← Kalika Purana

Kalika Purana — Chapter 84

KaP 84.84

।। चतुरशीतितमोऽध्यायः ।। ।।ऋषय ऊचुः।। कथितो भवता सर्गः संशयश्चापि शातिताः। त्वत्प्रसादान्महाभाग कृतकृत्या वयं गुरो भूयश्च श्रोतुमिच्छामो वयमेतद् द्विजोत्तम। कोऽन्यो भृङ्गी महाकालो जातौ वेतालभैरवौ वेतालं च महाकालं भैरवं भृङ्गिणं तथा। शृणुमो द्विजशार्दूल कथमेषां चतुष्टयम् ।।मार्कण्डेय उवाच।। भुवं गते महाकाले मानुष्यस्थे च भृङ्गिणि। वेतालभैरवाख्ये च तयोर्भूते द्विजोत्तमाः वरलब्धे च वेताले भैरवे तेन सङ्गते। अन्धकं तपसा युक्तं भृङ्गिणं चाकरोद्धरः अन्धकस्तु हरं पूर्वं विरुध्यापदमागतः। पश्चाद्धरं समाराध्य पुत्रोऽभूत् तस्य सोऽसुरः भृङ्गिस्नेहाद् भृङ्गिणं तं संज्ञया चाकरोद्धरः। स्नेहेन तु महाकाले बाणं बलिसुतं हरः। विष्णुना छिन्नबाहुं तु महाकालमथाकरोत् एवं मुनिवरस्तेषां संयतं च चतुष्टयम्। वेतालभैरवौ भृङ्गिमहाकालौ ह्यनुक्रमात् ।।ऋषयं उवाच।। यत् पृष्टं सगरेणैव मुनिमौर्व्वं महाधियम्। नीत्या यौज्या यया भार्या सुत आत्माऽथवा गुरो राजनीतौ सतां नीतौ सदाचारे च ये स्थिताः। विशेषास्तेन ये प्रोक्ता और्वेण सुमहात्मना विशेषेण द्विजश्रेष्ठ श्रोतुं सम्यक् तपोधन। इच्छामस्तान् महाभाग कथयस्व जगद्गुरो ।।मार्कण्डेय उवाच।। ये ये विशेषाः कथिता और्वेण सुमहात्मना। तद् वः सर्वं प्रवक्ष्यामि शृण्वन्तु मुनिसत्तमाः श्रुत्वैवं सगरो राजा मन्त्रकल्पादिकं पुनः। विशेषं परिपप्रच्छ नीत्यादीनां महामुनिम् ।।सगर उवाच।। यया नीत्या प्रयोक्तव्यः सुत आत्मा प्रिया तथा। तेषाँ विशेषैः सहितं सदाचारं वदस्व मे ।।और्व्व उवाच।। क्रमेण शृणु राजेन्द्र यया नीत्या नियोजिताः। आत्मा सुतो वा भार्या वा तद्विशेषं शृणुष्व मे ज्ञानविद्यातपोवृद्धान् वयोवृद्धान् सुदक्षिणान्। सेवेत प्रथमं विप्रानसूयापरिवर्जितान् तेभ्याश्च शृणुयांन्नित्यं वेदशास्त्रविनिश्चयम्। यदूचुस्ते च तत् कार्यं प्राज्ञं चैव नृपश्चरेत् पञ्चेन्द्रियाणि पञ्चाश्वाः शरीरं रथ उच्यते। आत्मा रथी कशा ज्ञानं सारथिर्मन उच्यते अश्वान् सुदान्तान् कुर्वीत सारथिं चात्मनो वशम्। कशा दृढा सदा कार्या शरीरस्थिरता तथा अदान्तांस्तु समारुह्य सैन्धवान् स्यन्दनी यथा। अश्वानामिच्छया गच्छन्नुत्पथं प्रतिपद्यते तत्रावशः सारथिस्तु स्वेच्छया प्रेरयन् हयान्। नयेत् परवशं सम्यग् प्रथितं वीरमप्युत तथेन्द्रियाणि नृपतिर्विषयाणां परिग्रहे। स्ववश्यानि प्रकुर्वीत मनो ज्ञानं दृढं तथा ज्ञाने दृढे कशायां च दृढायां नृपसत्तम। सारथिः स्ववशो दान्तानीशः प्रेरयितुं हयान् अतो नृपः स्वेन्द्रियाणि वशे कृत्वा मनस्तथा। ज्ञानमार्गमधिष्ठाय प्रकुर्वीतात्मनो हितम् भोक्तव्यं स्वेच्छया भूयो न कुर्याल्लोभमासवे। द्रष्टव्यमिति द्रष्टव्यं न द्रष्टव्यं च स्वेच्छया श्रोतव्यमिति श्रोतव्यं नाधिकं श्रवणे चरेत्। शास्त्रतत्त्व मृते धीरः श्रुतिवश्यो भवेन्न हि एवं घ्राणं त्वचं चापि वशीकृत्येच्छया नृपः। स्वेच्छया नोपभुञ्जीत नोद्दामं विषयं व्रजेत् एवं यदि भवेद्राजा तदा स स्याज्जितेन्द्रियः। जितेन्द्रियत्वे हेतुश्च शास्त्रवृद्धोपसेवनम् अवृद्धसेव्यशास्त्रज्ञो नृपः शत्रुवशो भवेत्। तस्माच्छास्त्रमधिष्ठाय भवेद्राजा जितेन्द्रियः धृतिः प्रागल्भ्यसुत्साहो वाक्पटुत्वं विवेचनम्। दक्षत्वं धारयिष्णुत्वं दानमैत्रीकृतज्ञता दृढशासनता सत्यं शौचं मतिविनिश्चयम्। पराभिप्रायवेदित्वं चरित्रं धैर्यमापदि क्लेशधारणशक्तिश्च गुरुदेवद्विजार्चनम्। अनसूया ह्यकोपित्वं गुणानेतान्नृपोऽभ्यसेत् कार्याकार्यविभागश्च धर्मार्थो काम एव च। सततं प्रतिबुध्येत कुर्यादवसरेऽपि तत् सामदानं च भेदश्च दण्डश्चेति चतुष्टयम्। ज्ञात्वोपायांस्तु तत्काले तदुपायान् प्रयोजयेत् साम्नस्तु विषये भेदो मध्यमः परिकीर्तितः। दानस्य विषये साम योग्यमेवोपलक्ष्यते दानस्य विषये दण्डो ह्यधनः परिकीर्तितः। दण्डस्य विषये दानं तदप्यधममुच्यते साम्नस्तु गोचरे दण्डो ह्यधमादधमः स्मृतः। सौजन्यं सततं ज्ञेयं भूभृतो भेददण्डयोः साम्नो दानस्य च तथा सौजन्यं याति गोचरे कामः क्रोधश्च लोभश्च हर्षो मानो मदस्तथा। एतानतिशयान् राजा शत्रूनिव विशातयेत्। सेव्याः काले संयुक्तौ ते लोभगर्वौ विवर्जयेत् तेज एव नृपाणां तु तीव्रं सूर्यस्य वै यथा। तत्र गर्वं रोगयुक्तं कायवांस्तं तु सत्यजेत् आखेटकाक्षौ स्त्रीसेवा पानं चैवार्थदूषणम्। वाग्दण्डयोश्च पारुष्यं सप्तैतानि विवर्जयेत् परस्त्रीषु विरक्तासु सेवामेकान्ततस्त्यजेत्। सतीषु निजनारीषु युक्तं कुर्यान्निवेशनम् रतिपुत्रफला दारास्तांस्तु नैकान्ततस्त्यजेत्। तयोः सिद्धयै स्त्रियः सेव्या वर्जयित्वातिसक्तताम् मृगायां तु प्रमादानां स्थानं नित्यं विवर्जयेत्। अक्षांस्तथा न कुर्वीति सत्कार्यासक्तिनाशनम् अन्यैः कृतं कदाचित् तु सेवेत नात्मनाचरेत्। अकार्यकरणे बीजं कृत्यानां च विवर्जने अकालभेन्त्रभेदे च कलहे सत्कृतिक्षये। वर्जयेत् सततं पानं शौचमाङ्गल्यनाशनम् अर्थक्षयकरं नित्यं त्यजेच्चैवात्मदूषणम्। अभिशस्तेषु चोरेषु घातकेष्वाततायिषु सततं पृथिवीपालो दण्डपारुष्यमाचरेत्। नान्यत्र दण्डपारुष्यं कुर्यान्नृपतिसत्तमः वाक्पारुष्यं च सर्वत्र नैव कुर्यात् कदाचन। रक्षणीयं सदा सत्यं सत्यमेकं परायणम् क्षमां तेजस्वितां चैव प्रस्तावान्नृप आचरेत्। यानासनाश्रयद्वैधसन्धयो विग्रहस्तथा अभ्यसेत् षड्गुणानेतांस्तेषां स्थानं च शाश्वतम्। यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये कोषे जनपदे दण्डे न स राज्येऽवतिष्ठते। कोषे जनपदे दण्डे चैकैकत्र त्रयं त्रयम् प्रस्तावाद्विनियुञ्जीत रक्षेन्नैकांस्ततस्त्विमान्। मित्रे शत्रावुदासीने प्रभावं त्रिष्वपीरयेत् उत्साहो विजिगीषायां धर्मकृत्येऽष्टवर्गके। शरीरयात्रानिर्वाहे क्रियेत सततं नृपैः मन्त्रनिश्चयसम्भूतां बुद्धिं सर्वत्र योजयेत्। अमात्ये शात्रवे राज्ये पुत्रेष्वन्तःपुरेषु च कृषिं दुर्गं च वाणिज्यं ख़ड्गानां करसाधनम्। आदानं सैन्यकरयोर्बन्धनं गजवाजिनोः शून्ये सद्ममुखानां च योजनं सततं जनैः। त्रयाणां सारसेतूनां बन्धनं चेति चाष्टमम् एतदष्टसु वर्गेषु चारान् सम्यक् प्रयोजयेत्। कार्याकार्यविभागाय चाष्टवर्गाधिकारिणाम् अष्टौ चारान्नियुञ्जीयादष्टवर्गेषु पार्थिवः। दश शून्येषु युञ्जीत क्रमतः शृणु तानि मे स्वामी सचिव-राष्ट्राणि मित्रं कोशो बलं तथा। दुर्गं तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम् दुर्गमुक्तं चाष्टवर्गे चारान्नात्मनि योजयेत्। तस्मादिमानि शेषाणि पंच चारपदानि च शुद्धान्तेषु च पुत्रेषु ससूय्यादौ महानसे। शत्रदासीनयोश्चापि बलाबलविनिश्चये अष्टादशसु चैतेषु चारान् राजा प्रयोजयेत्। न यत्प्रकाशं जानीयात् तत् तच्चारैर्निरूपयेत् निरूप्य तत्-प्रतीकारमवश्यं छिद्रतश्चरेत्। यथानियोगमेतेषां यो यो यत्रान्यथाचरेत् ज्ञात्वा तत्र नृपश्चारैर्दण्डयेद् वा वियोजयेत्। चारांस्तु मन्त्रिणा सार्धं रहस्ये संस्थितो नृपः प्रदोषसमये पृच्छेत् तदानीमेव साधयेत्। स्वपुत्रे चाथ शुद्धान्ते ये तु चारा महानसे नियुक्तास्तान्मध्यरात्रे पृच्छेत् स्वोऽपि च मन्त्रिणि। एतांश्चारान् स्वयं पश्येन्नृपतिर्मन्त्रिणा विना अन्यांस्तु मन्त्रिणा सार्धं निरूप्य प्रदिशेत् फलम्। नैकवेशधरश्चारो नैको नोत्साहवर्जितः संस्तुतो नहि सर्वत्र नातिदीर्घो न वामनः। सततं न दिवाचारी न रोगी नाप्यबुद्धिमान् न वित्तविभवैर्हीनो न भार्यापुत्रवर्जितः। कार्यश्चारो नृपतिना तत्त्वगुह्यविनिर्णये अनेकवेशग्रहणक्षमं भार्यासुतैर्युतम्। बहुदेशवचोऽभिज्ञं पराभिप्रायवेदकम् दृढभक्तं प्रकुर्वीत चारं शक्तमसाध्यसम्। अभितिष्ठेत् स्वयं राजा कृषिमात्मसमैस्तथा वणिक्पथे तु दुर्गादो तेषु शक्तान्नियोजयेत्। अन्तःपुरे पितुस्तुल्यान् धीरान् वृद्धान्नियोजयेत् षण्ढान् पण्डांस्तथा वृद्धां स्त्रियौ वा बुद्धितत्पराः। शुद्धान्ते द्वारि युञ्जीयात् स्त्रियो वृद्धा मनीषिणीः नैकः स्वपेत् कदाचित् तु नैको भुञ्जीत पार्थिवः। नैकाकिनीं तु महिषीं ब्रजेन्मैत्राय नैककः अमात्यानुपधाशुद्धान् भार्याः पुत्रांस्तथैव च। प्रकुर्यात् सततं भूपः सप्रसादं समाचरन् धर्मार्थकाममोक्षैश्च प्रत्येकं परिशोधनैः। उपेत्य धीयते यस्मादुपधा सा प्रकीर्तिता अर्थकामोपधाभ्यां तु भार्यापुत्रांश्च शोधयेत्। धर्मोपधाभिर्विप्रांस्तु सर्वांभिः सचिवान् पुनः एभिर्यज्ञैतस्था दानैरिहैव नृपतिर्भवेत्। तस्माद् भवांस्तु राज्यार्थी धर्ममेवं समाचरेत् अनेनैवाभिचारेण यज्ञैर्वां पार्थिवो ह्ययम्। प्राणांस्त्यजति राजा त्वं भविष्यसि न सशयः इति धर्मो नृपस्यैव अश्वमेधादिकश्च यः। स्वयं न कुरुते भूपस्तस्मात् त्वं कुरु सत्तम एवं मन्त्रैर्मन्त्रयित्वा नृपः कार्यान्तिकाद् द्विजात्। तैरज्ञातान् स्वयं ज्ञात्वा गृह्णीयात् तस्य तैर्मनः यदि राज्याभिलाषेण सचिवोऽधर्ममाचरेत्। नृपतौ बाधकं कुर्याद् धर्मं तं होनतां नयेत् आभिचारिकमर्त्यर्थं कुर्वाणं तु विघाययेत्। प्रवासयेद् ब्राह्मणं तु पार्थिवश्चाभिचारिकम् एषा घर्मोपधा ज्ञेया तैरमात्यातन् सताञ्जयेत्। तादृशीं तथैवान्यामुपधां धर्मतश्चरेत् कोशाध्यक्षान् समामन्त्र्य राजामात्यान् प्रतारयेत्। पुत्रानन्यान् प्रति तथा मन्त्रसंवरणाक्षमान् अयं हि प्रचुरः कोषो मदायत्तो नरोत्तम। आनये तव संमत्या तद् यदि त्वं प्रतीक्षसि तवार्थलग्नादस्माकं जीवनं च भविष्यति। त्वं चापि प्रचुरैः कोषैः किं किं वा न करिष्यसि एवमन्यैः कोषगतैरुपायैर्नृपसत्तमः। पुत्रामात्यादिकान् सर्वान् सततं परिशोधयेत् कोषदोषकरान् हन्यात् कर्तुमिच्छन् विवासयेत्। द्वैधचित्तान् विमन्येत कुर्याद् वै कोशरक्षणम् दासीश्च शिल्पिनीर्वृद्धा मेधाधृतिमतीः स्त्रियः। अन्तर्बहिश्च या यान्ति विदिताः सचिवादिभिः ता राजा रहसि स्थित्वा भार्यादिभिरलक्षितः। अभिमन्त्र्याथ संमन्त्र्य प्रेषयेत् सचिवान् प्रति ता गत्वा हृदयं बुद्धा स्त्रियो विज्ञानतत्पराः। महिषीप्रमुखा राज्ञस्त्वां वै कामयते शुभा तत्राहं योजयिष्यामि यदि ते विद्यते स्पृहा। सचिवस्त्वां कामयते त्वद्योग्यो वरवर्णिनि तं संगमयितुं शक्ता यदि श्रद्धा तवास्त्यहम्। इत्यनेन प्रकारेण नानोपायैस्तथोत्तरैः भार्याः पुत्रदुहित्रीश्च स्नुषाश्च प्रस्नुषास्तथा। शोधयेत् सचिवान् पुत्रान् पौत्रादीन् सेवकांस्तथा कामोपधाऽविशुद्धांस्तु घातयेदविचारयन्। स्त्रियस्तु योज्या दण्डेन ब्राह्मणांस्तु प्रवासयेत् मोक्षमार्गावसक्तं तु हिंसापैशुन्यवर्जितम्। क्षमैकसारं नृपतिः सचिवं परिवर्जयेत् मोक्षमार्गविरक्तांस्तु दण्डयानपि न दण्डयेत्। समबुद्धिस्तु सर्वत्र तस्मात् तं परिवर्जयेत् इति सूत्रं चोपधानामुपधा बहुधा पुनः। विवेचिता चोशनसा तच्छास्त्रे तत्र बोधयेत् विग्रहं सततं राजा परैर्न्न सम्यगाचरेत्। भूवित्तमित्रलाभेषु निश्चितेष्वेव विग्रहाः सप्ताङ्गेषु प्रसादश्च सदा कार्यो नृपोत्तमैः। कोषस्य सञ्चयं रक्षां सततं सम्यगाचरेत् मन्त्रिणस्तु नृपः कुर्याद् विप्रान् विद्याविशारदान्। विनयाज्ञान् कुलीनांश्च धर्मार्थकुशलानृजून् मन्त्रयेत् तैः समं ज्ञानं नात्यर्थं बहुभिश्चरेत्। एकैकेनैव कर्तव्यं मन्त्रस्य च विनिश्चयम् व्यस्तैः समस्तैश्चान्यस्य व्यपदेशैः समन्ततः। सुसंवृतं मन्त्रगृहं स्थलं वारुह्य मन्त्रयेत् अरण्ये निःशलाके वा न यामिन्यां कदाचन। शिशूञ्छाखामृगान् पण्डाञ्छुकान् वै सारिकास्तथा वर्जयेन्मन्त्रगेहे तु मनुष्यान् विकृतांस्तथा। दूषणं मन्त्रभेदेषं नृपाणां यत् तु जायते न तच्छक्यं समाधातुं दक्षैर्नृपशतैरपि। दण्ड्यांस्तु दण्डयेद् दण्डैरदण्ड्यान् दण्डयेन्नहि अदण्डयन् नृपो दण्ड्यान्नदण्ड्यांश्चापि दण्डयन्। नृपतिर्वाच्यतां प्राप्य चौरकिल्विषमाप्नुयात् दुर्गे तु समतां कुर्याद् प्राकाराट्टलतोरणैः। भूषितान्नगराद्राजा दूरे दुर्गाश्रयं चरेत् दुर्गं बलं नृपाणां तु नित्यं दुर्गं प्रशस्यते। शतमेको योधयति दुर्गस्थो यो धनुर्द्धरः शतं दशसहस्राणि तस्माद् दुर्गं प्रशस्यते। जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव च आरण्यंमरुदुर्गं च शैलजं परिखोद्भवम्। दुर्गं कार्यं नृपतिना यथा दुर्गं स्वदेशतः दुर्गं कुर्वन् पुरं कुर्यात् त्रिकोणं धनुराकृति। वर्तुलं च चतुष्कोणं नान्यथा नगरं चरेत् मृदङ्गाकृतिदुर्गं तु सततं कुलनाशनम्। यथा राक्षसराज्यस्य लङ्का दुर्गान्विता पुरा वलेः पुरं शोणिताख्यं तेजो दुर्गैः प्रतिष्ठितम्। तद् यस्माद् व्यजनाकारं मनोभ्रष्टः सिवावलिः सौभाग्यं शाल्वराजस्य नगरं पंचकोणकम्। दिवि यद् वर्तते राज्यं तच्च भ्रष्टं भविष्यति यच्चायोध्याह्वयं भूप पुरमिक्ष्वाकुभूभृताम्। धनुराकृति तच्चापि ततोऽभूद् विजयप्रदम् दुर्गभूभौ यजेद् दुर्गां दिक्पालांश्चैव द्वारतः। पूजयित्वा विधानेन जयं भूपः समाप्नुयात् अतो दुर्गं नृपः कुर्यात् सततं जयवृद्धये। न ब्राह्मणान् सदा राजा केनाप्यवमनीकृतान् अवमन्य नृपो विप्रान् प्रेत्येह दुःखभाग् भवेत्। न विरोधस्तु तै कार्यः स्वानि तेषां न चाददेत् कृत्यकालेषु सततं तानेव परिपूजयेत्। नैषां निन्दां प्रकुर्वीत नाभ्यसूयां तथाचरेत् एवं नृपो महाबुद्धिस्तत्त्वमण्डलसंयुतः। अप्रभादी चारचक्षुर्गुंणवान् सुप्रियंवदः प्रेत्येह महतीं सिद्धिं प्राप्नोति सुखभोगवान्। यैर्गुणैर्योजितश्चात्मा तैः पुत्रानपि योजयेत नृपस्य च स्वतन्त्रत्वं सततं स्वं विनाशयेत्। स्वतन्त्रो भूपतनयो विकारं याति निश्चितम् निर्विकाराय सततं वृद्धांश्च परियोजयेत्। भोजने शयने याने पुरुषाणां च वीक्षणे वियोजयेत् सदा दारान् भूपः कामविचेष्टने। अस्वतन्त्राः स्त्रियः कार्याः सततं पार्थिवेन तु ताः स्वतन्त्राः स्त्रियो नित्यं हानये सम्भवन्ति हि। तस्मात् कुमारं महिषीमुपधाभिर्मनोहरैः शोधयित्वा नियुञ्जीत यौवराज्यावरोधयोः। अन्तःपुरप्रवेशे तु स्वतन्त्रत्वं निषेधयेत् भूपपुत्रस्य भार्याया बहिःसारे तथैव च। अयं विशेषः संक्षेपान्नृपधर्मो मयोदितः पुत्राणां गुणविन्यासे भार्याणामपि भूपते। उशना राजनीतीनां तन्त्राणि तु बृहस्पतिः चकारान्यान् विशेषांस्तु तयोस्तन्त्रेषु बोधयेत्। एवं राजा महाभागे राजनीतौ विशेषताम्। कुर्वन्न सीदति सदा भूयसीं श्रियमश्नुते

|| caturaśītitamo'dhyāyaḥ || ||ṛṣaya ūcuḥ|| kathito bhavatā sargaḥ saṃśayaścāpi śātitāḥ| tvatprasādānmahābhāga kṛtakṛtyā vayaṃ guro bhūyaśca śrotumicchāmo vayametad dvijottama| ko'nyo bhṛṅgī mahākālo jātau vetālabhairavau vetālaṃ ca mahākālaṃ bhairavaṃ bhṛṅgiṇaṃ tathā| śṛṇumo dvijaśārdūla kathameṣāṃ catuṣṭayam ||mārkaṇḍeya uvāca|| bhuvaṃ gate mahākāle mānuṣyasthe ca bhṛṅgiṇi| vetālabhairavākhye ca tayorbhūte dvijottamāḥ varalabdhe ca vetāle bhairave tena saṅgate| andhakaṃ tapasā yuktaṃ bhṛṅgiṇaṃ cākaroddharaḥ andhakastu haraṃ pūrvaṃ virudhyāpadamāgataḥ| paścāddharaṃ samārādhya putro'bhūt tasya so'suraḥ bhṛṅgisnehād bhṛṅgiṇaṃ taṃ saṃjñayā cākaroddharaḥ| snehena tu mahākāle bāṇaṃ balisutaṃ haraḥ| viṣṇunā chinnabāhuṃ tu mahākālamathākarot evaṃ munivarasteṣāṃ saṃyataṃ ca catuṣṭayam| vetālabhairavau bhṛṅgimahākālau hyanukramāt ||ṛṣayaṃ uvāca|| yat pṛṣṭaṃ sagareṇaiva munimaurvvaṃ mahādhiyam| nītyā yaujyā yayā bhāryā suta ātmā'thavā guro rājanītau satāṃ nītau sadācāre ca ye sthitāḥ| viśeṣāstena ye proktā aurveṇa sumahātmanā viśeṣeṇa dvijaśreṣṭha śrotuṃ samyak tapodhana| icchāmastān mahābhāga kathayasva jagadguro ||mārkaṇḍeya uvāca|| ye ye viśeṣāḥ kathitā aurveṇa sumahātmanā| tad vaḥ sarvaṃ pravakṣyāmi śṛṇvantu munisattamāḥ śrutvaivaṃ sagaro rājā mantrakalpādikaṃ punaḥ| viśeṣaṃ paripapraccha nītyādīnāṃ mahāmunim ||sagara uvāca|| yayā nītyā prayoktavyaḥ suta ātmā priyā tathā| teṣā~ viśeṣaiḥ sahitaṃ sadācāraṃ vadasva me ||aurvva uvāca|| krameṇa śṛṇu rājendra yayā nītyā niyojitāḥ| ātmā suto vā bhāryā vā tadviśeṣaṃ śṛṇuṣva me jñānavidyātapovṛddhān vayovṛddhān sudakṣiṇān| seveta prathamaṃ viprānasūyāparivarjitān tebhyāśca śṛṇuyāṃnnityaṃ vedaśāstraviniścayam| yadūcuste ca tat kāryaṃ prājñaṃ caiva nṛpaścaret pañcendriyāṇi pañcāśvāḥ śarīraṃ ratha ucyate| ātmā rathī kaśā jñānaṃ sārathirmana ucyate aśvān sudāntān kurvīta sārathiṃ cātmano vaśam| kaśā dṛḍhā sadā kāryā śarīrasthiratā tathā adāntāṃstu samāruhya saindhavān syandanī yathā| aśvānāmicchayā gacchannutpathaṃ pratipadyate tatrāvaśaḥ sārathistu svecchayā prerayan hayān| nayet paravaśaṃ samyag prathitaṃ vīramapyuta tathendriyāṇi nṛpatirviṣayāṇāṃ parigrahe| svavaśyāni prakurvīta mano jñānaṃ dṛḍhaṃ tathā jñāne dṛḍhe kaśāyāṃ ca dṛḍhāyāṃ nṛpasattama| sārathiḥ svavaśo dāntānīśaḥ prerayituṃ hayān ato nṛpaḥ svendriyāṇi vaśe kṛtvā manastathā| jñānamārgamadhiṣṭhāya prakurvītātmano hitam bhoktavyaṃ svecchayā bhūyo na kuryāllobhamāsave| draṣṭavyamiti draṣṭavyaṃ na draṣṭavyaṃ ca svecchayā śrotavyamiti śrotavyaṃ nādhikaṃ śravaṇe caret| śāstratattva mṛte dhīraḥ śrutivaśyo bhavenna hi evaṃ ghrāṇaṃ tvacaṃ cāpi vaśīkṛtyecchayā nṛpaḥ| svecchayā nopabhuñjīta noddāmaṃ viṣayaṃ vrajet evaṃ yadi bhavedrājā tadā sa syājjitendriyaḥ| jitendriyatve hetuśca śāstravṛddhopasevanam avṛddhasevyaśāstrajño nṛpaḥ śatruvaśo bhavet| tasmācchāstramadhiṣṭhāya bhavedrājā jitendriyaḥ dhṛtiḥ prāgalbhyasutsāho vākpaṭutvaṃ vivecanam| dakṣatvaṃ dhārayiṣṇutvaṃ dānamaitrīkṛtajñatā dṛḍhaśāsanatā satyaṃ śaucaṃ mativiniścayam| parābhiprāyaveditvaṃ caritraṃ dhairyamāpadi kleśadhāraṇaśaktiśca gurudevadvijārcanam| anasūyā hyakopitvaṃ guṇānetānnṛpo'bhyaset kāryākāryavibhāgaśca dharmārtho kāma eva ca| satataṃ pratibudhyeta kuryādavasare'pi tat sāmadānaṃ ca bhedaśca daṇḍaśceti catuṣṭayam| jñātvopāyāṃstu tatkāle tadupāyān prayojayet sāmnastu viṣaye bhedo madhyamaḥ parikīrtitaḥ| dānasya viṣaye sāma yogyamevopalakṣyate dānasya viṣaye daṇḍo hyadhanaḥ parikīrtitaḥ| daṇḍasya viṣaye dānaṃ tadapyadhamamucyate sāmnastu gocare daṇḍo hyadhamādadhamaḥ smṛtaḥ| saujanyaṃ satataṃ jñeyaṃ bhūbhṛto bhedadaṇḍayoḥ sāmno dānasya ca tathā saujanyaṃ yāti gocare kāmaḥ krodhaśca lobhaśca harṣo māno madastathā| etānatiśayān rājā śatrūniva viśātayet| sevyāḥ kāle saṃyuktau te lobhagarvau vivarjayet teja eva nṛpāṇāṃ tu tīvraṃ sūryasya vai yathā| tatra garvaṃ rogayuktaṃ kāyavāṃstaṃ tu satyajet ākheṭakākṣau strīsevā pānaṃ caivārthadūṣaṇam| vāgdaṇḍayośca pāruṣyaṃ saptaitāni vivarjayet parastrīṣu viraktāsu sevāmekāntatastyajet| satīṣu nijanārīṣu yuktaṃ kuryānniveśanam ratiputraphalā dārāstāṃstu naikāntatastyajet| tayoḥ siddhayai striyaḥ sevyā varjayitvātisaktatām mṛgāyāṃ tu pramādānāṃ sthānaṃ nityaṃ vivarjayet| akṣāṃstathā na kurvīti satkāryāsaktināśanam anyaiḥ kṛtaṃ kadācit tu seveta nātmanācaret| akāryakaraṇe bījaṃ kṛtyānāṃ ca vivarjane akālabhentrabhede ca kalahe satkṛtikṣaye| varjayet satataṃ pānaṃ śaucamāṅgalyanāśanam arthakṣayakaraṃ nityaṃ tyajeccaivātmadūṣaṇam| abhiśasteṣu coreṣu ghātakeṣvātatāyiṣu satataṃ pṛthivīpālo daṇḍapāruṣyamācaret| nānyatra daṇḍapāruṣyaṃ kuryānnṛpatisattamaḥ vākpāruṣyaṃ ca sarvatra naiva kuryāt kadācana| rakṣaṇīyaṃ sadā satyaṃ satyamekaṃ parāyaṇam kṣamāṃ tejasvitāṃ caiva prastāvānnṛpa ācaret| yānāsanāśrayadvaidhasandhayo vigrahastathā abhyaset ṣaḍguṇānetāṃsteṣāṃ sthānaṃ ca śāśvatam| yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye koṣe janapade daṇḍe na sa rājye'vatiṣṭhate| koṣe janapade daṇḍe caikaikatra trayaṃ trayam prastāvādviniyuñjīta rakṣennaikāṃstatastvimān| mitre śatrāvudāsīne prabhāvaṃ triṣvapīrayet utsāho vijigīṣāyāṃ dharmakṛtye'ṣṭavargake| śarīrayātrānirvāhe kriyeta satataṃ nṛpaiḥ mantraniścayasambhūtāṃ buddhiṃ sarvatra yojayet| amātye śātrave rājye putreṣvantaḥpureṣu ca kṛṣiṃ durgaṃ ca vāṇijyaṃ kha़ḍgānāṃ karasādhanam| ādānaṃ sainyakarayorbandhanaṃ gajavājinoḥ śūnye sadmamukhānāṃ ca yojanaṃ satataṃ janaiḥ| trayāṇāṃ sārasetūnāṃ bandhanaṃ ceti cāṣṭamam etadaṣṭasu vargeṣu cārān samyak prayojayet| kāryākāryavibhāgāya cāṣṭavargādhikāriṇām aṣṭau cārānniyuñjīyādaṣṭavargeṣu pārthivaḥ| daśa śūnyeṣu yuñjīta kramataḥ śṛṇu tāni me svāmī saciva-rāṣṭrāṇi mitraṃ kośo balaṃ tathā| durgaṃ tu saptamaṃ jñeyaṃ rājyāṅgaṃ gurubhāṣitam durgamuktaṃ cāṣṭavarge cārānnātmani yojayet| tasmādimāni śeṣāṇi paṃca cārapadāni ca śuddhānteṣu ca putreṣu sasūyyādau mahānase| śatradāsīnayoścāpi balābalaviniścaye aṣṭādaśasu caiteṣu cārān rājā prayojayet| na yatprakāśaṃ jānīyāt tat taccārairnirūpayet nirūpya tat-pratīkāramavaśyaṃ chidrataścaret| yathāniyogameteṣāṃ yo yo yatrānyathācaret jñātvā tatra nṛpaścārairdaṇḍayed vā viyojayet| cārāṃstu mantriṇā sārdhaṃ rahasye saṃsthito nṛpaḥ pradoṣasamaye pṛcchet tadānīmeva sādhayet| svaputre cātha śuddhānte ye tu cārā mahānase niyuktāstānmadhyarātre pṛcchet svo'pi ca mantriṇi| etāṃścārān svayaṃ paśyennṛpatirmantriṇā vinā anyāṃstu mantriṇā sārdhaṃ nirūpya pradiśet phalam| naikaveśadharaścāro naiko notsāhavarjitaḥ saṃstuto nahi sarvatra nātidīrgho na vāmanaḥ| satataṃ na divācārī na rogī nāpyabuddhimān na vittavibhavairhīno na bhāryāputravarjitaḥ| kāryaścāro nṛpatinā tattvaguhyavinirṇaye anekaveśagrahaṇakṣamaṃ bhāryāsutairyutam| bahudeśavaco'bhijñaṃ parābhiprāyavedakam dṛḍhabhaktaṃ prakurvīta cāraṃ śaktamasādhyasam| abhitiṣṭhet svayaṃ rājā kṛṣimātmasamaistathā vaṇikpathe tu durgādo teṣu śaktānniyojayet| antaḥpure pitustulyān dhīrān vṛddhānniyojayet ṣaṇḍhān paṇḍāṃstathā vṛddhāṃ striyau vā buddhitatparāḥ| śuddhānte dvāri yuñjīyāt striyo vṛddhā manīṣiṇīḥ naikaḥ svapet kadācit tu naiko bhuñjīta pārthivaḥ| naikākinīṃ tu mahiṣīṃ brajenmaitrāya naikakaḥ amātyānupadhāśuddhān bhāryāḥ putrāṃstathaiva ca| prakuryāt satataṃ bhūpaḥ saprasādaṃ samācaran dharmārthakāmamokṣaiśca pratyekaṃ pariśodhanaiḥ| upetya dhīyate yasmādupadhā sā prakīrtitā arthakāmopadhābhyāṃ tu bhāryāputrāṃśca śodhayet| dharmopadhābhirviprāṃstu sarvāṃbhiḥ sacivān punaḥ ebhiryajñaitasthā dānairihaiva nṛpatirbhavet| tasmād bhavāṃstu rājyārthī dharmamevaṃ samācaret anenaivābhicāreṇa yajñairvāṃ pārthivo hyayam| prāṇāṃstyajati rājā tvaṃ bhaviṣyasi na saśayaḥ iti dharmo nṛpasyaiva aśvamedhādikaśca yaḥ| svayaṃ na kurute bhūpastasmāt tvaṃ kuru sattama evaṃ mantrairmantrayitvā nṛpaḥ kāryāntikād dvijāt| tairajñātān svayaṃ jñātvā gṛhṇīyāt tasya tairmanaḥ yadi rājyābhilāṣeṇa sacivo'dharmamācaret| nṛpatau bādhakaṃ kuryād dharmaṃ taṃ honatāṃ nayet ābhicārikamartyarthaṃ kurvāṇaṃ tu vighāyayet| pravāsayed brāhmaṇaṃ tu pārthivaścābhicārikam eṣā gharmopadhā jñeyā tairamātyātan satāñjayet| tādṛśīṃ tathaivānyāmupadhāṃ dharmataścaret kośādhyakṣān samāmantrya rājāmātyān pratārayet| putrānanyān prati tathā mantrasaṃvaraṇākṣamān ayaṃ hi pracuraḥ koṣo madāyatto narottama| ānaye tava saṃmatyā tad yadi tvaṃ pratīkṣasi tavārthalagnādasmākaṃ jīvanaṃ ca bhaviṣyati| tvaṃ cāpi pracuraiḥ koṣaiḥ kiṃ kiṃ vā na kariṣyasi evamanyaiḥ koṣagatairupāyairnṛpasattamaḥ| putrāmātyādikān sarvān satataṃ pariśodhayet koṣadoṣakarān hanyāt kartumicchan vivāsayet| dvaidhacittān vimanyeta kuryād vai kośarakṣaṇam dāsīśca śilpinīrvṛddhā medhādhṛtimatīḥ striyaḥ| antarbahiśca yā yānti viditāḥ sacivādibhiḥ tā rājā rahasi sthitvā bhāryādibhiralakṣitaḥ| abhimantryātha saṃmantrya preṣayet sacivān prati tā gatvā hṛdayaṃ buddhā striyo vijñānatatparāḥ| mahiṣīpramukhā rājñastvāṃ vai kāmayate śubhā tatrāhaṃ yojayiṣyāmi yadi te vidyate spṛhā| sacivastvāṃ kāmayate tvadyogyo varavarṇini taṃ saṃgamayituṃ śaktā yadi śraddhā tavāstyaham| ityanena prakāreṇa nānopāyaistathottaraiḥ bhāryāḥ putraduhitrīśca snuṣāśca prasnuṣāstathā| śodhayet sacivān putrān pautrādīn sevakāṃstathā kāmopadhā'viśuddhāṃstu ghātayedavicārayan| striyastu yojyā daṇḍena brāhmaṇāṃstu pravāsayet mokṣamārgāvasaktaṃ tu hiṃsāpaiśunyavarjitam| kṣamaikasāraṃ nṛpatiḥ sacivaṃ parivarjayet mokṣamārgaviraktāṃstu daṇḍayānapi na daṇḍayet| samabuddhistu sarvatra tasmāt taṃ parivarjayet iti sūtraṃ copadhānāmupadhā bahudhā punaḥ| vivecitā cośanasā tacchāstre tatra bodhayet vigrahaṃ satataṃ rājā parairnna samyagācaret| bhūvittamitralābheṣu niściteṣveva vigrahāḥ saptāṅgeṣu prasādaśca sadā kāryo nṛpottamaiḥ| koṣasya sañcayaṃ rakṣāṃ satataṃ samyagācaret mantriṇastu nṛpaḥ kuryād viprān vidyāviśāradān| vinayājñān kulīnāṃśca dharmārthakuśalānṛjūn mantrayet taiḥ samaṃ jñānaṃ nātyarthaṃ bahubhiścaret| ekaikenaiva kartavyaṃ mantrasya ca viniścayam vyastaiḥ samastaiścānyasya vyapadeśaiḥ samantataḥ| susaṃvṛtaṃ mantragṛhaṃ sthalaṃ vāruhya mantrayet araṇye niḥśalāke vā na yāminyāṃ kadācana| śiśūñchākhāmṛgān paṇḍāñchukān vai sārikāstathā varjayenmantragehe tu manuṣyān vikṛtāṃstathā| dūṣaṇaṃ mantrabhedeṣaṃ nṛpāṇāṃ yat tu jāyate na tacchakyaṃ samādhātuṃ dakṣairnṛpaśatairapi| daṇḍyāṃstu daṇḍayed daṇḍairadaṇḍyān daṇḍayennahi adaṇḍayan nṛpo daṇḍyānnadaṇḍyāṃścāpi daṇḍayan| nṛpatirvācyatāṃ prāpya caurakilviṣamāpnuyāt durge tu samatāṃ kuryād prākārāṭṭalatoraṇaiḥ| bhūṣitānnagarādrājā dūre durgāśrayaṃ caret durgaṃ balaṃ nṛpāṇāṃ tu nityaṃ durgaṃ praśasyate| śatameko yodhayati durgastho yo dhanurddharaḥ śataṃ daśasahasrāṇi tasmād durgaṃ praśasyate| jaladurgaṃ bhūmidurgaṃ vṛkṣadurgaṃ tathaiva ca āraṇyaṃmarudurgaṃ ca śailajaṃ parikhodbhavam| durgaṃ kāryaṃ nṛpatinā yathā durgaṃ svadeśataḥ durgaṃ kurvan puraṃ kuryāt trikoṇaṃ dhanurākṛti| vartulaṃ ca catuṣkoṇaṃ nānyathā nagaraṃ caret mṛdaṅgākṛtidurgaṃ tu satataṃ kulanāśanam| yathā rākṣasarājyasya laṅkā durgānvitā purā valeḥ puraṃ śoṇitākhyaṃ tejo durgaiḥ pratiṣṭhitam| tad yasmād vyajanākāraṃ manobhraṣṭaḥ sivāvaliḥ saubhāgyaṃ śālvarājasya nagaraṃ paṃcakoṇakam| divi yad vartate rājyaṃ tacca bhraṣṭaṃ bhaviṣyati yaccāyodhyāhvayaṃ bhūpa puramikṣvākubhūbhṛtām| dhanurākṛti taccāpi tato'bhūd vijayapradam durgabhūbhau yajed durgāṃ dikpālāṃścaiva dvārataḥ| pūjayitvā vidhānena jayaṃ bhūpaḥ samāpnuyāt ato durgaṃ nṛpaḥ kuryāt satataṃ jayavṛddhaye| na brāhmaṇān sadā rājā kenāpyavamanīkṛtān avamanya nṛpo viprān pretyeha duḥkhabhāg bhavet| na virodhastu tai kāryaḥ svāni teṣāṃ na cādadet kṛtyakāleṣu satataṃ tāneva paripūjayet| naiṣāṃ nindāṃ prakurvīta nābhyasūyāṃ tathācaret evaṃ nṛpo mahābuddhistattvamaṇḍalasaṃyutaḥ| aprabhādī cāracakṣurguṃṇavān supriyaṃvadaḥ pretyeha mahatīṃ siddhiṃ prāpnoti sukhabhogavān| yairguṇairyojitaścātmā taiḥ putrānapi yojayeta nṛpasya ca svatantratvaṃ satataṃ svaṃ vināśayet| svatantro bhūpatanayo vikāraṃ yāti niścitam nirvikārāya satataṃ vṛddhāṃśca pariyojayet| bhojane śayane yāne puruṣāṇāṃ ca vīkṣaṇe viyojayet sadā dārān bhūpaḥ kāmaviceṣṭane| asvatantrāḥ striyaḥ kāryāḥ satataṃ pārthivena tu tāḥ svatantrāḥ striyo nityaṃ hānaye sambhavanti hi| tasmāt kumāraṃ mahiṣīmupadhābhirmanoharaiḥ śodhayitvā niyuñjīta yauvarājyāvarodhayoḥ| antaḥpurapraveśe tu svatantratvaṃ niṣedhayet bhūpaputrasya bhāryāyā bahiḥsāre tathaiva ca| ayaṃ viśeṣaḥ saṃkṣepānnṛpadharmo mayoditaḥ putrāṇāṃ guṇavinyāse bhāryāṇāmapi bhūpate| uśanā rājanītīnāṃ tantrāṇi tu bṛhaspatiḥ cakārānyān viśeṣāṃstu tayostantreṣu bodhayet| evaṃ rājā mahābhāge rājanītau viśeṣatām| kurvanna sīdati sadā bhūyasīṃ śriyamaśnute

Chapter Eighty-four. The sages said: You have related the creation, and our doubts too have been cut away. By your grace, greatly blessed one, we have attained our purpose, O teacher. Yet again we wish to hear this, O best of the twice-born: who else were Bhṛṅgī and Mahākāla, and Vetāla and Bhairava, who were born (as such)? Tell us, O tiger among brahmins, how these four came to be Vetāla, Mahākāla, Bhairava and Bhṛṅgī. Mārkaṇḍeya said: When Mahākāla had gone to earth and Bhṛṅgī was in a human state, and when those two had become the pair named Vetāla and Bhairava, O best of the twice-born — when Vetāla had received his boon and Bhairava had joined him, Hara made Andhaka, who was engaged in austerity, into Bhṛṅgī. For Andhaka had earlier opposed Hara and come to ruin; afterwards, having propitiated Hara, that demon became his son. Out of affection for Bhṛṅgi, Hara gave him that name; and out of affection (for the former) Mahākāla, Hara made Bāṇa, Bali's son, whose arms had been cut off by Viṣṇu, into Mahākāla. Thus, best of sages, the set of four was completed: Vetāla and Bhairava, Bhṛṅgi and Mahākāla, in that order. [Remainder of the chapter — the sages' further question, and Aurva's long instruction to Sagara on royal policy: the senses as horses and the body as chariot, the kingly virtues, the four expedients, the vices to be shunned, the eight and eighteen spheres of spies, the tests (upadhā) of ministers, sons and wives, the taking of counsel, punishment, forts and their shapes, honouring brahmins, and the discipline of sons and queens — is not rendered here.]

AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain