← Kalika Purana

Kalika Purana — Chapter 85

KaP 85.85

।। पञ्चाशीतितमोध्यायः ।। ।।और्व्व उवाच।। सदाचारेषु राजेन्द्र विशेषाञ् शृणु सम्प्रति। यानवश्यं नृपः कुर्यात् तान्मत्तः सकलाञ् शृणु साधवः क्षीणदोषाश्च सच्छब्दः साधुवाचकः। तेषामाचरणं यत् तत् सदाचारः स उच्यते आगमेषु पुराणेषु संहितासु यथोदितान्। समुद्दिष्टसदाचारान् गृह्णीयात् तान् गृहस्थवत् ऋषीन् यजेद् वेदपाठैर्देवान् होमैः प्रपूजयेत्। श्राद्धैः पितृं स्तर्पयेत् तु भूतानि वलिभिस्तथा मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम्। सर्वं गृहस्थवत् कुर्यान्निषेकाद्यं विधिं तथा षट्कर्मसु नियुञ्जीत राजा विप्रान् समन्ततः। तथैव क्षत्रियादींश्च स्वे स्वे धर्मे नियोजयेत् यः स्वधर्मं परित्यज्य परधर्मं समाचरेत्। तं शतेन नृपो दण्डं पुनस्तस्मिन् नियोजयेत् सांवत्सरेषु कृत्येषु विशिष्यैतान् समाचरेत्। अवश्यं पार्थिवो राजन् तान् विशेषाञ् शृणुष्व मे शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम्। नीराजनं दशम्यां तु कुर्याद् वै बलवृद्धये पौषे मासि तृतीयायां कुर्यात् पुष्याभिषेचनम्। पूजयित्वा श्रियं देवीं पञ्चम्याँ नृपतिश्चरेत् श्रीयज्ञं धनधान्यस्य वृद्धये नृपसत्तम। ज्यैष्ठे दशहरायां तु विष्णोरिष्टिं तथाचरेत् रवौ हरिस्थे द्वादश्यां शक्रपूजां समाचरेत्। विशिष्यैतांस्तु नृपतिः कुर्याद् यज्ञान् बहुव्ययैः एभिः कृतैर्बलं राज्यं कोषश्चापि विवर्धते। अकृतेष्वेषु यज्ञेषु दुर्भिक्षं मरणं तथा जायन्ते चेतयः सर्वा विशिष्यैतांस्ततश्चरेत्। शरत्काले महाष्टम्यां दुर्गाया; पूजने विधिः पुरा प्रोक्तस्तु विधिना तेन कार्यं तु पूजनम्। विधिं नीराजनस्य त्वं शृणु पार्थिवसत्तम कृतेन येन चाश्वानां गजानामपि वर्धनम्। आश्विने शुक्लपक्षै तु तृतीया स्वातीयोगिनी ऐशान्यां स्वपुरस्यैव गृह्णीयात् स्थानमुत्तमम्। नीराजनं ततः कुर्यात् संप्राप्ते दिवसेऽष्टमे नीराजनस्य कालस्तु पूर्वमुक्तो मया तव। विधानमात्रं शृणु मे कृतकृत्यो भविष्यसि एकं हयं महासत्त्वं सुमनोहरमेव च। पूजयेत् सप्तदिवसान् गन्धपुष्पांशुकादिभिः तृतीयादौ पूजयित्वा नयेत यज्ञमण्डलम्। चेष्टां निरूपयंस्तस्य जानीयात् तु शुभाशुभम् परराष्ट्रावमर्दः स्यादश्वो यदि पलायते। म्रियते राजपुत्रस्तु यदि चाश्रूणि मुञ्चति नीयमानो न गच्छेत् तु महिषीमरणं ततः। तथैव मुखनासाक्षि शब्दं कुर्याद्धयो यदि यः काष्ठाभिमुखः कुर्यात् तत् काष्ठायां जयेद्रिपून्। उत्क्षिप्य दक्षिणाग्रं तु पदमश्वो भवेत् पुरः तदा यदि समस्तांश्च नृपतिर्विजयेद्रिपून्। प्रातर्नाराजनं कुर्याद् दशम्यां नृपसत्तम तदप्राप्तौ च द्वादश्यां तस्यामेव समाचरेत्। कार्तिके पंचदश्यां वा तत्राभावे तु पार्थिव ऐशान्यां स्वपुरस्योच्चैर्हस्तमानेन षोडश। दशहस्तं तु विपुलां कुर्याद् वै तत्र तोरणम् द्वात्रिंशद्धस्तमात्रं तु हस्तषोडशविस्तृतम्। यज्ञार्थं मण्डलं कुर्यान्मध्ये वेदिं वनिर्दिशेत् वेद्याश्चोत्तरतश्चाश्व-वेदिं कुर्यादनुत्तमाम्। यत्र संस्थाप्य चाश्वश्च पूजितव्यः पुरोहितैः सर्जोदुम्बरशाखानामर्जुनस्याथवा नृप। मत्स्यशङ्खाङ्कितैचक्रैजैश्चाप्यभिभूषयेत् तोरणं कनकरत्नस्तथा नानार्विधैः फलैः। भल्लातकं शालिकुष्ठं सिद्ध्यर्थं सैन्धवस्य तु कण्ठदेशे निबध्नीयात् पुष्टिशान्त्यर्थमेव च। वैष्णवं मण्डलं कृत्वा दिक्पालांश्च नवग्रहान् विश्वेदेवांस्तु मन्त्रेण विष्णुमुख्यान् प्रपूजयेत्। आज्यैस्तिलैश्च पुष्पैश्च मिश्रीकृत्य पुरोहितः रवेस्तु वरुणस्यैव प्रजेशस्य तथैव च। पुरुहुतस्य विष्णोश्च होमं सप्ताहमाचरेत् एकैकस्य सहस्रं वा अष्टोत्तरशतं च वा। कुर्यात् तु प्रत्यहं होमं चतुर्वर्गस्य सिद्धये समधश्चापि होतव्याः पालाशाः खादिरास्तथा। औदुम्बर्यश्च काश्मर्या आश्वत्थाश्च पुरोधसा सौवर्णान् राजतान् वापि मार्तिकान् वा यथेच्छया। कुर्यात् तु कलशानष्टौ फलाम्राम्वरयोजितान् क्षिपेत् तेषु घटेष्वेव समङ्गहरितालकम्। चन्दनं च तथा कुष्ठं प्रियङ्गुं च मनःशिलाम् अञ्जनं च हरिद्रां च श्वेतां दन्तीं तथैव च। भल्लातकं पूर्णकोशं सहदेवीं शतावरीम् वचां सनागकुसुमां सोमराजीं सुगुप्तिकाम्। तुत्थं च करवीरं च तुलसीदलमेव च एतानि निक्षिपेन्मध्ये कलशानां पुरोहितः। कनकरम्बुजैर्यज्ञदारुभिः स्रुक्स्रुवौ तथा कर्तव्ये शान्तिकामेन नीराजनविधौ नृप। एवं सप्ताहपर्यन्तं पूजाभिर्हवनैस्तथा पूर्वोक्तान् पूजयित्वा तु नृपः सप्ताहमाचरेत्। यावन्नीराजनं कुर्यात् तावद्राजा वसेद् गृहे रात्रौ न यज्ञभूमौ तु निवसेच्छान्तिमिच्छ्रुकः। नारोहयेत् तुरङ्गं तं गजं वा तत्र पार्थिवः यावत् सप्ताहपर्यन्तं यानेनान्येन वै व्रजेत्। भक्ष्यैर्नानाविधैश्चैव मधुपायसयावकैः मोदकैर्वा बलिं कुर्यादन्नव्यञ्जनसम्भवैः। पूर्वोक्तानां तु देवानां सप्ताहं यावदुत्तमम् सप्तमेऽह्नि तु रेभन्तं पूजयेत् तोरणान्तरे। सूर्यपुत्रं महाबाहुं द्विभुजं कवचोज्ज्वलम् ज्वलन्तं शुक्लवस्त्रेण केशानुद्ग्रथ्य वासवा। कशां वामकरे बिभ्रद् दक्षिणं तु करं पुनः स खड्गं न्यस्य वामायां सितसैन्धवसंस्थितम्। एवंविधे तु रेभन्तं प्रतिमायां घटेऽपि वा सूर्यपूजाविधानेन पूजयेत तोरणान्तरे। पूजयित्वा तु रेभन्त द्विरदं तुरगं तथा अहताम्बरसंवीतं स्रक्चन्दनसमन्वितम्। सुवर्णविद्धनिस्त्रिंशं विचित्रं कवचादिभिः युक्तं तु होमकुण्डस्य ऐशान्यामश्ववेदिकाम्। पूर्वं कृतां नयेदश्वगजपालौ पृथक् पृथक् नीयमाने गजे चाश्वे पूर्वोक्तं तु निमित्तकम्। यत्नाद् वीक्षेत नृपतिः फलं चैवावधारयेत् होमकुण्डस्योत्तरस्यां वैयाघ्रे चर्मणि स्थितः। वेदविदा चाश्वविदा सहितो वीक्ष्य सैन्धवम् नीताय तुरगायाशु भक्तपिण्डीं सुगन्धिनीम्। दद्यात् पुरोहितस्तत्र संमन्त्र्य शान्तिमन्त्रकैः भक्षणाद् यदि जिघ्रेत् तदश्नीयाद् वा हयः सच। तदा स्यात् सर्वकल्याणं विपरीतमतोऽन्यथा शाखामौदुम्बरीमाम्रीं सकुशां च घटोदके। आप्लाव्याप्लाव्य तुरगान् गजान् भूपं च सैनिकान् रथांश्च संस्पृशेन्मन्त्रैः शान्तिकैः पौष्टिकैस्तथा। सेचयेत् सहितैर्विप्रैश्चतुरङ्गं पुरोहितः दिक्पालानां ग्रहाणां च मन्त्रैश्च वैष्णवैस्तथा। बहुधा चाभिषिच्याथ ततः सौवर्ण दर्पणम् वीक्षयित्वा नृपं चर्त्विक् ततो मन्त्रिणमेव च। राजपुत्रं तथामात्यानन्यानपि च सैनिकान् कम्पयन् द्विजशार्दूलः सर्वानेव तु दर्शयेत्। चतुरंगस्य स्वस्यापि कृत्वैवं शान्तिपौष्टिके मृन्मयं शात्रवं कृत्वा चाभिचारिकमन्त्रकैः। हृदि शूलेन विध्वा तं शिरं खड्गेन छेदयेत् आचार्यः कविकां पश्चादभिमन्त्र्य हयाय वै। ऐन्द्रैः प्राभाकरैर्मन्दत्रैर्दद्याद् वक्त्रे स्वयं पुनः तमनेन तु मन्त्रेण समारुह्य नृपस्तदा। गच्छेदुत्तरपूर्वां तु दिशं सर्वैर्बलैर्युतः ऋत्विक् पुरोहिताचार्याः सर्व एव नृपं तदा। अनुगच्छेयुरन्यानि निमित्तानि विलोकितुम् वादित्रघोषैस्तुमुलैरातपत्रैर्वृतस्तथा। गच्छेन्नीराजने राजा दारयन्निव मेदीनीम् मणिविद्रुममुक्तादि-स्वर्ण-रत्नैरलङ्कृतः। क्रोशमात्रं ततो गत्वा पूर्वद्वारेण पार्थिवः स्वपुरं प्रविशेद् विप्रैर्यज्ञं यायात् पुरोहितः। तत्र गत्वा दक्षिणां तु हिरण्यं गां तथा तिलम् दत्त्वा पश्चाद् द्विजेभ्यस्तु दद्याद् दानानि शक्तितः। एवं नीराजनं कृत्वा बालानां च महीक्षितः प्रेत्येह सुस्थिरां लक्ष्मीं नृपतिः प्राप्नुयात् तथा। त्वमश्वामृतसञ्जात सागरोद्भव सैन्धव येन सत्येन बहसे शक्तं तेनेह मां वह। येन सत्येन रेभन्तं येन सत्येन भास्करम् वहसे तेन सत्येन विजयाय वहस्व माम्। आभ्यां तु भूप मन्त्राभ्यामश्वारोहणमाचरेत् आरुह्याग्रे महिष्यास्तु शुद्धान्ते लम्बयेत् ततः। महिषी च ततो भूपं पर्यङ्कोपरि संस्थितम् दूर्वाक्षतैः ससिद्धार्थः स्त्रीभिः सह तमर्चयेत्। कृते तु भूमिग्रहणे तृतीयायां निराजने सूतकं यदि जायेत तत्र दुष्यति केवलम्। सूतकी मृतकी वापि पार्थिवस्तु यथा तथा बलनीराजनं कुर्यात् तन्मात्रं च विशेषतः। सद्यः शौचं भवेद्राज्ञो व्यवहारविलोकने तथाधिवासने यज्ञे परराष्ट्रविमर्दने। अयं ते कथितो राजन्नीराजनक्रमो मया। पुष्यस्नानविघानं तु पार्थिव शृणु साम्प्रतम्

|| pañcāśītitamodhyāyaḥ || ||aurvva uvāca|| sadācāreṣu rājendra viśeṣāñ śṛṇu samprati| yānavaśyaṃ nṛpaḥ kuryāt tānmattaḥ sakalāñ śṛṇu sādhavaḥ kṣīṇadoṣāśca sacchabdaḥ sādhuvācakaḥ| teṣāmācaraṇaṃ yat tat sadācāraḥ sa ucyate āgameṣu purāṇeṣu saṃhitāsu yathoditān| samuddiṣṭasadācārān gṛhṇīyāt tān gṛhasthavat ṛṣīn yajed vedapāṭhairdevān homaiḥ prapūjayet| śrāddhaiḥ pitṛṃ starpayet tu bhūtāni valibhistathā maitraṃ prasādhanaṃ snānaṃ dantadhāvanamañjanam| sarvaṃ gṛhasthavat kuryānniṣekādyaṃ vidhiṃ tathā ṣaṭkarmasu niyuñjīta rājā viprān samantataḥ| tathaiva kṣatriyādīṃśca sve sve dharme niyojayet yaḥ svadharmaṃ parityajya paradharmaṃ samācaret| taṃ śatena nṛpo daṇḍaṃ punastasmin niyojayet sāṃvatsareṣu kṛtyeṣu viśiṣyaitān samācaret| avaśyaṃ pārthivo rājan tān viśeṣāñ śṛṇuṣva me śaratkāle mahāṣṭamyāṃ durgāyāḥ paripūjanam| nīrājanaṃ daśamyāṃ tu kuryād vai balavṛddhaye pauṣe māsi tṛtīyāyāṃ kuryāt puṣyābhiṣecanam| pūjayitvā śriyaṃ devīṃ pañcamyā~ nṛpatiścaret śrīyajñaṃ dhanadhānyasya vṛddhaye nṛpasattama| jyaiṣṭhe daśaharāyāṃ tu viṣṇoriṣṭiṃ tathācaret ravau haristhe dvādaśyāṃ śakrapūjāṃ samācaret| viśiṣyaitāṃstu nṛpatiḥ kuryād yajñān bahuvyayaiḥ ebhiḥ kṛtairbalaṃ rājyaṃ koṣaścāpi vivardhate| akṛteṣveṣu yajñeṣu durbhikṣaṃ maraṇaṃ tathā jāyante cetayaḥ sarvā viśiṣyaitāṃstataścaret| śaratkāle mahāṣṭamyāṃ durgāyā; pūjane vidhiḥ purā proktastu vidhinā tena kāryaṃ tu pūjanam| vidhiṃ nīrājanasya tvaṃ śṛṇu pārthivasattama kṛtena yena cāśvānāṃ gajānāmapi vardhanam| āśvine śuklapakṣai tu tṛtīyā svātīyoginī aiśānyāṃ svapurasyaiva gṛhṇīyāt sthānamuttamam| nīrājanaṃ tataḥ kuryāt saṃprāpte divase'ṣṭame nīrājanasya kālastu pūrvamukto mayā tava| vidhānamātraṃ śṛṇu me kṛtakṛtyo bhaviṣyasi ekaṃ hayaṃ mahāsattvaṃ sumanoharameva ca| pūjayet saptadivasān gandhapuṣpāṃśukādibhiḥ tṛtīyādau pūjayitvā nayeta yajñamaṇḍalam| ceṣṭāṃ nirūpayaṃstasya jānīyāt tu śubhāśubham pararāṣṭrāvamardaḥ syādaśvo yadi palāyate| mriyate rājaputrastu yadi cāśrūṇi muñcati nīyamāno na gacchet tu mahiṣīmaraṇaṃ tataḥ| tathaiva mukhanāsākṣi śabdaṃ kuryāddhayo yadi yaḥ kāṣṭhābhimukhaḥ kuryāt tat kāṣṭhāyāṃ jayedripūn| utkṣipya dakṣiṇāgraṃ tu padamaśvo bhavet puraḥ tadā yadi samastāṃśca nṛpatirvijayedripūn| prātarnārājanaṃ kuryād daśamyāṃ nṛpasattama tadaprāptau ca dvādaśyāṃ tasyāmeva samācaret| kārtike paṃcadaśyāṃ vā tatrābhāve tu pārthiva aiśānyāṃ svapurasyoccairhastamānena ṣoḍaśa| daśahastaṃ tu vipulāṃ kuryād vai tatra toraṇam dvātriṃśaddhastamātraṃ tu hastaṣoḍaśavistṛtam| yajñārthaṃ maṇḍalaṃ kuryānmadhye vediṃ vanirdiśet vedyāścottarataścāśva-vediṃ kuryādanuttamām| yatra saṃsthāpya cāśvaśca pūjitavyaḥ purohitaiḥ sarjodumbaraśākhānāmarjunasyāthavā nṛpa| matsyaśaṅkhāṅkitaicakraijaiścāpyabhibhūṣayet toraṇaṃ kanakaratnastathā nānārvidhaiḥ phalaiḥ| bhallātakaṃ śālikuṣṭhaṃ siddhyarthaṃ saindhavasya tu kaṇṭhadeśe nibadhnīyāt puṣṭiśāntyarthameva ca| vaiṣṇavaṃ maṇḍalaṃ kṛtvā dikpālāṃśca navagrahān viśvedevāṃstu mantreṇa viṣṇumukhyān prapūjayet| ājyaistilaiśca puṣpaiśca miśrīkṛtya purohitaḥ ravestu varuṇasyaiva prajeśasya tathaiva ca| puruhutasya viṣṇośca homaṃ saptāhamācaret ekaikasya sahasraṃ vā aṣṭottaraśataṃ ca vā| kuryāt tu pratyahaṃ homaṃ caturvargasya siddhaye samadhaścāpi hotavyāḥ pālāśāḥ khādirāstathā| audumbaryaśca kāśmaryā āśvatthāśca purodhasā sauvarṇān rājatān vāpi mārtikān vā yathecchayā| kuryāt tu kalaśānaṣṭau phalāmrāmvarayojitān kṣipet teṣu ghaṭeṣveva samaṅgaharitālakam| candanaṃ ca tathā kuṣṭhaṃ priyaṅguṃ ca manaḥśilām añjanaṃ ca haridrāṃ ca śvetāṃ dantīṃ tathaiva ca| bhallātakaṃ pūrṇakośaṃ sahadevīṃ śatāvarīm vacāṃ sanāgakusumāṃ somarājīṃ suguptikām| tutthaṃ ca karavīraṃ ca tulasīdalameva ca etāni nikṣipenmadhye kalaśānāṃ purohitaḥ| kanakarambujairyajñadārubhiḥ sruksruvau tathā kartavye śāntikāmena nīrājanavidhau nṛpa| evaṃ saptāhaparyantaṃ pūjābhirhavanaistathā pūrvoktān pūjayitvā tu nṛpaḥ saptāhamācaret| yāvannīrājanaṃ kuryāt tāvadrājā vased gṛhe rātrau na yajñabhūmau tu nivasecchāntimicchrukaḥ| nārohayet turaṅgaṃ taṃ gajaṃ vā tatra pārthivaḥ yāvat saptāhaparyantaṃ yānenānyena vai vrajet| bhakṣyairnānāvidhaiścaiva madhupāyasayāvakaiḥ modakairvā baliṃ kuryādannavyañjanasambhavaiḥ| pūrvoktānāṃ tu devānāṃ saptāhaṃ yāvaduttamam saptame'hni tu rebhantaṃ pūjayet toraṇāntare| sūryaputraṃ mahābāhuṃ dvibhujaṃ kavacojjvalam jvalantaṃ śuklavastreṇa keśānudgrathya vāsavā| kaśāṃ vāmakare bibhrad dakṣiṇaṃ tu karaṃ punaḥ sa khaḍgaṃ nyasya vāmāyāṃ sitasaindhavasaṃsthitam| evaṃvidhe tu rebhantaṃ pratimāyāṃ ghaṭe'pi vā sūryapūjāvidhānena pūjayeta toraṇāntare| pūjayitvā tu rebhanta dviradaṃ turagaṃ tathā ahatāmbarasaṃvītaṃ srakcandanasamanvitam| suvarṇaviddhanistriṃśaṃ vicitraṃ kavacādibhiḥ yuktaṃ tu homakuṇḍasya aiśānyāmaśvavedikām| pūrvaṃ kṛtāṃ nayedaśvagajapālau pṛthak pṛthak nīyamāne gaje cāśve pūrvoktaṃ tu nimittakam| yatnād vīkṣeta nṛpatiḥ phalaṃ caivāvadhārayet homakuṇḍasyottarasyāṃ vaiyāghre carmaṇi sthitaḥ| vedavidā cāśvavidā sahito vīkṣya saindhavam nītāya turagāyāśu bhaktapiṇḍīṃ sugandhinīm| dadyāt purohitastatra saṃmantrya śāntimantrakaiḥ bhakṣaṇād yadi jighret tadaśnīyād vā hayaḥ saca| tadā syāt sarvakalyāṇaṃ viparītamato'nyathā śākhāmaudumbarīmāmrīṃ sakuśāṃ ca ghaṭodake| āplāvyāplāvya turagān gajān bhūpaṃ ca sainikān rathāṃśca saṃspṛśenmantraiḥ śāntikaiḥ pauṣṭikaistathā| secayet sahitairvipraiścaturaṅgaṃ purohitaḥ dikpālānāṃ grahāṇāṃ ca mantraiśca vaiṣṇavaistathā| bahudhā cābhiṣicyātha tataḥ sauvarṇa darpaṇam vīkṣayitvā nṛpaṃ cartvik tato mantriṇameva ca| rājaputraṃ tathāmātyānanyānapi ca sainikān kampayan dvijaśārdūlaḥ sarvāneva tu darśayet| caturaṃgasya svasyāpi kṛtvaivaṃ śāntipauṣṭike mṛnmayaṃ śātravaṃ kṛtvā cābhicārikamantrakaiḥ| hṛdi śūlena vidhvā taṃ śiraṃ khaḍgena chedayet ācāryaḥ kavikāṃ paścādabhimantrya hayāya vai| aindraiḥ prābhākarairmandatrairdadyād vaktre svayaṃ punaḥ tamanena tu mantreṇa samāruhya nṛpastadā| gaccheduttarapūrvāṃ tu diśaṃ sarvairbalairyutaḥ ṛtvik purohitācāryāḥ sarva eva nṛpaṃ tadā| anugaccheyuranyāni nimittāni vilokitum vāditraghoṣaistumulairātapatrairvṛtastathā| gacchennīrājane rājā dārayanniva medīnīm maṇividrumamuktādi-svarṇa-ratnairalaṅkṛtaḥ| krośamātraṃ tato gatvā pūrvadvāreṇa pārthivaḥ svapuraṃ praviśed viprairyajñaṃ yāyāt purohitaḥ| tatra gatvā dakṣiṇāṃ tu hiraṇyaṃ gāṃ tathā tilam dattvā paścād dvijebhyastu dadyād dānāni śaktitaḥ| evaṃ nīrājanaṃ kṛtvā bālānāṃ ca mahīkṣitaḥ pretyeha susthirāṃ lakṣmīṃ nṛpatiḥ prāpnuyāt tathā| tvamaśvāmṛtasañjāta sāgarodbhava saindhava yena satyena bahase śaktaṃ teneha māṃ vaha| yena satyena rebhantaṃ yena satyena bhāskaram vahase tena satyena vijayāya vahasva mām| ābhyāṃ tu bhūpa mantrābhyāmaśvārohaṇamācaret āruhyāgre mahiṣyāstu śuddhānte lambayet tataḥ| mahiṣī ca tato bhūpaṃ paryaṅkopari saṃsthitam dūrvākṣataiḥ sasiddhārthaḥ strībhiḥ saha tamarcayet| kṛte tu bhūmigrahaṇe tṛtīyāyāṃ nirājane sūtakaṃ yadi jāyeta tatra duṣyati kevalam| sūtakī mṛtakī vāpi pārthivastu yathā tathā balanīrājanaṃ kuryāt tanmātraṃ ca viśeṣataḥ| sadyaḥ śaucaṃ bhavedrājño vyavahāravilokane tathādhivāsane yajñe pararāṣṭravimardane| ayaṃ te kathito rājannīrājanakramo mayā| puṣyasnānavighānaṃ tu pārthiva śṛṇu sāmpratam

Chapter Eighty-five. Aurva said: Now, lord of kings, hear the particulars concerning good conduct; hear from me all those things which a king must necessarily do. The good are those whose faults are exhausted; the word 'sat' denotes the good; that practice of theirs is called good conduct (sadācāra). He should adopt, as a householder does, those observances of good conduct as they are laid down and prescribed in the Āgamas, the Purāṇas and the Saṃhitās. He should worship the seers with recitations of the Veda and honour the gods with oblations; he should satisfy the ancestors with śrāddhas and the spirits with offerings. Friendly conduct, adornment, bathing, cleaning the teeth, applying collyrium — all this he should do as a householder does, and likewise the rites beginning with insemination. The king should everywhere engage brahmins in the six duties, and likewise engage kṣatriyas and the rest each in his own duty. Whoever abandons his own duty and practises another's, him the king should fine a hundred and set him again in his own duty. Among the annual observances he should perform these in particular; hear from me those particulars which a king must certainly (observe). [Remainder of the chapter — the autumn worship of Durgā on the great eighth, the Nīrājana rite with its horse and elephant omens, its arena, garlands, pots, oblations and mantras, the worship of Revanta, the sprinkling of the fourfold army, the king's mounting of the horse with the two verses, and the rules on impurity — is not rendered here.]

AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain