१६८ सावित्र्या मानना कार्या कुपितायाः प्रसादनम् मया च विष्णुना चैव ब्रह्मणा मानमीप्सुना१६९ गमिष्ये ब्रह्मसदनं त्वं च तिष्ठ वरानने एवमुक्त्वा गतो रुद्रो गौरी तत्र व्यवस्थिता१७० कृतं युगं समग्रं च यज्ञे तस्मिन्हुताशनः वहंस्तु हव्यं देवानां प्रीणयानो जगत्त्रयम्१७१ भोजनं द्विजमुख्येषु भोगान्विद्याधरे गणे कामावाप्तिं मनुष्येषु सर्वमेव ददौ प्रभुः१७२ रुद्रेणोक्तस्तदा विष्णुर्धर्मांस्ते त्वं प्रकीर्त्तय गौरीधर्मान्सरस्वत्या व्रतं यत्परिकीर्तितम्१७३ इत्येवमुक्ते रुद्रेण विष्णुः प्रोवाच सादरम् नाहं धर्मं ख्यापयिष्ये स्वकीयं शंकराधुना१७४ भवानाख्यातु माहात्म्यं मदीयं सुरसत्तम त्वया वै कथितं पूर्वं कृते वै पापसंक्षयः१७५ भविष्यति न संदेहो भवान्पूतो भविष्यति भीष्म उवाच मधुरा गीर्भवेत्केन व्रतेन मुनिसत्तम१७६ तथैव जनसौभाग्यं मतिर्विद्यासु कौशलम् अभेदश्चापि दांपत्ये संगो बंधुजनेन च१७७ आयुश्च विपुलं पुंसां तन्मे कथय सत्तम पुलस्त्य उवाच सम्यक्पृष्टं त्वया राजन्शृणु सारस्वतं व्रतम्१७८ यस्य संकीर्तनादेव देवी तुष्येत्सरस्वती यावद्भक्तः स्तवं कुर्यादेतद्व्रतमनुत्तमम्१७९ प्राग्वासरादौ संपूज्य दिव्यं स्तवं समारभेत् अथवा रविवारेण ग्रहताराबलेन च१८० पायसं भोजयेद्विप्रान्कुर्याद्ब्राह्मणवाचनम् शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः१८१ गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः यथा न देवि भगवान्ब्रह्मा लोकपितामहः१८२ त्वां परित्यज्य तिष्ठेच्च तथा भव वरप्रदा वेदशास्त्राणि धर्माणि नृत्यगीतादिकं च यत्१८३ न विहीनं त्वया देवि तथा मे संतु सिद्धयः लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिर्जया मतिः१८४ एताभिः पाहि चाष्टाभिमूर्तिभिर्मां सरस्वति एवं संपूज्य गायत्रीं वीणाकमलधारिणीम्१८५ शुक्लपुष्पाक्षतैर्भक्त्या सकमंडलु पुस्तकाम् मौनव्रतेन भुंजीत सायंप्रातश्च धर्मवित्१८६ पंचम्यां प्रतिपक्षं च गां च विप्राय शोभनाम् तथैव तंडुलप्रस्थं घृतपात्रेण संयुतम्१८७ क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामिति संध्यायां च तथा मौनमेतत्कुर्वन्समाचरेत्१८८ न रात्र्यां भोजनं कुर्याद्यावन्मासास्त्रयोदश दिव्यां वितानं घंटां च सितनेत्रपटान्विताम् चंदनं वस्त्रयुग्मं च दध्यन्नं सुरसं पुनः१९० अथोपदेष्टारमपि भक्त्या संपूजयेद्गुरुम् वित्तशाठ्येनरहितो वस्त्रमाल्यानुलेपनैः१९१ अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम् सौभाग्यमतियुक्तस्तु सूक्ष्मकंठश्च जायते१९२ सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते नारी वा कुरुते या तु सापि तत्फलभागिनी१९३ ब्रह्मलोके वसेद्राजन्यावत्कल्पायुत त्रयम् सारस्वतं व्रतं यस्तु शृणुयादपि वा पठेत्१९४ विद्याधरपुरे सोऽपि वसेदब्दायुतत्रयम्
bhīṣma uvāca bhūrlokotha bhuvarlokaḥ svarlokotha maharjanaḥ tapaḥ satyaṃ ca saptaite devalokāḥ prakīrttitāḥ1 paryāyeṇa tu sarveṣāmādhipatyaṃ kathaṃ bhavet ihaloke śubhaṃ rūpamāyurārogyameva ca 2 lakṣmīśca vipulā brahmankathaṃ syātsurapūjita pulastya uvāca purā hutāśanaḥ sārddhaṃ mārutena mahītale 3 ādiṣṭaḥ puruhūtena vināśāya suradviṣām nirdagdheṣu tatastena dānaveṣu sahasraśaḥ 4 tārakaḥ kamalākṣaśca kāladaṃṣṭraḥ parāvasuḥ virocanastu saṃhrādaḥ prayātāste tadā vasan 5 aṃtaḥsamudramāviśya sanniveśamakurvata aśaktā iti tepyagnimārutābhyāmupekṣitāḥ 6 tataḥ prabhṛti vai devānmānuṣānsa bhujaṃgamān saṃpīḍya ca munīnsarvānpraviśaṃti punarjalam 7 evaṃ yugasahasrāṇi te vīrāḥ sapta paṃca ca jaladurgabalādrājanpīḍayaṃti jagattrayam 8 tataḥ punaratho vahnimārutāvamarādhipaḥ ādideśācirādaṃbu nidhireṣa viśoṣyatām9 yasmādasmaddviṣāṃ caiṣa śaraṇaṃ varuṇālayaḥ tasmādbhavadbhyāmadyaiva śoṣameṣa praṇīyatām10 tāvūcatustataḥ śakraṃ mayaśambarasūdanam adharma eṣa deveṃdra sāgarasya vināśanam11 yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet tasmādupāyamanyaṃ tu samāśraya puraṃdara12 yasya yojanamātrepi jīvakoṭi śatāni ca nivasaṃti suraśreṣṭha sa kathaṃ nāśamarhati13 evamuktaḥ sureṃdrastu krodhasaṃraktalocanaḥ uvācedaṃ vaco roṣādamarāvagnimārutau 14 na dharmādharmasaṃyogaṃ prāpnuvaṃtyamarāḥ kvacit bhavaṃtau tu viśeṣeṇa mahātmānau ca tiṣṭhataḥ 15 mamājñā na kṛtā yasmānmārutena samaṃ tvayā muṃnivrataparo bhūtvā parigṛhya kalevaram16 dharmārthaśāstrarahitāṃ yoniṃ prati vibhāvaso tasmādekena vapuṣā munirūpeṇa mānuṣe 17 mārutena samaṃ loke tava janma bhaviṣyati yadā tu mānuṣatvepi tvayā gaṃḍūṣaśoṣitaḥ 18 bhaviṣyatyudadhirvahne tadā devatvamāpsyasi itīṃdraśāpātpatitau tatkṣaṇāttau mahītale 19 avāptavaṃtau dehe ca kuṃbhājjanma tatobhavat mitrāvaruṇayorvīryādvasiṣṭhaścātmajobhavat 20 tatogastya ugratapā babhūva munisattamaḥ asmādbhrātuḥ sa vai bhrātā vasiṣṭhasyānujo muniḥ21 bhīṣma uvāca kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau janma kuṃbhādagastyasya yathābhūttadvadādhunā 22 pulastya uvāca purā purāṇapuruṣaḥ kadācidgaṃdhamādane bhūtvā dharmasuto viṣṇuścacāra vipulaṃ tapaḥ 23 tapasā cāsya bhītena vighnārthe preṣitāvubhau śakreṇa mādhavānaṃgāvapsarogaṇasaṃyutau 24 yadā ca gītavādyena bhāvahāvādinā hariḥ na kāmamādhavābhyāṃ ca mohaṃ netumaśakyata 25 tadā kāmamadhustrīṇāṃ viṣādamabhajadgaṇaḥ saṃkṣobhāyata tasteṣāmūrudeśānnarāgrajaḥ26 nārīmutpādayāmāsa trailokyasyāpi mohinīm saṃmohitāstayā devāstau tu caiva surāvubhau27 apsarāṇāṃ samakṣaṃ hi devānāmabravīddhariḥ urvaśīti ca nāmneyaṃ loke khyātiṃ gamiṣyati28 tataḥ kāmayamānena mitreṇāhūyatorvaśī proktā māṃ ramayasveti bāḍhamityabravīcca sā 29 gacchaṃtī tu tataḥ sūryalokamiṃdīvarekṣaṇā varuṇena vṛtā paścādvacanaṃ tamabhāṣata 30 mitreṇāhaṃ vṛtā pūrvaṃ mama sūryaḥ patiḥ prabho uvāca varuṇaścittaṃ mayi saṃnyasya gamyatām 31 gatāyāṃ bāḍhamityuktvā mitraḥ śāpamadādatha adyaiva mānuṣe loke gaccha somasutātmajam32 bhajasveti yato mithyā dharma eṣa tvayā kṛtaḥ jalakuṃbhe tato vīryaṃ mitreṇa varuṇena ca 33 prakṣiptamatha saṃjātau dvāveva munisattamau nimirnāma nṛpaḥ strībhiḥ purā dyūtamadīvyata 34 tadaṃtarebhyājagāma vasiṣṭho brahmasaṃbhavaḥ tasya pūjāmakurvāṇaṃ śaśāpa sa munirnṛpam 35 videhastvaṃ bhavasveti śaptastenāpyasau muniḥ anyonyaśāpādubhayorviśarīre tu tejasī 36 jagmatuśśāpanāśāya brahmāṇaṃ jagataḥ patim atha brahmasamādeśāllocaneṣvavasannimiḥ 37 nimeṣāḥ syuścalokānāṃ tadviśrāmāya pārthiva vasiṣṭhopyabhavattasmiñjalakuṃbhe ca pūrvavat 38 tato jātaścaturbāhuḥ sākṣasūtrakamaṃḍaluḥ agastya iti śāṃtātmā babhūva ṛṣisattamaḥ39 malayasyaikadeśe tu vaikhānasa vidhānataḥ sabhāryaḥ saṃvṛto vipraistapaścakre suduṣkaram 40 tataḥ kālena mahatā tārakādinipīḍitam jagadvīkṣyasakopena pītavānvaruṇālayam41 tatosya varadāssarve babhūvuḥ śaṃkarādayaḥ brahmāviṣṇuśca bhagavānvaradānāya jagmatuḥ42 varaṃ vṛṇīśva bhadraṃ te yaścābhīṣṭotra vai mune agastya uvāca yāvadbrahmasahasrāṇāṃ paṃcaviṃśatikoṭayaḥ43 vaimāniko bhaviṣyāmi dakṣiṇāṃbaravartmani madvimānodayātkuryādyaḥ kaścitpūjanaṃ mama 44 sa saptalokādhipatiḥ paryāyeṇa bhaviṣyati yastvāśramaṃ puṣkare tu mannāmnā parikīrtayet 45 sa caiva puṇyatāṃ yātu vara eṣa vṛto mayā śrāddhaṃ ye'tra kariṣyaṃti piṃḍapūrvaṃ tu bhaktitaḥ46 teṣāṃ pitṛgaṇāssarve mayā saha divi sthitāḥ etatkālaṃ vasiṣyaṃti eṣa eva varo mama47 evamastviti tepyuktvā jagmurdevā yathāgatam tasmādarghaḥ pradātavyo hyagastyāya sadā budhaiḥ48 bhīṣma uvāca kathamarghapradānaṃ ca kartavyaṃ tasya vai muneḥ vidhānaṃ yadagastyasya pūjane tadvadasva me 49 pulastya uvāca pratyūṣa samaye vidvānkuryādasyodaye niśi snānaṃ śuklatilaistadvacchuklamālyāṃbaro gṛhī 50 1.22.50 sthāpayedavraṇaṃ kuṃbhaṃ mālyavastravibhūṣitam paṃcaratnasamāyuktaṃ ghṛtapātreṇasaṃyutam51 aṃguṣṭhamātraṃ puruṣaṃ tathaiva suvarṇamadhyāyatabāhudaṃḍam caturbhujaṃ kuṃbhamukhe nidhāya dhānyāni saptācalasaṃyutāni52 sakāṃsyapātrākṣataśuklayuktaṃ maṃtreṇa dadyāddvijapuṃgavāya utkṣipya kuṃbhoparidīrghabāhumananyacetā yamadiṅmukhastham53 śvetāṃ ca dadyādyadiśaktirasti raupyaiḥ khurairhemamukhīṃ savatsāṃ dhenuṃ naraḥ kṣīravatīṃ praṇamya sragvastraghaṃṭābharāṇāṃ dvijāya54 āsaptarātrādudaye nṛpāsya dātavyametatsakalaṃ nareṇa yāvatsamāssaptadaśātha vā syurathorddhvamapyatra vadaṃti kecit55 kāśapuṣpapratīkāśa agnimārutasaṃbhava mitrāvaruṇayoḥ putra kuṃbhayone namostu te56 pratyabdaṃ ca phalatyāgamevaṃ kurvannasīdati homaṃ kṛtvā tataḥ paścādvartayenmānavaḥ phalam57 anenavidhinā yastu pumānarghaṃ nivedayet arghya imaṃ lokamavāpnoti rūpārogyaphalapradam58 dvitīyena bhuvarlokaṃ svarlokaṃ ca tataḥ param saptaiva lokānāpnoti saptārghānyaḥ prayacchati59 iti paṭhati śṛṇoti yo hi samyakcaritamagastyasamarcanaṃ ca paśyet matimapi ca dadāti sopi viṣṇorbhavanagataḥ paripūjyatemaraughaiḥ60 bhīṣma uvāca saubhāgyārogyaphaladamamitrakṣayakārakam bhuktimuktipradaṃ yacca tanme brūhi mahāmate61 pulastya uvāca yadumāyā purā deva uvācāṃdhakasūdanaḥ kathāsu saṃpravṛttāsu dharmyāsu lalitāsu ca62 tadidānīṃ pravakṣyāmi bhuktimuktiphalapradam gauryuvāca dattaḥ śāpo hi sāvitryā mahyaṃ lakṣmyai sureśvara63 yathā lakṣmīpradhānatvamahaṃ yāmi tathā vada śaṃkara uvāca śuṇuṣvāvahitā devi tathaivānyatsvayaṃkṛtam64 narāṇāmatha nārīṇāmārādhanamanuttamam nabhasye vātha vaiśākhe puṇye mārgaśirasyatha65 śuklapakṣe tṛtīyāyāṃ snātaḥ sa gaurasarṣapaiḥ gorocanaṃ sagomūtraṃ godugdhaṃ ca ghṛtaṃ tathā66 dadhicaṃdanasaṃmiśraṃ lalāṭe tilakaṃ nyaset saubhāgyārogyakṛdyasmātsadā ca lalitāpriyam67 pratipakṣaṃ tṛtīyāyāṃ pumānvāpi suvāsinī dhārayedraktavastrāṇi kusumāni sitāni ca 68 vidhavā śuklavastraṃ vai tvekameva hi dhārayet kumārī śukla sūkṣme ca paridadhyāttu vāsasī 69 devīṃ ca paṃcagavyena tataḥ kṣīreṇa kevalaṃ snāpayenmadhunā tadvatpuṣpagaṃdhodakena tu70 pūjayecchuklapuṣpaistu phalairnānāvidhairapi dhānyalājādilavaṇaguḍakṣīraghṛtānvitaiḥ71 śuklākṣatatilairarcā kāryā devi sadā tvayā pādayorarcanaṃ kuryātpratipakṣaṃ varānane 72 varadāyai namaḥ pādau tathā gulphau śriyai namaḥ aśokāyai namo jaṃghe pārvatyai jānunī tathā 73 ūrū māṃgalyakāriṇyai vāmadevyai tathā kaṭim padmodarāyai jaṭharaṃ namaḥ kaṃṭhe śriyai namaḥ74 karau saubhāgyadāyinyai bāhū ca sumukhaśriyai mukhaṃ darpavināśinyai smaradāyai smitaṃ punaḥ75 gauryai namastathānāsāmutpalāyai ca locane tuṣṭyai lalāṭamalakaṃ kātyāyanyai namaḥ śiraḥ76 namo goryyai namaḥ puṣṭyai namaḥ kāṃtyai namaḥ śriyai raṃbhāyai lalitāyai ca vāmadevyai namo namaḥ77 evaṃ saṃpūjya vidhivadagrataḥ padmamālikhet patraiḥ ṣoḍaśabhiryuktaṃ krameṇaiva sakarṇikam78 pūrveṇa vinyasedgaurīmaparṇāṃ ca tataḥ param bhavānīṃ dakṣiṇe tadvadrudrāṇīṃ ca tataḥ param79 vinyasetpaścime bhāge saumyāṃ madanavāsinīm vāyavye pāṭalāmugrāmuttareṇa tathā umām80 sādhyāṃ pathyāṃ tathā saumyāṃ maṃgalāṃ kumadāṃ satīm bhadrāṃ ca madhye saṃsthāpya lalitāṃ karṇikopari81 kusumairakṣatādbhirvā namaskāreṇa vinyaset gītamaṃgalaghoṣaṃ ca kārayitvā suvāsinīm82 pūjayedraktavāsobhī raktamālyānulepanaiḥ siṃdūraṃ snānacūrṇaṃ ca tāsāṃ śirasi pātayet83 siṃdūraṃ kuṃkumaṃ snānamatīveṣṭaṃ yatastataḥ tathopadeṣṭāramapi pūjayedyatnato gurum84 na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ japyaiśca pūjayedgaurīmutpalairasitaiḥ sadā85 baṃdhujīvaiḥ priye pūjyā kārtike māsi yatnataḥ jātīpuṣpairmārgaśire pauṣe pītaiḥ kuraṃṭakaiḥ86 kuṃdaiḥ kumudapuṣpaiśca devīṃ māghepi pūjayet siṃduvāreṇa jātyā vā phālgunepyarcayennaraḥ87 caitre tu mallikāśokairvaiśākhe gaṃdhapāṭalaiḥ jyeṣṭhe kamalamaṃdārairāṣāḍhe ca jalāṃbujaiḥ88 maṃdārairatha mālatyā śrāvaṇe pūjayetsadā gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥ kuśodakam89 bilvapatrārkakusumāṃbuja gośṛṃgavāri ca paṃcagavyaṃ ca bilvaṃ ca prāśayetkramaśaḥ sadā90 etadbhādrapadādau tu prāśanaṃ samudāhṛtam pratipakṣaṃ ca mithunaṃ tṛtīyāyāṃ varānane91 bhojayitvārcayedbhaktyā vastramālyānulepanaiḥ puṃsaḥ pītāṃbare dadyātstriyāḥ kauśeyavāsasī92 niṣpāva jīralavaṇamikṣudaṃḍa guḍānvitam striyai dadyātphalaṃ puṃsaḥ suvarṇotpalasaṃyutam93 yathā na devi devastvāṃ saṃparityajya gacchati tathā māmuddharāśeṣa duḥkhasaṃsārasāgarāt94 kumudā vimalā naṃdā bhavānī vasudhā śivā lalitā kamalā gaurī satī rambhātha pārvatī95 nabhasyādiṣu māseṣu prīyatāmityudīrayet vratāṃte śayanaṃ dadyātsuvarṇakamalānvitam96 mithunāni caturviśaddvādaśātha samarcayet aṣṭāvaṣṭāthavā bhūyaścaturmāsetha vārcayet97 pūrvaṃ datvātha gurave paścādanyānsamarcayet uktānantatṛtīyaiṣā sadānaṃtaphalapradā98 sarvapāpaharā devī saubhāgyārogyavardhinī na cainaṃ vittaśāṭhyena kadācidapi laṃghayet99 naro vā yadi vā nārī sopavāsavrataṃ caret garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī100 1.22.100 yadā'śuddhā tadānyena kārayetprayatā svayam imāmanaṃtaphaladāṃ yastṛtīyāṃ samācaret101 kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate vittahīnopi kurvīta yāvadvarṣamupoṣaṇam102 puṣpamaṃtravidhāne sopi tatphalamāpnuyāt nārī vā kurute yā tu ātmanaḥ śubhamicchatī103 janmapauruṣamāpnoti gauryanugrahakāritam iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratamiṃdralokasaṃsthaḥ104 matimapi ca dadāti yopi devairamaravadhūjanakinnaraiḥ sa pūjyaḥ anyāmapi pravakṣyāmi tṛtīyāṃ pāpanāśinīm105 rasakalyāṇinīmetāṃ purākalpabhavā viduḥ māghemāsi tu saṃprāpya tṛtīyāṃ śuklapakṣataḥ106 prātargaṃdhena payasā tilaiḥ snānaṃ samācaret snāpayenmadhunā devīṃ tathaivekṣurasena tu107 gaṃdhodakena ca punaḥ pūjanaṃ kuṃkumena tu dakṣiṇāṃgāni saṃpūjya tato vāmāni pūjayet108 lalitāyai padaṃ devyai vāmagulphau tatorcayet jaṃghe jānu tathā śāṃtyai tathaivoruṃ śriyai namaḥ109 madālasāyai ca kaṭimamalāyai tathodaram stanau madanavāsinyai kumudāyai ca kaṃdharām110 bhujaṃ bhujāgraṃ mādhavyai kamalāyai sukhasmite bhrūlalāṭaṃ ca rudrāṇyai śaṃkarāyai tathālakaṃ111 madanāyai lalāṭaṃ tu mohanāyai punarbhruvau netre caṃdrārdhadhāriṇyai tuṣṭyai ca vadanaṃ punaḥ112 utkaṃṭhinyai namaḥ kaṃṭhamamṛtāyai namastanum raṃbhāyai ca mahābāhū viśokāyai namaḥ karau113 hṛdayaṃ manmathāhvāyai pāṭalāyai tathodaraṃ kaṭiṃ suratavāsinyai tathorū paṃkajaśriyai114 jānujaṃghe namo gauryai gulphau śāṃtyai tathārcayet dharādharāyai pādau tu viśvakāyai namaḥ śiraḥ115 namo bhavānyai kāminyai vāsudevyai jagacchriyai ānaṃdadāyai naṃdāyai subhadrāyai namonamaḥ116 evaṃ saṃpūjya vidhivaddvijadāṃpatyamarcayet bhojayittvā tathānnena madhureṇa vimatsaraḥ117 samodakaṃ vārikuṃbhaṃ śuklāṃbarayugadvayaṃ dattvā suvarṇakamalaṃ gaṃdhamālyairathārcayet118 prīyatāmatra kumudā gṛhṇīyāllavaṇavratam anena vidhinā devīṃ māsimāsi sadārcayet119 lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ navanītaṃ tathā caitre varjyaṃ madhu ca mādhave120 pānīyaṃ jyeṣṭhamāse tu tathāṣāḍhe ca jīrakaṃ śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā121 ghṛtamāśvayuje tadvadūrje varjyaṃ ca mākṣikaṃ dhānyākaṃ mārgaśīrṣe tu pauṣe varjyā ca śarkarā122 vratāṃte karakaṃ pūrṇameteṣāṃ māsimāsi ca dadyādvikālavelāyāṃ bhakṣyapātreṇa saṃyutaṃ123 vikāla laḍḍukāssevakāścaiva saṃyāvamatha pūrikā nārikā ghṛtapūrṇāśca piṣṭapūrṇā ca naṃdikī124 kṣīraśākaṃ ca dadhyannaṃ piṃḍaśākaṃ tathaiva ca māghādau kramaśo dadyādetāni karakopari125 kumudā mādhavī raṃbhā subhadrā ca śivā jayā lalitā kamalānaṃgā maṃgalā rati lālasā126 kramānmāghādimāseṣu prīyatāmiti kīrtayet sarvatra paṃcagavyaṃ ca prāśanaṃ samudāhṛtaṃ127 upavāsī bhavennityamaśaktau naktamiṣyate kuryādevamidaṃ nārī rasakalyāṇinī vrataṃ128 punarmāghe ca saṃprāpte śarkarā kalaśopari kṛtvā tu kāṃcanīṃ gaurīṃ paṃcaratnasamanvitāṃ129 svakīyāṃguṣṭhamātraṃ ca sākṣasūtrakamaṃḍaluṃ caturbhujāmiṃduyutāṃ sitanetrapaṭāvṛtāṃ130 tadvadgomithunaṃ caiva suvarṇasya sitāṃbaraṃ savastraṃ bhājanaṃ dadyādbhavānī prīyatāmiti131 anenavidhinā yastu rasakalyāṇinīvrataṃ kuryācca sarvapāpebhyastatkṣaṇādeva mucyate132 bhavānāṃ ca sahasraṃ tu na duḥkhī jāyate kvacit agniṣṭomasahasreṇa yatphalaṃ tadavāpnuyāt133 nārī vā kurute yā tu kumārī vā varānane vidhavā ca varākī vā sāpi tatphalabhāginī134 saubhāgyārogyasaṃpannā gaurīloke mahīyate iti paṭhati ya itthaṃ yaḥ śṛṇoti prasaṃgāt sakalakaluṣamuktaḥ pārvatīlokameti135 matimapi ca vidhatte yo narāṇāṃ priyārthaṃ vibudhapatijanānāṃ lokagaḥ syādamoghaḥ tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm136 nāmnā ca lokavikhyātāmagryānaṃdakarīmimāṃ yadā śuklatṛtīyāyāmaṣāḍharkṣaṃ bhavetkvacit137 brahmarkṣaṃ vātha ca maghā hasto mūlamathāpi vā darbhagaṃdhodakaiḥ snānaṃ tadā samyaksamācaret138 śuklamālyāṃbaradharaḥ śuklagaṃdhānulepanaḥ bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugaṃdhibhiḥ139 mahādevaṃ ca sakalamupaviṣṭaṃ mahāsane vāsudevyai namaḥ pādau śaṃkarāyai namo hareḥ140 jaṃgheśokavināśinyai mānadāyai namaḥ prabhoḥ raṃbhāyai pūjayedūrū śivāya ca pinākine141 ānaṃdinyai kaṭiṃ devyāḥ śūlinaśśūlapāṇaye mādhavyai ca tathā nābhimatha śaṃbhorbhavāya vai142 stanau cānaṃdakāriṇyai śaṃkarasyeṃdudhāriṇe utkaṃṭhinyai namaḥ kaṃṭhaṃ nīlakaṃṭhāya vai hareḥ143 karāvutpaladhāriṇyai rudrāya jagataḥ prabho bāhū ca pariraṃbhiṇyai nṛtyaprītāya vai hareḥ144 devyā mukhaṃ vilāsinyai vṛṣabhāya punarvibhoḥ smitaṃ ca smaraṇīyāyai viśvavaktrāya vai vibhoḥ145 netre maṃdāravāsinyai viśvadhāmne triśūlinaḥ bhruvau nṛtyapriyāyai ca śaṃbhorvai pāśaśūline146 devyā lalāṭamiṃdrāṇyai vṛṣavāhāya vai vibhoḥ svāhāyai makuṭaṃ devyā vibho gaṃgādharāya vai147 viśvakāyau viśvabhujau viśvapādamukhau śivau prasannavaradau vaṃde pārvatīparameśvarau148 evaṃ saṃpūjya vidhivadagrataḥ śivayoḥ punaḥ padmotpalāni rajasā nānāvarṇena kārayet149 śaṃkhacakre sakaṭake svastikaṃ śubhakārakam yāvaṃtaḥ pāṃsavastatra rajasaḥ patitā bhuvi150 1.22.150 tāvadvarṣasahasrāṇi śivaloke mahīyate catvāri ghṛtapātrāṇi sahiraṇyāni śaktitaḥ151 datvā dvijāya karakamudakena samanvitam pratipakṣaṃ caturmāsaṃ yāvadetānnivedayet152 tatastu caturo māsānpūrvavatkarakopari catvāri ghṛtapātrāṇi tilapātrāṇyaṃnaṃtaraṃ153 gaṃdhodakaṃ puṣpavāri caṃdanaṃ kuṅkumodakaṃ apakvaṃ dadhidugdhaṃ ca gośṛṃgodakameva ca154 abdodakaṃ tathā vārikuṣṭhacūrṇānvitaṃ punaḥ uśīrasalilaṃ caiva yavacūrṇodakaṃ punaḥ155 tilodakaṃ ca saṃprāśyasvapenmārgaśirādiṣu māseṣu pakṣadvitayaṃ prāśanaṃ samudāhṛtam156 sarvatraśuklapuṣpāṇipraśastānisadārcane dānakāle ca sarvatra maṃtrametamudīrayet157 gaurī me prīyatāṃ nityamaghanāśāya maṃgalā saubhāgyāyāstu lalitā bhavānī sarvasiddhaye158 saṃvatsarāṃte lavaṇaṃ guḍakuṃkumasaṃyutam caṃdanenayutaṃ kuṃbhaṃ sahasvarṇāṃbujena ca159 umāyāḥ prītaye haimaṃ tadvidikṣuphalairyutam sāstarāvaraṇāṃ śayyāṃ saviśrāmāṃ nivedayet160 sapatnīkāya viprāya gaurī me prīyatāmiti ātmānaṃdakarīṃ nāma prāpnuyātsaṃpadaṃ naraḥ161 āyurānaṃdasaṃpanno na kvacicchokamāpnuyāt nārī vā kurute yā tu kumārī vidhavā tathā162 sāpi tatphalamāpnoti devyanugrahalālitā pratipakṣamupoṣyaivaṃ maṃtrārcanavidhānataḥ163 rudrāṇāṃ lokamāpnoti punarāvṛttidurlabham imāṃ yaḥ śṛṇuyānnityaṃ śrāvayedvāpi bhaktitaḥ164 śakralokaṃ sa gatvā tu pūjyate kalpasaṃsthitaḥ śaṃkara uvāca evaṃvidhā bhavati cennārī vrataparāyaṇā165 sāvitrī tu varākī sā tasyāḥ śāpastu kīdṛśaḥ na kācidgaṇanā cāsti yatastrailokyasuṃdarī166 sā pūrvasyāpi vandyā ca lakṣmīrviṣṇupratigrahāt mayā pūrvaṃ tavārthāya dakṣayajñastu nāśitaḥ167 lakṣmyarthaṃ viṣṇunā cāpi vāridhirmathitaḥ purā ājñākarau bhavatyośca mā kuruṣva bhayaṃ kvacit168 sāvitryā mānanā kāryā kupitāyāḥ prasādanam mayā ca viṣṇunā caiva brahmaṇā mānamīpsunā169 gamiṣye brahmasadanaṃ tvaṃ ca tiṣṭha varānane evamuktvā gato rudro gaurī tatra vyavasthitā170 kṛtaṃ yugaṃ samagraṃ ca yajñe tasminhutāśanaḥ vahaṃstu havyaṃ devānāṃ prīṇayāno jagattrayam171 bhojanaṃ dvijamukhyeṣu bhogānvidyādhare gaṇe kāmāvāptiṃ manuṣyeṣu sarvameva dadau prabhuḥ172 rudreṇoktastadā viṣṇurdharmāṃste tvaṃ prakīrttaya gaurīdharmānsarasvatyā vrataṃ yatparikīrtitam173 ityevamukte rudreṇa viṣṇuḥ provāca sādaram nāhaṃ dharmaṃ khyāpayiṣye svakīyaṃ śaṃkarādhunā174 bhavānākhyātu māhātmyaṃ madīyaṃ surasattama tvayā vai kathitaṃ pūrvaṃ kṛte vai pāpasaṃkṣayaḥ175 bhaviṣyati na saṃdeho bhavānpūto bhaviṣyati bhīṣma uvāca madhurā gīrbhavetkena vratena munisattama176 tathaiva janasaubhāgyaṃ matirvidyāsu kauśalam abhedaścāpi dāṃpatye saṃgo baṃdhujanena ca177 āyuśca vipulaṃ puṃsāṃ tanme kathaya sattama pulastya uvāca samyakpṛṣṭaṃ tvayā rājanśṛṇu sārasvataṃ vratam178 yasya saṃkīrtanādeva devī tuṣyetsarasvatī yāvadbhaktaḥ stavaṃ kuryādetadvratamanuttamam179 prāgvāsarādau saṃpūjya divyaṃ stavaṃ samārabhet athavā ravivāreṇa grahatārābalena ca180 pāyasaṃ bhojayedviprānkuryādbrāhmaṇavācanam śuklavastrāṇi dattvā ca sahiraṇyāni śaktitaḥ181 gāyatrīṃ pūjayedbhaktyā śuklamālyānulepanaiḥ yathā na devi bhagavānbrahmā lokapitāmahaḥ182 tvāṃ parityajya tiṣṭhecca tathā bhava varapradā vedaśāstrāṇi dharmāṇi nṛtyagītādikaṃ ca yat183 na vihīnaṃ tvayā devi tathā me saṃtu siddhayaḥ lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭirjayā matiḥ184 etābhiḥ pāhi cāṣṭābhimūrtibhirmāṃ sarasvati evaṃ saṃpūjya gāyatrīṃ vīṇākamaladhāriṇīm185 śuklapuṣpākṣatairbhaktyā sakamaṃḍalu pustakām maunavratena bhuṃjīta sāyaṃprātaśca dharmavit186 paṃcamyāṃ pratipakṣaṃ ca gāṃ ca viprāya śobhanām tathaiva taṃḍulaprasthaṃ ghṛtapātreṇa saṃyutam187 kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti saṃdhyāyāṃ ca tathā maunametatkurvansamācaret188 na rātryāṃ bhojanaṃ kuryādyāvanmāsāstrayodaśa divyāṃ vitānaṃ ghaṃṭāṃ ca sitanetrapaṭānvitām caṃdanaṃ vastrayugmaṃ ca dadhyannaṃ surasaṃ punaḥ190 athopadeṣṭāramapi bhaktyā saṃpūjayedgurum vittaśāṭhyenarahito vastramālyānulepanaiḥ191 anena vidhinā yastu kuryātsārasvataṃ vratam saubhāgyamatiyuktastu sūkṣmakaṃṭhaśca jāyate192 sarasvatyāḥ prasādena brahmaloke mahīyate nārī vā kurute yā tu sāpi tatphalabhāginī193 brahmaloke vasedrājanyāvatkalpāyuta trayam sārasvataṃ vrataṃ yastu śṛṇuyādapi vā paṭhet194 vidyādharapure so'pi vasedabdāyutatrayam