← Kalika Purana

Kalika Purana — Chapter 86

KaP 86.86

।।और्व्व उवाच।। शृणु राजन् प्रवक्ष्यामि पुष्यस्नानविधिक्रमम्। येन विज्ञानमात्रेण विघ्ना नश्यन्ति सन्ततम् पौषे पुष्यर्क्षगे चन्द्रे पुष्यस्नानं नृपश्चरेत्। सौभाग्यकल्याणकरं दुर्भिक्षमरणापहम् विष्ट्यादिदुष्टकरणे व्यतीपाते च वैधृतौ। वज्रे शूले हर्षणादौ योगे तु यदि लभ्यते तृतीयायुक्तपुष्यर्क्षं रविशौरिकुजेऽहनि। तदा समस्तदषाणां तत् स्नानं हानिकारकम् ग्रहदोषाश्च जायन्ते यदि राज्येषु चेतयः। तदा पुष्ये तु नक्षत्रे कुर्यान्मासान्तरेऽपि च इयं तु ब्रह्मणा शान्तिरुद्दिष्टा गुरवे पुरा। शक्रादिसर्वदेवानां शान्त्यर्थं च जगत्पतिः तुषकेशास्थिवल्मीक-कीटदेशादिवर्जिते। शर्कराकृमिकुष्माण्ड-बहुकृष्टविवर्जिते काकोलूकैश्च कङ्कैश्च काकालैर्गृघ्रशौनकैः। वर्जिते कण्टकिवने विभीतकविवर्जिते शिग्रुश्लेष्मातकाभ्यां तु जलौकाद्यैर्विवर्जिते। स्वस्थाने चम्पकाशोक-वकुलादिविराजिते हंसकारण्डवाकीर्णे सरस्तीरेथवा शुचौ। पुष्यस्नानाय नृपतिर्गृह्णीयात् स्थानमुत्तमम् ततः पुरोहितो राजा नाना वादित्रनिःस्वनैः। प्रदोषसमये गच्छेत् तत् स्थानं पूर्ववासरे तस्य स्थानस्य कौवेर्यां दिशि स्थित्वा पुरोहितः। सुगन्धचन्दनैः पानैः कर्पूराद्यधिवासितैः गौरोचनाभिः सिद्धार्थैरक्षतैः सफलादिभिः। गन्धद्वारेत्यादिभिर्मन्त्रैः सर्वाधिसिक्तकैः अधिवास्य तु तत्स्थानं पूजयेत् तत्र देवताः। गणेशं केशवं शक्रं ब्रह्माणं चापि शङ्करम् उमया सहितं देवं सर्वाश्च गणदेवताः। मातृश्च पूजयेत् तत्र नृपतिः सपुरोहितः मङ्गलान् कलशान् कृत्वा नानानैवेद्यसञ्चयान्। प्रदद्यात् पायसं स्वादुफलं मोदकयावकौ अधिवास्य च तत् स्थानं दूर्वासिद्धार्थकाक्षतैः। तत्स्थानाच्चापि भूतानि सारयेन्मन्त्रमीरयन् अपसर्पन्तु ते भूता ये भूता भूमिपालकाः। भूतानामविरोधेन स्नानकर्म करोम्यहम् ततः करौ पुटीकृत्य मन्त्रेणानेन पार्थिवः। आवाहयेदिमान् देवान् पूज्यान् पुष्याभिषेकतः आगच्छन्तु सुराः सर्वे येऽत्र पूजाभिलाषिणः। दिशो हि पालकाः सर्वे ये चान्येऽप्यंशभागिनः ततः पुष्पाञ्जलिं दत्त्वा पुनर्मन्त्रं पठेदिमम्। अद्य तिष्ठन्तु विबुधाः स्थानमासाद्य मामकम् स्वपूजां प्राप्य पातारो दत्त्वा शान्तिं महीभुजे। ततस्तां नृपती रात्रिं नयेत् तु सपुरोहितः स्वप्ने शुभाशुभं विद्यान्नृपस्तु सपुरोहितः। कृत्वा पूजां तु देवानां रात्रौ स्थाने नृपः स्वपेत् शुभाशुभफलं स्वप्ने ज्ञेयं दोषज्ञसम्मते। दुःस्वप्नदर्शनं चेत् स्यात् तदा पुष्याभिषेचने होमं चतुर्गुणं कुर्याद् दत्त्वा चापि गवां शतम्। गोवाजिकुंजराणां तु प्रासादस्य गिरेस्तरोः आरोहणं शुभकरं राज्यश्रीवृद्धिकारकम्। दधिदेवसुवर्णानां ब्रह्मणस्य प्रदर्शनम् वीणादूर्वाक्षतफलं पुष्पच्छत्रविलेपनम्। शीतांशु चक्रशंखानां पद्मस्य सुहृदस्तथा लाभाः क्षयकराः शत्रौ रत्नाकरस्य भूभृतः। दर्शनं चोपरागस्य निगडेन च बन्धनम् मांसस्य भोजनं चैव पर्वतस्य विवर्तनम्। नाभिमध्ये तरूत्पत्तिर्मृतं प्रत्यनुरोदनम् अगम्यागमनं कूप पङ्कगर्भावतीर्णता। पर्वतस्य तथा नद्याः स्रोतसां लङ्घनं तथा स्वपुत्रमरणं चैव पानं रुधिरमद्ययोः। भोजनं पायसस्यापि मनुष्यारोहणं तथा कल्याणसुखसौभाग्य-राज्य-शत्रुक्षयं तथा। एते स्वप्नाः प्रकुर्वन्ति नृस्य नृपसत्तम ख रोष्ट्रमहिषाणां च आरोहो राज्यनाशनः। नृत्यं गीतं तथा हास्यं पाठश्चाप्यशुभप्रदः रक्तवस्त्रपरिधानं रक्तमालानुलेपनम्। रक्तां कृष्णां स्त्रियं चैव कामयत् मृत्युमाप्नुयात् कूपान्तरे प्रवेशः स्वाद् दक्षिणाशागतिस्तथा। पङ्के निमज्जनं स्नानं भार्यापुत्रविनाशनम् लाभस्तस्य भवेत् स्वप्नेऽप्यरुत्पत्तिर्नृपभ्य च। आदाय गर्भनाङीं तु शकुनो याति खञ्जनः स तु राज्यान्तरं प्राप्य महाकल्याणमाप्नुयात्। दीर्घं विंशतिहस्तं तु हस्तषोडशविस्तृतम् कुर्यात् तु लक्षणोपेतं यज्ञमण्डलमुत्तमम्। ततोऽपरेऽह्नि पूर्वाह्णेमातृणां पूजनं चरेत् कुड्यलग्नां वसोर्धारां वृद्धिश्राद्धं तथैव च। चन्दनागुरुकस्तूरीधूमकर्पूरचूर्णकैः सम्पूज्य मण्डलस्थानं तस्मिन् ह्रौं शम्भवे नमः। अस्त्राय हुं फडित्येवं लिखेन्मन्त्रद्वयं बुधः मन्त्रविन्मण्डलज्ञश्च सूत्रैः कम्बलसम्भवैः। कौशेयैर्वा स्वस्तिकाख्यं प्रथमं मण्डलं लिखेत् चतुर्हस्तप्रमाणं तु मण्डलं विलिखेत् ततः। हस्तप्रमाणं पद्मं तु मण्डलस्य प्रकीर्तितम् द्वाराणि सार्धहस्तानि कर्णिकाकेशरोज्ज्वलम्। सितं रक्तं च पीतं च कृष्णं हरितमेव च शालिचूर्णैश्च कौसुम्भैर्हारिद्रैर्हरिदुद्भवैः। कुर्यात् तथाञ्जनैश्चूर्णै राजा मण्डवृद्धये पद्मान्ततः समारभ्य तालं पश्चिमगामिनम्। पश्चिमद्वारमध्ये चशतपत्रं विनिर्दिशेत् प्रत्येकं द्वारमध्ये तु पद्मं चैवाष्टपत्रकम्। कुर्यान्मण्डलभागज्ञश्चूर्णैरेव पृथक् पृथक् चूर्णैस्तु मण्डलं कृत्वा सूत्राण्युत्सारयेत् ततः। उत्सार्य सूत्रं प्रथमं मण्डलं पूजयेत् ततः भवनाय नम इति ततो हस्तं वियोजयेत्। सव्यावलम्बहस्तं तु रजःपात्रं समाचरेत् मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद् यथेच्छया। अधोमुखाङ्गुलीः कृत्वा पातयेच्च विचक्षणः समारेखा तु कर्तव्या विच्छित्रा पुष्परञ्जिता। अङ्गुष्ठपर्वनैपुण्यात् समा कार्या विजानता संसक्तविषमं स्थूलं विच्छिन्नं कृसरकृतिम्। पर्यन्तमर्पितं ह्रस्वमालिखेन्न कदाचन संसक्ते कलहं विद्यादूर्ध्व रेखे तु विग्रहम्। अतिस्थूले भवेद् व्याधिर्नित्यं पीडाविमिश्रिते बिन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः। कृशायां चार्थहानिः स्याच्छिन्नायां मरणं ध्रुवम् वियोगो वा भवेत् तस्य इष्टद्रव्यसुतस्य वा। अविदित्वा लिखेद् यस्तु मण्डलं तु यथेच्छया सर्वदोषानवाप्नोति ये दोषाः पूर्वमीरिताः। सितसर्षपदूर्वाया रेखाः कार्या विजानता विमलं विजयं भद्रं विमानं शुभदं शिवम्। वर्धमानं च देवं च शताक्षं कामदायकम् रुचिकं स्वस्तिकं चैव द्वादशैते तु मण्डलाः। यथास्थानं यथायज्ञं योजनीया विचक्षणैः सागरे मध्यमाने तु पीयूषार्थं सुरोत्करैः। पीयूषधारणार्थाय निर्मिता विश्वकर्मणा कलां कलां तु देवानामसित्वा ते पृथक् पृथक्। यतः कृतास्तु कलसास्ततस्ते परिकीर्तिताः नवैव कलसाः प्रोक्ता नामतस्तान्निबोधत। गोह्योपगोह्यो मरुतो मयूखश्च तथापरः मनोहाचार्यभद्रश्च विजयस्तनु दूषकः। इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्तितः तेषामेव क्रमाद् भूप नव नामानि यानि तु। शृणु तान्यपराण्येव शान्तिदानि सदैव हि क्षितीन्द्रः प्रथमः प्रोक्तो द्वितीयो जलसम्भवः। पवनाग्नी ततो द्वे तु यजमानस्ततः परः कोषसम्भवाम्ना तु षष्ठः स परिकीर्तितः। सोमस्तु सप्तमः प्रोक्त आदित्यस्तु तथाष्टमः विजयो नाम कलसो योऽसौ नवम उच्यते। स तु पंचमुखः प्रोक्तो महादेवस्वरूपधृक् घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयं तथा। यथाकाष्ठां स्थितः सम्यग्वामदेवादिनामतः मण्डलस्य तु पद्मान्ते पञ्चवक्त्रं घटं न्यसेत्। क्षितीन्द्रं पूर्वतो न्यस्य पश्चिमे जलसम्भवम् वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम्। नैर्ऋत्ये यजमानं तु ऐशान्यां कोषसम्भवम् सोममुत्तरतो योज्यं सौरं दक्षिणतो न्यसेत्। न्यस्यैवं कलसांश्चैव तेषु चैतान् विचिन्तयेत् कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः। मूले तु संस्थितो विष्णुर्मध्ये मातृगणाः स्थिताः दिक्पाला देवताः सर्वा वेष्टयन्ति दिशो दश। कुक्षौ तु सागराः सप्त सप्तद्वीपाश्च संस्थिताः नक्षत्राणि ग्रहाः सर्वे तथैव कुलपर्वताः। गङ्गाद्याः सरितः सर्वा वेदाश्चत्वार एव च कलसे संस्थिताः सर्वे तेषु तानि विचिन्तयेत्। रत्नानि सर्वबीजानि पुष्पाणि च फलानि च वज्रमौक्तिकवैदूर्यमहापद्मेन्द्रस्फाटिकैः। सर्वधाममयं बिल्वं नागरोदुम्बर तथा बीजपूरकजम्बीरकाश्मीराम्रातदाडिमम्। यवं शालिं च नीवारं गोधूमं सितसर्षपम् कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा। चन्दनं च तथा मांसीमेलां कुष्ठं तथैव च कस्तूरीपत्रचूर्णं च जलनिर्यासकाम्बुदम्। शैलेयं वदरं जातीपत्रपुष्पे तथैव च कालशाकं तथा पृक्का देवीपर्णकमेव च। वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम् दूर्वां मोहनिकां भद्रां शतमूलीं शतावरीम्। वर्णानां सरलां क्षुद्रां सहदेवीं गजाह्वयाम् पूर्णकोषां सितां पीठां गुञ्जां शिरसिकानलौ। व्यामकं गजदन्तं च शतपुष्पं पुनर्नवाम् ब्राह्मीं देवीं शिवां रुद्रां सर्वसन्धानिकां तथा। समाहृद्य शुभानेतान् रुद्रां कलसेषु निधार्पयेत् कलसस्य यथादेशं विधिं शम्भुं गदाधरम्। यथाक्रमं पूजयित्वा शम्भु मुख्यतया यजेत् प्रासादेन तु मन्त्रेण शम्भुं तन्त्रेण शङ्करम्। प्रथमं पूजयेन्मध्ये नाना नैवेद्यवेदनैः दिक्पालानां घटेष्वेव दिक्पालानपि पूजयेत्। पूर्वं बहिः स्थापितेषु ग्रहाणां कलसेषु च नवग्रहान् पूजयेत् तु मातृर्मातृघटेषु च। सर्वे देवा घटे पूज्या घटास्तेषां पृथक् पृथक् नवैव तत्र पूर्वोक्ताः स्मृता मुख्यतया नृप। भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः यावकैः पायसैश्चैव यथासम्भवयोजितैः। पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान् दक्षिणे मण्डलस्याथ कुण्डं निर्मांय पायसैः। समिद्भिः शालिसिद्धार्थैर्घृतैर्दूर्वाक्षतैस्तथा केवलैश्च तथैवाज्यैः पूजितान् सकलान् सुरान्। होमेन तोषयेद् वृद्ध्यै नृपः सर्त्विक्पुरोहितः होमान्ते मण्डलोदीच्यां वेदिकायां सपट्टकम्। रोचनाख्यमर्लकारांस्तथा सर्वान् नियोजयेत् वृद्धावङ्गुलमङ्गुल्या षड्विंशङ्गुलिकावधि। वृत्तं वा चतुरस्रं वा पद्मं त्रिकोणसंज्ञकम् रत्नेशान् पद्ममध्ये तु गोमुष्टिकविनायकैः। श्रीश्रीवृक्षवरारोहामुमादेवीं शुभान्विताम् रत्नैः सर्वैरलङ्कारैः पट्टं कार्यं द्विहस्तकम्। हस्तविस्तारमुच्छ्रायं नवहस्तं दशाङ्गुलम् स्नानार्थं सार्धहस्तं च पट्टं वृत्तं गुणान्वितम्। शय्या चतुर्गुणा दीर्घा धनुर्मानं तु पीठकम् गजसिंहकृताटोपं हेमरत्नविभूषितम्। सिंहाख्यं सार्धविस्ताराद् दण्डासनमथापि वा व्याघ्रचित्रकपट्टैर्वा उपधानानि कारयेत्। अन्यैर्वा निर्मितां चर्ममृदुतूलकपूरिता शय्या दीर्घार्घविस्तीर्णा चतुर्हस्ता सुलक्षणा। वितस्त्यधिकमिच्छन्ति नृपस्य गुरुविद्यया अर्धचन्द्रसमं कुर्यादासनं चतुरस्रकम्। उपधानानि शय्यायाः कर्णादिमूलभेदतः षोडशैवात्र कार्याणि वर्णचित्रयुतानि च। यानं सिंहासन पट्टं शय्योपकरणादिकम् राज्ञो नूतनयोग्यं तद् वेद्या उत्तरतो न्यसेत्। तेषां तु पश्चिमे स्वर्णरत्नौघखचिते वरे पर्यङ्के यज्ञदार्वौघनिर्मिते महदास्तरे। अर्धाच्छादनसंयुक्ते चर्मावृतचतुष्टये वृषभस्य तथोर्णायाः सिंहशार्दुलयोरपि। पादपीठे रत्नयुते पादावारोप्य पार्थिवः तस्मिन् पर्यङ्कपीठस्थे चर्मावृतचतुष्टये। नानालङ्कारभूषाढ्यं नृपतिं रत्नशालिनम् स्नापयेद् ब्राह्मणैः सार्धं राजानं सुखसङ्गतम्। संवीतकम्बलं कृष्णं बहुवस्त्रैश्च शौभितम् कलसेवलिपुष्पाद्यैः शालिचूर्णैश्च स्नापयेत्। अष्टौ षौडश विंशाष्टशतमधिकं च वा कलसानां समाख्याता अधिकस्योत्तरोत्तरम्। जयकल्याणदैर्मन्त्रैर्मङ्गलोत्थैश्च शाम्भवैः वैष्णवैरथ दिक्पालैर्ग्रहमन्त्रैश्च मातृकैः। आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् आज्यं सुराणामाहारप्राज्ये लोकाः प्रतिष्ठिताः। भौमान्तरिक्षं दिव्यं वा यत् ते कल्ममषमागतम् सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु। ततोऽपनीयगात्रात् तु कम्बलं वस्त्रमेव च कलसैः स्नापयेद् भूपं पुष्पस्नानीयपूरितैः। एभिर्मन्त्रैर्नरश्रेष्ठ तनुतत्त्वार्थंसाधकैः सुरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः। ब्रह्मा विष्णुश्च रुद्राश्च साध्याश्च समरुद्गणाः आदित्या वसवो रुद्रा अश्विनौ यौ भिषग्वरौ। अदितिर्देवमाता च स्वाहा लक्ष्मीः सरस्वती कीर्तिर्लक्ष्मीर्घृतिः श्रीश्च सिनीवाली कुहूस्तथा। दितिश्च सुरसा चैव विनता कद्रुरेव च देवपत्नयश्च याः प्रोक्ता देवमातर एव च। सर्वास्त्वामषिञ्चन्तु सिद्धाश्चाप्सरसां गणाः नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः। संवत्सर निमेषाश्च कलाः काष्ठाः क्षणा लवाः सर्वे त्वामभिषिञ्चन्तु कालस्यावयवस्तथा। वैमानिकाः सुरगणा मनवः सागरैः सह सरितश्च महानागा नागाः किंपुरुषास्तथा। वैखानसा महाभागा द्विजा वैहायसाश्च ये सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि तु। मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः भृगुः सनत्कुमारश्च सनकश्च सनन्दनः। सनातनश्च दक्षश्च जैगीषव्योऽभिनन्दनः एकतश्च द्वितश्चैव त्रितो जावालिकाश्यपौ। दुर्वासा दुर्विनीतश्च कण्वः कात्यायनस्तथा मार्कण्डेयो दीर्घतमाः शुनःशेफो विदूरथः। और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः द्वैपायनो यवक्रीतो देवरातः सहात्मजः। एते चान्ये च बहवो वेदव्रतपरायणाः सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः। पर्वतास्तरवो नद्यः पुण्यान्यततनानि च प्रजापतिः क्षितिश्चैव गावो विश्वस्य मातरः। वाहनानि च दिव्यानि सर्वे लोकाश्चराचराः अग्नयः पितारस्तारा जीमूताः खं दिशो जलम्। एते चान्ये च बहवः पुण्यसंकीर्तनाः शुभाः तौयैस्त्वामभिषिञ्चन्तु सर्वोत्पातनिबर्हणैः। इत्येवं शुभदैरेतैर्दिव्यैर्मन्त्रैस्तथापरैः सोरैर्नारायणै रौद्रैर्ब्रह्मशक्रसमुद्भवैः। आपोहिष्ठा हिरण्येति सम्भवेति सुरेति च मानस्तोकेति मन्त्रेण गन्धद्वारेत्यनेन च। सर्वमंगलमांगल्ये श्रीश्च ते ग्रहयोगिभिः इत्येवं स्नानमासाद्य गात्रमावृत्य कम्बलैः। सर्वमंगलमन्त्रेण वस्त्रं कार्पासकं ध्रियात् आचम्य च ततो देवान् गुरुं विप्रांश्च पूजयेत्। ध्वजच्छत्रं चामरं च घण्टां चाश्वान् गजांस्तथा मन्त्रं जप्त्वा धारयेत् तु ततो गच्छेद्धुताशनम्। तत्र गत्वा वह्निमध्ये वह्नेः श्रीर्वीक्ष्य पार्थिवः निमित्तान्यनिमित्तानि लक्षयेत् तत्र बिन्दुभिः। दैवज्ञकञ्चुक्यमात्यवन्दिपौरजनैर्वृतः वादित्रघोषैस्तुमलैस्तथा तौर्यत्रिकैः शुभैः। कृत्वा शेषे पुनः शान्तिमाशीर्वाच्य च वै द्विजान् पूर्णां विधाय विधिवद् दक्षिणां कनकान्विताम्। धान्यानि चाथ वासांसि दत्त्वा कुर्याद् विसर्जनम् ततः शेषजलैः सर्वानमात्यादीन् पुरोहितः। सेचयेच्चतुरङ्गं च बलं चापि सराष्ट्रकम् एवं कृत्वा नृपः पश्चात् त्रिरात्रं संयतों भवेत्। मांसमैथुनहीनश्च कुर्यान्माङ्गल्यसेवनम् पुष्यनक्षत्रयुक्ता तु तृतीया यदि लभ्यते। तस्यां पूज्या सदा देवी चण्डिका शंकरेण ह पाञ्चालिकाविहाराद्यैः शिशूनां कौतुकैस्तथा। वैवाहिकेन विधिना मोहयेच्चण्डिकां शिवाम् चतुष्पथेषु सर्वेषु देवदेवीगहेषु च। पताकाभिरलं कुर्यादेवं कुर्वन्न सीदति एवं कृत्वा शान्तियागं तथा पुष्याभिषेचनम्। चतुरङ्गैः समं राजा भार्याभिस्तु नरैः सह राज्यमण्डलसंयुक्तः परत्रेह न सीदति। नातः परतरो यज्ञो नातः परतरोत्सवः नातः परतरा शान्तिर्नातः परतरं शिवम्। अनेनैव विधानेन नृपतेरभिषेचनम् युवराज्याभिषेकं च कुर्याद्राजपुरोहितः। नृपाभिषेककरणमादौ यदि समाचरेत् अनेनैव विधानेन स्थिरः स्यान्नृपतिस्तदा। अयं यज्ञः समुद्दिष्टः शक्रार्थं ब्रह्मणा पुरा। एवं यज्ञं नृपः कृत्वा परत्रेह न सीदति

||aurvva uvāca|| śṛṇu rājan pravakṣyāmi puṣyasnānavidhikramam| yena vijñānamātreṇa vighnā naśyanti santatam pauṣe puṣyarkṣage candre puṣyasnānaṃ nṛpaścaret| saubhāgyakalyāṇakaraṃ durbhikṣamaraṇāpaham viṣṭyādiduṣṭakaraṇe vyatīpāte ca vaidhṛtau| vajre śūle harṣaṇādau yoge tu yadi labhyate tṛtīyāyuktapuṣyarkṣaṃ raviśaurikuje'hani| tadā samastadaṣāṇāṃ tat snānaṃ hānikārakam grahadoṣāśca jāyante yadi rājyeṣu cetayaḥ| tadā puṣye tu nakṣatre kuryānmāsāntare'pi ca iyaṃ tu brahmaṇā śāntiruddiṣṭā gurave purā| śakrādisarvadevānāṃ śāntyarthaṃ ca jagatpatiḥ tuṣakeśāsthivalmīka-kīṭadeśādivarjite| śarkarākṛmikuṣmāṇḍa-bahukṛṣṭavivarjite kākolūkaiśca kaṅkaiśca kākālairgṛghraśaunakaiḥ| varjite kaṇṭakivane vibhītakavivarjite śigruśleṣmātakābhyāṃ tu jalaukādyairvivarjite| svasthāne campakāśoka-vakulādivirājite haṃsakāraṇḍavākīrṇe sarastīrethavā śucau| puṣyasnānāya nṛpatirgṛhṇīyāt sthānamuttamam tataḥ purohito rājā nānā vāditraniḥsvanaiḥ| pradoṣasamaye gacchet tat sthānaṃ pūrvavāsare tasya sthānasya kauveryāṃ diśi sthitvā purohitaḥ| sugandhacandanaiḥ pānaiḥ karpūrādyadhivāsitaiḥ gaurocanābhiḥ siddhārthairakṣataiḥ saphalādibhiḥ| gandhadvāretyādibhirmantraiḥ sarvādhisiktakaiḥ adhivāsya tu tatsthānaṃ pūjayet tatra devatāḥ| gaṇeśaṃ keśavaṃ śakraṃ brahmāṇaṃ cāpi śaṅkaram umayā sahitaṃ devaṃ sarvāśca gaṇadevatāḥ| mātṛśca pūjayet tatra nṛpatiḥ sapurohitaḥ maṅgalān kalaśān kṛtvā nānānaivedyasañcayān| pradadyāt pāyasaṃ svāduphalaṃ modakayāvakau adhivāsya ca tat sthānaṃ dūrvāsiddhārthakākṣataiḥ| tatsthānāccāpi bhūtāni sārayenmantramīrayan apasarpantu te bhūtā ye bhūtā bhūmipālakāḥ| bhūtānāmavirodhena snānakarma karomyaham tataḥ karau puṭīkṛtya mantreṇānena pārthivaḥ| āvāhayedimān devān pūjyān puṣyābhiṣekataḥ āgacchantu surāḥ sarve ye'tra pūjābhilāṣiṇaḥ| diśo hi pālakāḥ sarve ye cānye'pyaṃśabhāginaḥ tataḥ puṣpāñjaliṃ dattvā punarmantraṃ paṭhedimam| adya tiṣṭhantu vibudhāḥ sthānamāsādya māmakam svapūjāṃ prāpya pātāro dattvā śāntiṃ mahībhuje| tatastāṃ nṛpatī rātriṃ nayet tu sapurohitaḥ svapne śubhāśubhaṃ vidyānnṛpastu sapurohitaḥ| kṛtvā pūjāṃ tu devānāṃ rātrau sthāne nṛpaḥ svapet śubhāśubhaphalaṃ svapne jñeyaṃ doṣajñasammate| duḥsvapnadarśanaṃ cet syāt tadā puṣyābhiṣecane homaṃ caturguṇaṃ kuryād dattvā cāpi gavāṃ śatam| govājikuṃjarāṇāṃ tu prāsādasya girestaroḥ ārohaṇaṃ śubhakaraṃ rājyaśrīvṛddhikārakam| dadhidevasuvarṇānāṃ brahmaṇasya pradarśanam vīṇādūrvākṣataphalaṃ puṣpacchatravilepanam| śītāṃśu cakraśaṃkhānāṃ padmasya suhṛdastathā lābhāḥ kṣayakarāḥ śatrau ratnākarasya bhūbhṛtaḥ| darśanaṃ coparāgasya nigaḍena ca bandhanam māṃsasya bhojanaṃ caiva parvatasya vivartanam| nābhimadhye tarūtpattirmṛtaṃ pratyanurodanam agamyāgamanaṃ kūpa paṅkagarbhāvatīrṇatā| parvatasya tathā nadyāḥ srotasāṃ laṅghanaṃ tathā svaputramaraṇaṃ caiva pānaṃ rudhiramadyayoḥ| bhojanaṃ pāyasasyāpi manuṣyārohaṇaṃ tathā kalyāṇasukhasaubhāgya-rājya-śatrukṣayaṃ tathā| ete svapnāḥ prakurvanti nṛsya nṛpasattama kha roṣṭramahiṣāṇāṃ ca āroho rājyanāśanaḥ| nṛtyaṃ gītaṃ tathā hāsyaṃ pāṭhaścāpyaśubhapradaḥ raktavastraparidhānaṃ raktamālānulepanam| raktāṃ kṛṣṇāṃ striyaṃ caiva kāmayat mṛtyumāpnuyāt kūpāntare praveśaḥ svād dakṣiṇāśāgatistathā| paṅke nimajjanaṃ snānaṃ bhāryāputravināśanam lābhastasya bhavet svapne'pyarutpattirnṛpabhya ca| ādāya garbhanāṅīṃ tu śakuno yāti khañjanaḥ sa tu rājyāntaraṃ prāpya mahākalyāṇamāpnuyāt| dīrghaṃ viṃśatihastaṃ tu hastaṣoḍaśavistṛtam kuryāt tu lakṣaṇopetaṃ yajñamaṇḍalamuttamam| tato'pare'hni pūrvāhṇemātṛṇāṃ pūjanaṃ caret kuḍyalagnāṃ vasordhārāṃ vṛddhiśrāddhaṃ tathaiva ca| candanāgurukastūrīdhūmakarpūracūrṇakaiḥ sampūjya maṇḍalasthānaṃ tasmin hrauṃ śambhave namaḥ| astrāya huṃ phaḍityevaṃ likhenmantradvayaṃ budhaḥ mantravinmaṇḍalajñaśca sūtraiḥ kambalasambhavaiḥ| kauśeyairvā svastikākhyaṃ prathamaṃ maṇḍalaṃ likhet caturhastapramāṇaṃ tu maṇḍalaṃ vilikhet tataḥ| hastapramāṇaṃ padmaṃ tu maṇḍalasya prakīrtitam dvārāṇi sārdhahastāni karṇikākeśarojjvalam| sitaṃ raktaṃ ca pītaṃ ca kṛṣṇaṃ haritameva ca śālicūrṇaiśca kausumbhairhāridrairharidudbhavaiḥ| kuryāt tathāñjanaiścūrṇai rājā maṇḍavṛddhaye padmāntataḥ samārabhya tālaṃ paścimagāminam| paścimadvāramadhye caśatapatraṃ vinirdiśet pratyekaṃ dvāramadhye tu padmaṃ caivāṣṭapatrakam| kuryānmaṇḍalabhāgajñaścūrṇaireva pṛthak pṛthak cūrṇaistu maṇḍalaṃ kṛtvā sūtrāṇyutsārayet tataḥ| utsārya sūtraṃ prathamaṃ maṇḍalaṃ pūjayet tataḥ bhavanāya nama iti tato hastaṃ viyojayet| savyāvalambahastaṃ tu rajaḥpātraṃ samācaret madhyamānāmikāṅguṣṭhairupariṣṭād yathecchayā| adhomukhāṅgulīḥ kṛtvā pātayecca vicakṣaṇaḥ samārekhā tu kartavyā vicchitrā puṣparañjitā| aṅguṣṭhaparvanaipuṇyāt samā kāryā vijānatā saṃsaktaviṣamaṃ sthūlaṃ vicchinnaṃ kṛsarakṛtim| paryantamarpitaṃ hrasvamālikhenna kadācana saṃsakte kalahaṃ vidyādūrdhva rekhe tu vigraham| atisthūle bhaved vyādhirnityaṃ pīḍāvimiśrite bindubhirbhayamāpnoti śatrupakṣānna saṃśayaḥ| kṛśāyāṃ cārthahāniḥ syācchinnāyāṃ maraṇaṃ dhruvam viyogo vā bhavet tasya iṣṭadravyasutasya vā| aviditvā likhed yastu maṇḍalaṃ tu yathecchayā sarvadoṣānavāpnoti ye doṣāḥ pūrvamīritāḥ| sitasarṣapadūrvāyā rekhāḥ kāryā vijānatā vimalaṃ vijayaṃ bhadraṃ vimānaṃ śubhadaṃ śivam| vardhamānaṃ ca devaṃ ca śatākṣaṃ kāmadāyakam rucikaṃ svastikaṃ caiva dvādaśaite tu maṇḍalāḥ| yathāsthānaṃ yathāyajñaṃ yojanīyā vicakṣaṇaiḥ sāgare madhyamāne tu pīyūṣārthaṃ surotkaraiḥ| pīyūṣadhāraṇārthāya nirmitā viśvakarmaṇā kalāṃ kalāṃ tu devānāmasitvā te pṛthak pṛthak| yataḥ kṛtāstu kalasāstataste parikīrtitāḥ navaiva kalasāḥ proktā nāmatastānnibodhata| gohyopagohyo maruto mayūkhaśca tathāparaḥ manohācāryabhadraśca vijayastanu dūṣakaḥ| indriyaghno'tha vijayo navamaḥ parikīrtitaḥ teṣāmeva kramād bhūpa nava nāmāni yāni tu| śṛṇu tānyaparāṇyeva śāntidāni sadaiva hi kṣitīndraḥ prathamaḥ prokto dvitīyo jalasambhavaḥ| pavanāgnī tato dve tu yajamānastataḥ paraḥ koṣasambhavāmnā tu ṣaṣṭhaḥ sa parikīrtitaḥ| somastu saptamaḥ prokta ādityastu tathāṣṭamaḥ vijayo nāma kalaso yo'sau navama ucyate| sa tu paṃcamukhaḥ prokto mahādevasvarūpadhṛk ghaṭasya pañcavaktreṣu pañcavaktraḥ svayaṃ tathā| yathākāṣṭhāṃ sthitaḥ samyagvāmadevādināmataḥ maṇḍalasya tu padmānte pañcavaktraṃ ghaṭaṃ nyaset| kṣitīndraṃ pūrvato nyasya paścime jalasambhavam vāyavye vāyavaṃ nyasya āgneye hyagnisambhavam| nairṛtye yajamānaṃ tu aiśānyāṃ koṣasambhavam somamuttarato yojyaṃ sauraṃ dakṣiṇato nyaset| nyasyaivaṃ kalasāṃścaiva teṣu caitān vicintayet kalasānāṃ mukhe brahmā grīvāyāṃ śaṅkaraḥ sthitaḥ| mūle tu saṃsthito viṣṇurmadhye mātṛgaṇāḥ sthitāḥ dikpālā devatāḥ sarvā veṣṭayanti diśo daśa| kukṣau tu sāgarāḥ sapta saptadvīpāśca saṃsthitāḥ nakṣatrāṇi grahāḥ sarve tathaiva kulaparvatāḥ| gaṅgādyāḥ saritaḥ sarvā vedāścatvāra eva ca kalase saṃsthitāḥ sarve teṣu tāni vicintayet| ratnāni sarvabījāni puṣpāṇi ca phalāni ca vajramauktikavaidūryamahāpadmendrasphāṭikaiḥ| sarvadhāmamayaṃ bilvaṃ nāgarodumbara tathā bījapūrakajambīrakāśmīrāmrātadāḍimam| yavaṃ śāliṃ ca nīvāraṃ godhūmaṃ sitasarṣapam kuṅkumāgurukarpūramadanaṃ rocanaṃ tathā| candanaṃ ca tathā māṃsīmelāṃ kuṣṭhaṃ tathaiva ca kastūrīpatracūrṇaṃ ca jalaniryāsakāmbudam| śaileyaṃ vadaraṃ jātīpatrapuṣpe tathaiva ca kālaśākaṃ tathā pṛkkā devīparṇakameva ca| vacāṃ dhātrīṃ samañjiṣṭhāṃ turuṣkaṃ maṅgalāṣṭakam dūrvāṃ mohanikāṃ bhadrāṃ śatamūlīṃ śatāvarīm| varṇānāṃ saralāṃ kṣudrāṃ sahadevīṃ gajāhvayām pūrṇakoṣāṃ sitāṃ pīṭhāṃ guñjāṃ śirasikānalau| vyāmakaṃ gajadantaṃ ca śatapuṣpaṃ punarnavām brāhmīṃ devīṃ śivāṃ rudrāṃ sarvasandhānikāṃ tathā| samāhṛdya śubhānetān rudrāṃ kalaseṣu nidhārpayet kalasasya yathādeśaṃ vidhiṃ śambhuṃ gadādharam| yathākramaṃ pūjayitvā śambhu mukhyatayā yajet prāsādena tu mantreṇa śambhuṃ tantreṇa śaṅkaram| prathamaṃ pūjayenmadhye nānā naivedyavedanaiḥ dikpālānāṃ ghaṭeṣveva dikpālānapi pūjayet| pūrvaṃ bahiḥ sthāpiteṣu grahāṇāṃ kalaseṣu ca navagrahān pūjayet tu mātṛrmātṛghaṭeṣu ca| sarve devā ghaṭe pūjyā ghaṭāsteṣāṃ pṛthak pṛthak navaiva tatra pūrvoktāḥ smṛtā mukhyatayā nṛpa| bhakṣyairbhojyaiśca peyaiśca puṣpairnānāvidhaiḥ phalaiḥ yāvakaiḥ pāyasaiścaiva yathāsambhavayojitaiḥ| puṣyasnānāya nṛpatiḥ pūjayet sakalān surān dakṣiṇe maṇḍalasyātha kuṇḍaṃ nirmāṃya pāyasaiḥ| samidbhiḥ śālisiddhārthairghṛtairdūrvākṣataistathā kevalaiśca tathaivājyaiḥ pūjitān sakalān surān| homena toṣayed vṛddhyai nṛpaḥ sartvikpurohitaḥ homānte maṇḍalodīcyāṃ vedikāyāṃ sapaṭṭakam| rocanākhyamarlakārāṃstathā sarvān niyojayet vṛddhāvaṅgulamaṅgulyā ṣaḍviṃśaṅgulikāvadhi| vṛttaṃ vā caturasraṃ vā padmaṃ trikoṇasaṃjñakam ratneśān padmamadhye tu gomuṣṭikavināyakaiḥ| śrīśrīvṛkṣavarārohāmumādevīṃ śubhānvitām ratnaiḥ sarvairalaṅkāraiḥ paṭṭaṃ kāryaṃ dvihastakam| hastavistāramucchrāyaṃ navahastaṃ daśāṅgulam snānārthaṃ sārdhahastaṃ ca paṭṭaṃ vṛttaṃ guṇānvitam| śayyā caturguṇā dīrghā dhanurmānaṃ tu pīṭhakam gajasiṃhakṛtāṭopaṃ hemaratnavibhūṣitam| siṃhākhyaṃ sārdhavistārād daṇḍāsanamathāpi vā vyāghracitrakapaṭṭairvā upadhānāni kārayet| anyairvā nirmitāṃ carmamṛdutūlakapūritā śayyā dīrghārghavistīrṇā caturhastā sulakṣaṇā| vitastyadhikamicchanti nṛpasya guruvidyayā ardhacandrasamaṃ kuryādāsanaṃ caturasrakam| upadhānāni śayyāyāḥ karṇādimūlabhedataḥ ṣoḍaśaivātra kāryāṇi varṇacitrayutāni ca| yānaṃ siṃhāsana paṭṭaṃ śayyopakaraṇādikam rājño nūtanayogyaṃ tad vedyā uttarato nyaset| teṣāṃ tu paścime svarṇaratnaughakhacite vare paryaṅke yajñadārvaughanirmite mahadāstare| ardhācchādanasaṃyukte carmāvṛtacatuṣṭaye vṛṣabhasya tathorṇāyāḥ siṃhaśārdulayorapi| pādapīṭhe ratnayute pādāvāropya pārthivaḥ tasmin paryaṅkapīṭhasthe carmāvṛtacatuṣṭaye| nānālaṅkārabhūṣāḍhyaṃ nṛpatiṃ ratnaśālinam snāpayed brāhmaṇaiḥ sārdhaṃ rājānaṃ sukhasaṅgatam| saṃvītakambalaṃ kṛṣṇaṃ bahuvastraiśca śaubhitam kalasevalipuṣpādyaiḥ śālicūrṇaiśca snāpayet| aṣṭau ṣauḍaśa viṃśāṣṭaśatamadhikaṃ ca vā kalasānāṃ samākhyātā adhikasyottarottaram| jayakalyāṇadairmantrairmaṅgalotthaiśca śāmbhavaiḥ vaiṣṇavairatha dikpālairgrahamantraiśca mātṛkaiḥ| ājyaṃ tejaḥ samuddiṣṭamājyaṃ pāpaharaṃ param ājyaṃ surāṇāmāhāraprājye lokāḥ pratiṣṭhitāḥ| bhaumāntarikṣaṃ divyaṃ vā yat te kalmamaṣamāgatam sarvaṃ tadājyasaṃsparśāt praṇāśamupagacchatu| tato'panīyagātrāt tu kambalaṃ vastrameva ca kalasaiḥ snāpayed bhūpaṃ puṣpasnānīyapūritaiḥ| ebhirmantrairnaraśreṣṭha tanutattvārthaṃsādhakaiḥ surāstvāmabhiṣiñcantu ye ca siddhāḥ purātanāḥ| brahmā viṣṇuśca rudrāśca sādhyāśca samarudgaṇāḥ ādityā vasavo rudrā aśvinau yau bhiṣagvarau| aditirdevamātā ca svāhā lakṣmīḥ sarasvatī kīrtirlakṣmīrghṛtiḥ śrīśca sinīvālī kuhūstathā| ditiśca surasā caiva vinatā kadrureva ca devapatnayaśca yāḥ proktā devamātara eva ca| sarvāstvāmaṣiñcantu siddhāścāpsarasāṃ gaṇāḥ nakṣatrāṇi muhūrtāśca pakṣāhorātrasandhayaḥ| saṃvatsara nimeṣāśca kalāḥ kāṣṭhāḥ kṣaṇā lavāḥ sarve tvāmabhiṣiñcantu kālasyāvayavastathā| vaimānikāḥ suragaṇā manavaḥ sāgaraiḥ saha saritaśca mahānāgā nāgāḥ kiṃpuruṣāstathā| vaikhānasā mahābhāgā dvijā vaihāyasāśca ye saptarṣayaḥ sadārāśca dhruvasthānāni yāni tu| marīciratriḥ pulahaḥ pulastyaḥ kraturaṅgirāḥ bhṛguḥ sanatkumāraśca sanakaśca sanandanaḥ| sanātanaśca dakṣaśca jaigīṣavyo'bhinandanaḥ ekataśca dvitaścaiva trito jāvālikāśyapau| durvāsā durvinītaśca kaṇvaḥ kātyāyanastathā mārkaṇḍeyo dīrghatamāḥ śunaḥśepho vidūrathaḥ| aurvaḥ saṃvartakaścaiva cyavano'triḥ parāśaraḥ dvaipāyano yavakrīto devarātaḥ sahātmajaḥ| ete cānye ca bahavo vedavrataparāyaṇāḥ saśiṣyāste'bhiṣiñcantu sadārāśca tapodhanāḥ| parvatāstaravo nadyaḥ puṇyānyatatanāni ca prajāpatiḥ kṣitiścaiva gāvo viśvasya mātaraḥ| vāhanāni ca divyāni sarve lokāścarācarāḥ agnayaḥ pitārastārā jīmūtāḥ khaṃ diśo jalam| ete cānye ca bahavaḥ puṇyasaṃkīrtanāḥ śubhāḥ tauyaistvāmabhiṣiñcantu sarvotpātanibarhaṇaiḥ| ityevaṃ śubhadairetairdivyairmantraistathāparaiḥ sorairnārāyaṇai raudrairbrahmaśakrasamudbhavaiḥ| āpohiṣṭhā hiraṇyeti sambhaveti sureti ca mānastoketi mantreṇa gandhadvāretyanena ca| sarvamaṃgalamāṃgalye śrīśca te grahayogibhiḥ ityevaṃ snānamāsādya gātramāvṛtya kambalaiḥ| sarvamaṃgalamantreṇa vastraṃ kārpāsakaṃ dhriyāt ācamya ca tato devān guruṃ viprāṃśca pūjayet| dhvajacchatraṃ cāmaraṃ ca ghaṇṭāṃ cāśvān gajāṃstathā mantraṃ japtvā dhārayet tu tato gaccheddhutāśanam| tatra gatvā vahnimadhye vahneḥ śrīrvīkṣya pārthivaḥ nimittānyanimittāni lakṣayet tatra bindubhiḥ| daivajñakañcukyamātyavandipaurajanairvṛtaḥ vāditraghoṣaistumalaistathā tauryatrikaiḥ śubhaiḥ| kṛtvā śeṣe punaḥ śāntimāśīrvācya ca vai dvijān pūrṇāṃ vidhāya vidhivad dakṣiṇāṃ kanakānvitām| dhānyāni cātha vāsāṃsi dattvā kuryād visarjanam tataḥ śeṣajalaiḥ sarvānamātyādīn purohitaḥ| secayeccaturaṅgaṃ ca balaṃ cāpi sarāṣṭrakam evaṃ kṛtvā nṛpaḥ paścāt trirātraṃ saṃyatoṃ bhavet| māṃsamaithunahīnaśca kuryānmāṅgalyasevanam puṣyanakṣatrayuktā tu tṛtīyā yadi labhyate| tasyāṃ pūjyā sadā devī caṇḍikā śaṃkareṇa ha pāñcālikāvihārādyaiḥ śiśūnāṃ kautukaistathā| vaivāhikena vidhinā mohayeccaṇḍikāṃ śivām catuṣpatheṣu sarveṣu devadevīgaheṣu ca| patākābhiralaṃ kuryādevaṃ kurvanna sīdati evaṃ kṛtvā śāntiyāgaṃ tathā puṣyābhiṣecanam| caturaṅgaiḥ samaṃ rājā bhāryābhistu naraiḥ saha rājyamaṇḍalasaṃyuktaḥ paratreha na sīdati| nātaḥ parataro yajño nātaḥ paratarotsavaḥ nātaḥ paratarā śāntirnātaḥ parataraṃ śivam| anenaiva vidhānena nṛpaterabhiṣecanam yuvarājyābhiṣekaṃ ca kuryādrājapurohitaḥ| nṛpābhiṣekakaraṇamādau yadi samācaret anenaiva vidhānena sthiraḥ syānnṛpatistadā| ayaṃ yajñaḥ samuddiṣṭaḥ śakrārthaṃ brahmaṇā purā| evaṃ yajñaṃ nṛpaḥ kṛtvā paratreha na sīdati

Aurva said: Hear, O king, I shall declare the order of the rite of the Puṣya bathing, by the mere knowing of which obstacles perish for ever. In the month of Pauṣa, when the moon stands in the Puṣya asterism, the king should perform the Puṣya bath, which brings good fortune and welfare and removes famine and death. If it falls in an evil karaṇa such as Viṣṭi, or in Vyatīpāta or Vaidhṛti, or in the Vajra, Śūla, Harṣaṇa or other yoga, or if the Puṣya asterism joined with the third lunar day falls on a Sunday, Saturday or Tuesday, then that bath is harmful to all. And if planetary evils and calamities arise in the kingdoms, then he may perform it under Puṣya even in another month. This appeasement rite was formerly declared by Brahmā to the preceptor (Bṛhaspati), and the Lord of the world (declared it) for the appeasing of Śakra and all the gods. In a place free of husks, hair, bones, anthills and insect-ground, free of gravel, worms, pumpkins and much-ploughed soil, free of crows, owls, herons, jackals, vultures and dogs, in a thorn-free grove, free of vibhītaka trees, free of śigru and śleṣmātaka and of leeches and the like, in its own proper place, adorned with campaka, aśoka, vakula and the rest, or on the pure bank of a lake thronged with geese and ducks — such an excellent place the king should take for the Puṣya bath. [Remainder of the chapter — the priest's consecration of the site, the deities worshipped, the dismissal of spirits, the invocation, the omens of dreams, the drawing of the maṇḍala and its faults, the twelve maṇḍalas, the nine jars with their names and contents, the worship, the oblations, the throne, bed and seat, the bathing of the king with the many verses of blessing, the fire-omens, the gifts and dismissal, and the concluding praise of the rite — is not rendered here.]

AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain