Kalika Purana — Chapter 89
KaP 89.2
शरवर्षेण विजयं ववर्ष स सुदर्शनः। निवार्य शरवर्षेण विजयं तु सुदर्शनः
śaravarṣeṇa vijayaṃ vavarṣa sa sudarśanaḥ| nivārya śaravarṣeṇa vijayaṃ tu sudarśanaḥ
That Sudarśana rained upon Vijaya with a rain of arrows; and Sudarśana, warding off Vijaya with a rain of arrows...
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain
KaP 89.89
।।ऋषय ऊचुः।। संक्षेपतः सदाचारो विशेषो राजनीतिषु। श्रुतस्त्वद्वचनादौर्वः सगराय यथोक्तवान् विष्णुधर्मोत्तरे तन्त्रे बाहुल्यं सर्वतः पुनः। द्रष्टव्यस्तु सराचारो द्रष्टव्यास्ते प्रसादतः भूयो नः संशयो योऽस्ति तदनुक्तं त्वया पुरा। छिन्धि विप्रेन्द्र पृच्छामः परं कौतूहलं हि नः अपुत्रस्य गतिर्नास्ति श्रूयते वेदलोकयोः। वेतालभैरवौ यातौ पुरा वै तपसे गिरिम् पूर्वस्त्वकृतदरौ तौ तयोः पुत्रा न च श्रुताः। न जाता अथवा जाता यदि नाना द्विजोत्तम। तेषां तु सम्यगिच्छामि श्रोतुं स स्थानमुत्तमम् ।।मार्कण्डेय उवाच।। अपुत्रस्य गतिर्नास्ति निश्चितं चेति सत्तमाः। स्वपुत्रैर्भ्रातृपुत्रैर्वा पुत्रवन्तो हि स्वर्गताः जातापत्यौ च तौ विप्रा धीरौ वेतालभैरवौ। तयोर्वंशान् प्रवक्ष्यामि श्रृण्वन्तु च महर्षयः सम्यक् सिद्धिमवाप्यैव यदा वेतालभैरवौ। हरस्य मन्दिरं प्राप्तौ कैलासं प्रतिहर्षितौ तदा हरस्य वचनान्नन्दी तौ रहसि द्वजाः। प्राहेदं वचनं तथ्यं सान्त्वयन्निवं बोधकृत् ।।नन्द्युवाच।। अपुत्रौ पूत्रजनने भवन्तौ शङ्करात्मजौ। यततां जातपुत्रस्य सर्वत्र सुलभा गतिः पुन्नाम नरकं पुत्रविहीनः परिपश्यति। न तपोभिर्न धर्मेण तन्मोचयितुमीश्वरः केवलात् पुत्रजननात् तस्मान्मोक्षः प्रजायते। तदुत्पादयतां पुत्रं भवन्तौ देवयोनिषु अमर्त्यता तु युवयोः क्षोरपानादजायत। कात्यायन्यास्ततः पुत्रानमर्त्याः स्वसमा यतः तस्माद् यथा तथा पुत्रानुत्पाद्य सुरयोनिषु। प्रियौ भवन्तौ शिवयोर्भवनं न चिरादिति ।।मार्कण्डेय उवाच।। तस्येति वचनं श्रुत्वा नन्दिनः प्रीतमानसौ। एवमेव करिष्यावो नन्दिनं चेत्यभाषताम् ततस्तौ सततं कृत्वा नन्दिनौ वचनं हृदि। अचेष्टतां स्वपुत्रार्थे व्रजन्तौ तावितस्ततः अथैकदा भैरवोऽसौ उर्वशीमप्सरोवराम्। हिमवत्-पर्वतप्रस्थे ददर्श सुमनोहराम् अथ तां कामुको भूत्वा ययाचे सुरतोत्सवम्। वेश्याभावाच्च सुप्रीता सा यथेच्छमुवाच तम् ततस्तस्यां भैरवस्तु चकार सुरतोत्सवम्। प्रीतायामुर्वशीदेव्यां सुप्रीतोऽभूच्च केलिभिः सुप्रीतायामथोर्वश्यां तेजोंभिर्भैरवस्य तु। सद्योजातोऽभवत् पुत्रो बालसूर्यसमप्रभः तं तु पुत्र परित्यज्य ययौ स्वस्थानमुर्वशी। आदाय तनयं पश्चाद् भैरवः स्वपदं ययौ संस्कृत्य तनयं तं तु भैरवो मोदसंयुतः। सुवेशमिति तन्नाम चकार सगणाधिपः अथ तं जातवयसं शक्रसूर्यसमप्रभम्। विद्याधराधिपत्ये कु सुवेशमभ्यषेचयत् स तु विद्याधराध्यक्षस्तनयामतिसुन्दरीम्। येमे गन्धर्वराजस्य धृतराष्ट्राह्वयस्य च तस्यां तस्य सुतो जज्ञे रुरुर्न्नाम मनोहरः। रुरोस्तु तनयो बाहुर्मैनाक्यामभ्यजायत बाहोस्तु पुत्राश्चत्वारस्तपनोऽङ्गद ईश्वरः। कुमुदोऽभूत् कनीयांस्तु चार्वत्यां तु मनोहरः कुमदस्य सुतो जज्ञे देवसेनो महाबलः। स देवसेनः पृथिवीमवतीर्य मनोहरः मान्धातुर्यौ वनाश्वस्य तनयां केशिनीं मुहुः। वरयामास भार्यार्थे मृद्वङ्गीमप्सरः समाम् यौवनाश्वोऽपि मान्धाता शक्रस्य वचनाद् ददौ। केशिनीं तनयां स्वीयां देवसेनाय वाञ्छया केशिनीमुपयम्या देवसेनस्तया सह। वाराणस्यां शम्भुपुर्यां हरमाराधयच्छिवम् आराधितो हरः प्रीतस्तस्येष्टं प्रददौ वरम्। सोऽप्याददे हरात् तस्मादिष्टमेव वरत्रयम् यावच्च सूर्यो भविता तावत् स्थास्यति संततिः। अस्यामेव नगय्र्यां ये मद्वंशस्यापि राजता प्रसन्नो मम वंशे त्वं नित्यमेव भविष्यसि। इत्यादाय वरं सोऽपि देवसेनो महाकृती शङ्करस्य प्रसादेन चिरं तां बुभुजे पुरीम्। देवसेनोऽथ केशिन्यां जनयामास पुत्रकान् यूयं शृणुत सप्तैतान्नामतः कीर्तितांस्तथा। सुमना वसुदानश्च ऋतुघृग् यवनः कृती नीलो विवेकी ह्येते वै सर्वशास्त्रविशारदाः। सर्वे वंशकराः पुत्रा देवसेनस्य सत्तमाः अथ काले तु संप्राप्ते देवसेनोऽपि भार्यया। पुत्रेष राज्यं निःक्षिप्य यातो विद्याधरक्षयम् ततस्ते तस्य तनयाः कृत्वा सुतनसं नृपम्। वसुदानादयः सर्वे बुभुजुश्चोत्तमां श्रियम् जाताः सुमनसः पुत्रास्त्रयः शूरा महाबलाः। सुमतिश्च विरूपश्च सत्यः शास्त्रार्थपारगाः सुमतेरभवत् कन्या सुतः सत्यस्य डिण्डिमः। विरूपस्याभवद् गाधर्गाधेर्मित्रोऽभवत् सुतः तेषां कल्पोऽभवद्राजा कल्पातु तु विजयोऽभवत्। यो विजित्य क्षितिं सर्वां पार्थिवान् भूरितेजसः शक्रस्यानुमते चक्रे खाण्डवं शतयोजनम्। यत् सव्यसाची ह्यदहत् पाण्डुपुत्रः प्रतापवान्। आवहत् परमां प्रीतिं ज्वलनस्य महात्मनः ।।ऋषय ऊचु:।। कथं स खाण्डवं चक्रे विजयः शतयोजनम्। तद् वयं श्रोतुमिच्छामः कथयस्य तपोधन ।।मार्कण्डेय उवाच।। सोमवंशेऽभवद्राजा महाबलपराक्रमः। धीरः सुदर्शनो नाम चारुरूपः प्रतापवान् स वै हिमवतो नातिदूरे भङ्क्त्वा महावनम्। सिंहान् व्याघ्रान् समुत्सार्य क्वचिच्चापि तपोधनान् खाण्डवीं नाम नगरीमकरीत् तत्र शोभनाम्। त्रिंशद्योजन विस्तीर्णामायतां शतयोजनाम् उच्चप्राकारसंयुक्तां साट्टालम्बुदतोरणाम्। निम्नाभिरतिदीर्घाभिः परिखाभिः समावृताम् अघृष्यामपरैर्वीरैर्नानाजनसमावृताम्। दीर्घिकाभिश्चोपवनैर्बहुभिश्चाप्सरोगणैः आकीर्णां च तथारामैरुत्तमैरपि मानवैः। सोत्सवाः सततं यत्र जना देवान् दिवि स्थितान् स्पर्धन्ते स्म मुदा युक्ता आद्या-भोगसमन्विताः। स वै सुदर्शनो राजा खात्वा भूमिं विदार्य च गङ्गां कनखलां देवीं वाहयामास खाण्डवीम्। संप्लाव्याखाण्डवीमध्यं तेन खातैश्च वर्त्मभिः वक्रानुवक्रगा भूत्वा याति सीतां नदीं प्रति। स जित्वा सकलान् भूपान् वित्तान्याहृदय भूरिशः वशीचकार खाण्डव्यां मध्ये रत्नैरनेकशः। अन्येषां नगरेभ्यस्तु जनानानीय भूपतिः खाण्डव्यां वासयामास हठादपि सुदर्शनः। देवदानवगन्धर्वाञ् जित्वा जित्वा युधा कृती देववृक्षं देवरत्नं देवीं चापि तथौषधिम्। खाण्डव्यां रोपयामास स भूपालः सुदर्शनः विष्णुस्तोऽपि वै विष्णुर्नृपतिं तं सुदर्शनम्। कृतापकारं च बहुधा देवानां च तथा नृणाम् वाराणसीपतिं वीरं विजयं जयशालिनम्। युद्धाय कृतसाचिव्यं तद्वैरे समयोजयत् विजयो विवरं प्राप्य महाबलपराक्रमः। सुदर्शनस्य नृपतेरवस्कन्दमथाकरोत् नासहत् स ह्यवस्कन्दं विजयस्य सुदर्शनः। चतुरङ्गबलेनाशु युद्धायाभिमुखोऽभवत् विजयो रथमारुह्य नियोज्य चतुरङ्गिणीम्। ततः सुदर्शनं योद्धुं सम्मुखोऽभवदञ्जसा तदा महायुद्धमासीद्विजयेन महात्मना। सुदर्शनस्य नृपतेर्वृत्रवासवयोर्यथा सुदर्शनस्य सेनानां रुमण्वान्नाम वीर्यवान्। कांचनं रथमारुह्य विजयसंमुखोऽभ्ययात् अक्षौहिण्यस्तु सप्तास्य परिवार्य समन्ततः। व्यधमत्तां शत्रिसेनां यावतीमुद्यतायुधः विजयस्य च सेनानीः सञ्जयः स रिपुञ्जयः। नागानीकेन जग्राह रुमण्वन्तं ससैनिकम् तयोर्महदभूद् युद्धं सेनान्योर्वीरयोर्महत्। ववर्ष शरवर्षेण रुमण्वानथ संजयम् कुर्वंश्चापि महानादं गजं दृष्ट्वैव केशरी। रुमण्वानथ विशत्या बा णैर्विध्वाथ सञ्जयम् क्षुरप्रेण धनुस्तस्य चिच्छेद कृतहस्तवत। सोऽपि कार्मुकमादाय तदाऽन्यत् संजयस्त्रिभिः बाणैर्विव्याध भल्लेन धनुश्चिच्छेद तत्क्षणात्। शतान्यष्टौ च नागानां सहस्राणि च पंचषट् पत्तीनां वाजिनां त्रीणि सहस्राणि समन्ततः। संजयो निर्जघानाशु बाणवर्षैः सुदारुणैः अथान्यद् धनुरादाय रुमण्वान् कुपितो भृशम्। भल्लेन सारथेरस्य शिरः कायादपाहरत् हयांश्चास्य चतुर्भिंस्तु बाणैर्निन्ये यमक्षयम्। चतुरः पंचभिर्बाणैरविध्यच्चापि शञ्जयम् संजयोऽप्यतिवेगेन गदामादाय तत् क्षणात्। अवतीर्य रथोपस्थाद्रुमण्वन्तमधावत स धावन्तं सञ्जयं तं रुमण्वान् द्रुतहस्तवत्। शरवर्षेण सञ्छाद्य वारयामास संजयम् गदाया भ्रामणेनासौ निवार्य शरवर्षणम्। आससाद रुमण्वन्तं केसरीव महागजम् आसाद्य तां गदां गुर्वीमाविध्यातीव सञ्जयः। एकेनैव प्रहारेण सरथं तं व्यपोथयत् स पपात महावीरः पृथिव्यां गदया हतः। वज्रहतो यथा शालः प्रफुल्लो वनमध्यगः रुमण्वन्तं निपतितं दृष्ट्वा राजा सुदर्शनः। शोक-कोपसमाविष्टः सधूम इव पावकः जज्वालाकुलदेहोऽपि क्रोधेनातीव संयुतः। आरुह्य जवनैरश्वैर्युक्तं वैयाघ्रकृत्तिना रथं कांचन-चित्रांगं सिंहध्वज-विभूषितम्। आमुक्तो धनुरादाय विस्फार्य च पुनः पुनः ससैन्यः सञ्जयं राजा समाद्रवत वेगवान्। अथास्य निशितैः शस्त्रैः सेनामग्रगतां भृशम् न्यहनत् सकलां राजा मृगानिव मृगाधिपः। एकामक्षौहिणीमग्रगामिनीं विपुलौजसाम् क्रोशद्वयेन न्यहनत् तामंसीव दिवाकरः। हत्वा चाक्षोहिणीमेकामासाद्य संजयं नृपः बाणैः षष्ट्वा तु विव्याध ध्वजमेकेन चिच्छिदे। संजयोऽप्यथ विंशत्या हृदि विद्ध्वा सुदर्शनम् ललाटे त्वेकबाणेन प्राविध्यत् कृतहस्तवत्। क्षुरप्रेणास्य कोदण्डं छित्त्वा राज्ञः प्रतापवान् सारथिं दशभिर्बाणैः पुनर्विव्याध सञ्जयः। कोदण्डमन्यमादाय तदा राजा सुदर्शनः शरवर्षेण तीव्रेण ववर्षातीव सञ्जयम्। तयोर्महद्भूद् युद्धं मुनिविस्मयकारकम् शस्त्रैरस्त्रैर्भृशं तीक्ष्णैर्बलिवासवयोरिव। ततः सुदर्शनो राजा भल्लेनास्य दृढं धनुः चिच्छेद सारथिं चास्य जघान निशितैः शरैः। स्वयं संयम्य वाहान् स सञ्जयः परवीरहा धनुरन्यत् समादाय परिवार्य सुदर्शनम्। विव्याध दशभिर्बाणैर्धनुरप्यच्छिनद् दृढम् शरासनान्तरं राजा समादाय सुदर्शनः। सञ्जयस्य चतुर्वाहाञ्छरैर्निन्ये यमक्षयम् मुष्टौ धनुश्च चिच्छेद तं च विव्याध पंचभिः। विरथश्छिन्नवाहश्च सञ्जयः खड्गचर्मणी आदाय सम्मुखं राज्ञोऽभ्यद्रवत् कुपितो भृशम्। तस्य चापं ततः खड्गं क्षुरप्रेण सुदर्शनः द्विधा चिच्छेद भल्लेन चर्म चाप्यच्छिनत्तदा। अथ द्रुतं तदोपेत्य सञ्ञयः स्यन्दनोत्तमम् सुदर्शनस्य सूतं तु कराभ्यां पातयत् क्षितौ। रथाभ्याशे गतस्यास्य सञ्जयस्य सुदर्शनः शिरश्चिच्छेद खड्गेन ततोऽसौ न्यपतद् भुवि। स पपात तदा तस्य रथाभ्याशे महाबलः कृत्तः परशुनाऽरण्ये पुष्पितः शालवृक्षवत्। सञ्जयं पतितं दृष्ट्वा विजयः क्रोधमूर्च्छितः महता शङ्खनादेन नादयंस्तु नभःस्थलम्। रथेन स्वर्णचित्रेण व्याघ्रचर्मविराजिना केतुना वृषभेणाथ योजनार्धोच्छ्रितेन च। नादयन् ककुभः सर्वा रथौघपरिवेष्टितः विमुञ्चञ्छरवर्षाणि ससाद च सुदर्शनम्। आसाद्य तं नृपं भूपो विजयः परवीरहा हृदि विद्ध्वा त्रिभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत्। सुदर्शनोऽपि विजयं नदन्तं कुंजरोपमम् दशभिर्निशितैर्बाणैर्विद्ध्वा चिच्छेद तद्धनुः। अथैनं छिन्नधन्वानं जत्रुदेशे त्रिभिः शरैः निर्भिद्याथ महानादं ननाद स सुदर्शनः। सोऽन्यद्धनुः समादाय कंकपत्रैस्त्रिभिः शरैः विव्याध हृदये वीरो विजयोऽपि सुदर्शनम्। ततस्तन्नृपमुद्दिश्य महाशक्तिं सुदीपिताम् नागकन्यां कोपयुक्तां लेलिहानामिवातुलाम्। स्वर्णदण्डां सुतीक्ष्णाग्रां तैलधौतां सुनिर्मलाम् समुद्यम्याथाचिक्षेप विजयः शात्रवं प्रति। सुदर्शनस्य हृदयं सा शक्तिः प्रविवेश ह स विह्वलो रथोपस्थे ह्यधोवक्त्र उपाविशत्। तस्मिन् मोह-समापन्ने नृपतौ च सुदर्शने तस्याग्रतस्तथा पार्श्वे ये स्थितास्तत्र सैनिकाः। तान् सर्वानहनद्राजा क्षणमात्राद् द्विजोत्तमाः रथान् दशसहस्राणि तावन्त्येव च दन्तिनाम्। पंचविंशहस्राणि वाजिनां च तरस्विनाम् लक्षद्वयं तु पत्तीनां क्षणमात्रादपोथयत्। स तु लब्ध्वा ततः संज्ञां धनुरादाय वै दृढम् भल्लेन कार्मुकं सज्यं तस्य चिच्छेद तत्क्षणात्। सारथेस्तु शिरः कायाद् भल्लेनापाहरत् ततः हयांश्च चतुरश्चास्य प्रेषयामास मृत्यवे। अथैवं विरथं भूपं दशभिः कङ्कपत्रिभिः विव्याध हृदये भूयो ननाद च सुदर्शनः। स च्छिन्नधन्वा विरथो गदामादाय वेगवान् विजयो विजयाकाङ्क्षी सुदर्शनमधावत। आपतन्तं महावीरं बाणवर्षैः सुदर्शनः ववर्ष वर्षासु यथा वारिदः पृथिवीधरम्। विजयः शरवृष्टिं तां प्राच्छाद्य स्वशरेण वै गदया तं रथारूढमाससाद उत तत्क्षणात्। आसाद्य तं महावीर्यं विजयोऽथ सुदर्शनम् शीर्ष प्रहृत्य गदया पातयामास भूतले। गिरेः शृङ्गं यथा तुङ्गं वज्राशनिविदारितम् तथा सुदर्शनो राजा दारितो गदयाऽपतत्। तस्मिन्निपतिते वीरे सेनाभिस्तस्य सैनिकाः भयात् संप्राद्रवंस्तस्माद् दिशश्च प्रदिशस्तथा। नष्टेषु तस्य सैन्येषु विजयः खाण्डवीं पुरीम् प्रविश्य ददृशे तत्र राशीभूतान् गिरीनिव। सुवर्णानां च रत्नानां संचयान् बहुशः पुनः दृष्ट्वा सरांसि तत्रैष प्रफुल्लकमलानि च। हंसकारण्डवानादैर्नादितानि समन्ततः राशीन् सुवर्णरत्नानां पर्वतानिव विस्तृतान्। पुष्पितान् देववृक्षांश्च भ्रमद्भ्रमरभूषितान् प्रासादान् विपुलाञ्छुभ्रान् कैलाससदृशान् गजान्। प्रस्फुटांश्च सुगन्धाढ्यान् प्रतिगेहे व्यवस्थितान् उत्फुल्लनयनो राजा विजयः परवीरहा। मेनेऽमरावतीं तां तु पुरीम् क्षितिगतामिव तं वाक्षन्तं नरपतिं नगरीं तां सुरेश्वरः। समेत्य विजयं प्राह सान्त्वयन् श्लक्ष्णया गिरा ।।इन्द्र उवाच।। राजन् महावनमिदमासीद् देवगणावृतम्। त च्च गन्धर्वयक्षाणां मुनीनां च मनोहरम् सर्वानुत्सार्य देवादीन् मम चाप्यप्रिये रतः। भङ्क्त्वा वनमिदं गुह्यमुत्साद्य च तपोधनम् खाण्डवीं नगरीं चक्रे हठाद्राजा सुदर्शनः। तदिदं पुनरेव त्वं वनं कुरु नरोत्तम तत्राहं विहरिष्यामि तक्षकेण समं रहः। मुनीनां च तपः स्थानमतुलं ते प्रसादतः। भविष्यति च यक्षाणां किन्नराणां च पार्थिव ।।मार्कण्डेय उवाच।। एतच्छ्रत्वा वचस्तस्य शक्रस्य विजयस्तदा। वनमेवाकरोत् तान्तं खाण्डवी शक्रगौरवात् गच्छन्तु भो यथास्थानं प्रजाः सर्वा यथच्छया। येषां वाञ्छास्ति लोकानां मद्राज्यगमने पुनः वाराणसीं ते गच्छन्तु मयैव प्रतिपालिताम्। ततस्तस्य वचः श्रुत्वा जनाः केचिन्निजास्पदम् जग्मुर्वाराणसीं केचिद् विजयेनाभिपालिताम्। ततो धनानां तान् राशीन् रत्नानां च पृथक् पृथक् मणीनां कनकानां च कुप्यानां विजयस्तथा। विविधैर्वारयामास पुरीं वारणसीं प्रति गन्धर्वाणां च देवानां यदानीतं हठात् पुरा। रत्नदार्वादिकं यत् तु विजयं तत् प्रसाद्य च तैस्तैर्नीतं च खाण्डव्याः स्वस्थानं प्रतिहर्षितैः। त्रिंशद्योजनविस्तीर्णां शतयोजनमायताम् तां पुरीं विजयश्चक्रे नचिरादेव वै वनम्। तस्मिञ्छक्रस्य सम्मत्या तक्षकः सहितो गणैः उवास सुचिरं तत्र ततोऽभून्निर्जनं वनम्। तत्र देवाः सगन्धर्वाः क्रीडन्तेऽप्सरसां गणाः आशंसन्तश्च विजयं रणेषु विजयावहम्। प्राप्तेऽष्टाविंशतितमे युगे द्वापरशेषतः वह्निर्ब्राह्मणरूपेण भिक्षां जिष्णुममाचत। दातुमङ्गीकृते भिक्षां तदा पाण्डुसुतेन वै वह्निः स्वरूपमास्थाय जिष्णुं वचनमब्रवीत्। अहमग्निः पाण्डुपुत्र यज्ञभागातिभोजनात् व्याधितोऽहं ततो व्याधिं मम त्वं नाशयाधुना। खाण्डवं नाम विपिनं सपत्रिमृगराक्षसम् यदि त्वं मां भोजयितुं शक्रोषि श्वेतवाहन। तदा मम ह्यसौ व्याधिरपयास्यति नो चिरात् पुरा तु विजयो राजा खाण्डवीं नाम तां पुरीम्। भङ्क्त्वा वन यतश्चक्रे तेन तत् खाण्डवं वनम् मदर्थं देवविहितं वनं तु श्वेतवाहन। विरोधात् तत् तु शक्रस्य न स्वयं भोक्तुमुत्सहे तस्मात् त्राहि महाभाग वने तस्मिन्नियोजय। यथाहं सकलं भोक्तुं शक्नोमि तत्प्रसादतः तस्य तद्वचनं श्रुत्वा सव्यसाची महाबलः। दाहयामास विपिनं तत्सर्वं प्राणिसंयुतम् देवकीतनयेनासौ वासुदेवेन पालितः। खाण्डवं दाहयामास ज्वलनस्य हिते रतः सुप्रीतः प्रददौ तस्मादर्जुनाय महात्मने। वह्निर्धनुश्च गाण्डीवं वारुणं देवनिर्मितम् अक्षय्ये चेषुधी दिव्ये रुपाढ्यांश्चतुरो हयान्। हनुमताधिष्ठितं तु महान्तं वानरध्वजम् खड्गं च त्रिशिखं तीक्ष्णं दहनः सव्यसाचिने। नीरोगश्चाभवद् वह्निस्तथा जिष्णुप्रसादतः तैर्बाणैस्तन धनुषा तेन खड्गेन केतुना। तदश्वस्यन्दनेनापि विजिग्ये फाल्गुनो रिपून् एवं भैरववंशेषु सञ्जातो विजयो नृपः। खाण्डवं नाम विपिनं चकार सुमहाकृती विजयस्य सुता जातास्त्रयोदश महाबलाः। द्युतिमान् सौम्यदर्शी च भूरिः प्रद्युम्न एव च क्रतुस्तुण्डो विरूपाक्षो विक्रान्तोऽथ धनंजयः। प्रहर्षः प्रबलः केतुस्तथोपरिचरोऽपरः एषां राजाऽभवद् वीरः शेषोपरिचरस्तु यः। वाराणस्यां नगर्यां यो यज्ञलक्षं पुराऽकरोत् लक्षयज्ञकरः कोऽपि नासीन्नापि भविष्यति। राजा क्षितौ महाभागो यथोपरिचरस्तथा एषां सूतिप्रसूतैश्च व्याप्तं सर्वमिदं जगत्। चिरेण तान् कः संख्यातुं शक्नोति भुवि मानुषः क्रमाद् भैरववंशेन व्याप्तं लोकत्रयं त्विदम्। एतद् वः कथितं विप्राः सन्तानं भैरवस्य तु येषां श्रुत्वा कथामात्रं नापुत्रो जायते नरः। इदं यः कीर्तयेत् पुण्यं चरितं विजयस्य तु सततं विजयस्तस्य जायते न पराभवः। एकाग्रमनसा यस्तु श्रृणुयादिदमुत्तमम्। तस्य वंशस्य विच्छेदो न कदाचिद् भविष्यति
||ṛṣaya ūcuḥ|| saṃkṣepataḥ sadācāro viśeṣo rājanītiṣu| śrutastvadvacanādaurvaḥ sagarāya yathoktavān viṣṇudharmottare tantre bāhulyaṃ sarvataḥ punaḥ| draṣṭavyastu sarācāro draṣṭavyāste prasādataḥ bhūyo naḥ saṃśayo yo'sti tadanuktaṃ tvayā purā| chindhi viprendra pṛcchāmaḥ paraṃ kautūhalaṃ hi naḥ aputrasya gatirnāsti śrūyate vedalokayoḥ| vetālabhairavau yātau purā vai tapase girim pūrvastvakṛtadarau tau tayoḥ putrā na ca śrutāḥ| na jātā athavā jātā yadi nānā dvijottama| teṣāṃ tu samyagicchāmi śrotuṃ sa sthānamuttamam ||mārkaṇḍeya uvāca|| aputrasya gatirnāsti niścitaṃ ceti sattamāḥ| svaputrairbhrātṛputrairvā putravanto hi svargatāḥ jātāpatyau ca tau viprā dhīrau vetālabhairavau| tayorvaṃśān pravakṣyāmi śrṛṇvantu ca maharṣayaḥ samyak siddhimavāpyaiva yadā vetālabhairavau| harasya mandiraṃ prāptau kailāsaṃ pratiharṣitau tadā harasya vacanānnandī tau rahasi dvajāḥ| prāhedaṃ vacanaṃ tathyaṃ sāntvayannivaṃ bodhakṛt ||nandyuvāca|| aputrau pūtrajanane bhavantau śaṅkarātmajau| yatatāṃ jātaputrasya sarvatra sulabhā gatiḥ punnāma narakaṃ putravihīnaḥ paripaśyati| na tapobhirna dharmeṇa tanmocayitumīśvaraḥ kevalāt putrajananāt tasmānmokṣaḥ prajāyate| tadutpādayatāṃ putraṃ bhavantau devayoniṣu amartyatā tu yuvayoḥ kṣorapānādajāyata| kātyāyanyāstataḥ putrānamartyāḥ svasamā yataḥ tasmād yathā tathā putrānutpādya surayoniṣu| priyau bhavantau śivayorbhavanaṃ na cirāditi ||mārkaṇḍeya uvāca|| tasyeti vacanaṃ śrutvā nandinaḥ prītamānasau| evameva kariṣyāvo nandinaṃ cetyabhāṣatām tatastau satataṃ kṛtvā nandinau vacanaṃ hṛdi| aceṣṭatāṃ svaputrārthe vrajantau tāvitastataḥ athaikadā bhairavo'sau urvaśīmapsarovarām| himavat-parvataprasthe dadarśa sumanoharām atha tāṃ kāmuko bhūtvā yayāce suratotsavam| veśyābhāvācca suprītā sā yathecchamuvāca tam tatastasyāṃ bhairavastu cakāra suratotsavam| prītāyāmurvaśīdevyāṃ suprīto'bhūcca kelibhiḥ suprītāyāmathorvaśyāṃ tejoṃbhirbhairavasya tu| sadyojāto'bhavat putro bālasūryasamaprabhaḥ taṃ tu putra parityajya yayau svasthānamurvaśī| ādāya tanayaṃ paścād bhairavaḥ svapadaṃ yayau saṃskṛtya tanayaṃ taṃ tu bhairavo modasaṃyutaḥ| suveśamiti tannāma cakāra sagaṇādhipaḥ atha taṃ jātavayasaṃ śakrasūryasamaprabham| vidyādharādhipatye ku suveśamabhyaṣecayat sa tu vidyādharādhyakṣastanayāmatisundarīm| yeme gandharvarājasya dhṛtarāṣṭrāhvayasya ca tasyāṃ tasya suto jajñe rururnnāma manoharaḥ| rurostu tanayo bāhurmainākyāmabhyajāyata bāhostu putrāścatvārastapano'ṅgada īśvaraḥ| kumudo'bhūt kanīyāṃstu cārvatyāṃ tu manoharaḥ kumadasya suto jajñe devaseno mahābalaḥ| sa devasenaḥ pṛthivīmavatīrya manoharaḥ māndhāturyau vanāśvasya tanayāṃ keśinīṃ muhuḥ| varayāmāsa bhāryārthe mṛdvaṅgīmapsaraḥ samām yauvanāśvo'pi māndhātā śakrasya vacanād dadau| keśinīṃ tanayāṃ svīyāṃ devasenāya vāñchayā keśinīmupayamyā devasenastayā saha| vārāṇasyāṃ śambhupuryāṃ haramārādhayacchivam ārādhito haraḥ prītastasyeṣṭaṃ pradadau varam| so'pyādade harāt tasmādiṣṭameva varatrayam yāvacca sūryo bhavitā tāvat sthāsyati saṃtatiḥ| asyāmeva nagayryāṃ ye madvaṃśasyāpi rājatā prasanno mama vaṃśe tvaṃ nityameva bhaviṣyasi| ityādāya varaṃ so'pi devaseno mahākṛtī śaṅkarasya prasādena ciraṃ tāṃ bubhuje purīm| devaseno'tha keśinyāṃ janayāmāsa putrakān yūyaṃ śṛṇuta saptaitānnāmataḥ kīrtitāṃstathā| sumanā vasudānaśca ṛtughṛg yavanaḥ kṛtī nīlo vivekī hyete vai sarvaśāstraviśāradāḥ| sarve vaṃśakarāḥ putrā devasenasya sattamāḥ atha kāle tu saṃprāpte devaseno'pi bhāryayā| putreṣa rājyaṃ niḥkṣipya yāto vidyādharakṣayam tataste tasya tanayāḥ kṛtvā sutanasaṃ nṛpam| vasudānādayaḥ sarve bubhujuścottamāṃ śriyam jātāḥ sumanasaḥ putrāstrayaḥ śūrā mahābalāḥ| sumatiśca virūpaśca satyaḥ śāstrārthapāragāḥ sumaterabhavat kanyā sutaḥ satyasya ḍiṇḍimaḥ| virūpasyābhavad gādhargādhermitro'bhavat sutaḥ teṣāṃ kalpo'bhavadrājā kalpātu tu vijayo'bhavat| yo vijitya kṣitiṃ sarvāṃ pārthivān bhūritejasaḥ śakrasyānumate cakre khāṇḍavaṃ śatayojanam| yat savyasācī hyadahat pāṇḍuputraḥ pratāpavān| āvahat paramāṃ prītiṃ jvalanasya mahātmanaḥ ||ṛṣaya ūcu:|| kathaṃ sa khāṇḍavaṃ cakre vijayaḥ śatayojanam| tad vayaṃ śrotumicchāmaḥ kathayasya tapodhana ||mārkaṇḍeya uvāca|| somavaṃśe'bhavadrājā mahābalaparākramaḥ| dhīraḥ sudarśano nāma cārurūpaḥ pratāpavān sa vai himavato nātidūre bhaṅktvā mahāvanam| siṃhān vyāghrān samutsārya kvaciccāpi tapodhanān khāṇḍavīṃ nāma nagarīmakarīt tatra śobhanām| triṃśadyojana vistīrṇāmāyatāṃ śatayojanām uccaprākārasaṃyuktāṃ sāṭṭālambudatoraṇām| nimnābhiratidīrghābhiḥ parikhābhiḥ samāvṛtām aghṛṣyāmaparairvīrairnānājanasamāvṛtām| dīrghikābhiścopavanairbahubhiścāpsarogaṇaiḥ ākīrṇāṃ ca tathārāmairuttamairapi mānavaiḥ| sotsavāḥ satataṃ yatra janā devān divi sthitān spardhante sma mudā yuktā ādyā-bhogasamanvitāḥ| sa vai sudarśano rājā khātvā bhūmiṃ vidārya ca gaṅgāṃ kanakhalāṃ devīṃ vāhayāmāsa khāṇḍavīm| saṃplāvyākhāṇḍavīmadhyaṃ tena khātaiśca vartmabhiḥ vakrānuvakragā bhūtvā yāti sītāṃ nadīṃ prati| sa jitvā sakalān bhūpān vittānyāhṛdaya bhūriśaḥ vaśīcakāra khāṇḍavyāṃ madhye ratnairanekaśaḥ| anyeṣāṃ nagarebhyastu janānānīya bhūpatiḥ khāṇḍavyāṃ vāsayāmāsa haṭhādapi sudarśanaḥ| devadānavagandharvāñ jitvā jitvā yudhā kṛtī devavṛkṣaṃ devaratnaṃ devīṃ cāpi tathauṣadhim| khāṇḍavyāṃ ropayāmāsa sa bhūpālaḥ sudarśanaḥ viṣṇusto'pi vai viṣṇurnṛpatiṃ taṃ sudarśanam| kṛtāpakāraṃ ca bahudhā devānāṃ ca tathā nṛṇām vārāṇasīpatiṃ vīraṃ vijayaṃ jayaśālinam| yuddhāya kṛtasācivyaṃ tadvaire samayojayat vijayo vivaraṃ prāpya mahābalaparākramaḥ| sudarśanasya nṛpateravaskandamathākarot nāsahat sa hyavaskandaṃ vijayasya sudarśanaḥ| caturaṅgabalenāśu yuddhāyābhimukho'bhavat vijayo rathamāruhya niyojya caturaṅgiṇīm| tataḥ sudarśanaṃ yoddhuṃ sammukho'bhavadañjasā tadā mahāyuddhamāsīdvijayena mahātmanā| sudarśanasya nṛpatervṛtravāsavayoryathā sudarśanasya senānāṃ rumaṇvānnāma vīryavān| kāṃcanaṃ rathamāruhya vijayasaṃmukho'bhyayāt akṣauhiṇyastu saptāsya parivārya samantataḥ| vyadhamattāṃ śatrisenāṃ yāvatīmudyatāyudhaḥ vijayasya ca senānīḥ sañjayaḥ sa ripuñjayaḥ| nāgānīkena jagrāha rumaṇvantaṃ sasainikam tayormahadabhūd yuddhaṃ senānyorvīrayormahat| vavarṣa śaravarṣeṇa rumaṇvānatha saṃjayam kurvaṃścāpi mahānādaṃ gajaṃ dṛṣṭvaiva keśarī| rumaṇvānatha viśatyā bā ṇairvidhvātha sañjayam kṣurapreṇa dhanustasya ciccheda kṛtahastavata| so'pi kārmukamādāya tadā'nyat saṃjayastribhiḥ bāṇairvivyādha bhallena dhanuściccheda tatkṣaṇāt| śatānyaṣṭau ca nāgānāṃ sahasrāṇi ca paṃcaṣaṭ pattīnāṃ vājināṃ trīṇi sahasrāṇi samantataḥ| saṃjayo nirjaghānāśu bāṇavarṣaiḥ sudāruṇaiḥ athānyad dhanurādāya rumaṇvān kupito bhṛśam| bhallena sāratherasya śiraḥ kāyādapāharat hayāṃścāsya caturbhiṃstu bāṇairninye yamakṣayam| caturaḥ paṃcabhirbāṇairavidhyaccāpi śañjayam saṃjayo'pyativegena gadāmādāya tat kṣaṇāt| avatīrya rathopasthādrumaṇvantamadhāvata sa dhāvantaṃ sañjayaṃ taṃ rumaṇvān drutahastavat| śaravarṣeṇa sañchādya vārayāmāsa saṃjayam gadāyā bhrāmaṇenāsau nivārya śaravarṣaṇam| āsasāda rumaṇvantaṃ kesarīva mahāgajam āsādya tāṃ gadāṃ gurvīmāvidhyātīva sañjayaḥ| ekenaiva prahāreṇa sarathaṃ taṃ vyapothayat sa papāta mahāvīraḥ pṛthivyāṃ gadayā hataḥ| vajrahato yathā śālaḥ praphullo vanamadhyagaḥ rumaṇvantaṃ nipatitaṃ dṛṣṭvā rājā sudarśanaḥ| śoka-kopasamāviṣṭaḥ sadhūma iva pāvakaḥ jajvālākuladeho'pi krodhenātīva saṃyutaḥ| āruhya javanairaśvairyuktaṃ vaiyāghrakṛttinā rathaṃ kāṃcana-citrāṃgaṃ siṃhadhvaja-vibhūṣitam| āmukto dhanurādāya visphārya ca punaḥ punaḥ sasainyaḥ sañjayaṃ rājā samādravata vegavān| athāsya niśitaiḥ śastraiḥ senāmagragatāṃ bhṛśam nyahanat sakalāṃ rājā mṛgāniva mṛgādhipaḥ| ekāmakṣauhiṇīmagragāminīṃ vipulaujasām krośadvayena nyahanat tāmaṃsīva divākaraḥ| hatvā cākṣohiṇīmekāmāsādya saṃjayaṃ nṛpaḥ bāṇaiḥ ṣaṣṭvā tu vivyādha dhvajamekena cicchide| saṃjayo'pyatha viṃśatyā hṛdi viddhvā sudarśanam lalāṭe tvekabāṇena prāvidhyat kṛtahastavat| kṣurapreṇāsya kodaṇḍaṃ chittvā rājñaḥ pratāpavān sārathiṃ daśabhirbāṇaiḥ punarvivyādha sañjayaḥ| kodaṇḍamanyamādāya tadā rājā sudarśanaḥ śaravarṣeṇa tīvreṇa vavarṣātīva sañjayam| tayormahadbhūd yuddhaṃ munivismayakārakam śastrairastrairbhṛśaṃ tīkṣṇairbalivāsavayoriva| tataḥ sudarśano rājā bhallenāsya dṛḍhaṃ dhanuḥ ciccheda sārathiṃ cāsya jaghāna niśitaiḥ śaraiḥ| svayaṃ saṃyamya vāhān sa sañjayaḥ paravīrahā dhanuranyat samādāya parivārya sudarśanam| vivyādha daśabhirbāṇairdhanurapyacchinad dṛḍham śarāsanāntaraṃ rājā samādāya sudarśanaḥ| sañjayasya caturvāhāñcharairninye yamakṣayam muṣṭau dhanuśca ciccheda taṃ ca vivyādha paṃcabhiḥ| virathaśchinnavāhaśca sañjayaḥ khaḍgacarmaṇī ādāya sammukhaṃ rājño'bhyadravat kupito bhṛśam| tasya cāpaṃ tataḥ khaḍgaṃ kṣurapreṇa sudarśanaḥ dvidhā ciccheda bhallena carma cāpyacchinattadā| atha drutaṃ tadopetya saññayaḥ syandanottamam sudarśanasya sūtaṃ tu karābhyāṃ pātayat kṣitau| rathābhyāśe gatasyāsya sañjayasya sudarśanaḥ śiraściccheda khaḍgena tato'sau nyapatad bhuvi| sa papāta tadā tasya rathābhyāśe mahābalaḥ kṛttaḥ paraśunā'raṇye puṣpitaḥ śālavṛkṣavat| sañjayaṃ patitaṃ dṛṣṭvā vijayaḥ krodhamūrcchitaḥ mahatā śaṅkhanādena nādayaṃstu nabhaḥsthalam| rathena svarṇacitreṇa vyāghracarmavirājinā ketunā vṛṣabheṇātha yojanārdhocchritena ca| nādayan kakubhaḥ sarvā rathaughapariveṣṭitaḥ vimuñcañcharavarṣāṇi sasāda ca sudarśanam| āsādya taṃ nṛpaṃ bhūpo vijayaḥ paravīrahā hṛdi viddhvā tribhirbāṇaistiṣṭhatiṣṭheti cābravīt| sudarśano'pi vijayaṃ nadantaṃ kuṃjaropamam daśabhirniśitairbāṇairviddhvā ciccheda taddhanuḥ| athainaṃ chinnadhanvānaṃ jatrudeśe tribhiḥ śaraiḥ nirbhidyātha mahānādaṃ nanāda sa sudarśanaḥ| so'nyaddhanuḥ samādāya kaṃkapatraistribhiḥ śaraiḥ vivyādha hṛdaye vīro vijayo'pi sudarśanam| tatastannṛpamuddiśya mahāśaktiṃ sudīpitām nāgakanyāṃ kopayuktāṃ lelihānāmivātulām| svarṇadaṇḍāṃ sutīkṣṇāgrāṃ tailadhautāṃ sunirmalām samudyamyāthācikṣepa vijayaḥ śātravaṃ prati| sudarśanasya hṛdayaṃ sā śaktiḥ praviveśa ha sa vihvalo rathopasthe hyadhovaktra upāviśat| tasmin moha-samāpanne nṛpatau ca sudarśane tasyāgratastathā pārśve ye sthitāstatra sainikāḥ| tān sarvānahanadrājā kṣaṇamātrād dvijottamāḥ rathān daśasahasrāṇi tāvantyeva ca dantinām| paṃcaviṃśahasrāṇi vājināṃ ca tarasvinām lakṣadvayaṃ tu pattīnāṃ kṣaṇamātrādapothayat| sa tu labdhvā tataḥ saṃjñāṃ dhanurādāya vai dṛḍham bhallena kārmukaṃ sajyaṃ tasya ciccheda tatkṣaṇāt| sārathestu śiraḥ kāyād bhallenāpāharat tataḥ hayāṃśca caturaścāsya preṣayāmāsa mṛtyave| athaivaṃ virathaṃ bhūpaṃ daśabhiḥ kaṅkapatribhiḥ vivyādha hṛdaye bhūyo nanāda ca sudarśanaḥ| sa cchinnadhanvā viratho gadāmādāya vegavān vijayo vijayākāṅkṣī sudarśanamadhāvata| āpatantaṃ mahāvīraṃ bāṇavarṣaiḥ sudarśanaḥ vavarṣa varṣāsu yathā vāridaḥ pṛthivīdharam| vijayaḥ śaravṛṣṭiṃ tāṃ prācchādya svaśareṇa vai gadayā taṃ rathārūḍhamāsasāda uta tatkṣaṇāt| āsādya taṃ mahāvīryaṃ vijayo'tha sudarśanam śīrṣa prahṛtya gadayā pātayāmāsa bhūtale| gireḥ śṛṅgaṃ yathā tuṅgaṃ vajrāśanividāritam tathā sudarśano rājā dārito gadayā'patat| tasminnipatite vīre senābhistasya sainikāḥ bhayāt saṃprādravaṃstasmād diśaśca pradiśastathā| naṣṭeṣu tasya sainyeṣu vijayaḥ khāṇḍavīṃ purīm praviśya dadṛśe tatra rāśībhūtān girīniva| suvarṇānāṃ ca ratnānāṃ saṃcayān bahuśaḥ punaḥ dṛṣṭvā sarāṃsi tatraiṣa praphullakamalāni ca| haṃsakāraṇḍavānādairnāditāni samantataḥ rāśīn suvarṇaratnānāṃ parvatāniva vistṛtān| puṣpitān devavṛkṣāṃśca bhramadbhramarabhūṣitān prāsādān vipulāñchubhrān kailāsasadṛśān gajān| prasphuṭāṃśca sugandhāḍhyān pratigehe vyavasthitān utphullanayano rājā vijayaḥ paravīrahā| mene'marāvatīṃ tāṃ tu purīm kṣitigatāmiva taṃ vākṣantaṃ narapatiṃ nagarīṃ tāṃ sureśvaraḥ| sametya vijayaṃ prāha sāntvayan ślakṣṇayā girā ||indra uvāca|| rājan mahāvanamidamāsīd devagaṇāvṛtam| ta cca gandharvayakṣāṇāṃ munīnāṃ ca manoharam sarvānutsārya devādīn mama cāpyapriye rataḥ| bhaṅktvā vanamidaṃ guhyamutsādya ca tapodhanam khāṇḍavīṃ nagarīṃ cakre haṭhādrājā sudarśanaḥ| tadidaṃ punareva tvaṃ vanaṃ kuru narottama tatrāhaṃ vihariṣyāmi takṣakeṇa samaṃ rahaḥ| munīnāṃ ca tapaḥ sthānamatulaṃ te prasādataḥ| bhaviṣyati ca yakṣāṇāṃ kinnarāṇāṃ ca pārthiva ||mārkaṇḍeya uvāca|| etacchratvā vacastasya śakrasya vijayastadā| vanamevākarot tāntaṃ khāṇḍavī śakragauravāt gacchantu bho yathāsthānaṃ prajāḥ sarvā yathacchayā| yeṣāṃ vāñchāsti lokānāṃ madrājyagamane punaḥ vārāṇasīṃ te gacchantu mayaiva pratipālitām| tatastasya vacaḥ śrutvā janāḥ kecinnijāspadam jagmurvārāṇasīṃ kecid vijayenābhipālitām| tato dhanānāṃ tān rāśīn ratnānāṃ ca pṛthak pṛthak maṇīnāṃ kanakānāṃ ca kupyānāṃ vijayastathā| vividhairvārayāmāsa purīṃ vāraṇasīṃ prati gandharvāṇāṃ ca devānāṃ yadānītaṃ haṭhāt purā| ratnadārvādikaṃ yat tu vijayaṃ tat prasādya ca taistairnītaṃ ca khāṇḍavyāḥ svasthānaṃ pratiharṣitaiḥ| triṃśadyojanavistīrṇāṃ śatayojanamāyatām tāṃ purīṃ vijayaścakre nacirādeva vai vanam| tasmiñchakrasya sammatyā takṣakaḥ sahito gaṇaiḥ uvāsa suciraṃ tatra tato'bhūnnirjanaṃ vanam| tatra devāḥ sagandharvāḥ krīḍante'psarasāṃ gaṇāḥ āśaṃsantaśca vijayaṃ raṇeṣu vijayāvaham| prāpte'ṣṭāviṃśatitame yuge dvāparaśeṣataḥ vahnirbrāhmaṇarūpeṇa bhikṣāṃ jiṣṇumamācata| dātumaṅgīkṛte bhikṣāṃ tadā pāṇḍusutena vai vahniḥ svarūpamāsthāya jiṣṇuṃ vacanamabravīt| ahamagniḥ pāṇḍuputra yajñabhāgātibhojanāt vyādhito'haṃ tato vyādhiṃ mama tvaṃ nāśayādhunā| khāṇḍavaṃ nāma vipinaṃ sapatrimṛgarākṣasam yadi tvaṃ māṃ bhojayituṃ śakroṣi śvetavāhana| tadā mama hyasau vyādhirapayāsyati no cirāt purā tu vijayo rājā khāṇḍavīṃ nāma tāṃ purīm| bhaṅktvā vana yataścakre tena tat khāṇḍavaṃ vanam madarthaṃ devavihitaṃ vanaṃ tu śvetavāhana| virodhāt tat tu śakrasya na svayaṃ bhoktumutsahe tasmāt trāhi mahābhāga vane tasminniyojaya| yathāhaṃ sakalaṃ bhoktuṃ śaknomi tatprasādataḥ tasya tadvacanaṃ śrutvā savyasācī mahābalaḥ| dāhayāmāsa vipinaṃ tatsarvaṃ prāṇisaṃyutam devakītanayenāsau vāsudevena pālitaḥ| khāṇḍavaṃ dāhayāmāsa jvalanasya hite rataḥ suprītaḥ pradadau tasmādarjunāya mahātmane| vahnirdhanuśca gāṇḍīvaṃ vāruṇaṃ devanirmitam akṣayye ceṣudhī divye rupāḍhyāṃścaturo hayān| hanumatādhiṣṭhitaṃ tu mahāntaṃ vānaradhvajam khaḍgaṃ ca triśikhaṃ tīkṣṇaṃ dahanaḥ savyasācine| nīrogaścābhavad vahnistathā jiṣṇuprasādataḥ tairbāṇaistana dhanuṣā tena khaḍgena ketunā| tadaśvasyandanenāpi vijigye phālguno ripūn evaṃ bhairavavaṃśeṣu sañjāto vijayo nṛpaḥ| khāṇḍavaṃ nāma vipinaṃ cakāra sumahākṛtī vijayasya sutā jātāstrayodaśa mahābalāḥ| dyutimān saumyadarśī ca bhūriḥ pradyumna eva ca kratustuṇḍo virūpākṣo vikrānto'tha dhanaṃjayaḥ| praharṣaḥ prabalaḥ ketustathoparicaro'paraḥ eṣāṃ rājā'bhavad vīraḥ śeṣoparicarastu yaḥ| vārāṇasyāṃ nagaryāṃ yo yajñalakṣaṃ purā'karot lakṣayajñakaraḥ ko'pi nāsīnnāpi bhaviṣyati| rājā kṣitau mahābhāgo yathoparicarastathā eṣāṃ sūtiprasūtaiśca vyāptaṃ sarvamidaṃ jagat| cireṇa tān kaḥ saṃkhyātuṃ śaknoti bhuvi mānuṣaḥ kramād bhairavavaṃśena vyāptaṃ lokatrayaṃ tvidam| etad vaḥ kathitaṃ viprāḥ santānaṃ bhairavasya tu yeṣāṃ śrutvā kathāmātraṃ nāputro jāyate naraḥ| idaṃ yaḥ kīrtayet puṇyaṃ caritaṃ vijayasya tu satataṃ vijayastasya jāyate na parābhavaḥ| ekāgramanasā yastu śrṛṇuyādidamuttamam| tasya vaṃśasya vicchedo na kadācid bhaviṣyati
Chapter Eighty-nine. The sages said: Good conduct in brief, and the particulars in matters of royal policy, we have heard from your words, as Aurva declared them to Sagara. But the full treatment is to be seen everywhere in the Viṣṇudharmottara Tantra; the whole of good conduct is to be seen there — may they be seen by your grace. Further, there is a doubt of ours which you have not spoken of before: cut it away, best of brahmins; we ask, for our curiosity is great. It is heard in the Vedas and among men that there is no course hereafter for the sonless. Formerly Vetāla and Bhairava went to the mountain for austerity; earlier they had taken no wives, and no sons of theirs have been heard of. Were none born, or were they born? If so, tell us, best of the twice-born; of them I wish to hear rightly, and of their excellent station. Mārkaṇḍeya said: It is certain, O best of men, that there is no course for the sonless; only those possessed of sons — their own sons or their brothers' sons — go to heaven. And those two steadfast ones, Vetāla and Bhairava, O brahmins, did beget offspring; I shall declare their lineages — listen, great seers. When Vetāla and Bhairava, having duly attained perfection, reached Hara's dwelling on Kailāsa, greatly rejoicing, then Nandin, at Hara's word, spoke to them in private this true speech, O twice-born, as if consoling them and instructing them. Nandin said: You two, sons of Śaṅkara, are sonless; strive for the begetting of sons. For him who has a son the course is easy everywhere. He who lacks a son beholds the hell called Put; neither by austerities nor by dharma can the Lord release him from it. Release arises solely from the begetting of a son. So beget a son, you two, in the wombs of divine women. Immortality has come to you both from the drinking of Kātyāyanī's milk; hence your sons will be immortal and equal to yourselves. Therefore, having somehow begotten sons in divine wombs, you two, dear to Śiva and the Goddess, (will attain) their abode ere long. [Remainder of the chapter — Bhairava's union with Urvaśī and the birth of Suveśa, the lineage down to Devasena, Vijaya and his conquest of Sudarśana, the founding and unmaking of the city Khāṇḍavī, Indra's request, the burning of the Khāṇḍava forest by Arjuna, and the thirteen sons of Vijaya — is not rendered here.]
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain