Kalika Purana — Chapter 80
KaP 80.80
।। अशीतितमोऽध्यायः ।। ।।शाश्वती कथिता या तु नदी मत्स्यध्वजासिता। तस्याः पूर्वे समाख्याता नदी दीपवती मता एषा च हिमवज्जाता छिन्दन्ती दीपवत्तमः। तेन देवमनुष्येषु नदी दीपवती स्मृता दीपवत्याः पूर्वतस्तु शृङ्गाटो नाम पर्वतः। तत्र देवस्य भर्गस्य लिङ्गमकं प्रतिष्ठितम् सरित् तु सिद्धा त्रिःस्रोता दक्षिणोदधिगामिनी। शृङ्गाटकस्य सततं स्रवन्ती सा तु पादतः दक्षिणं सागरं याति भर्गस्य प्रियकारिणी। सलिले यो नरः स्नात्वा त्रिःस्रोताया नरोत्तमः शृङ्गाटकं समारुह्य पूजयेल्लिङ्गशङ्करम्। स दीप्तकायः शुद्धात्मा प्राप्य कामानिहातुलान् अन्ते भर्गगृहं याति ततो मोक्षमवाप्नुयात्। हरस्तु द्विभुजस्तस्मिन् सदा वृषभवाहनः उमया रमते सार्धं वामदेवस्य मन्त्रकैः। तन्त्रैश्च पूजयेद् देवमुमामन्त्रेण चण्डिकाम् तत्-पूर्वतो निम्नग तु नाम्ना तु वृद्धवेदिका। तस्यां स्नात्वा फलं मर्त्यो वेदिकास्नानजं लभेत् ततो भट्टारिका नाम हिमशैलसमुद्भवा। महानदी देवगणैर्या सदोपास्यते सुखम् तस्यां यः कुरुते स्नानं युगादिषु चतुर्ष्वपि। स याति परमं स्थानं तद्विष्णोः परमं पदम् अस्ति नाटकशैले तु सरो मानससन्निभम्। यत्र सार्धं शैलपुत्र्या जलक्रीडां सदा हरः कुरुते नरशार्दूल स्वर्मपङ्कजशोभिते। तस्य पश्चान्मध्यपूर्वभागेभ्यस्तु सरित्-त्रयम् अवतीर्णं प्रयात्येव दक्षिणं सागरं प्रति। तस्य पश्चिमभागे तु नदी दिक्करिकाह्रया दिग्गजक्षतसंजाता तेन दिक्करिकाह्वया। मध्यभागात् सृता या तु शङ्करेणावतारिता वृद्धगंगाह्वया सा तु गंगेव फलदायिनी। या निःसृता पुर्वभागात् तस्माद् गिरिवरान्नदी सुवर्णश्रीरिति विख्याता सा गङ्गासदृशीफले। कुर्वत्याः सरसि स्नानं पार्वत्याश्च शरीरतः निःसृताः स्वर्णकणिकास्ता वहन्ति जलैरिमाः। क्रीडार्थं शम्भुना गात्रे कणिकाभिः समाचिताः स्वस्थानात् तत्र संलग्नास्ततश्चन्दनबिन्दवः। ता उमायाः शरीरात् तु संस्रवन्ति जलैः सह ततः स्वर्णवहा नाम स्वर्णश्रीः सर्वतोऽधिका। एतासु चैत्रमासं तु स्नात्वा मर्त्यो नरर्षभः कृष्णपक्षे चतुर्दश्यां त्रिकालं यत्र मनावः। चिरं देवीगृहे स्थित्वा शेषे ब्रह्मगृहं व्रजेत् भूमाववगतः पश्चात्सार्वभौमो नृपो भवेत्। वृद्धगङ्गाजलस्यान्तस्तीरे ब्रह्मसुतस्य वै विश्वानाथाह्वयो देवः शिवलिङ्गसमन्वितः। विश्वदेवी महादेवी योनिमण्डलरूपिणी हयग्रीवेण युयुधे तत्र देवो जगद्पतिः। हयग्रीवं यत्र हत्वा मणिकूटं पुरागतम् तत्र यः पूजयेद् दुर्गां शारदां तन्त्रमन्त्रकैः। हयग्रीवस्य मन्त्रेण तन्त्रेण गरुडध्वजम् कामेश्वरस्य तन्त्रेण मन्त्रेणापि च शङ्करम्। यो यजेत् परया भक्त्या द्वादश्यां समुपोषितः अष्टम्यां च चतुर्दश्यां तस्य पुण्यफलं शृणु। कल्पकोटित्रयं स्थित्वा शिवगेहे गृहे हरेः तावन्तं संस्थितः कालं तावन्तं च शिवागृहे। शेषे भुवं समासाद्य वेदविद् ब्राह्मणो भवेत् नद्याः स्वर्णश्रियः पूर्वं नदी कामाह्वया शुभा। कामायाः पूर्वभागे तु नदी सोमाशनाह्वया सोमाशनायाः पूर्वस्यां नदो नाम्ना वृषोदका। ततः पूर्वे कामरूपं पीठं ते जगतां प्रसूः जगन्मयो महामाया देवी दिक्करवासिनी। एता याः कथिता नद्यः सकला दक्षिणस्रवाः तासु स्नात्वा च पीत्वा च स्वर्गलोकमवाप्नुयात्। प्रान्ते दिक्करवासिन्याः सदा वहति स्वर्णदी सितगङ्गाह्वया लोके साक्षाद् गङ्गाफलप्रदा। सा भूमिपीठसंस्था च देवी दिक्करवासिनी अन्तर्जले प्लावयन्ती याति प्रत्यक्षतां सुरैः। सितगङ्गाजले स्नात्वा दृष्ट्वा शम्भुं हरिं विधिम् इष्ट्वा ललितकान्ताख्यां पुनर्योनौ न जायते। लिङ्गस्वरूपी भगवाच्छम्भुस्तत्र स्वयं स्थितः विष्णुः शिलास्वरूपेण ब्रह्मलिङ्गस्वरूपधृक्। पीठे दिक्करवासिन्या द्विरीपा रमते शिवा तीक्ष्णकान्ताह्वया त्वेका योग्रतारा प्रकीर्तिता। परा ललितकान्ताख्या या श्रीमङ्गलचण्डिका तस्यास्तु सततं रूपं तीक्ष्णकान्ताह्वयं नृप। कृष्णा लम्बोदरी या तु सा स्यादेकजटा शिवा तेन रूपेण तां दीवं सततं परिपूजयेत्। अङ्गमन्त्रं च रूपं च तस्याः प्राक्प्रतिपादितम् त्रिकोणं मण्डलं चास्याः कर्तव्यं मन्त्रपूर्वकम्। आदौ रेखे ततः पश्चात् सुरेखेति पदं ततः तथा पदं चाधिगम्य तिष्ठन्तिवति पदं ततः। मण्डलस्यास्य मन्त्रोऽयं तीक्ष्णायाः परिकीर्तितः नरत्रिपुरदेवादियमवेतालदुर्धराः। गणश्रमेत्यन्तकान्ता द्वारपालाः प्रकीर्तिताः एतांस्तु पूजयेत् सम्यङ्मण्डलस्याष्टदिक्षु वै। आदौ सम्बोधनं कृत्वा वज्रपुष्पं ततः परम् वह्निजायं ततः पश्चान्मन्त्रमेषां प्रकीर्तितम्। पात्रोपकरणादीनां स्थानस्यान्यस्य सर्वतः सर्वमुत्तरतन्त्रोक्तं भीषणा भगा विकटेति च योगिन्यः प्रोक्ता यस्यास्तवैव षट्। हे भगवत्येकजटे विद्महे पदमन्ततः विकटदंष्ट्रे धीमहि तन्नस्तारे प्रचोदयात्। एषा तु तीक्ष्णगायत्री पीठदेव्याः प्रकीर्तिता निर्माल्यधारिणी चास्या देवी विकटचण्डिका। माला तु मृन्मयी प्रोक्ता रुद्राक्षसम्भवापि वा विशेष एष देव्यास्तु पूजने परिकीर्तितः। उपचारादिकं कृत्यं बलिदानं जपादिकम् सर्वं तु पर्ववद् ग्राह्यं कामाख्यापूजने यथा। पानेषु मदिरा शस्ता नरो वलिषु पार्थिव मोदको नारिकेलं च मांसव्यञ्जनमैक्षवम्। नैवेद्येषु प्रियकरास्तीक्ष्णायाः परिकीर्तिताः यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका। वरदाभ्यहस्ता सा द्विभुजा गौरदेहिका रक्तपद्मासनस्था च मृकुटोज्ज्वलमण्डिता। रक्तकौशेयवसाना स्मितवक्त्रा शुभानना नवयौवनसम्पन्ना चार्वङ्गी ललितप्रभा। उमाया भाषितं मन्त्रं यत् पूर्वं त्वेकमक्षरम् मन्त्रमस्यास्तु तज्ज्ञेयं तेन देवीं प्रपूजयेत्। नारायण्यै विद्महे त्वां चण्डिकायै तु धीमहि तन्नो ललितकांन्तेति ततः पश्चात् प्रचोदयात्। एषा ललितगायत्री देव्या इष्ट्यै प्रकीर्तिता लोहितांगस्य दिवसः प्रियोऽस्याः परिकीर्तितः। कालो वसन्तकालश्च स्वरश्चापि तु पञ्चमः अष्टम्याँ च नवम्यां त्र पूजा कार्या विभूतये। निर्माल्यधारिणी चास्या देवी ललितचण्डिका दूर्वाङ्कुरैः समायुक्तमक्षतं प्रीतिद परम्। अयमस्या विशेषस्तु पूजने परिकीर्तितः वैष्णवीतन्त्रमन्त्रस्यतन्त्रं ग्राह्यं तु पूजने। उपचारो बलिश्चास्या विहितो यः क्रमः पुरा महामायामहादेव्यास्तद्ग्राह्यं परिपूजने। स्वगात्ररुधिरं दद्यादात्मनश्च हिताय वै पटेषु प्रतिमायां वा घटे मङ्गलचण्डिकाम्। यः पूजयेद् भौमदिने शुबैर्दूर्वाङ्कुरैः शिवाम् सततं साधकः सोऽपि काममिष्टमवाप्नुयात्। एवं दिक्करवासिन्याः कथितः पूजनक्रमः यच्छ्रुत्वा नाशुभं किञ्चिदाप्नोति श्रवणे रतः। दिक्करस्त्वरुणः प्रोक्तस्तथा शम्भुश्च दिक्करः तस्मिन्नध्युषिता देवी तस्माद् दिक्करवासिनी। जगत्त्रयेऽपि यस्यास्तु सदृशी क्वापि सन्दरी नान्यास्ति ललिता तन देवी ललितकान्तिका। शङ्करस्य पुरा प्रोक्तो ग्राह्यो वै पूजनक्रमः शृणु राजन्नवहितो ब्रह्मणः पूजनक्रमम्। ब्रह्मबोजं पुरा प्राक्तं तन्म्त्रं सर्वतश्चरेत् तेनैव तं तु सम्पूज्य परं निर्वाणमाप्नुयात्। एतस्य चाङ्गमन्त्र तु यथा भर्गेण भाषितम् वेतालभैरवाभ्यां तु रूपं च शृणु भूमिप। पस्तृतीयश्च वह्निश्च शेषस्वरसमन्वितः चन्द्रबिन्दुसमायुक्तो ब्रह्ममन्त्रं प्रकीर्तितम्। अनेनैव तु मन्त्रेण ब्राह्मणं यः प्रपूजयेत् स काममिष्टं संप्राप्य ब्रह्मलोकेषु मोदते। ब्रह्मा कमण्डलुधरश्चतुर्वक्त्रश्चतुर्भुजः कदाचिद्रक्तकमले हंसारूढः कदाचन। वर्णेन रक्तगौराङ्गः प्रांशुस्तुङ्गाङ्ग उन्नतः कमण्डलुं वामकरे स्रुच हस्ते च दक्षिणे। दक्षिणाधस्तथा मालां वामाधश्च तथा स्रुवम् आज्यस्थाली वामपार्श्वे देवाः सर्वेऽग्रतः स्थिताः। सावित्री वामपार्श्वस्था दक्षिमस्था सरस्वती सर्वे च ऋषयो ह्यग्रे कुर्यादेवं विचिन्तनम्। चतुष्कोणं चतुर्द्वारमष्टपत्रसमन्वितम् चतुष्कोणेष्वङ्कितं तु स्रक्कमण्डलुक्स्रुवैः। सम्मार्जनादिकं सर्वं याश्चान्याः प्रतिपत्तयः दृष्ट्वाश्चोत्तरतन्त्रोक्ता योगपीठेऽङ्गिकादिकाः। आधारशक्तिप्रमुखांस्तथा सर्वांस्तु पूजयेत् अष्टपत्रेषु पद्मस्य दिक्पालांश्च प्रपूजयेत्। पद्मासनाय विद्यमहे हंसरूढाय धीमहि तन्नो ब्रह्मन्निति पदं ततः पश्चात् प्रचोदयात्। एषा तु ब्रह्मगायत्री पूजयेदनया विधिम् निर्माल्यधारी चैतस्य सनत्कुमार उच्यते। उपचाराः पूर्ववत् तु नेत्राञ्जनविवर्जिताः रक्तकौशेयवस्त्रं तु ब्रह्मप्रीतिकरं परम्। अन्नं सपायसं सर्पपिस्तिलयुक्तं च भोजनम् सितरक्तसमायुक्तं चन्दनं परिकीर्तितम्। पार्श्वयोः शंकरं विष्णुं पूजने पूजयेत् पुरः स्रुवादीन् करसंस्थांस्तु मण्डले प्ररिपूजयेत्। सरस्वतीं च सावित्रिं हंस पद्मं तथैव च अयं विशेषः कथितः प्रणामश्चास्य दण्डवत्। पद्मबीजभवा माला जपकर्मणि कीर्तिता पूर्णादर्शौ तिथी ग्राह्यी पूजाकर्मणि सर्वदा। क्षीरेणार्घ्यं प्रदद्यात् तु सर्वदा ब्रह्मणे नृप अयं ते कथितो भूप यथा भर्गेण भाषितः। दर्शयता स्वपुत्राभ्यां कामरूपाह्वयं शुभम् यत्र तत्र विधिञ्चैव साधकः परिपूजयेत्। पीठे सम्यक् पूजयित्वा परं निर्वाणमाप्नुयात् कथिता ब्रह्मणः पूजा पूजनं शृणु वैष्णवम्। बीजं तु वासुदेवस्य पुरैव प्रतिपादितम् तदङ्गमन्त्रं राजेन्द्र द्वाद्वशाक्षरमुच्यते। नमो भगवते पूर्वं वासुदेवाय वै परम् अङ्गमन्त्रमिदं चैव वासुदेवस्य कीर्तितम्। अस्य प्रत्यङ्गरूपं तु दधिवामनसंज्ञकम् तस्य मन्त्रं नरश्रेष्ठ शम्भुना भाषितं शृणुः। ॐ नमो विष्णवे पूर्वं पदं तस्य प्रकीर्तितम् पदं च सुरपतये चतुर्थ्यन्तं महाबलम्। स्वाहान्तं हृदयासन्नं प्रत्यङ्गवैष्णवं मतम् मन्त्रत्रयं तु यो वेद बीजं प्रत्यङ्गसंज्ञकम्। स पुमान् देवकायस्तु न स भूयोऽभिजायते सर्वं उत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने। त्रिषु मन्त्रेषु च सदा विशेषं शृणु भूपते रूपं तु बीजमन्त्रस्य प्रथमं शृणू भूपते। पूर्वचन्द्रोपमः शुक्लः पक्षिराजोपरिस्थितः चतुर्भुजः पीतवस्त्रैस्त्रिभिः संवीतदेहभृत्। दक्षिणोर्ध्वे गदां धत्ते तदधो विकचाम्बुजम् वामोर्ध्वे चक्रमत्युग्रं धत्तेऽधः शङ्खमेव च। श्रीवत्सवक्षाः सततं कौस्तुभं हृदि चांशुमत् दत्ते कक्षे ह्यधोवामे तूणीरं बाणपूरितम्। दक्षिणे कोषगं खड्गं नन्दकं चशरासनम् शीर्षे किरीटं सूद्योतं कर्णयोः कुण्डलद्वयम्। आजानुलम्बिनीं चित्रां वनमालां गले स्थिताम् दधानं दक्षिणे देवीं श्रियं पार्श्वे तु बिभ्रतम्। सरस्वतीं वामपार्श्वे चिन्तयेद् वरदं हरिम् बीजमन्त्रस्य रूपं च कथितं तव पार्थिव। द्वादशाक्षरमन्त्रस्य रूपमेतच्छृणुष्व मे नीलोत्पलदलश्यामं तथैव च चतुर्भुजम्। दक्षिणोर्ध्वस्तितं पद्मं गदां चाथ प्रयोजयेत् वामेऽधश्चक्रमतुलमूर्ध्वे शंखं च बिभ्रतम्। चिन्तयेद् वरदं देवं सर्वमन्यच्च पूर्ववत् अष्टादसाक्षरस्यास्य प्रत्यङ्गस्य च चिन्तनम्। शृणु राजन्नवहितो दारिद्र्यभयनाशनम् पूर्णेन्दुसदृशं कान्त्या शुक्लवर्णं विचिन्तयेत्। करे विचिन्तयेद् वामे पोयूषापूरितं घटम् दध्यन्नखण्डसंयुक्तं दक्षिणे स्वर्णभाजनम्। पद्मासनगतं देवं चन्द्रमण्डलमध्यगम् शुक्लवस्त्रधरं देवं प्रमाणाद् वामनं सदा। ईषद्धाससमायुक्तं त्रिलोकेशं त्रिविक्रमम् चिन्तयेद् वरदं देवं सर्वकामफलप्रदम्। दहनप्लवनादौ च पूर्वतन्त्रोदिता यथा तथा मन्त्राः परिग्राह्यास्तथा चोत्तरतन्त्रगाः। मण्डलस्य क्रमं तस्य शृणु भर्गेण भाषितम् रखया नित्यपूजासु रजोभिः पंचभिस्तथा। नैमित्तिके यथा कार्यं भेदाभेदेन साम्प्रतम् हस्तमात्रं चतुर्द्धारं वतुलाम्बुजसन्निभम्। चतुष्कोण चतुर्भिस्तु शङ्खैर्युक्तं मनोहरम् बद्धद्वारं दिक्पतीनामायुधैः करणैस्तथा। अष्टासु दिक्षु निहितं सबहिर्वेष्टपद्मकम् एवं यथा रजोभिस्तु कार्यं तच्छृणु पार्थिव। सितैः पीतैस्तथा रक्तैः श्यामैश्च हरितैः क्रमात् रजोभिर्मण्डलं कुर्यादन्यता न समाचरेत् चतुर्हस्तं त्रिहस्तं च द्विहस्तं हस्तमात्रकम् सर्वत्र मण्डलं कर्याद् यथोक्तं वाधिकं पुनः। राजसूयाश्वमेधादी चतुर्हस्ताधिकं मतम् कल्पानतिक्रमाद् भूप यथोक्तं यत्र यत्र च। दिक्पालायुधपद्मानां पूर्ववल्लिखनक्रमः सितै रजोभिः कर्तव्यं मध्ये पद्मं सुवर्तुलम्। कर्णिका पीतवर्णास्य केशराग्रं तथारुणम् रक्तैः पीतैः पूरयेत् तु बहिः पद्मस्य सर्वतः। वज्रं शक्तं लोहदण्डं खड्गं पाशाङ्कुशं गदाम् शूलमष्टदिगीशानामायुधानि क्रमात् पुनः। शम्भुर्गौरी तथा ब्रह्मा रामः कृष्णस्तथैव च एतास्तु सततं पूज्याः संस्थिताः पञ्चदेवताः। न कदाचिदबुधः कुर्याच्छम्भूगौर्यो वर्योजनम् वियोगे तु कृता पूजा निष्फला तस्य जायते। विच्छिन्नं मूर्ध्नि भूतं तु पूजितं शक्तमेव च न्यासे तु मण्डलस्यास्य रजोदोषं विवर्जयेत्। सर्वत्र मण्डलं कार्यं वासुदेवस्य पूजने एवमेव नृपश्रेष्ठ निष्फलं चन्यथेतरम्। बलभद्रश्च कामश्च ह्यनिरुद्धस्तदुद्भवः नारायणस्तथा ब्रह्मा विष्णुः षष्ठः प्रकीर्तितः। नरसिंहो वराहश्च योगिन्नोऽष्टौ प्रकीर्तिताः पूर्वाद्यष्टदले श्वेतान्रूपतो मन्त्रतः पृथक्। पूजयेत् कर्णिकामध्ये वासुदेवं तु नायकम् विमला नायिका तस्य वासुदेवस्य कीर्तिता। बलभद्रमुखानां तु योगिनीः शृणु पार्थव आदावुत्कर्षिणी ज्ञेया ज्ञाना पश्चात् क्रियापरा। योगा प्रह्वी तथैशानी अनुग्राही तथाष्टमी सर्व चतुर्भुजाः प्रोक्ताः शङ्खचक्रगदाधराः। योगिनो बलभद्रतु कामं विधिमृते तथा विधे रूपं तु पूर्वोक्तं हलं च मुषलं बलः। खड्गं चक्रं च धत्ते यो गदां पार्श्वे स्थितां सदा कामस्तु पुष्पकोदण्डं धत्ते वामेन पाणिना। गदां चक्रं च पुष्पं च धत्तेऽन्यैः पाणिभिः पुनः पार्श्वे पद्मं तथा धत्ते सर्वमन्यच्च पूर्ववत्। चक्रं शङ्खो वराहस्य दक्षिणे परिकीर्तितौ नृसिंहस्य पुनश्चशङ्खौ दक्षिमवामयोः। शङ्खं पद्मं तथा विष्मोः पाण्योर्दक्षिणयोः स्थितम् शंखो गदा वामतस्तु नारायणकरस्थितौ। दक्षिणाधो गदां धत्ते ह्यनिरुद्धो नरोत्तम सितरक्तस्तथा पीतो भिन्नाञ्जननिभस्तथा। नीलोत्पलदलश्यामस्तथा क्तघनप्रभः भ्रमरश्यामलः पिङ्गः स्वर्णगौरः क्रमादिमे। वर्णतो योगिनः प्रोक्ता वासुदेवस्य पार्थिव यादग्वर्णश्च ध्यानं च यस्य यस्य च योगिनः। तादृशींयोगिनींतस्य चिन्तयेत् तत्समीपगाम् आधारशक्तिप्रमुखाः सर्वा आसनदेवताः। ग्रहाश्च सर्वे दिक्पाला ध्यानतो मन्त्रतस्तथा पूजनीया यथोद्देशे मण्डलस्य क्रमान्नृप। देवस्य चिन्तितं यद्यच्छरीरे कामलादिकम् धृतास्त्रं वज्रशक्त्यादिगरुडार्दीश्च पूजयेत्। वर्णमालां शम्भुमतामासाद्य क्रमयोगतः आद्यद्वितीयक्रमतो गदादीनां तु मन्त्रकम्। पञ्चरात्रोदिते भागे नारदेन यथोदिताः मन्त्राश्चक्रगदादीनां ग्राह्याः सर्वत्र पूजने। गरुत्मान् सूर्यसङ्काशो गदा कृषअमायसी पुनः सरस्वती शुक्लवर्णा लक्ष्मीर्हेमप्रभा सदा। मध्याह्नसूर्यप्रतिमं चक्रं तु परिकीर्तितम् सम्पूर्णचन्द्रप्रतिमः शङ्खस्तु परिकीर्तितः। कौस्तुभो ह्यरुणः प्रोक्तः श्रीवत्सो ह्यरुणद्युतिः आरक्तकौस्तुभो ज्ञेयो माला चित्रा प्रकीर्तितम्। विद्युत्प्रभा सर्वबाणाः शक्रचापप्रभं धनुः स्वर्मचूर्णप्रकाशं तु वस्त्रमस्य प्रकीर्तितम्। बालसूयंप्रतीकाशे कुण्डले द्वे श्रवोगते सूर्यस्य सदृशं शीर्षे किरीटं परिकीर्तितम्। शृणु न्यासं ततो भूप यैर्न्यासैर्विष्णुरूपधृक् साधको हि भवेन्नित्यं स्वर्गमोक्षप्रदायकम्। न्यासं तु प्रथमं कुर्यान्मन्त्रविद् द्वादशाक्षरैः वासुदेवस्य बीजेन बीजं चैवाथ योगिनाम्। तर्तो न्यसेन्महामन्त्रै स्ततश्चाष्टादसाक्षरैः ततस्तु हृदयादीनां षड्भिर्मन्त्रर्द्विधा पुनः। एवं चतुर्भिर्न्यासैस्तु पूजामेकां समाचरेत् प्रथमं दक्षिणाङ्गुष्ठे न्यसेदाद्यक्षरं बुधः। द्वादशाक्षरमन्त्रस्य शेषबीजानि तु क्रमात् तर्जन्यादौ दक्षिणस्य वामाङ्गुष्ठान्तमेव च। शेषाक्षरद्वयं पश्चाद् न्यसेत् पाणितलद्वये हृदि शीर्षे शिखायां च स्कन्धयोर्दृक्पिचण्डयोः। पृष्ठे तु भुजयोः पाण्योर्जघयोः पादयोः क्रमात् द्वादशक्षरमन्त्रस्य बीजानि च ततो न्यसेत्। अङ्गुष्ठयोस्तु प्रथमं वासुदेवस्य तत्त्वकम् तर्जन्यादौ योगिनां तु बीजान्यष्टौ द्वयोर्न्यसेत्। शिरोदृगा स्यकण्ठोरोनाभिगुह्येषु जानुनोः पादयोर्वासुदेवस्य योगिबीजानि विन्यसेत्। मन्त्राणि हृदयादीनां यान्युक्तानि पुरा नृप तानि न्यस्याङ्गुष्ठमूलेऽङ्गुलीजाते द्वये द्वये। वामदक्षिणपाण्योस्तु शेषं तु तलयोन्यसेत् हृदयाद्यस्त्रपर्यन्तं पुनस्तानि क्रमान्न्यसेसेत्। अष्टादशाक्षरस्यादिनववर्णान् न्यसेद् बुधः शिरोनेत्रादिपूर्वोक्ते नवबीजस्य गोचरे। शेषान् वर्णान् सङ्कीर्णपार्श्वस्तिषु शेफसि कट्यामूर्वोर्जङ्घयोश्च न्यसेत् पादाङ्गुलीषु च। यस्य मन्त्रस्य या पूजा तन्त्रैस्तु यत्र चोदिता तस्य तन्त्रस्य तत्रैव न्यासं मन्त्री समाचरेत्। अथ चैकत्र सर्वेषां न्यासं कुर्याद विचक्षणः चतुर्विधैः कृतैर्न्यासैः पूतात्मा धूतकल्मषः। साक्षाद् विष्णुर्भवेन्मन्त्री सम्यक् पूजाफलं लभेत् विनापि पूजनं यस्तु न्यासं कुर्याच्चतुर्विधम्। स धीरो विष्णुसायुज्यमाप्नोति परमं पदम् योगपीठं ततो ध्यात्वा गरुडं चक्रंशङ्खं च। गदां लक्ष्मीं तथा पद्मं क्रमादेतेषु विन्यसेत् पूर्वदक्षिणकौबेरपश्चात् कोणेषु वै क्रमात्। दक्षिणे चोत्तरे वापि विन्यसेन्मन्त्रविद् बुधः वनमालां पद्ममध्ये श्रीवत्सं कौस्तुभं मणिम्। विन्यस्य दक्षिणे तस्य न्येसेच्छार्ङ्ग शरासनम् तणीरयुगलं वामे खड्गं दक्षिणतो न्यसेत्। वामे चर्म निधायाश तत्र कुर्यात् सरस्वतीम् पूजयित्वा च सर्वाणि ततो मुर्द्रां प्रदर्शयेत्। मुद्राः पुटाद्या याः प्रोक्ता विष्णुर्याश्चापि योगिनाम् ग्रहाणां दिक्पतीनां च मुद्रास्ता दर्शयेत् पृथक्। शेषमन्त्राः पुरा प्रोक्ता अच्छिद्रस्यावधारणे तन्मन्त्रान् संपठित्वैव सूर्यायार्ध्यं निवेदयेत् निर्माल्यधारी विष्णोस्तु विष्वक्सेनस्चतुर्भुजः। शङ्खचक्रगदापाणिर्दीर्घश्मश्रुजटाधरः। रक्तपिङ्गलवर्णस्तु सितपद्मोपरिस्थितः यत् तृतीयस्वरान्तेन सयुक्तो बिन्दुनेन्दुना। कीर्तितस्तस्य मन्त्रोऽयं तेन तं परिपूजयेत् विसर्जनं तथा विष्णोरैशान्यां परिकीर्तितम्। अन्येषां मनसा कुर्याद् बलादीनां विसर्जनम् एवं यः कुरुते पूजां विष्णोः शम्भोर्विधेः क्वचित्। पीठे दिक्करवासिन्याः स याति परमं पदम् यत्र यत्र भवेद् विष्णोः पूजनं नृपसत्तम्। तत्र तत्रैव तन्त्रोऽयं ग्राह्यो वै वैष्णवैर्बुधैः सङ्क्षेपेणैव तत्रैव पूजयेद् दधिवामनम्। हृदयाद्यङ्गपूजा तु न कर्तव्याऽस्य पूजने संक्षेपैर्विस्तरैर्वापि वासुदेवं प्रपूजयेत्। रक्तं कोशेयवस्त्रं च पीतं शुक्लं तथैव च प्रीतिदं वासुदेवस्य वस्त्रमेतत् प्रकीर्तितम्। घृतप्रदीपो दीपेषु गन्धेषु मलयोद्भवः पानार्ध्यभोज्यपात्रेषु ताम्रं प्रीतिकरं मतम्। किरीटं कुण्डल हारो भूषणं विष्णुतुष्टिदम् शङ्खः स्नानीयपात्रेषु धूपेष्वगुरुरेव च। प्रीतिदो वासुदेवस्य सततं परिकीर्तितः कदम्बं कुब्जकं जाती मल्लिका मालतो तथा। पङ्कजं चेति पुष्पाणि तद् विष्णोः प्रीतिदान्युत निर्जनं स्थण्डिलं स्थानं तीर्थं तोयमथापि वा। तद् विष्णोरिति मन्त्रस्तु स्तुतिः पुरुषसूक्तकम् पुत्रञ्जीवोद्भवा माला प्रशस्ता विष्णुपूजने। तिथिश्च द्वादशी प्रोक्ता वसन्तः काल उत्तमः शाल्योदनं हविष्यान्नं यावकं पायसं घृतम्। कृशरान्नं तथान्नेषु पानेषु क्षीरमिष्यते दलेषु तुलसीपत्रं बैल्वमामलमेव च। हरेः प्रीतिकराणि स्युरेतानि नृपसत्तम सर्वाणि परकीयाणि यानि तानि च वर्जयेत्। एवं यः पूजयेद् विष्णुं सततं नरसत्तमः कुलकोटिं समुद्धृत्य स स्वयं स्याज्जनार्दनः। इदं ते कथितं भूप वासुदेवस्य यन्त्रकम् पीठस्य कामरूपस्य सङ्क्षेपान्निर्णयं तथा। इति सर्वं कामरूपपीठं शम्भुरदशयत् पुत्राभ्यां स पुनस्ताभ्यां कैलासं प्रययौ गिरिम्। तत्र गत्वा यतायोगं निधाय तनयौ स्वकौ विमुक्तशापास्ते जाताः शम्भुर्गिरिसुता तथा। वेतालो भैरवश्चेति नृपसत्तम निर्जराः इदं यो महदाख्यानं शृणोत्येकाग्रमानसः। शापभीतिर्न तस्यास्ति व्याधयस्तस्य नाधयः पुत्रपौत्रधनैश्वर्ययुक्तः सर्वत्र वल्लभः। सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति कामरूपं महापीठं यो जानाति नरोत्तमः। स दिव्यज्ञानसम्पन्नः परं निर्वाणमाप्नुयात् यः कामरूपे सकले पीठयात्रां समाचरेत्। आसाद्य सकलान् पीठान् पूजयेत् सर्वदेवताः दशपूर्वान् दश परानात्मानं चैकविंशतिम्। दिव्ये ज्ञाने विधायाशु सर्वं मुक्तिमियात् सह
|| aśītitamo'dhyāyaḥ || ||śāśvatī kathitā yā tu nadī matsyadhvajāsitā| tasyāḥ pūrve samākhyātā nadī dīpavatī matā eṣā ca himavajjātā chindantī dīpavattamaḥ| tena devamanuṣyeṣu nadī dīpavatī smṛtā dīpavatyāḥ pūrvatastu śṛṅgāṭo nāma parvataḥ| tatra devasya bhargasya liṅgamakaṃ pratiṣṭhitam sarit tu siddhā triḥsrotā dakṣiṇodadhigāminī| śṛṅgāṭakasya satataṃ sravantī sā tu pādataḥ dakṣiṇaṃ sāgaraṃ yāti bhargasya priyakāriṇī| salile yo naraḥ snātvā triḥsrotāyā narottamaḥ śṛṅgāṭakaṃ samāruhya pūjayelliṅgaśaṅkaram| sa dīptakāyaḥ śuddhātmā prāpya kāmānihātulān ante bhargagṛhaṃ yāti tato mokṣamavāpnuyāt| harastu dvibhujastasmin sadā vṛṣabhavāhanaḥ umayā ramate sārdhaṃ vāmadevasya mantrakaiḥ| tantraiśca pūjayed devamumāmantreṇa caṇḍikām tat-pūrvato nimnaga tu nāmnā tu vṛddhavedikā| tasyāṃ snātvā phalaṃ martyo vedikāsnānajaṃ labhet tato bhaṭṭārikā nāma himaśailasamudbhavā| mahānadī devagaṇairyā sadopāsyate sukham tasyāṃ yaḥ kurute snānaṃ yugādiṣu caturṣvapi| sa yāti paramaṃ sthānaṃ tadviṣṇoḥ paramaṃ padam asti nāṭakaśaile tu saro mānasasannibham| yatra sārdhaṃ śailaputryā jalakrīḍāṃ sadā haraḥ kurute naraśārdūla svarmapaṅkajaśobhite| tasya paścānmadhyapūrvabhāgebhyastu sarit-trayam avatīrṇaṃ prayātyeva dakṣiṇaṃ sāgaraṃ prati| tasya paścimabhāge tu nadī dikkarikāhrayā diggajakṣatasaṃjātā tena dikkarikāhvayā| madhyabhāgāt sṛtā yā tu śaṅkareṇāvatāritā vṛddhagaṃgāhvayā sā tu gaṃgeva phaladāyinī| yā niḥsṛtā purvabhāgāt tasmād girivarānnadī suvarṇaśrīriti vikhyātā sā gaṅgāsadṛśīphale| kurvatyāḥ sarasi snānaṃ pārvatyāśca śarīrataḥ niḥsṛtāḥ svarṇakaṇikāstā vahanti jalairimāḥ| krīḍārthaṃ śambhunā gātre kaṇikābhiḥ samācitāḥ svasthānāt tatra saṃlagnāstataścandanabindavaḥ| tā umāyāḥ śarīrāt tu saṃsravanti jalaiḥ saha tataḥ svarṇavahā nāma svarṇaśrīḥ sarvato'dhikā| etāsu caitramāsaṃ tu snātvā martyo nararṣabhaḥ kṛṣṇapakṣe caturdaśyāṃ trikālaṃ yatra manāvaḥ| ciraṃ devīgṛhe sthitvā śeṣe brahmagṛhaṃ vrajet bhūmāvavagataḥ paścātsārvabhaumo nṛpo bhavet| vṛddhagaṅgājalasyāntastīre brahmasutasya vai viśvānāthāhvayo devaḥ śivaliṅgasamanvitaḥ| viśvadevī mahādevī yonimaṇḍalarūpiṇī hayagrīveṇa yuyudhe tatra devo jagadpatiḥ| hayagrīvaṃ yatra hatvā maṇikūṭaṃ purāgatam tatra yaḥ pūjayed durgāṃ śāradāṃ tantramantrakaiḥ| hayagrīvasya mantreṇa tantreṇa garuḍadhvajam kāmeśvarasya tantreṇa mantreṇāpi ca śaṅkaram| yo yajet parayā bhaktyā dvādaśyāṃ samupoṣitaḥ aṣṭamyāṃ ca caturdaśyāṃ tasya puṇyaphalaṃ śṛṇu| kalpakoṭitrayaṃ sthitvā śivagehe gṛhe hareḥ tāvantaṃ saṃsthitaḥ kālaṃ tāvantaṃ ca śivāgṛhe| śeṣe bhuvaṃ samāsādya vedavid brāhmaṇo bhavet nadyāḥ svarṇaśriyaḥ pūrvaṃ nadī kāmāhvayā śubhā| kāmāyāḥ pūrvabhāge tu nadī somāśanāhvayā somāśanāyāḥ pūrvasyāṃ nado nāmnā vṛṣodakā| tataḥ pūrve kāmarūpaṃ pīṭhaṃ te jagatāṃ prasūḥ jaganmayo mahāmāyā devī dikkaravāsinī| etā yāḥ kathitā nadyaḥ sakalā dakṣiṇasravāḥ tāsu snātvā ca pītvā ca svargalokamavāpnuyāt| prānte dikkaravāsinyāḥ sadā vahati svarṇadī sitagaṅgāhvayā loke sākṣād gaṅgāphalapradā| sā bhūmipīṭhasaṃsthā ca devī dikkaravāsinī antarjale plāvayantī yāti pratyakṣatāṃ suraiḥ| sitagaṅgājale snātvā dṛṣṭvā śambhuṃ hariṃ vidhim iṣṭvā lalitakāntākhyāṃ punaryonau na jāyate| liṅgasvarūpī bhagavācchambhustatra svayaṃ sthitaḥ viṣṇuḥ śilāsvarūpeṇa brahmaliṅgasvarūpadhṛk| pīṭhe dikkaravāsinyā dvirīpā ramate śivā tīkṣṇakāntāhvayā tvekā yogratārā prakīrtitā| parā lalitakāntākhyā yā śrīmaṅgalacaṇḍikā tasyāstu satataṃ rūpaṃ tīkṣṇakāntāhvayaṃ nṛpa| kṛṣṇā lambodarī yā tu sā syādekajaṭā śivā tena rūpeṇa tāṃ dīvaṃ satataṃ paripūjayet| aṅgamantraṃ ca rūpaṃ ca tasyāḥ prākpratipāditam trikoṇaṃ maṇḍalaṃ cāsyāḥ kartavyaṃ mantrapūrvakam| ādau rekhe tataḥ paścāt surekheti padaṃ tataḥ tathā padaṃ cādhigamya tiṣṭhantivati padaṃ tataḥ| maṇḍalasyāsya mantro'yaṃ tīkṣṇāyāḥ parikīrtitaḥ naratripuradevādiyamavetāladurdharāḥ| gaṇaśrametyantakāntā dvārapālāḥ prakīrtitāḥ etāṃstu pūjayet samyaṅmaṇḍalasyāṣṭadikṣu vai| ādau sambodhanaṃ kṛtvā vajrapuṣpaṃ tataḥ param vahnijāyaṃ tataḥ paścānmantrameṣāṃ prakīrtitam| pātropakaraṇādīnāṃ sthānasyānyasya sarvataḥ sarvamuttaratantroktaṃ bhīṣaṇā bhagā vikaṭeti ca yoginyaḥ proktā yasyāstavaiva ṣaṭ| he bhagavatyekajaṭe vidmahe padamantataḥ vikaṭadaṃṣṭre dhīmahi tannastāre pracodayāt| eṣā tu tīkṣṇagāyatrī pīṭhadevyāḥ prakīrtitā nirmālyadhāriṇī cāsyā devī vikaṭacaṇḍikā| mālā tu mṛnmayī proktā rudrākṣasambhavāpi vā viśeṣa eṣa devyāstu pūjane parikīrtitaḥ| upacārādikaṃ kṛtyaṃ balidānaṃ japādikam sarvaṃ tu parvavad grāhyaṃ kāmākhyāpūjane yathā| pāneṣu madirā śastā naro valiṣu pārthiva modako nārikelaṃ ca māṃsavyañjanamaikṣavam| naivedyeṣu priyakarāstīkṣṇāyāḥ parikīrtitāḥ yaiṣā lalitakāntākhyā devī maṅgalacaṇḍikā| varadābhyahastā sā dvibhujā gauradehikā raktapadmāsanasthā ca mṛkuṭojjvalamaṇḍitā| raktakauśeyavasānā smitavaktrā śubhānanā navayauvanasampannā cārvaṅgī lalitaprabhā| umāyā bhāṣitaṃ mantraṃ yat pūrvaṃ tvekamakṣaram mantramasyāstu tajjñeyaṃ tena devīṃ prapūjayet| nārāyaṇyai vidmahe tvāṃ caṇḍikāyai tu dhīmahi tanno lalitakāṃnteti tataḥ paścāt pracodayāt| eṣā lalitagāyatrī devyā iṣṭyai prakīrtitā lohitāṃgasya divasaḥ priyo'syāḥ parikīrtitaḥ| kālo vasantakālaśca svaraścāpi tu pañcamaḥ aṣṭamyā~ ca navamyāṃ tra pūjā kāryā vibhūtaye| nirmālyadhāriṇī cāsyā devī lalitacaṇḍikā dūrvāṅkuraiḥ samāyuktamakṣataṃ prītida param| ayamasyā viśeṣastu pūjane parikīrtitaḥ vaiṣṇavītantramantrasyatantraṃ grāhyaṃ tu pūjane| upacāro baliścāsyā vihito yaḥ kramaḥ purā mahāmāyāmahādevyāstadgrāhyaṃ paripūjane| svagātrarudhiraṃ dadyādātmanaśca hitāya vai paṭeṣu pratimāyāṃ vā ghaṭe maṅgalacaṇḍikām| yaḥ pūjayed bhaumadine śubairdūrvāṅkuraiḥ śivām satataṃ sādhakaḥ so'pi kāmamiṣṭamavāpnuyāt| evaṃ dikkaravāsinyāḥ kathitaḥ pūjanakramaḥ yacchrutvā nāśubhaṃ kiñcidāpnoti śravaṇe rataḥ| dikkarastvaruṇaḥ proktastathā śambhuśca dikkaraḥ tasminnadhyuṣitā devī tasmād dikkaravāsinī| jagattraye'pi yasyāstu sadṛśī kvāpi sandarī nānyāsti lalitā tana devī lalitakāntikā| śaṅkarasya purā prokto grāhyo vai pūjanakramaḥ śṛṇu rājannavahito brahmaṇaḥ pūjanakramam| brahmabojaṃ purā prāktaṃ tanmtraṃ sarvataścaret tenaiva taṃ tu sampūjya paraṃ nirvāṇamāpnuyāt| etasya cāṅgamantra tu yathā bhargeṇa bhāṣitam vetālabhairavābhyāṃ tu rūpaṃ ca śṛṇu bhūmipa| pastṛtīyaśca vahniśca śeṣasvarasamanvitaḥ candrabindusamāyukto brahmamantraṃ prakīrtitam| anenaiva tu mantreṇa brāhmaṇaṃ yaḥ prapūjayet sa kāmamiṣṭaṃ saṃprāpya brahmalokeṣu modate| brahmā kamaṇḍaludharaścaturvaktraścaturbhujaḥ kadācidraktakamale haṃsārūḍhaḥ kadācana| varṇena raktagaurāṅgaḥ prāṃśustuṅgāṅga unnataḥ kamaṇḍaluṃ vāmakare sruca haste ca dakṣiṇe| dakṣiṇādhastathā mālāṃ vāmādhaśca tathā sruvam ājyasthālī vāmapārśve devāḥ sarve'grataḥ sthitāḥ| sāvitrī vāmapārśvasthā dakṣimasthā sarasvatī sarve ca ṛṣayo hyagre kuryādevaṃ vicintanam| catuṣkoṇaṃ caturdvāramaṣṭapatrasamanvitam catuṣkoṇeṣvaṅkitaṃ tu srakkamaṇḍaluksruvaiḥ| sammārjanādikaṃ sarvaṃ yāścānyāḥ pratipattayaḥ dṛṣṭvāścottaratantroktā yogapīṭhe'ṅgikādikāḥ| ādhāraśaktipramukhāṃstathā sarvāṃstu pūjayet aṣṭapatreṣu padmasya dikpālāṃśca prapūjayet| padmāsanāya vidyamahe haṃsarūḍhāya dhīmahi tanno brahmanniti padaṃ tataḥ paścāt pracodayāt| eṣā tu brahmagāyatrī pūjayedanayā vidhim nirmālyadhārī caitasya sanatkumāra ucyate| upacārāḥ pūrvavat tu netrāñjanavivarjitāḥ raktakauśeyavastraṃ tu brahmaprītikaraṃ param| annaṃ sapāyasaṃ sarpapistilayuktaṃ ca bhojanam sitaraktasamāyuktaṃ candanaṃ parikīrtitam| pārśvayoḥ śaṃkaraṃ viṣṇuṃ pūjane pūjayet puraḥ sruvādīn karasaṃsthāṃstu maṇḍale praripūjayet| sarasvatīṃ ca sāvitriṃ haṃsa padmaṃ tathaiva ca ayaṃ viśeṣaḥ kathitaḥ praṇāmaścāsya daṇḍavat| padmabījabhavā mālā japakarmaṇi kīrtitā pūrṇādarśau tithī grāhyī pūjākarmaṇi sarvadā| kṣīreṇārghyaṃ pradadyāt tu sarvadā brahmaṇe nṛpa ayaṃ te kathito bhūpa yathā bhargeṇa bhāṣitaḥ| darśayatā svaputrābhyāṃ kāmarūpāhvayaṃ śubham yatra tatra vidhiñcaiva sādhakaḥ paripūjayet| pīṭhe samyak pūjayitvā paraṃ nirvāṇamāpnuyāt kathitā brahmaṇaḥ pūjā pūjanaṃ śṛṇu vaiṣṇavam| bījaṃ tu vāsudevasya puraiva pratipāditam tadaṅgamantraṃ rājendra dvādvaśākṣaramucyate| namo bhagavate pūrvaṃ vāsudevāya vai param aṅgamantramidaṃ caiva vāsudevasya kīrtitam| asya pratyaṅgarūpaṃ tu dadhivāmanasaṃjñakam tasya mantraṃ naraśreṣṭha śambhunā bhāṣitaṃ śṛṇuḥ| oṃ namo viṣṇave pūrvaṃ padaṃ tasya prakīrtitam padaṃ ca surapataye caturthyantaṃ mahābalam| svāhāntaṃ hṛdayāsannaṃ pratyaṅgavaiṣṇavaṃ matam mantratrayaṃ tu yo veda bījaṃ pratyaṅgasaṃjñakam| sa pumān devakāyastu na sa bhūyo'bhijāyate sarvaṃ uttaratantroktaḥ kramo grāhyaḥ prapūjane| triṣu mantreṣu ca sadā viśeṣaṃ śṛṇu bhūpate rūpaṃ tu bījamantrasya prathamaṃ śṛṇū bhūpate| pūrvacandropamaḥ śuklaḥ pakṣirājoparisthitaḥ caturbhujaḥ pītavastraistribhiḥ saṃvītadehabhṛt| dakṣiṇordhve gadāṃ dhatte tadadho vikacāmbujam vāmordhve cakramatyugraṃ dhatte'dhaḥ śaṅkhameva ca| śrīvatsavakṣāḥ satataṃ kaustubhaṃ hṛdi cāṃśumat datte kakṣe hyadhovāme tūṇīraṃ bāṇapūritam| dakṣiṇe koṣagaṃ khaḍgaṃ nandakaṃ caśarāsanam śīrṣe kirīṭaṃ sūdyotaṃ karṇayoḥ kuṇḍaladvayam| ājānulambinīṃ citrāṃ vanamālāṃ gale sthitām dadhānaṃ dakṣiṇe devīṃ śriyaṃ pārśve tu bibhratam| sarasvatīṃ vāmapārśve cintayed varadaṃ harim bījamantrasya rūpaṃ ca kathitaṃ tava pārthiva| dvādaśākṣaramantrasya rūpametacchṛṇuṣva me nīlotpaladalaśyāmaṃ tathaiva ca caturbhujam| dakṣiṇordhvastitaṃ padmaṃ gadāṃ cātha prayojayet vāme'dhaścakramatulamūrdhve śaṃkhaṃ ca bibhratam| cintayed varadaṃ devaṃ sarvamanyacca pūrvavat aṣṭādasākṣarasyāsya pratyaṅgasya ca cintanam| śṛṇu rājannavahito dāridryabhayanāśanam pūrṇendusadṛśaṃ kāntyā śuklavarṇaṃ vicintayet| kare vicintayed vāme poyūṣāpūritaṃ ghaṭam dadhyannakhaṇḍasaṃyuktaṃ dakṣiṇe svarṇabhājanam| padmāsanagataṃ devaṃ candramaṇḍalamadhyagam śuklavastradharaṃ devaṃ pramāṇād vāmanaṃ sadā| īṣaddhāsasamāyuktaṃ trilokeśaṃ trivikramam cintayed varadaṃ devaṃ sarvakāmaphalapradam| dahanaplavanādau ca pūrvatantroditā yathā tathā mantrāḥ parigrāhyāstathā cottaratantragāḥ| maṇḍalasya kramaṃ tasya śṛṇu bhargeṇa bhāṣitam rakhayā nityapūjāsu rajobhiḥ paṃcabhistathā| naimittike yathā kāryaṃ bhedābhedena sāmpratam hastamātraṃ caturddhāraṃ vatulāmbujasannibham| catuṣkoṇa caturbhistu śaṅkhairyuktaṃ manoharam baddhadvāraṃ dikpatīnāmāyudhaiḥ karaṇaistathā| aṣṭāsu dikṣu nihitaṃ sabahirveṣṭapadmakam evaṃ yathā rajobhistu kāryaṃ tacchṛṇu pārthiva| sitaiḥ pītaistathā raktaiḥ śyāmaiśca haritaiḥ kramāt rajobhirmaṇḍalaṃ kuryādanyatā na samācaret caturhastaṃ trihastaṃ ca dvihastaṃ hastamātrakam sarvatra maṇḍalaṃ karyād yathoktaṃ vādhikaṃ punaḥ| rājasūyāśvamedhādī caturhastādhikaṃ matam kalpānatikramād bhūpa yathoktaṃ yatra yatra ca| dikpālāyudhapadmānāṃ pūrvavallikhanakramaḥ sitai rajobhiḥ kartavyaṃ madhye padmaṃ suvartulam| karṇikā pītavarṇāsya keśarāgraṃ tathāruṇam raktaiḥ pītaiḥ pūrayet tu bahiḥ padmasya sarvataḥ| vajraṃ śaktaṃ lohadaṇḍaṃ khaḍgaṃ pāśāṅkuśaṃ gadām śūlamaṣṭadigīśānāmāyudhāni kramāt punaḥ| śambhurgaurī tathā brahmā rāmaḥ kṛṣṇastathaiva ca etāstu satataṃ pūjyāḥ saṃsthitāḥ pañcadevatāḥ| na kadācidabudhaḥ kuryācchambhūgauryo varyojanam viyoge tu kṛtā pūjā niṣphalā tasya jāyate| vicchinnaṃ mūrdhni bhūtaṃ tu pūjitaṃ śaktameva ca nyāse tu maṇḍalasyāsya rajodoṣaṃ vivarjayet| sarvatra maṇḍalaṃ kāryaṃ vāsudevasya pūjane evameva nṛpaśreṣṭha niṣphalaṃ canyathetaram| balabhadraśca kāmaśca hyaniruddhastadudbhavaḥ nārāyaṇastathā brahmā viṣṇuḥ ṣaṣṭhaḥ prakīrtitaḥ| narasiṃho varāhaśca yoginno'ṣṭau prakīrtitāḥ pūrvādyaṣṭadale śvetānrūpato mantrataḥ pṛthak| pūjayet karṇikāmadhye vāsudevaṃ tu nāyakam vimalā nāyikā tasya vāsudevasya kīrtitā| balabhadramukhānāṃ tu yoginīḥ śṛṇu pārthava ādāvutkarṣiṇī jñeyā jñānā paścāt kriyāparā| yogā prahvī tathaiśānī anugrāhī tathāṣṭamī sarva caturbhujāḥ proktāḥ śaṅkhacakragadādharāḥ| yogino balabhadratu kāmaṃ vidhimṛte tathā vidhe rūpaṃ tu pūrvoktaṃ halaṃ ca muṣalaṃ balaḥ| khaḍgaṃ cakraṃ ca dhatte yo gadāṃ pārśve sthitāṃ sadā kāmastu puṣpakodaṇḍaṃ dhatte vāmena pāṇinā| gadāṃ cakraṃ ca puṣpaṃ ca dhatte'nyaiḥ pāṇibhiḥ punaḥ pārśve padmaṃ tathā dhatte sarvamanyacca pūrvavat| cakraṃ śaṅkho varāhasya dakṣiṇe parikīrtitau nṛsiṃhasya punaścaśaṅkhau dakṣimavāmayoḥ| śaṅkhaṃ padmaṃ tathā viṣmoḥ pāṇyordakṣiṇayoḥ sthitam śaṃkho gadā vāmatastu nārāyaṇakarasthitau| dakṣiṇādho gadāṃ dhatte hyaniruddho narottama sitaraktastathā pīto bhinnāñjananibhastathā| nīlotpaladalaśyāmastathā ktaghanaprabhaḥ bhramaraśyāmalaḥ piṅgaḥ svarṇagauraḥ kramādime| varṇato yoginaḥ proktā vāsudevasya pārthiva yādagvarṇaśca dhyānaṃ ca yasya yasya ca yoginaḥ| tādṛśīṃyoginīṃtasya cintayet tatsamīpagām ādhāraśaktipramukhāḥ sarvā āsanadevatāḥ| grahāśca sarve dikpālā dhyānato mantratastathā pūjanīyā yathoddeśe maṇḍalasya kramānnṛpa| devasya cintitaṃ yadyaccharīre kāmalādikam dhṛtāstraṃ vajraśaktyādigaruḍārdīśca pūjayet| varṇamālāṃ śambhumatāmāsādya kramayogataḥ ādyadvitīyakramato gadādīnāṃ tu mantrakam| pañcarātrodite bhāge nāradena yathoditāḥ mantrāścakragadādīnāṃ grāhyāḥ sarvatra pūjane| garutmān sūryasaṅkāśo gadā kṛṣaamāyasī punaḥ sarasvatī śuklavarṇā lakṣmīrhemaprabhā sadā| madhyāhnasūryapratimaṃ cakraṃ tu parikīrtitam sampūrṇacandrapratimaḥ śaṅkhastu parikīrtitaḥ| kaustubho hyaruṇaḥ proktaḥ śrīvatso hyaruṇadyutiḥ āraktakaustubho jñeyo mālā citrā prakīrtitam| vidyutprabhā sarvabāṇāḥ śakracāpaprabhaṃ dhanuḥ svarmacūrṇaprakāśaṃ tu vastramasya prakīrtitam| bālasūyaṃpratīkāśe kuṇḍale dve śravogate sūryasya sadṛśaṃ śīrṣe kirīṭaṃ parikīrtitam| śṛṇu nyāsaṃ tato bhūpa yairnyāsairviṣṇurūpadhṛk sādhako hi bhavennityaṃ svargamokṣapradāyakam| nyāsaṃ tu prathamaṃ kuryānmantravid dvādaśākṣaraiḥ vāsudevasya bījena bījaṃ caivātha yoginām| tarto nyasenmahāmantrai stataścāṣṭādasākṣaraiḥ tatastu hṛdayādīnāṃ ṣaḍbhirmantrardvidhā punaḥ| evaṃ caturbhirnyāsaistu pūjāmekāṃ samācaret prathamaṃ dakṣiṇāṅguṣṭhe nyasedādyakṣaraṃ budhaḥ| dvādaśākṣaramantrasya śeṣabījāni tu kramāt tarjanyādau dakṣiṇasya vāmāṅguṣṭhāntameva ca| śeṣākṣaradvayaṃ paścād nyaset pāṇitaladvaye hṛdi śīrṣe śikhāyāṃ ca skandhayordṛkpicaṇḍayoḥ| pṛṣṭhe tu bhujayoḥ pāṇyorjaghayoḥ pādayoḥ kramāt dvādaśakṣaramantrasya bījāni ca tato nyaset| aṅguṣṭhayostu prathamaṃ vāsudevasya tattvakam tarjanyādau yogināṃ tu bījānyaṣṭau dvayornyaset| śirodṛgā syakaṇṭhoronābhiguhyeṣu jānunoḥ pādayorvāsudevasya yogibījāni vinyaset| mantrāṇi hṛdayādīnāṃ yānyuktāni purā nṛpa tāni nyasyāṅguṣṭhamūle'ṅgulījāte dvaye dvaye| vāmadakṣiṇapāṇyostu śeṣaṃ tu talayonyaset hṛdayādyastraparyantaṃ punastāni kramānnyaseset| aṣṭādaśākṣarasyādinavavarṇān nyased budhaḥ śironetrādipūrvokte navabījasya gocare| śeṣān varṇān saṅkīrṇapārśvastiṣu śephasi kaṭyāmūrvorjaṅghayośca nyaset pādāṅgulīṣu ca| yasya mantrasya yā pūjā tantraistu yatra coditā tasya tantrasya tatraiva nyāsaṃ mantrī samācaret| atha caikatra sarveṣāṃ nyāsaṃ kuryāda vicakṣaṇaḥ caturvidhaiḥ kṛtairnyāsaiḥ pūtātmā dhūtakalmaṣaḥ| sākṣād viṣṇurbhavenmantrī samyak pūjāphalaṃ labhet vināpi pūjanaṃ yastu nyāsaṃ kuryāccaturvidham| sa dhīro viṣṇusāyujyamāpnoti paramaṃ padam yogapīṭhaṃ tato dhyātvā garuḍaṃ cakraṃśaṅkhaṃ ca| gadāṃ lakṣmīṃ tathā padmaṃ kramādeteṣu vinyaset pūrvadakṣiṇakauberapaścāt koṇeṣu vai kramāt| dakṣiṇe cottare vāpi vinyasenmantravid budhaḥ vanamālāṃ padmamadhye śrīvatsaṃ kaustubhaṃ maṇim| vinyasya dakṣiṇe tasya nyesecchārṅga śarāsanam taṇīrayugalaṃ vāme khaḍgaṃ dakṣiṇato nyaset| vāme carma nidhāyāśa tatra kuryāt sarasvatīm pūjayitvā ca sarvāṇi tato murdrāṃ pradarśayet| mudrāḥ puṭādyā yāḥ proktā viṣṇuryāścāpi yoginām grahāṇāṃ dikpatīnāṃ ca mudrāstā darśayet pṛthak| śeṣamantrāḥ purā proktā acchidrasyāvadhāraṇe tanmantrān saṃpaṭhitvaiva sūryāyārdhyaṃ nivedayet nirmālyadhārī viṣṇostu viṣvaksenascaturbhujaḥ| śaṅkhacakragadāpāṇirdīrghaśmaśrujaṭādharaḥ| raktapiṅgalavarṇastu sitapadmoparisthitaḥ yat tṛtīyasvarāntena sayukto bindunendunā| kīrtitastasya mantro'yaṃ tena taṃ paripūjayet visarjanaṃ tathā viṣṇoraiśānyāṃ parikīrtitam| anyeṣāṃ manasā kuryād balādīnāṃ visarjanam evaṃ yaḥ kurute pūjāṃ viṣṇoḥ śambhorvidheḥ kvacit| pīṭhe dikkaravāsinyāḥ sa yāti paramaṃ padam yatra yatra bhaved viṣṇoḥ pūjanaṃ nṛpasattam| tatra tatraiva tantro'yaṃ grāhyo vai vaiṣṇavairbudhaiḥ saṅkṣepeṇaiva tatraiva pūjayed dadhivāmanam| hṛdayādyaṅgapūjā tu na kartavyā'sya pūjane saṃkṣepairvistarairvāpi vāsudevaṃ prapūjayet| raktaṃ kośeyavastraṃ ca pītaṃ śuklaṃ tathaiva ca prītidaṃ vāsudevasya vastrametat prakīrtitam| ghṛtapradīpo dīpeṣu gandheṣu malayodbhavaḥ pānārdhyabhojyapātreṣu tāmraṃ prītikaraṃ matam| kirīṭaṃ kuṇḍala hāro bhūṣaṇaṃ viṣṇutuṣṭidam śaṅkhaḥ snānīyapātreṣu dhūpeṣvagurureva ca| prītido vāsudevasya satataṃ parikīrtitaḥ kadambaṃ kubjakaṃ jātī mallikā mālato tathā| paṅkajaṃ ceti puṣpāṇi tad viṣṇoḥ prītidānyuta nirjanaṃ sthaṇḍilaṃ sthānaṃ tīrthaṃ toyamathāpi vā| tad viṣṇoriti mantrastu stutiḥ puruṣasūktakam putrañjīvodbhavā mālā praśastā viṣṇupūjane| tithiśca dvādaśī proktā vasantaḥ kāla uttamaḥ śālyodanaṃ haviṣyānnaṃ yāvakaṃ pāyasaṃ ghṛtam| kṛśarānnaṃ tathānneṣu pāneṣu kṣīramiṣyate daleṣu tulasīpatraṃ bailvamāmalameva ca| hareḥ prītikarāṇi syuretāni nṛpasattama sarvāṇi parakīyāṇi yāni tāni ca varjayet| evaṃ yaḥ pūjayed viṣṇuṃ satataṃ narasattamaḥ kulakoṭiṃ samuddhṛtya sa svayaṃ syājjanārdanaḥ| idaṃ te kathitaṃ bhūpa vāsudevasya yantrakam pīṭhasya kāmarūpasya saṅkṣepānnirṇayaṃ tathā| iti sarvaṃ kāmarūpapīṭhaṃ śambhuradaśayat putrābhyāṃ sa punastābhyāṃ kailāsaṃ prayayau girim| tatra gatvā yatāyogaṃ nidhāya tanayau svakau vimuktaśāpāste jātāḥ śambhurgirisutā tathā| vetālo bhairavaśceti nṛpasattama nirjarāḥ idaṃ yo mahadākhyānaṃ śṛṇotyekāgramānasaḥ| śāpabhītirna tasyāsti vyādhayastasya nādhayaḥ putrapautradhanaiśvaryayuktaḥ sarvatra vallabhaḥ| sarvakalyāṇasaṃyukto dīrghakālaṃ sa jīvati kāmarūpaṃ mahāpīṭhaṃ yo jānāti narottamaḥ| sa divyajñānasampannaḥ paraṃ nirvāṇamāpnuyāt yaḥ kāmarūpe sakale pīṭhayātrāṃ samācaret| āsādya sakalān pīṭhān pūjayet sarvadevatāḥ daśapūrvān daśa parānātmānaṃ caikaviṃśatim| divye jñāne vidhāyāśu sarvaṃ muktimiyāt saha