Kalika Purana — Chapter 82
KaP 82.82
।। द्व्यशीतितमोऽध्यायः ।। ।।मार्कण्डेय उवाच।। और्वस्य वचनं श्रुत्वा सगरस्तं मुनिं पुनः। पप्रच्छेदं द्विजश्रेष्ठा हर्षसंप्लुतमानसः ।।सागर उवाच।। अमोघायां कथं यज्ञे लौहित्यो ब्रह्मणः सुतः। कथं शान्तनुजायायां रतः स कमलासनः पारस्त्रैणेयपुत्रो वा कथं जज्ञे पितामहात्। तत् सर्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम ।।और्व उवाच।। शृणु त्वं राजशार्दूल कथयामि महत्तरम्। आख्यानं ब्रह्मपुत्रस्य लौहित्यत्य महात्मनः हरिवर्षे महावर्षे शान्तनुर्नाम नामतः। मुनिरासीन्महाभागो ज्ञानवान् स तपोरतः तस्य भार्या महाभागा अमोघाख्या महासती। हिरव्यमगर्भस्य मुनेस्तृणबिन्द्वाश्रमोद्भवा तया सार्धं स कैलासं मर्यादापर्वते वसन्। लोहिताख्यस्य सरसस्तीरे वै गन्धमादने एकदा स तपोनिष्ठो निजपुष्पादिगोचरम्। जगाम वनमध्यं तु चिन्वन् बहुफलानि च तस्मिन्नवसरे ब्रह्मा सर्वलोकपितामहः। तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया तां दृष्ट्वा देवगर्भायां युवतीमतिसुन्दरीम्। मोहितो मदनेनाशु तदाऽभूद् दूषितेन्द्रियः उदीरितेन्द्रियो भूत्वा जिघृश्रुस्ताँ महासतीम्। अथाधावत् ततो ब्रह्मा सम्मुखो मदनार्दितः धावमानं विधातारं दृष्ट्वाऽमोघा महासती। नैवं नैवमिति प्रोक्त्वा पर्णशालां व्यलीयत इदं चोवाच धातारममोघा कुपिता तदा। पर्णशालान्तरं गत्वा द्वारमावृत्य तत्क्षणात् अकार्यं न मया कार्यं मुनिपत्न्या विगर्हितम्। बलात् प्रमथ्या चाहं चेत् त्वया त्वां च शपाम्यहम् अमोघया चौवमुक्ते विधातुश्च तदा नृप। रेतश्चस्कन्द तत्रैव आश्रमे शान्तनोर्मुनेः च्युते रेतसि धातापि हंसयानं समुत्थितः। लज्जयाऽतिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ गते वेधसि शान्तनुश्च निजमाश्रममागतः। आगत्य दृष्ट्वा हंसानां पदक्षोभं तदा भुवि तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम्। अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् किमेतदत्र सुभगे प्रवृत्तं दृश्यते तु यत्। पक्षिणां च पदक्षोभं तेजश्चेदं च कीदृशम् सा तस्य वचनं श्रुत्वा शान्तनु मुनिसत्तमम्। अमर्षितैव न्यगददाकुला विकलाननां हंसयुक्तस्यन्दनेन कोऽप्यागत्य चतुर्मुखः। कमण्डलु करोऽतीव रतिं मां समयाचतं ततो मया तर्जितः स उटजान्तरलीनया। प्रच्याव्य तेजः संयातो मम शापभयार्दितः कुरु तत्र प्रतीकारं यदि शक्नोषि शान्तनो। न हीमां धर्षणां सोढुं कश्चिच्छक्नोति जीवभृत् स तस्या वचनं श्रुत्वा स्वयं ब्रह्मा समागतः। इति निश्चित्य मनसा तदा ध्यानपरोऽभवत् दिव्यज्ञानेन स ज्ञात्वा देवकार्यमुपस्थितम्। तीर्थावतरणं चापि हिताय जगतां मुनिः ज्ञात्वोदर्कं चिन्तयित्वा स्वभार्यामिदमब्रवीत्। इदं तेजां ब्रह्मणस्त्वं पिबामोधं ममाज्ञया हिताय सर्वजगतां देवकार्यार्थसिद्धये। भवत्या निकटं ब्रह्मा स्वयमेव समागतः त्वामप्राप्य महत् कृत्यमावयोः स समर्प्य च। गतो निजास्पदं तत् त्वं कर्तुमर्हसि तद् वचः तच्छ्रुत्वा शान्तनोर्वाक्यममोघातीव लज्जिता। सान्त्वयन्तीव तं प्राह पतिं नत्वा महासती नान्यस्य तेजो धास्यामि न च ते विमनस्कता। अवश्यं यदि कर्तव्यं पीत्वा त्वं मयि चोत्सृज ततस्तस्या वचः श्रुत्वा युक्तं तथ्यं च शान्तनुः। स्वयं पीत्वा तु तत् तेजः स्वभार्यायां न्यषेचयत् संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती। गर्भं दधारमोघाख्या हिताय जगतां ततः तस्याः काले तु सम्प्राप्ते नासातो जलसञ्चयः। तन्मध्ये तनयश्चापि नीलवासाः कीरीटधृक् रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत्। चतुर्भुजः पद्मविद्याध्वजसावतधरस्तथा शिशुमारशिरस्थश्च तुल्यकायो जलोत्करैः। तज्जातं च तथाभूतं शान्तनुर्लोकशान्तनुः चतुर्णां पर्वतानां च मध्यदेशे न्यवीविशत्। कैलासश्चात्तरे पार्श्वे दक्षिणे गन्धमादनः जारुधिः पश्चिमे शैलः पूर्वे संवर्तकाद्वयः। तेषां मध्ये स्वर्यं कुण्डं पर्वतानां विधेः सुतः कृत्वाऽतिववृधे नित्य शरदीव निशाकरः। तं तोयमध्यगं पुत्रमासाद्य द्रुहिणः सुतम् क्रमतस्तस्य संस्कारानकरोद् देहशुद्धये। अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः तोयराशिस्वरूपेण ववृधे पञ्चयोजनात्। तस्मिन् देवाः पपुः सस्नुर्द्वितीय इव सागरे सितामलजले ह्यद्ये दिव्यैश्चाप्सरसां गणैः। तस्मिन्नवसरे रामो जामदग्न्यः प्रतापवान् चक्रे मातृवधं घोरमयुक्तं पितुराज्ञया। तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः स जगाम महाकुण्डं ब्रह्माख्यं स्नातुमिच्छया। तत्र स्नात्वा च पीत्वा च मातृहत्यामपानयन्। वीथीं परशुना कृत्वां तं मह्यामवतारयवत् ।।सगर उवाच।। जमदग्नेः सुतो रामः किमर्थं निजमातरम्। जघान तस्य माता च किन्नाम्नो कस्य चात्मजा मुनेः पुत्रः कथं जातस्तथा क्रूरो महाबलः। यो यद्धकुशलो वोरो राजन्यान् समपोथयत् तदहं श्रोतुमिच्छामि तत्त्वतो मुनिसत्तम। कथयस्य महाभाग यदि गुह्यं तथापि मे ।।और्व उवाच।। शृणु राजन्नवहितो जमदग्नेः सुतस्य वै। चरितं स यथा जघ्ने प्रसूं क्रूरतरश्च सः ब्रह्मपुत्रो भृगुर्नाम ऋचीकस्तत्सुतोऽभवत्। स भार्यार्थी चरन् भूमौ कान्यकुब्जं गतः पुरा ददर्श चारण्यगतं जह्नोर्वंशसमुद्भवम्। कुशिकस्य सुतं गाधिं तपःस्थं नृपसत्तम अरण्यस्थस्य तस्याथ पुत्रकामस्य भूभृतः। सभार्यस्य सुता जज्ञे देवकन्यासमा गुणैः ऋचीको भृगुपुत्रस्तां भार्यार्थं समयाचत। दातूं गाधिं नृपतिशार्दूलं च चोवाच नृपो मुनिम्। दातुं भोग्यां सुतां राजन् यदीच्छा ते ददाम्यहहम्।। योग्या सुता मोऽद्य तद्विधाय महामुने किं त्वेकः कुलधर्मो मे विद्यते शुल्कसंग्रहे। एकत्र कृष्णवर्णानामश्वानां चन्द्रवर्चसाम्। सहस्रमेकं यो दद्यात् तस्मै पुत्री प्रीयते ।।ऋचोक उवाच।। दास्याम्यश्वसहस्रं वै तव राजंस्तथाविधम्। किंचित् कालं प्रतीक्षस्व यावत् तदहमानये एवमस्त्विति त गाधिरुवाच भृगुसूनवे। गङ्गातीरं कान्यकुब्जं सोऽगच्छद्धयसाधने तत्राराध्य भृगोः पुत्रो वरुणं यादसां पतिम्। तेन दत्तं तदा लेभे सहस्रं वाजिनां मुनिः तेन यत्र तदा लब्धा अश्वान् नृपतिसत्तम। तदश्वतीर्थं विख्यातं महाफलकरं परम् गङ्गाजलादुत्थितं तु दत्तं सम्यक् प्रचेतसा। आदायाश्वसहस्रं तु मनुर्गाधिमथाम्ययात् तानश्वान् गाधिरादाय पुत्रीं सत्यवतीं सुताम्। ऋचीकाय ददौ लक्ष्मीं केशवायेव सागरः ऋचीको गाधितनयां लब्ध्वा भार्यामनिन्दिताम्। मुदितः स तया रेमे यथाकामं स्वकाश्रमे कृतदारं सुतं श्रुत्वा द्रष्टुं पुत्रं स्नुषां भृगुः। अथाजगाम मतिमान् सनुषां दृष्ट्वा ननन्द च दम्पती तं समासीनं भृगुं देवगणार्चितम्। पूजयित्वा यथान्यायं तस्थतुस्तौ कृताञ्जली ततो भृगुः स्नुषां स्वीयां सुप्रीत इदमब्रवीत्। वरं वृणीष्व दास्यामि वाञ्छितं वरवर्णिनि अदेयं दुष्करं वापि यत्र ते विद्यते स्पृहा। ततः सत्यवतीं पुत्रं तप आम्नाय-पारगम् मातुश्च वीरमतुलं पुत्रं वरमयाचत। स चैवमस्त्वित्युक्त्वैव भूत्वा ध्यानपरस्तदा विश्वमाधृत्य मनसा यत्नाच्छ्वासं ससर्ज सः। तस्य निःश्वासवातात् तु निःसृतं वै चरुद्वयम् तस्यै तद्द्वितयं दत्त्वा भृगुस्तामिदमब्रवीत्। चरुद्वयं गृहाणेदं स्नुषे सत्यवति स्वयम् स्नात्वा ऋतौ ऋतौ माता स्नुषे त्वं च करिष्यथः। आलिंग्याश्वत्थवृक्षं ते माता पुंसवनाय वै चरुमारक्तकं चेमं सा भोक्ष्यति सुतस्ततः। त्वं चोदुम्बरवृक्षं तु समालिंग्यासितं चरुम् भोक्ष्यसे तव पुत्रस्तु भविष्यति सनातनः। एवमुक्त्वा भृगुर्यातो यथेच्छं सापि संमुदम् अवाप मात्रा सहिता भर्त्रा पित्रा च भामिनी। अथ स्नानदिनेऽश्वत्थमालिंग्यारक्तकं चरुम् आदात् सत्यवती तस्या माता फल्गुं सितं चरुम्। परिवर्तं तु तज् ज्ञात्वा दिव्यज्ञानो भृगुर्मुनिः अथागत्य स्नुषां तां तु वचनं चेदमब्रवीत्। विपर्ययस्त्वया भद्रे वृक्षालिङ्गनकर्मणि तथा चरुप्राशने तुतत्रेदं ते भविष्यति। ब्राह्मणः क्षत्रियाचारस्तव पुत्रो भविष्यति क्षत्रियो ब्राह्मणाचारो मातुस्ते भविता सुतः। इत्युक्त्वा भृगुणा साध्वो तदा सत्यवती भृगुम् पुनः प्रसादयामास पौत्रो मेऽस्त्विति तादृशः। एवमस्त्विति स प्रोच्य तत्रैवान्तर्दधेः भृगुः अथ काले सुतं दीप्तं जमदग्निं च गाधिजा। सुषुवे जननी तस्या विश्वामित्रें तपोनिधिम् जमदग्निस्ततो वेदांश्चतुरः प्राप मा चिरम्। प्रादुरासीद् धनुर्वेदः स्वयं तस्मिन् महात्मनि विश्वामित्रोऽपि सकलान् वेदानाप तथाऽचिरात्। धनुर्वेदं तथा कृत्स्नं विप्रश्चाभूत् तपोबलात् जाज्वल्यमानस्तेजस्वी जमदग्निर्महातपाः। वेदैस्तपोभिः स मुनीनत्यक्रामच्च सूर्यवत्
|| dvyaśītitamo'dhyāyaḥ || ||mārkaṇḍeya uvāca|| aurvasya vacanaṃ śrutvā sagarastaṃ muniṃ punaḥ| papracchedaṃ dvijaśreṣṭhā harṣasaṃplutamānasaḥ ||sāgara uvāca|| amoghāyāṃ kathaṃ yajñe lauhityo brahmaṇaḥ sutaḥ| kathaṃ śāntanujāyāyāṃ rataḥ sa kamalāsanaḥ pārastraiṇeyaputro vā kathaṃ jajñe pitāmahāt| tat sarvaṃ śrotumicchāmi kathayasva dvijottama ||aurva uvāca|| śṛṇu tvaṃ rājaśārdūla kathayāmi mahattaram| ākhyānaṃ brahmaputrasya lauhityatya mahātmanaḥ harivarṣe mahāvarṣe śāntanurnāma nāmataḥ| munirāsīnmahābhāgo jñānavān sa taporataḥ tasya bhāryā mahābhāgā amoghākhyā mahāsatī| hiravyamagarbhasya munestṛṇabindvāśramodbhavā tayā sārdhaṃ sa kailāsaṃ maryādāparvate vasan| lohitākhyasya sarasastīre vai gandhamādane ekadā sa taponiṣṭho nijapuṣpādigocaram| jagāma vanamadhyaṃ tu cinvan bahuphalāni ca tasminnavasare brahmā sarvalokapitāmahaḥ| tatrājagāma yatrāsti amoghā śāntanoḥ priyā tāṃ dṛṣṭvā devagarbhāyāṃ yuvatīmatisundarīm| mohito madanenāśu tadā'bhūd dūṣitendriyaḥ udīritendriyo bhūtvā jighṛśrustā~ mahāsatīm| athādhāvat tato brahmā sammukho madanārditaḥ dhāvamānaṃ vidhātāraṃ dṛṣṭvā'moghā mahāsatī| naivaṃ naivamiti proktvā parṇaśālāṃ vyalīyata idaṃ covāca dhātāramamoghā kupitā tadā| parṇaśālāntaraṃ gatvā dvāramāvṛtya tatkṣaṇāt akāryaṃ na mayā kāryaṃ munipatnyā vigarhitam| balāt pramathyā cāhaṃ cet tvayā tvāṃ ca śapāmyaham amoghayā cauvamukte vidhātuśca tadā nṛpa| retaścaskanda tatraiva āśrame śāntanormuneḥ cyute retasi dhātāpi haṃsayānaṃ samutthitaḥ| lajjayā'tiparītātmā drutaṃ vai svāśramaṃ yayau gate vedhasi śāntanuśca nijamāśramamāgataḥ| āgatya dṛṣṭvā haṃsānāṃ padakṣobhaṃ tadā bhuvi tejaśca patitaṃ bhūmau vidhāturjvalanopamam| amoghāṃ paripapraccha parṇaśālāntarasthitām kimetadatra subhage pravṛttaṃ dṛśyate tu yat| pakṣiṇāṃ ca padakṣobhaṃ tejaścedaṃ ca kīdṛśam sā tasya vacanaṃ śrutvā śāntanu munisattamam| amarṣitaiva nyagadadākulā vikalānanāṃ haṃsayuktasyandanena ko'pyāgatya caturmukhaḥ| kamaṇḍalu karo'tīva ratiṃ māṃ samayācataṃ tato mayā tarjitaḥ sa uṭajāntaralīnayā| pracyāvya tejaḥ saṃyāto mama śāpabhayārditaḥ kuru tatra pratīkāraṃ yadi śaknoṣi śāntano| na hīmāṃ dharṣaṇāṃ soḍhuṃ kaścicchaknoti jīvabhṛt sa tasyā vacanaṃ śrutvā svayaṃ brahmā samāgataḥ| iti niścitya manasā tadā dhyānaparo'bhavat divyajñānena sa jñātvā devakāryamupasthitam| tīrthāvataraṇaṃ cāpi hitāya jagatāṃ muniḥ jñātvodarkaṃ cintayitvā svabhāryāmidamabravīt| idaṃ tejāṃ brahmaṇastvaṃ pibāmodhaṃ mamājñayā hitāya sarvajagatāṃ devakāryārthasiddhaye| bhavatyā nikaṭaṃ brahmā svayameva samāgataḥ tvāmaprāpya mahat kṛtyamāvayoḥ sa samarpya ca| gato nijāspadaṃ tat tvaṃ kartumarhasi tad vacaḥ tacchrutvā śāntanorvākyamamoghātīva lajjitā| sāntvayantīva taṃ prāha patiṃ natvā mahāsatī nānyasya tejo dhāsyāmi na ca te vimanaskatā| avaśyaṃ yadi kartavyaṃ pītvā tvaṃ mayi cotsṛja tatastasyā vacaḥ śrutvā yuktaṃ tathyaṃ ca śāntanuḥ| svayaṃ pītvā tu tat tejaḥ svabhāryāyāṃ nyaṣecayat saṃkrāmitaiḥ śāntanunā tejobhirbrahmaṇaḥ satī| garbhaṃ dadhāramoghākhyā hitāya jagatāṃ tataḥ tasyāḥ kāle tu samprāpte nāsāto jalasañcayaḥ| tanmadhye tanayaścāpi nīlavāsāḥ kīrīṭadhṛk ratnamālāsamāyukto raktagauraśca brahmavat| caturbhujaḥ padmavidyādhvajasāvatadharastathā śiśumāraśirasthaśca tulyakāyo jalotkaraiḥ| tajjātaṃ ca tathābhūtaṃ śāntanurlokaśāntanuḥ caturṇāṃ parvatānāṃ ca madhyadeśe nyavīviśat| kailāsaścāttare pārśve dakṣiṇe gandhamādanaḥ jārudhiḥ paścime śailaḥ pūrve saṃvartakādvayaḥ| teṣāṃ madhye svaryaṃ kuṇḍaṃ parvatānāṃ vidheḥ sutaḥ kṛtvā'tivavṛdhe nitya śaradīva niśākaraḥ| taṃ toyamadhyagaṃ putramāsādya druhiṇaḥ sutam kramatastasya saṃskārānakarod dehaśuddhaye| atha kāle bahutithe vyatīte brahmaṇaḥ sutaḥ toyarāśisvarūpeṇa vavṛdhe pañcayojanāt| tasmin devāḥ papuḥ sasnurdvitīya iva sāgare sitāmalajale hyadye divyaiścāpsarasāṃ gaṇaiḥ| tasminnavasare rāmo jāmadagnyaḥ pratāpavān cakre mātṛvadhaṃ ghoramayuktaṃ piturājñayā| tasya pāpasya mokṣāya svapituścopadeśataḥ sa jagāma mahākuṇḍaṃ brahmākhyaṃ snātumicchayā| tatra snātvā ca pītvā ca mātṛhatyāmapānayan| vīthīṃ paraśunā kṛtvāṃ taṃ mahyāmavatārayavat ||sagara uvāca|| jamadagneḥ suto rāmaḥ kimarthaṃ nijamātaram| jaghāna tasya mātā ca kinnāmno kasya cātmajā muneḥ putraḥ kathaṃ jātastathā krūro mahābalaḥ| yo yaddhakuśalo voro rājanyān samapothayat tadahaṃ śrotumicchāmi tattvato munisattama| kathayasya mahābhāga yadi guhyaṃ tathāpi me ||aurva uvāca|| śṛṇu rājannavahito jamadagneḥ sutasya vai| caritaṃ sa yathā jaghne prasūṃ krūrataraśca saḥ brahmaputro bhṛgurnāma ṛcīkastatsuto'bhavat| sa bhāryārthī caran bhūmau kānyakubjaṃ gataḥ purā dadarśa cāraṇyagataṃ jahnorvaṃśasamudbhavam| kuśikasya sutaṃ gādhiṃ tapaḥsthaṃ nṛpasattama araṇyasthasya tasyātha putrakāmasya bhūbhṛtaḥ| sabhāryasya sutā jajñe devakanyāsamā guṇaiḥ ṛcīko bhṛguputrastāṃ bhāryārthaṃ samayācata| dātūṃ gādhiṃ nṛpatiśārdūlaṃ ca covāca nṛpo munim| dātuṃ bhogyāṃ sutāṃ rājan yadīcchā te dadāmyahaham|| yogyā sutā mo'dya tadvidhāya mahāmune kiṃ tvekaḥ kuladharmo me vidyate śulkasaṃgrahe| ekatra kṛṣṇavarṇānāmaśvānāṃ candravarcasām| sahasramekaṃ yo dadyāt tasmai putrī prīyate ||ṛcoka uvāca|| dāsyāmyaśvasahasraṃ vai tava rājaṃstathāvidham| kiṃcit kālaṃ pratīkṣasva yāvat tadahamānaye evamastviti ta gādhiruvāca bhṛgusūnave| gaṅgātīraṃ kānyakubjaṃ so'gacchaddhayasādhane tatrārādhya bhṛgoḥ putro varuṇaṃ yādasāṃ patim| tena dattaṃ tadā lebhe sahasraṃ vājināṃ muniḥ tena yatra tadā labdhā aśvān nṛpatisattama| tadaśvatīrthaṃ vikhyātaṃ mahāphalakaraṃ param gaṅgājalādutthitaṃ tu dattaṃ samyak pracetasā| ādāyāśvasahasraṃ tu manurgādhimathāmyayāt tānaśvān gādhirādāya putrīṃ satyavatīṃ sutām| ṛcīkāya dadau lakṣmīṃ keśavāyeva sāgaraḥ ṛcīko gādhitanayāṃ labdhvā bhāryāmaninditām| muditaḥ sa tayā reme yathākāmaṃ svakāśrame kṛtadāraṃ sutaṃ śrutvā draṣṭuṃ putraṃ snuṣāṃ bhṛguḥ| athājagāma matimān sanuṣāṃ dṛṣṭvā nananda ca dampatī taṃ samāsīnaṃ bhṛguṃ devagaṇārcitam| pūjayitvā yathānyāyaṃ tasthatustau kṛtāñjalī tato bhṛguḥ snuṣāṃ svīyāṃ suprīta idamabravīt| varaṃ vṛṇīṣva dāsyāmi vāñchitaṃ varavarṇini adeyaṃ duṣkaraṃ vāpi yatra te vidyate spṛhā| tataḥ satyavatīṃ putraṃ tapa āmnāya-pāragam mātuśca vīramatulaṃ putraṃ varamayācata| sa caivamastvityuktvaiva bhūtvā dhyānaparastadā viśvamādhṛtya manasā yatnācchvāsaṃ sasarja saḥ| tasya niḥśvāsavātāt tu niḥsṛtaṃ vai carudvayam tasyai taddvitayaṃ dattvā bhṛgustāmidamabravīt| carudvayaṃ gṛhāṇedaṃ snuṣe satyavati svayam snātvā ṛtau ṛtau mātā snuṣe tvaṃ ca kariṣyathaḥ| āliṃgyāśvatthavṛkṣaṃ te mātā puṃsavanāya vai carumāraktakaṃ cemaṃ sā bhokṣyati sutastataḥ| tvaṃ codumbaravṛkṣaṃ tu samāliṃgyāsitaṃ carum bhokṣyase tava putrastu bhaviṣyati sanātanaḥ| evamuktvā bhṛguryāto yathecchaṃ sāpi saṃmudam avāpa mātrā sahitā bhartrā pitrā ca bhāminī| atha snānadine'śvatthamāliṃgyāraktakaṃ carum ādāt satyavatī tasyā mātā phalguṃ sitaṃ carum| parivartaṃ tu taj jñātvā divyajñāno bhṛgurmuniḥ athāgatya snuṣāṃ tāṃ tu vacanaṃ cedamabravīt| viparyayastvayā bhadre vṛkṣāliṅganakarmaṇi tathā caruprāśane tutatredaṃ te bhaviṣyati| brāhmaṇaḥ kṣatriyācārastava putro bhaviṣyati kṣatriyo brāhmaṇācāro mātuste bhavitā sutaḥ| ityuktvā bhṛguṇā sādhvo tadā satyavatī bhṛgum punaḥ prasādayāmāsa pautro me'stviti tādṛśaḥ| evamastviti sa procya tatraivāntardadheḥ bhṛguḥ atha kāle sutaṃ dīptaṃ jamadagniṃ ca gādhijā| suṣuve jananī tasyā viśvāmitreṃ taponidhim jamadagnistato vedāṃścaturaḥ prāpa mā ciram| prādurāsīd dhanurvedaḥ svayaṃ tasmin mahātmani viśvāmitro'pi sakalān vedānāpa tathā'cirāt| dhanurvedaṃ tathā kṛtsnaṃ vipraścābhūt tapobalāt jājvalyamānastejasvī jamadagnirmahātapāḥ| vedaistapobhiḥ sa munīnatyakrāmacca sūryavat
Chapter Eighty-two. Mārkaṇḍeya said: Having heard Aurva's words, Sagara, his mind flooded with delight, O best of brahmins, asked that sage again. Sagara said: How was Lauhitya, Brahmā's son, (begotten) in Amoghā at the sacrifice? How was he, the lotus-seated one, enamoured of Śāntanu's wife? Or how was a son born from the Grandfather (out of union) with another man's wife? All this I wish to hear — tell it, best of the twice-born. Aurva said: Hear, O tiger among kings, I shall tell a very great tale, the story of Brahmā's son, the great-souled Lauhitya. In Harivarṣa, the great continent, there was a sage named Śāntanu, greatly blessed, wise, devoted to austerity. His wife was a greatly blessed and utterly chaste woman named Amoghā, born in the hermitage of the sage Tṛṇabindu, (daughter) of the sage Hiraṇyagarbha. Dwelling with her on Kailāsa, on the boundary-mountain, on the bank of the lake called Lohita, on Gandhamādana — once he, intent on austerity, went into the midst of the forest to gather his own flowers and the like, and much fruit. At that moment Brahmā, the grandfather of all the worlds, came there where Amoghā, Śāntanu's beloved, was. Seeing her, a young woman of divine womb and exceedingly beautiful, he was at once bewildered by desire and his senses became corrupted. His senses aroused, he wished to seize that greatly chaste woman; then Brahmā, afflicted by desire, ran straight at her. Seeing the Creator running, the greatly chaste Amoghā cried 'Not so, not so!' and slipped into the leaf-hut. [Remainder of this chapter — the spilling of Brahmā's seed, the birth of the water-formed son, the tale of Ṛcīka, Satyavatī, Jamadagni and Viśvāmitra, down to 'by his Vedas and austerities he surpassed the sages like the sun' — is not rendered here.]
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain