Kalika Purana — Chapter 79
KaP 79.79
।। एकोनाशीतितमोऽध्यायः ।। ।।और्व्व उवाच।। ततः पूर्व महाराज दर्पणो नाम पर्वतः। कुबेरो यत्र वसति धनपालैः समं सदा यस्मिन्नास्ते मध्यभागे रोहितो रोहिताकृतिः। यस्मिंल्लोहादिकं स्पृष्टं स्वर्मतां याति तत्क्षणात् यत्रातिदूरे स्रवति दर्पणो नाम वै नदः। हिमाद्रिप्रभवो नित्यं लौहित्यसदृशः फलैः समुत्पन्नं हि लौहित्यं सर्वैर्दैवगणैर्हरिः। सर्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम् तस्य स्नानसमुद्भूतः पापदर्पस्य पाटनः। तेनायं दर्पणो नाम पुरा देवगणैः कृतः तस्मिन् स्नात्वा नदवरे योऽर्चयेद् दर्पणाचले। कुबेरं प्रतिपत्तिथ्यां कार्तिके शुक्लपक्षके स याति ब्रह्मसदनमिह भूतिशतैर्युतः। दर्पणाद् दिशिं पूर्वस्यामग्निमालाह्वयौ गिरिः सर्पाकारः सप्तशतव्यामदीर्धोदर्धं विस्तृतः। तत्र तिष्ठति वै वह्निरूर्ध्वभागेऽग्निमण्डले सिन्दूरपुञ्जसङ्काशे चारुदारुशिलातले। तस्मिन्निरिन्धनो वह्रिर्नित्यमद्यापि कशते भैरवस्य हितार्थाय कामाख्यापरिसेवने। पूर्वमेव स्थितस्तत्र साक्षाद् वह्निर्गणैः सह लौहित्यपाथसि स्नात्वा त्वग्निमालाह्वयं गिरिम्। आरुह्य वह्निं सम्पूज्य मोदते विष्णुमन्दिरे पुरस्तादग्निमालस्य कुण्डकं वारुणाह्वयम्। तस्य तीरे गिरिश्रेष्ठो नाम्ना कंसकरः स्मृतः वरुमस्तत्र वसति नित्यमेव जलाधिपः। तस्मिन् कंसकरे सम्यक् पूजयित्वा प्रचेतसम् स्नात्वा च वारुणे कुण्डे वारुणं लोकमाप्नुयात्। आद्यं व्यञ्जनमेवात्र पञ्चमस्वरसंयुतम् शम्भुचूडाशिकायुक्तं कौवेरं बीजमुच्यते। सप्तमो यः पकारस्य बिन्दुश्चन्द्रर्धसंयुतः मकारपञ्मः ख्यातं तेन वह्नि प्रपूजयेत्। मकारपञ्चमः सोमबिन्दुना वारुमः स्मृतः एभिर्मन्त्रैरिमान् देवान् नित्यमेव प्रपूजयेत्। वायुकूटो नाम गिरिः पूर्वस्यां वरुमाचलात् द्विखण्डो वायुबीजेन मण्डलेन समन्वितः। वायुलोकस्थितश्चन्द्रो यस्मान्निःसृत्य मारुतः ऊर्ध्वाधोभागमासाद्य नित्यं वहति भुपते। तत्र वायुं समभ्यर्च्य वायुलोकमवाप्नुयात् पूर्वं वायुगिरेः शैलश्चन्द्रकूट इति स्मृतः। त्रिकोणश्चन्द्रसङ्काशस्तदूर्ध्वे चन्द्रमण्लम् द्वितीयवर्गस्याद्यं तु बिन्दुना समलङ्कृतम्। चन्द्रबीजमिति प्रोक्तं तेन चन्द्रं प्रपूजयेत् अद्यापि प्रतिदर्शे तु पर्वतं तं निशापतिः। प्रदक्षिणीकरोत्येव दशभिश्चापि खेचरैः तस्यैव पूर्वभागे तु सोमकुण्डाह्वयं सरः। तत्र स्नात्वा च पीत्वा च नरः कैवल्यमश्नुते स्वर्गादवतरच्चन्द्रः कामाख्यासेवने यदा। तदा तद्रश्मिसङ्घातान्निः सृतास्तोयराशयः तैस्तोर्यर्वासवः कुण्डमकरोदिन्द्रचन्द्रयोः। मध्ये पुण्यतमे स्थाने स्वयं ब्रह्मशिलोपरि चन्द्रश्मिसमुद्भूत चन्द्रकुण्डमहेदधे। यं यं भावं समासाद्य त्वं चन्द्र कलुष हर सुधास्रवणमाह्लाद त्वं चन्द्र कलुषं हर। इत्यनेन तु मन्त्रेण यः स्नात्वा चन्द्रपाथसि चन्द्रकूटं समारुह्य पूजयेत् यस्तु तं नरः। अविच्छिन्ना सन्ततिस्तु सुकान्ता तस्य जायते परत्र चन्द्रभवनं भित्त्वा याति परं पदम्। तीरे तु चन्द्रकूटस्य नन्दनो नाम वै गिरिः तस्मिन् वसति शक्रस्तु कामाख्यासेवने रतः। पञ्चभावं सामसाद्य सर्वदेवेश्वरो हरिः। सेवितुं त्रिदशेशानीं सततं वर्तते नरः चन्द्रकूटगिरेर्याम्यभागे गिरिजनार्दनः। तस्य याम्ये त्वधोभागे अश्वक्रान्ताह्वयं सरः।। अ ।। न तस्य सदृशं तीर्थमस्ति ब्रह्माण्डगोचरे। जले स्थले मृता येऽत्र यान्ति ब्रह्म सनातनम्।। आ ।। जनार्दनगिरौ विष्णुः कूर्मरूपस्वरूपधृक्। शिलां भित्त्वा स्थितस्तत्र देवगन्धर्वसेवितः।। इ ।। अश्वक्रान्तजले स्नात्वा पूजयित्वा जनार्धनम्। वंशकोटिं समुद्धृत्य स्वयं स्यात् पुरुषोत्तमः।। ई ।। चन्द्रकूटस्य तु गिरेर्नन्दनस्य तथा गिरेः। प्रतिदर्शं तथा चन्द्रः प्रदक्षिणयति त्रिधा चन्द्रकूटजले स्नात्वा समारुह्याथ नन्दनम् आराध्य शक्रं लोकेशं महाफलमवाप्नुयात्। नन्दनात् पूर्वभागे तु भस्मकूटो महागिरिः यः स्वयं भर्गरूपः स सदा चेच्छान्तमुत्तमम्। दक्षिणे भस्मकूटस्य देवी पीयूषधारिणी उर्वशी नाम विख्याता शक्रप्रीतिकरी सदा। देवैर्यत् स्थापितं पूर्वमभृतं भोजनाय वै कामाख्यायास्तदादाय स्वयं तिष्ठति चोर्वशी। शिलारूपो हरस्तां तु समावृत्यैव तिष्ठति सा चैवामृतराशिं तु कृत्वा किंचन किंचन। उपस्थापयते नित्यं कामाख्यायोनिमण्डले सुधाशिलान्तरस्था तु उर्वशीकुण्डवासिनी। उर्वशीभस्मकूटस्य मध्ये कुण्डं सादवृतम् द्वात्रिंशद्धनुराकीर्णं पञ्चाशद्धनुरायतम्। तत्र स्नात्वा च पीत्वा च नरा मोक्षमवाप्नुयात् कामाख्यायोनिरैशानीं दिशं याति सदैव हि। भस्मकूटे प्रविशति उर्वशीमपि योगिनो आप्यायिता चामृतेन नित्यं देवी प्रमोदते। मोदयुक्ता महादेवी कामेन मोदते सदा भस्मकूटस्य चैशान्यां मणिकूटो महागिरः। मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकम् स सद्योजातरूपस्तु मणिकर्ण इतीरितः। सद्योजातस्य मन्त्रेण पूजितव्यः सदाशिवः चन्द्रतीर्थजले स्नात्वा दृष्ट्वा चन्द्रं सवासवम्। मणिकर्णेश्वरं दृष्ट्वा मुक्तिर्भस्माचलं गते श्वेतः श्वेताम्बरधरो दशाश्वो हेमभूषितः। गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी सहस्रनेत्रो गौराङ्गो द्विभुजो वामस्तगम्। वज्रं गदांकुशं धत्ते दक्षिणेनापि पाणिना ऐरावतगजस्थस्तु बाणतूणीरबन्धनः। धनुश्च कक्षे गृह्णाति सेवमानो महेश्वरीम् वकारानन्तरो वर्णश्चन्द्रबिन्दुसमन्वितः। शक्रबीजमिति प्रोक्तं शक्रं तेन प्रपूजयेत् नदी सुमङ्गला नाम हिमपर्वतनिर्गता। पूर्वस्यां मणिकूटस्य सदा स्रवति शोभना मणिकूटं समारूह्य यस्तां पश्यति वै नदीम्। स गङ्गास्नानजं पुण्यमवाप्य त्रिदिवं व्रजेत् मणिकूटाचलात् पूर्वं मत्स्यध्वजकुलाचलः। निर्दग्धो यत्र मदनो हरनेत्राग्निना पुनः शरीरं प्राप तपसा समाराध्य वृषध्वजम्। तत्र मत्स्यस्वरूपस्तु कामदेव समंस्थित अधित्यकायां पृथिवीं बीक्षमामः समन्ततः। नदी तु शाश्वती नाम तत्रास्ते दक्षिमस्रवा सरः कामसरो नाम तत्र शैले व्यवस्थितम्। शाश्वत्यां विधिवत्स्नात्वा पीत्वा कामसरोऽम्भसि गन्धमादनपूर्वस्यां सुक्रान्तो नाम पर्वतः तत्प्रान्ते वासवं कुण्डं वासवामृतभोजनम्। यत्र स्थित्वा दक्षिणस्यां पुरा शक्रः शचीपतिः अमृतं श्रान्तदेहस्तु कामरूपान्तरे पपौ। स्नात्वा तु वासवे कुण्डे समारुह्य सुकान्तकम् वासवस्य प्रियो भूत्वा शक्रलोकमवाप्नुयात्। पूर्वस्यां तु सुकान्तस्य रक्षःकूटाह्वयो गिरिः यत्रास्ते सततं देवो निर्ऋती राक्षसेश्वरः। खड्गहस्तो महाकायो वामे चर्मधरस्तथा जटाजूटसमायुक्तः प्रांशुः कृष्णाचलोपमः। द्विभुजः कृष्णवासास्तु गर्दभोपरिसंस्थितः प्रान्तोपान्तौ बिन्दुचन्द्रसहितावादिरेव च। नैर्ऋत्यं कथितं बीजं तेन तं परिपूजयेत् रक्षः कूटं समारुह्य निऋतिं राक्षसेश्वरम्। यः पूजयेत् विधानेन चण्डिकां राक्षसेश्वरीम् न तस्य राक्षसेभ्योऽस्ति भयं नृप कदाचन। राक्षसाश्च पिशाचाश्च वेताला गणनायकाः तं दृष्ट्वा पुरुषं राजन् सर्वदैव प्रबिभ्यति। रक्षःकूटात् पूर्वदिशि भैरव नाम माधवः पाण्डुनाथ इति ख्यातो ग्रावरूपेण संस्थितः। तं पाण्डुनाथं सततमष्टाक्षरभवोत्तरम् तेनैव पूजयेद् देवं पाण्डुनाथाह्वयं हरिम्। वर्णेन रक्तगौराङ्गं गदापद्मधरं करे दक्षिणे चक्रश्क्ती च बाहुभ्यामपि बिभ्रतम्। चतुर्भुजं रक्तपद्मसंस्थितं मुकुटोज्ज्वलम् कुण्डले बिभ्रतं शुद्धे श्रीवत्सोरस्कमुत्तमम्। नमो नारायणायेति मूलबीजेन वा हरेः एवं सम्पूजयेद् भूप चतुर्वर्गस्य सिद्धये। पाण्डुनाथस्योत्तरस्यां ब्रह्मकूटाह्वयं सरः ब्रह्मणा निर्मितं पूर्वं स्नानार्थं स्वर्गवासिनाम्। आयामेन शतव्यामं विस्तीर्णं त्वतदर्धकम् सर्वपापहरं पुण्यं देवलोकात् समागतम्। कमण्डलुसमुद्भूत ब्रह्मकुण्डामृकस्रव हर मे सर्वपापानि पुण्यं स्वर्गं च साधय। इत्यनेन तु मन्त्रेम स्नात्वा तस्मिन् सरोजले पाण्डुनाथं च सम्पूज्य विष्णुसायुज्यमाप्नुयात्। ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम् वायुकूटं समारुह्य मुक्तिमेवाप्नुयान्नरः। पाण्डुनाथात् पूर्वदिशि गिरिश्चित्रहरो हरिः सततं यत्र रमते विष्णुर्वाराहरूपधृक्। ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम् तत्पूर्वभागे वसति ब्रह्मा ब्रह्मगिरिः पुनः। ब्रह्मशैलस्य पूर्वस्यां भूमिपीठे व्यवस्थितम् चारुनिम्नशुभावर्तं कामाख्यानाभिमण्डलम्। तत्रोग्रतारारूपेण रमते परमेश्वरी तत्र तेनैव रूपेण पूजितव्या शुभात्मिका। तस्यास्तु बीजं पूर्वस्मिन्नुत्तरे प्रतिपादितम् रूपं शृणु नरश्रेष्ठ येन ध्येया सदा शिवा। कृष्णा लम्बोदरी दीर्घा विरला रक्तदन्तिका चतुर्भुजा कृशाङ्गी तु दक्षिणे कर्तृखर्परौ। खड्गं चन्दीवरं वामे शीर्षे चैकजटा पुनः वामपादं शवस्योर्वोर्निधायाङ्घ्रिं तु दक्षिणाम्। शवस्य हृदये न्यस्य साट्टहासं प्रकुर्वती नागहारशिरोमालाभूषिता कामदा परा। त्रिकोणं मण्डलं चास्या हुङ्कारं मध्यबीजकाम् द्वारेशानां योगिनोनां नामान्यस्यास्तु तन्त्रके। ज्ञेयानि नरशार्दूल यत् प्रोक्तं वाम्यगोचरे उर्वश्यां विधिवत् स्नात्वा स्पृष्ट्वा पाण्डुशिलां तथा। नीलकूटं समारुह्य पुनर्योनौ न जायते पुरन्दरपुरायाते वाराणस्याः । सुधासंकीर्णतोयौधैः पाप हर ममोर्वशि अमृतस्राविणीं देवी सुधौघपरिपूरणी। अमृतेनामृतं मेऽद्य देहि देवि ममोर्वशि पुरन्दरप्रिये देवि वारामस्याः सदाम्धिके। लोहित्यह्रदसंकीर्णे पापं हर मनोर्वशि इत्येभिः स्तितिभिर्मन्त्रैः स्नात्वा पुण्योर्वशीजले। सर्वपापविनिर्मुक्तो विष्णुलोके विचेष्टते उर्वशी द्विभुजा प्रोक्ता स्वर्णकङ्कणधारिणी। सौवर्णपात्रममृतस्रावणाय बिभर्ति च शुक्लवस्त्रा गौरवर्णा पीनोन्नतपयोधरा। सर्वाङ्गसुन्दरी शुद्धा सर्वाभरणभूषिता एतन्नामाद्यक्षरं तु मन्त्रमस्याः प्रकीर्तितम्। उमातन्त्रे तु गदितं मन्त्रमस्याः प्रकीर्तितम् गणेशः पूर्वद्वारस्थः कामाख्यापर्वतस्य तु। तत्रैव चाग्निवेतालः स्थितो द्वारि मनोहरः तयो रूपं च मन्त्रं च यथोक्तं शम्भुना पुरा। तदहं प्रतिवक्ष्यामि महाराज शृणुष्व मे ॐ नम उल्कामुखायेति मूलबीजादिसङ्गतम्। मन्त्रं सिद्धगणेशस्य द्वारस्थस्य प्रकीर्तितम् रूपं तस्य प्रवक्ष्यामि गजवक्त्रं त्रिलोचनम्। लम्बोदरं चतुर्बाहुं व्यालयज्ञोपवीतिनम् शूर्पकर्ण बृहद्गण्डमेकदन्तं पृथूदरम्। दक्षिणे तु करे दण्डमुत्पलं च तथापरे लड्डुकं परशुं चैव वामतः परिकीर्तितम्। बृहत्त्वाक्षिप्तगगनं पीनस्कन्धाङ्घ्रिपाणिनम् युक्तं बुद्धिकुबुद्धिभ्यामधस्तान्मूषकान्वितम्। तन्त्रस्तु यादृशः प्रोक्तः पञ्चवक्त्रस्य पुजने स एव तन्त्रो ग्राह्यस्तु तादृग्विधिनिषेधनम्। द्विभुजः पीनवदनो रक्तनेत्रो भयङ्करः छुरिकां दक्षिणे पाणौ वामे रुधिरपात्रकम्। दंष्ट्राकरालवदनं कृशो धमनिसन्ततः जटां दीर्घां मूर्ध्नि बिभ्रद्घोररावयुतस्तथा। पचतुर्थोऽग्निबीजेन षष्ठस्वरविभूषितः अग्निववेतालबीजोऽयं सर्वत्र भयनाशकः। पूजयेदग्निवेतालं सर्वत्र भयवारणम् यः पूजयेत् तस्य पूनर्भूतादिभ्यो भयं नहि। अष्टानामथ मन्त्राणां योगिनीनां क्रमान्नृप शैलपुत्रीप्रमुख्याणां मन्त्राण्यष्टाक्षराणि तु। वैष्मवीतन्त्रसंस्तानि पूर्वप्रोक्तानि तानि तु शैलपुत्र्यास्तथा चाङ्गमन्त्रं प्राक् प्रतिपादितम्। रूपं तु नरशार्दूल योगिनीनां विशेषतः प्रत्यक्षरेम् बीजेन दुर्गातन्त्रेण वा त्विमाः। नेत्रबीजेनैव पूज्या योगिन्यो नृपसत्तम कात्यायानीं पाददुर्गां दुर्गातन्त्रेण पूजयेत्। तदेव पूजनं रूपं तत्पूर्वं प्रतिपादितम् कालरात्र्यास्तु मन्त्रेण कालरात्रिं प्रपूजयेत्। कालरात्र्या रूपमन्त्रौ पूरैव प्रतिपादितौ महामायातन्त्रमन्त्रैः पूजयेद् भुवनेश्वरीम्। एताः सर्वास्तु योगिन्यः कामाख्यावत् फलप्रदाः विशेषो यत्र नैवोक्तो रूपे तन्त्रे च पूजने। दुर्गातन्त्रेण मन्त्रेण तत्र पूजां समाचरेत् प्रत्येकं योगिनीं यस्तु पूजयेन्नरसत्तमः। स सर्वयज्ञस्य फलं प्राप्नोति नरसत्तम नीलशैलस्य पूर्वस्मिन् स्वरूपं प्रतिपादितम्। नाभिमण्डलपूर्वस्यां भस्मकृटस्य दक्षिणे पूर्वस्यां कर्पटो नाम पर्वतो यमरूपधृक्। तत्र याम्यशिला कृष्णा नीलाञ्जनसमप्रभा अधित्यकायां राजेन्द्र व्यामपञ्चसुविस्तृता। पूयजेत् तत्र शनं पाणौ दण्डं सदैव यः धत्ते तु पाणिना नित्यं प्राणिदण्डस्य साधनम्। कृष्णवर्णं तु द्विभुजं किरीटमुकुटोज्ज्वलम् दधतं चासिपुत्रीं च वामपाणौ सदैव हि। कृष्णवस्त्रं स्थूलपादं बहिर्निःसृतदन्तकम् भयाभयप्रदं नित्यं नृणां महिषवाहनम्। पूजयेत् परया भक्त्या याम्यबीजेन साधकः उपान्तवर्गस्यादिर्यो वर्णो बिन्द्विन्दुसंयुतः। यमबीजमिति ख्यातं यमस्य प्रीतिदायकम् अनेनैव तु मन्त्रेण शमनं पूजयेत् तु यः। कर्पटाख्येऽचलवरे नापमृत्युमवाप्नुयात् पूर्वस्यां कर्पटाख्यात् तु शैलच्चित्र इति स्मृतः। यः पूर्वभागप्रान्तेऽबूद्दिश्याग्नेय्यामवस्थितः पीठस्तु ब्रह्मग्रावस्तु स प्राक् पर्वत उच्यते। तस्मिन् वसन्ति सततं ग्रहा नव यथेच्छया तत्र तान् पूजयेद् यस्तु स नाप्नोत्यापदं क्वचित्। रूपं मन्त्रं च सूर्यस्य चन्द्रस्य प्रतिपादितम् सप्तानामितरेषां तु मन्त्रं रूपं शृणुष्व मे। रक्ताम्बरधरः शूली शक्तिमांश्च गदाधरः चतुर्भुजो मेषरथो वरदो मङ्गलो मतः। पीताम्बरधरः शूली पीतमाल्यानुलेपनः खड्गचर्मगदापणिः सिंहस्थो वरदो बुधः। स्वर्णगौरः पीतवासाः स्वर्णपर्यंकसंस्थितः मालां कमण्डलुं दण्डं वामेन वरदायकम्। चतुर्भुजं च सर्वज्ञं चिन्तयेद् देवतीर्थकम् सर्वैर्देवगणैर्नित्यं नम्यमानं मनोहरम्। शुक्लवस्त्रं शुक्लवर्णं शङ्खनागोपरिस्थितम् चतुर्भुजं पाशमालां पुस्तकं च वराभये। क्रमाद् दक्षिमवामायां धत्ते दैत्यगुरुः सदा इन्द्रनीलनिभः शूली वरदो गृध्रवाहनः। पाशबाणासनधरो ध्यातव्योऽर्कसुतः सदा कामदेवस्यबीजं तु मन्त्रं भौमस्य कीर्तितम्। दुर्गाया नेत्रबीजस्य यत्तु मध्यावरं शुभम् तन्मन्त्रं शशिपुत्रस्य सर्वकामफलप्रदम्। तंकारपञ्चमादिस्तु चतुःषट्स्वरसंयुतम् गणेशबीजान्तमिदं गुरोर्मन्त्र प्रकीर्तितम्। बिन्द्विन्दुसंयुतं चापि पूर्ववर्मद्वयं पुनः सप्तमस्वरसंयुक्तो मकारस्त्वादिरन्तरम्। प्रान्तवर्गाद्यक्षरं तु बिन्द्विन्दुभ्यां समन्वितम् भवेच्छुक्रस्य बीजं तु सर्वकामसमृद्धिदम्। प्रान्तवर्गाद्यक्षरं तु चन्द्रबिन्दुसमन्वितम् आद्यमन्त्रस्वरोपेतं तदेवेत्यादिसंयुतम्। शनैश्चरस्य मन्त्रोऽयं सर्वदोषविनाशनः बिन्दुचन्द्रसमायुक्तं नामाद्यक्षरमेव वा। तेषां सर्वग्रहाणां वै मन्त्रमङ्ग प्रकीर्तितम् शान्तिके पौष्टिके कृत्ये एभिर्मन्त्रैर्ग्रहानिमान्। पूजयेत् सर्वदा धीरो भूतिकामो महामतिः वरदाभयहस्तश्च खड्गचर्मधरस्तथा। सिंहासनगतः कृष्णा राहुर्धीरः प्रचक्ष्यते धूम्रवर्णो विशालाक्षः पुच्छरूपी चतुर्भुजः। खड्गचर्मगदाबाणपाणिः केतुः शवासनः उपान्तादिर्द्वादशेन स्वरेम सहितः पुनः। उपान्तः पञ्चमेनेन्दुबिन्दुभ्यां सहितावुभौ मन्त्रोऽयमनुलोमेन राहोः केतोर्विलोमतः। आद्यक्षरं पूर्ववद् वा मन्त्रयुक्तमतैतयोः एवं चित्रे शैलवरे पूजयित्वा नवग्रहान्। अभीष्टाल्लँभते कामान्नरः शान्तिं तथोत्तमाम् चित्रकूटात् तु पूर्वस्यां कज्जलाचल उत्तमः। सर्वविद्याधराद्यास्तु सन्त्यस्मिन् देवयोनयः तं पर्वतं समारुह्य प्रणम्य सकलान् सुरान्। स्वर्गं यान्ति नरश्रेष्ठ इह चाप्यतुलां श्रियम् कज्जलाचलशैलात् तु पूर्वस्मिञ्छुभपर्वतः। शच्या सार्धं पुरा रेमे यत्र शक्रः सुरेश्वरः तत्पूर्वस्यां महादेवी नदी कपिलगङ्गिका। तस्यां स्नात्वा नरो गङ्गास्नानजं फलमाप्नुयात् कामाख्यानिलयात् पूर्वं दक्षिणस्यां तथा दिशि। विद्यते महदावर्तं भुवि ब्रह्मबिलं महत् पंचविंशतिमानेन योजनानां नरेश्वर। तस्मादायाति सुनदी सिताम्भोऽपम तोयभाक् को ब्रह्मा कीर्तितो देवैर्यस्मात् तस्य बिलात् सृता। गंगेव फलदा यस्मात् तस्मात् कपिलगंगिका स्नात्वा कपिलगङ्गायां सर्वमन्वन्तरेषु च। नरः स्वर्गमवाप्यादौ ब्रह्मलोकं ततो व्रजेत् अतीत्य तां नदीं पूर्वभागे दमनिकाह्वया। नदी महाकृष्णतोया पापस्य दमनी तथा ततो वृद्धाह्वया चाभूदपरा सरिदुत्तमा। तस्या नद्याः पूर्वभागे गङ्गावत् फलदायिनी माघं तु सकलं मासं स्नात्वा मुक्तिमवाप्नुयात्। तथा दमनिकायां च परं निर्वाणमाप्नुयात् ततः पूर्वे परा देवी नाम्ना सा सरिदुत्तमा। महती दिव्ययमुना यमुनावत् फलप्रदा दक्षिणाद्रिसमुद्भूता दक्षिणोदधिगामिनी। तस्यां तु कार्तिकं मासं स्नात्वा मुक्तिमवाप्नुयात् इह चैवोत्तमान् भोगान् भागधेयात् प्रतिष्ठितान्। तन्मध्ये भैरवो देवो भर्गसम्भोगसम्भवः दुर्जयाख्ये वरगिरावस्त्युपत्यकभूतिगः। योऽसौ शरभरूपस्य मध्यखण्डोऽतिभैरवः स एव भैरवाख्योऽयं पञ्चवक्त्रस्य मन्त्रकैः। सम्पूज्य तत्र मतिमान् स याति शिवलोकताम् कामेश्वरस्य या पूजा कथिता नीलनिर्णये। सम्पूज्य पर्वतश्रेष्ठे दुर्जये चाचलोत्तमे तत्र भैरवघङ्गास्ति सरो वै भैरवाह्वयम्। तयोः स्नात्वा नरो याति शिवलोकं सनातनम् दुर्जयाख्यस्य पूर्वस्यां पुर नाम वरासनम्। तद्दक्षिणे महाशैलः क्षोभको नाम नामतः तस्मिन् गिरौ शिलापृष्ठे रक्तदेवी व्यवस्थिता। पञ्चपुष्करिणी नाम्ना पञ्चयोनिस्वरूपिणी पञ्चभिर्दुर्गायोनिभिः पूजयेत् पंचवक्त्रकम्। स्थिता रमयितुं तत्र नित्यमेव हिमाद्रिजा तच्छैलपूर्वभागे तु कान्ता नाम महानदी। दक्षिणं सागरं याति प्रथमं चोत्तरस्रवा दिव्यं कुण्डं महाकुण्डं तच्छैलोपत्यकाक्षितौ। संस्तितं तत्र स्नात्वा तु तां देवीं परिपूजयेत् दिव्यकुण्डे नरः स्नात्वा पञ्चपुष्करणीं शिवाम्। यः पूजयेन्महाभागः स योनौ न हि जायते पञ्चयोन्यः पुष्करिणीः पंचैव परिसंस्थिताः। यतस्ततः पञ्चरूपा पञ्चपुष्करिणी मता यथाबकलु-पुष्पाणि तथैताः पञ्चयोनयः। पञ्चपुष्करिणीदेव्यः प्रचण्डाः सर्वकामदाः त्रिपुरायास्तु तन्त्रेण ताः पूज्याः साधकोत्तमैः। कामेश्वरीतन्त्रमन्त्रैरथवा पूजयेच्छिवाम् बालायास्त्रिपुरायास्तु मन्त्रमस्याः प्रकीर्तितम्। कामेश्वर्यास्तु वा मन्त्रं पूजनेऽस्याः प्रकीर्तितम् उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका। चण्डा चेति च योगिन्यः पञ्चास्याः परिकीर्तिताः शिवलिङ्गं च तत्रास्ति शिलायां हेरुकाह्वयम्। देवीदक्षिणपूर्वस्यां नायकं तं तु पूजयेत् भैरवस्य तु मन्त्रेण पूजयित्वा दिवं व्रजेत्। निर्माल्यधारिणो देवी चण्डगौरीति कीर्तिता एतस्यां नरशार्दूल पुरा भर्गेम भाषिता। कान्तायां सलिले स्नात्वा वसन्ते मानवोत्तमः रूपवान् गुणवान् भूत्वा शिवलोकाय गच्छति। क्षोभकाख्याद् महाशैलदैशान्यां पर्वतोत्तमः तुंगसन्ध्याचलो नाम वसिष्ठो यत्र शप्तवान्। निमिनाम्नस्तु राजर्षेः शापाद् ब्रह्मसुतः पुरा वसिष्ठो ह्यशरीरोऽभूत् तच्छापाच्च निमिस्तथा। ततो ब्रह्मोपदेशेन निर्जने कामरूपके सन्ध्याचले तपस्तेपे तस्य विष्णुरभूत् तदा। प्रत्यक्षस्तस्य देवस्य वरदानान्महामुनिः अमृतान्यवतार्याशु कुण्डं कृत्वा गिरेस्तटे। तत्र स्नात्वा च पीत्वा च शरीरं प्राप पूरितम् तस्मादमृतकुण्डाच्च सन्ध्या नाम नदीवरा। निःसृता तत्र चाप्लुत्य चिरायुरगदो भवेत् तस्मात् पूर्वं तु ललिता ललिताख्या सरिद्वरा। सागराद् दक्षिणात् पूर्वं महादेवावतारिता वैशाखशुक्लपक्षस्य तृतीयायां नरस्तु यः। कुर्याद् वै ललितास्नानं स शम्भुसदनं व्रजेत् ललितायाः पूर्वतीरे भगवानन्नाम पर्वतः। स्वयं विष्णुर्लिङ्गरूपि तत्रास्ते भगवान् हरिः ललितायां नरः स्नात्वा द्वादश्यां शुक्लपक्षके। भगवन्तं समारुह्य यो यजेत् परमेश्वरम् स याति विष्णुसदनं शरीरेण विराजता। एताः पूर्वोदिता नद्यः सर्वाश्चैवोत्तरस्रवाः क्रमात् तु दक्षिणं यान्ति सागरं जाह्नवीसमाः। कामाख्यां प्रथमं दृष्ट्वा स्नात्वा चैवोर्वशीजले। य एतासु चरेत् स्नानं स तु मुक्तिमवाप्नुयात्
|| ekonāśītitamo'dhyāyaḥ || ||aurvva uvāca|| tataḥ pūrva mahārāja darpaṇo nāma parvataḥ| kubero yatra vasati dhanapālaiḥ samaṃ sadā yasminnāste madhyabhāge rohito rohitākṛtiḥ| yasmiṃllohādikaṃ spṛṣṭaṃ svarmatāṃ yāti tatkṣaṇāt yatrātidūre sravati darpaṇo nāma vai nadaḥ| himādriprabhavo nityaṃ lauhityasadṛśaḥ phalaiḥ samutpannaṃ hi lauhityaṃ sarvairdaivagaṇairhariḥ| sarvatīrthodakaiḥ samyak snāpayāmāsa taṃ sutam tasya snānasamudbhūtaḥ pāpadarpasya pāṭanaḥ| tenāyaṃ darpaṇo nāma purā devagaṇaiḥ kṛtaḥ tasmin snātvā nadavare yo'rcayed darpaṇācale| kuberaṃ pratipattithyāṃ kārtike śuklapakṣake sa yāti brahmasadanamiha bhūtiśatairyutaḥ| darpaṇād diśiṃ pūrvasyāmagnimālāhvayau giriḥ sarpākāraḥ saptaśatavyāmadīrdhodardhaṃ vistṛtaḥ| tatra tiṣṭhati vai vahnirūrdhvabhāge'gnimaṇḍale sindūrapuñjasaṅkāśe cārudāruśilātale| tasminnirindhano vahrirnityamadyāpi kaśate bhairavasya hitārthāya kāmākhyāparisevane| pūrvameva sthitastatra sākṣād vahnirgaṇaiḥ saha lauhityapāthasi snātvā tvagnimālāhvayaṃ girim| āruhya vahniṃ sampūjya modate viṣṇumandire purastādagnimālasya kuṇḍakaṃ vāruṇāhvayam| tasya tīre giriśreṣṭho nāmnā kaṃsakaraḥ smṛtaḥ varumastatra vasati nityameva jalādhipaḥ| tasmin kaṃsakare samyak pūjayitvā pracetasam snātvā ca vāruṇe kuṇḍe vāruṇaṃ lokamāpnuyāt| ādyaṃ vyañjanamevātra pañcamasvarasaṃyutam śambhucūḍāśikāyuktaṃ kauveraṃ bījamucyate| saptamo yaḥ pakārasya binduścandrardhasaṃyutaḥ makārapañmaḥ khyātaṃ tena vahni prapūjayet| makārapañcamaḥ somabindunā vārumaḥ smṛtaḥ ebhirmantrairimān devān nityameva prapūjayet| vāyukūṭo nāma giriḥ pūrvasyāṃ varumācalāt dvikhaṇḍo vāyubījena maṇḍalena samanvitaḥ| vāyulokasthitaścandro yasmānniḥsṛtya mārutaḥ ūrdhvādhobhāgamāsādya nityaṃ vahati bhupate| tatra vāyuṃ samabhyarcya vāyulokamavāpnuyāt pūrvaṃ vāyugireḥ śailaścandrakūṭa iti smṛtaḥ| trikoṇaścandrasaṅkāśastadūrdhve candramaṇlam dvitīyavargasyādyaṃ tu bindunā samalaṅkṛtam| candrabījamiti proktaṃ tena candraṃ prapūjayet adyāpi pratidarśe tu parvataṃ taṃ niśāpatiḥ| pradakṣiṇīkarotyeva daśabhiścāpi khecaraiḥ tasyaiva pūrvabhāge tu somakuṇḍāhvayaṃ saraḥ| tatra snātvā ca pītvā ca naraḥ kaivalyamaśnute svargādavataraccandraḥ kāmākhyāsevane yadā| tadā tadraśmisaṅghātānniḥ sṛtāstoyarāśayaḥ taistoryarvāsavaḥ kuṇḍamakarodindracandrayoḥ| madhye puṇyatame sthāne svayaṃ brahmaśilopari candraśmisamudbhūta candrakuṇḍamahedadhe| yaṃ yaṃ bhāvaṃ samāsādya tvaṃ candra kaluṣa hara sudhāsravaṇamāhlāda tvaṃ candra kaluṣaṃ hara| ityanena tu mantreṇa yaḥ snātvā candrapāthasi candrakūṭaṃ samāruhya pūjayet yastu taṃ naraḥ| avicchinnā santatistu sukāntā tasya jāyate paratra candrabhavanaṃ bhittvā yāti paraṃ padam| tīre tu candrakūṭasya nandano nāma vai giriḥ tasmin vasati śakrastu kāmākhyāsevane rataḥ| pañcabhāvaṃ sāmasādya sarvadeveśvaro hariḥ| sevituṃ tridaśeśānīṃ satataṃ vartate naraḥ candrakūṭagireryāmyabhāge girijanārdanaḥ| tasya yāmye tvadhobhāge aśvakrāntāhvayaṃ saraḥ|| a || na tasya sadṛśaṃ tīrthamasti brahmāṇḍagocare| jale sthale mṛtā ye'tra yānti brahma sanātanam|| ā || janārdanagirau viṣṇuḥ kūrmarūpasvarūpadhṛk| śilāṃ bhittvā sthitastatra devagandharvasevitaḥ|| i || aśvakrāntajale snātvā pūjayitvā janārdhanam| vaṃśakoṭiṃ samuddhṛtya svayaṃ syāt puruṣottamaḥ|| ī || candrakūṭasya tu girernandanasya tathā gireḥ| pratidarśaṃ tathā candraḥ pradakṣiṇayati tridhā candrakūṭajale snātvā samāruhyātha nandanam ārādhya śakraṃ lokeśaṃ mahāphalamavāpnuyāt| nandanāt pūrvabhāge tu bhasmakūṭo mahāgiriḥ yaḥ svayaṃ bhargarūpaḥ sa sadā cecchāntamuttamam| dakṣiṇe bhasmakūṭasya devī pīyūṣadhāriṇī urvaśī nāma vikhyātā śakraprītikarī sadā| devairyat sthāpitaṃ pūrvamabhṛtaṃ bhojanāya vai kāmākhyāyāstadādāya svayaṃ tiṣṭhati corvaśī| śilārūpo harastāṃ tu samāvṛtyaiva tiṣṭhati sā caivāmṛtarāśiṃ tu kṛtvā kiṃcana kiṃcana| upasthāpayate nityaṃ kāmākhyāyonimaṇḍale sudhāśilāntarasthā tu urvaśīkuṇḍavāsinī| urvaśībhasmakūṭasya madhye kuṇḍaṃ sādavṛtam dvātriṃśaddhanurākīrṇaṃ pañcāśaddhanurāyatam| tatra snātvā ca pītvā ca narā mokṣamavāpnuyāt kāmākhyāyoniraiśānīṃ diśaṃ yāti sadaiva hi| bhasmakūṭe praviśati urvaśīmapi yogino āpyāyitā cāmṛtena nityaṃ devī pramodate| modayuktā mahādevī kāmena modate sadā bhasmakūṭasya caiśānyāṃ maṇikūṭo mahāgiraḥ| maṇikarṇo nāma harastatra tiṣṭhati liṅgakam sa sadyojātarūpastu maṇikarṇa itīritaḥ| sadyojātasya mantreṇa pūjitavyaḥ sadāśivaḥ candratīrthajale snātvā dṛṣṭvā candraṃ savāsavam| maṇikarṇeśvaraṃ dṛṣṭvā muktirbhasmācalaṃ gate śvetaḥ śvetāmbaradharo daśāśvo hemabhūṣitaḥ| gadāpāṇirdvibāhuśca kartavyo varadaḥ śaśī sahasranetro gaurāṅgo dvibhujo vāmastagam| vajraṃ gadāṃkuśaṃ dhatte dakṣiṇenāpi pāṇinā airāvatagajasthastu bāṇatūṇīrabandhanaḥ| dhanuśca kakṣe gṛhṇāti sevamāno maheśvarīm vakārānantaro varṇaścandrabindusamanvitaḥ| śakrabījamiti proktaṃ śakraṃ tena prapūjayet nadī sumaṅgalā nāma himaparvatanirgatā| pūrvasyāṃ maṇikūṭasya sadā sravati śobhanā maṇikūṭaṃ samārūhya yastāṃ paśyati vai nadīm| sa gaṅgāsnānajaṃ puṇyamavāpya tridivaṃ vrajet maṇikūṭācalāt pūrvaṃ matsyadhvajakulācalaḥ| nirdagdho yatra madano haranetrāgninā punaḥ śarīraṃ prāpa tapasā samārādhya vṛṣadhvajam| tatra matsyasvarūpastu kāmadeva samaṃsthita adhityakāyāṃ pṛthivīṃ bīkṣamāmaḥ samantataḥ| nadī tu śāśvatī nāma tatrāste dakṣimasravā saraḥ kāmasaro nāma tatra śaile vyavasthitam| śāśvatyāṃ vidhivatsnātvā pītvā kāmasaro'mbhasi gandhamādanapūrvasyāṃ sukrānto nāma parvataḥ tatprānte vāsavaṃ kuṇḍaṃ vāsavāmṛtabhojanam| yatra sthitvā dakṣiṇasyāṃ purā śakraḥ śacīpatiḥ amṛtaṃ śrāntadehastu kāmarūpāntare papau| snātvā tu vāsave kuṇḍe samāruhya sukāntakam vāsavasya priyo bhūtvā śakralokamavāpnuyāt| pūrvasyāṃ tu sukāntasya rakṣaḥkūṭāhvayo giriḥ yatrāste satataṃ devo nirṛtī rākṣaseśvaraḥ| khaḍgahasto mahākāyo vāme carmadharastathā jaṭājūṭasamāyuktaḥ prāṃśuḥ kṛṣṇācalopamaḥ| dvibhujaḥ kṛṣṇavāsāstu gardabhoparisaṃsthitaḥ prāntopāntau binducandrasahitāvādireva ca| nairṛtyaṃ kathitaṃ bījaṃ tena taṃ paripūjayet rakṣaḥ kūṭaṃ samāruhya niṛtiṃ rākṣaseśvaram| yaḥ pūjayet vidhānena caṇḍikāṃ rākṣaseśvarīm na tasya rākṣasebhyo'sti bhayaṃ nṛpa kadācana| rākṣasāśca piśācāśca vetālā gaṇanāyakāḥ taṃ dṛṣṭvā puruṣaṃ rājan sarvadaiva prabibhyati| rakṣaḥkūṭāt pūrvadiśi bhairava nāma mādhavaḥ pāṇḍunātha iti khyāto grāvarūpeṇa saṃsthitaḥ| taṃ pāṇḍunāthaṃ satatamaṣṭākṣarabhavottaram tenaiva pūjayed devaṃ pāṇḍunāthāhvayaṃ harim| varṇena raktagaurāṅgaṃ gadāpadmadharaṃ kare dakṣiṇe cakraśktī ca bāhubhyāmapi bibhratam| caturbhujaṃ raktapadmasaṃsthitaṃ mukuṭojjvalam kuṇḍale bibhrataṃ śuddhe śrīvatsoraskamuttamam| namo nārāyaṇāyeti mūlabījena vā hareḥ evaṃ sampūjayed bhūpa caturvargasya siddhaye| pāṇḍunāthasyottarasyāṃ brahmakūṭāhvayaṃ saraḥ brahmaṇā nirmitaṃ pūrvaṃ snānārthaṃ svargavāsinām| āyāmena śatavyāmaṃ vistīrṇaṃ tvatadardhakam sarvapāpaharaṃ puṇyaṃ devalokāt samāgatam| kamaṇḍalusamudbhūta brahmakuṇḍāmṛkasrava hara me sarvapāpāni puṇyaṃ svargaṃ ca sādhaya| ityanena tu mantrema snātvā tasmin sarojale pāṇḍunāthaṃ ca sampūjya viṣṇusāyujyamāpnuyāt| brahmakuṇḍajale snātvā pūjayitvā umāpatim vāyukūṭaṃ samāruhya muktimevāpnuyānnaraḥ| pāṇḍunāthāt pūrvadiśi giriścitraharo hariḥ satataṃ yatra ramate viṣṇurvārāharūpadhṛk| tatastu nīlakūṭākhyaṃ kāmākhyānilayaṃ param tatpūrvabhāge vasati brahmā brahmagiriḥ punaḥ| brahmaśailasya pūrvasyāṃ bhūmipīṭhe vyavasthitam cārunimnaśubhāvartaṃ kāmākhyānābhimaṇḍalam| tatrogratārārūpeṇa ramate parameśvarī tatra tenaiva rūpeṇa pūjitavyā śubhātmikā| tasyāstu bījaṃ pūrvasminnuttare pratipāditam rūpaṃ śṛṇu naraśreṣṭha yena dhyeyā sadā śivā| kṛṣṇā lambodarī dīrghā viralā raktadantikā caturbhujā kṛśāṅgī tu dakṣiṇe kartṛkharparau| khaḍgaṃ candīvaraṃ vāme śīrṣe caikajaṭā punaḥ vāmapādaṃ śavasyorvornidhāyāṅghriṃ tu dakṣiṇām| śavasya hṛdaye nyasya sāṭṭahāsaṃ prakurvatī nāgahāraśiromālābhūṣitā kāmadā parā| trikoṇaṃ maṇḍalaṃ cāsyā huṅkāraṃ madhyabījakām dvāreśānāṃ yoginonāṃ nāmānyasyāstu tantrake| jñeyāni naraśārdūla yat proktaṃ vāmyagocare urvaśyāṃ vidhivat snātvā spṛṣṭvā pāṇḍuśilāṃ tathā| nīlakūṭaṃ samāruhya punaryonau na jāyate purandarapurāyāte vārāṇasyāḥ | sudhāsaṃkīrṇatoyaudhaiḥ pāpa hara mamorvaśi amṛtasrāviṇīṃ devī sudhaughaparipūraṇī| amṛtenāmṛtaṃ me'dya dehi devi mamorvaśi purandarapriye devi vārāmasyāḥ sadāmdhike| lohityahradasaṃkīrṇe pāpaṃ hara manorvaśi ityebhiḥ stitibhirmantraiḥ snātvā puṇyorvaśījale| sarvapāpavinirmukto viṣṇuloke viceṣṭate urvaśī dvibhujā proktā svarṇakaṅkaṇadhāriṇī| sauvarṇapātramamṛtasrāvaṇāya bibharti ca śuklavastrā gauravarṇā pīnonnatapayodharā| sarvāṅgasundarī śuddhā sarvābharaṇabhūṣitā etannāmādyakṣaraṃ tu mantramasyāḥ prakīrtitam| umātantre tu gaditaṃ mantramasyāḥ prakīrtitam gaṇeśaḥ pūrvadvārasthaḥ kāmākhyāparvatasya tu| tatraiva cāgnivetālaḥ sthito dvāri manoharaḥ tayo rūpaṃ ca mantraṃ ca yathoktaṃ śambhunā purā| tadahaṃ prativakṣyāmi mahārāja śṛṇuṣva me oṃ nama ulkāmukhāyeti mūlabījādisaṅgatam| mantraṃ siddhagaṇeśasya dvārasthasya prakīrtitam rūpaṃ tasya pravakṣyāmi gajavaktraṃ trilocanam| lambodaraṃ caturbāhuṃ vyālayajñopavītinam śūrpakarṇa bṛhadgaṇḍamekadantaṃ pṛthūdaram| dakṣiṇe tu kare daṇḍamutpalaṃ ca tathāpare laḍḍukaṃ paraśuṃ caiva vāmataḥ parikīrtitam| bṛhattvākṣiptagaganaṃ pīnaskandhāṅghripāṇinam yuktaṃ buddhikubuddhibhyāmadhastānmūṣakānvitam| tantrastu yādṛśaḥ proktaḥ pañcavaktrasya pujane sa eva tantro grāhyastu tādṛgvidhiniṣedhanam| dvibhujaḥ pīnavadano raktanetro bhayaṅkaraḥ churikāṃ dakṣiṇe pāṇau vāme rudhirapātrakam| daṃṣṭrākarālavadanaṃ kṛśo dhamanisantataḥ jaṭāṃ dīrghāṃ mūrdhni bibhradghorarāvayutastathā| pacaturtho'gnibījena ṣaṣṭhasvaravibhūṣitaḥ agnivavetālabījo'yaṃ sarvatra bhayanāśakaḥ| pūjayedagnivetālaṃ sarvatra bhayavāraṇam yaḥ pūjayet tasya pūnarbhūtādibhyo bhayaṃ nahi| aṣṭānāmatha mantrāṇāṃ yoginīnāṃ kramānnṛpa śailaputrīpramukhyāṇāṃ mantrāṇyaṣṭākṣarāṇi tu| vaiṣmavītantrasaṃstāni pūrvaproktāni tāni tu śailaputryāstathā cāṅgamantraṃ prāk pratipāditam| rūpaṃ tu naraśārdūla yoginīnāṃ viśeṣataḥ pratyakṣarem bījena durgātantreṇa vā tvimāḥ| netrabījenaiva pūjyā yoginyo nṛpasattama kātyāyānīṃ pādadurgāṃ durgātantreṇa pūjayet| tadeva pūjanaṃ rūpaṃ tatpūrvaṃ pratipāditam kālarātryāstu mantreṇa kālarātriṃ prapūjayet| kālarātryā rūpamantrau pūraiva pratipāditau mahāmāyātantramantraiḥ pūjayed bhuvaneśvarīm| etāḥ sarvāstu yoginyaḥ kāmākhyāvat phalapradāḥ viśeṣo yatra naivokto rūpe tantre ca pūjane| durgātantreṇa mantreṇa tatra pūjāṃ samācaret pratyekaṃ yoginīṃ yastu pūjayennarasattamaḥ| sa sarvayajñasya phalaṃ prāpnoti narasattama nīlaśailasya pūrvasmin svarūpaṃ pratipāditam| nābhimaṇḍalapūrvasyāṃ bhasmakṛṭasya dakṣiṇe pūrvasyāṃ karpaṭo nāma parvato yamarūpadhṛk| tatra yāmyaśilā kṛṣṇā nīlāñjanasamaprabhā adhityakāyāṃ rājendra vyāmapañcasuvistṛtā| pūyajet tatra śanaṃ pāṇau daṇḍaṃ sadaiva yaḥ dhatte tu pāṇinā nityaṃ prāṇidaṇḍasya sādhanam| kṛṣṇavarṇaṃ tu dvibhujaṃ kirīṭamukuṭojjvalam dadhataṃ cāsiputrīṃ ca vāmapāṇau sadaiva hi| kṛṣṇavastraṃ sthūlapādaṃ bahirniḥsṛtadantakam bhayābhayapradaṃ nityaṃ nṛṇāṃ mahiṣavāhanam| pūjayet parayā bhaktyā yāmyabījena sādhakaḥ upāntavargasyādiryo varṇo bindvindusaṃyutaḥ| yamabījamiti khyātaṃ yamasya prītidāyakam anenaiva tu mantreṇa śamanaṃ pūjayet tu yaḥ| karpaṭākhye'calavare nāpamṛtyumavāpnuyāt pūrvasyāṃ karpaṭākhyāt tu śailaccitra iti smṛtaḥ| yaḥ pūrvabhāgaprānte'būddiśyāgneyyāmavasthitaḥ pīṭhastu brahmagrāvastu sa prāk parvata ucyate| tasmin vasanti satataṃ grahā nava yathecchayā tatra tān pūjayed yastu sa nāpnotyāpadaṃ kvacit| rūpaṃ mantraṃ ca sūryasya candrasya pratipāditam saptānāmitareṣāṃ tu mantraṃ rūpaṃ śṛṇuṣva me| raktāmbaradharaḥ śūlī śaktimāṃśca gadādharaḥ caturbhujo meṣaratho varado maṅgalo mataḥ| pītāmbaradharaḥ śūlī pītamālyānulepanaḥ khaḍgacarmagadāpaṇiḥ siṃhastho varado budhaḥ| svarṇagauraḥ pītavāsāḥ svarṇaparyaṃkasaṃsthitaḥ mālāṃ kamaṇḍaluṃ daṇḍaṃ vāmena varadāyakam| caturbhujaṃ ca sarvajñaṃ cintayed devatīrthakam sarvairdevagaṇairnityaṃ namyamānaṃ manoharam| śuklavastraṃ śuklavarṇaṃ śaṅkhanāgoparisthitam caturbhujaṃ pāśamālāṃ pustakaṃ ca varābhaye| kramād dakṣimavāmāyāṃ dhatte daityaguruḥ sadā indranīlanibhaḥ śūlī varado gṛdhravāhanaḥ| pāśabāṇāsanadharo dhyātavyo'rkasutaḥ sadā kāmadevasyabījaṃ tu mantraṃ bhaumasya kīrtitam| durgāyā netrabījasya yattu madhyāvaraṃ śubham tanmantraṃ śaśiputrasya sarvakāmaphalapradam| taṃkārapañcamādistu catuḥṣaṭsvarasaṃyutam gaṇeśabījāntamidaṃ gurormantra prakīrtitam| bindvindusaṃyutaṃ cāpi pūrvavarmadvayaṃ punaḥ saptamasvarasaṃyukto makārastvādirantaram| prāntavargādyakṣaraṃ tu bindvindubhyāṃ samanvitam bhavecchukrasya bījaṃ tu sarvakāmasamṛddhidam| prāntavargādyakṣaraṃ tu candrabindusamanvitam ādyamantrasvaropetaṃ tadevetyādisaṃyutam| śanaiścarasya mantro'yaṃ sarvadoṣavināśanaḥ binducandrasamāyuktaṃ nāmādyakṣarameva vā| teṣāṃ sarvagrahāṇāṃ vai mantramaṅga prakīrtitam śāntike pauṣṭike kṛtye ebhirmantrairgrahānimān| pūjayet sarvadā dhīro bhūtikāmo mahāmatiḥ varadābhayahastaśca khaḍgacarmadharastathā| siṃhāsanagataḥ kṛṣṇā rāhurdhīraḥ pracakṣyate dhūmravarṇo viśālākṣaḥ puccharūpī caturbhujaḥ| khaḍgacarmagadābāṇapāṇiḥ ketuḥ śavāsanaḥ upāntādirdvādaśena svarema sahitaḥ punaḥ| upāntaḥ pañcamenendubindubhyāṃ sahitāvubhau mantro'yamanulomena rāhoḥ ketorvilomataḥ| ādyakṣaraṃ pūrvavad vā mantrayuktamataitayoḥ evaṃ citre śailavare pūjayitvā navagrahān| abhīṣṭālla~bhate kāmānnaraḥ śāntiṃ tathottamām citrakūṭāt tu pūrvasyāṃ kajjalācala uttamaḥ| sarvavidyādharādyāstu santyasmin devayonayaḥ taṃ parvataṃ samāruhya praṇamya sakalān surān| svargaṃ yānti naraśreṣṭha iha cāpyatulāṃ śriyam kajjalācalaśailāt tu pūrvasmiñchubhaparvataḥ| śacyā sārdhaṃ purā reme yatra śakraḥ sureśvaraḥ tatpūrvasyāṃ mahādevī nadī kapilagaṅgikā| tasyāṃ snātvā naro gaṅgāsnānajaṃ phalamāpnuyāt kāmākhyānilayāt pūrvaṃ dakṣiṇasyāṃ tathā diśi| vidyate mahadāvartaṃ bhuvi brahmabilaṃ mahat paṃcaviṃśatimānena yojanānāṃ nareśvara| tasmādāyāti sunadī sitāmbho'pama toyabhāk ko brahmā kīrtito devairyasmāt tasya bilāt sṛtā| gaṃgeva phaladā yasmāt tasmāt kapilagaṃgikā snātvā kapilagaṅgāyāṃ sarvamanvantareṣu ca| naraḥ svargamavāpyādau brahmalokaṃ tato vrajet atītya tāṃ nadīṃ pūrvabhāge damanikāhvayā| nadī mahākṛṣṇatoyā pāpasya damanī tathā tato vṛddhāhvayā cābhūdaparā sariduttamā| tasyā nadyāḥ pūrvabhāge gaṅgāvat phaladāyinī māghaṃ tu sakalaṃ māsaṃ snātvā muktimavāpnuyāt| tathā damanikāyāṃ ca paraṃ nirvāṇamāpnuyāt tataḥ pūrve parā devī nāmnā sā sariduttamā| mahatī divyayamunā yamunāvat phalapradā dakṣiṇādrisamudbhūtā dakṣiṇodadhigāminī| tasyāṃ tu kārtikaṃ māsaṃ snātvā muktimavāpnuyāt iha caivottamān bhogān bhāgadheyāt pratiṣṭhitān| tanmadhye bhairavo devo bhargasambhogasambhavaḥ durjayākhye varagirāvastyupatyakabhūtigaḥ| yo'sau śarabharūpasya madhyakhaṇḍo'tibhairavaḥ sa eva bhairavākhyo'yaṃ pañcavaktrasya mantrakaiḥ| sampūjya tatra matimān sa yāti śivalokatām kāmeśvarasya yā pūjā kathitā nīlanirṇaye| sampūjya parvataśreṣṭhe durjaye cācalottame tatra bhairavaghaṅgāsti saro vai bhairavāhvayam| tayoḥ snātvā naro yāti śivalokaṃ sanātanam durjayākhyasya pūrvasyāṃ pura nāma varāsanam| taddakṣiṇe mahāśailaḥ kṣobhako nāma nāmataḥ tasmin girau śilāpṛṣṭhe raktadevī vyavasthitā| pañcapuṣkariṇī nāmnā pañcayonisvarūpiṇī pañcabhirdurgāyonibhiḥ pūjayet paṃcavaktrakam| sthitā ramayituṃ tatra nityameva himādrijā tacchailapūrvabhāge tu kāntā nāma mahānadī| dakṣiṇaṃ sāgaraṃ yāti prathamaṃ cottarasravā divyaṃ kuṇḍaṃ mahākuṇḍaṃ tacchailopatyakākṣitau| saṃstitaṃ tatra snātvā tu tāṃ devīṃ paripūjayet divyakuṇḍe naraḥ snātvā pañcapuṣkaraṇīṃ śivām| yaḥ pūjayenmahābhāgaḥ sa yonau na hi jāyate pañcayonyaḥ puṣkariṇīḥ paṃcaiva parisaṃsthitāḥ| yatastataḥ pañcarūpā pañcapuṣkariṇī matā yathābakalu-puṣpāṇi tathaitāḥ pañcayonayaḥ| pañcapuṣkariṇīdevyaḥ pracaṇḍāḥ sarvakāmadāḥ tripurāyāstu tantreṇa tāḥ pūjyāḥ sādhakottamaiḥ| kāmeśvarītantramantrairathavā pūjayecchivām bālāyāstripurāyāstu mantramasyāḥ prakīrtitam| kāmeśvaryāstu vā mantraṃ pūjane'syāḥ prakīrtitam ugracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā| caṇḍā ceti ca yoginyaḥ pañcāsyāḥ parikīrtitāḥ śivaliṅgaṃ ca tatrāsti śilāyāṃ herukāhvayam| devīdakṣiṇapūrvasyāṃ nāyakaṃ taṃ tu pūjayet bhairavasya tu mantreṇa pūjayitvā divaṃ vrajet| nirmālyadhāriṇo devī caṇḍagaurīti kīrtitā etasyāṃ naraśārdūla purā bhargema bhāṣitā| kāntāyāṃ salile snātvā vasante mānavottamaḥ rūpavān guṇavān bhūtvā śivalokāya gacchati| kṣobhakākhyād mahāśailadaiśānyāṃ parvatottamaḥ tuṃgasandhyācalo nāma vasiṣṭho yatra śaptavān| nimināmnastu rājarṣeḥ śāpād brahmasutaḥ purā vasiṣṭho hyaśarīro'bhūt tacchāpācca nimistathā| tato brahmopadeśena nirjane kāmarūpake sandhyācale tapastepe tasya viṣṇurabhūt tadā| pratyakṣastasya devasya varadānānmahāmuniḥ amṛtānyavatāryāśu kuṇḍaṃ kṛtvā girestaṭe| tatra snātvā ca pītvā ca śarīraṃ prāpa pūritam tasmādamṛtakuṇḍācca sandhyā nāma nadīvarā| niḥsṛtā tatra cāplutya cirāyuragado bhavet tasmāt pūrvaṃ tu lalitā lalitākhyā saridvarā| sāgarād dakṣiṇāt pūrvaṃ mahādevāvatāritā vaiśākhaśuklapakṣasya tṛtīyāyāṃ narastu yaḥ| kuryād vai lalitāsnānaṃ sa śambhusadanaṃ vrajet lalitāyāḥ pūrvatīre bhagavānannāma parvataḥ| svayaṃ viṣṇurliṅgarūpi tatrāste bhagavān hariḥ lalitāyāṃ naraḥ snātvā dvādaśyāṃ śuklapakṣake| bhagavantaṃ samāruhya yo yajet parameśvaram sa yāti viṣṇusadanaṃ śarīreṇa virājatā| etāḥ pūrvoditā nadyaḥ sarvāścaivottarasravāḥ kramāt tu dakṣiṇaṃ yānti sāgaraṃ jāhnavīsamāḥ| kāmākhyāṃ prathamaṃ dṛṣṭvā snātvā caivorvaśījale| ya etāsu caret snānaṃ sa tu muktimavāpnuyāt