Kalika Purana — Chapter 78
KaP 78.2
विसर्जनं तथैशान्यां विद्याद्या दलशक्तयः। निर्माल्यधृक् तत्त्वचण्डो माठराद्यास्तु पार्श्वयोः
visarjanaṃ tathaiśānyāṃ vidyādyā dalaśaktayaḥ| nirmālyadhṛk tattvacaṇḍo māṭharādyāstu pārśvayoḥ
And the dismissal (is to be done) in the northeast; the śaktis of the petals begin with Vidyā; the bearer of the leavings is Tattvacaṇḍa, and Māṭhara and the rest are on the two sides.
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain
KaP 78.78
।। अष्टसप्ततितमोऽध्यायः ।। ।।मार्कण्डेय उवाच।। एतच्छ्रुत्वा तु संवादमुत्तमं शंकरस्य च। भैरवस्य तु वेतालसहितस्य महात्मनः भूयश्च सगरो राजा मुनिमौर्वं महामतिम्। पप्रच्छ मोदसंहृष्टः सूनृतं चेदमुत्तमम् ।।सगर उवाच।। विचित्रमिदमाख्यातं भगवन्मुनिसत्तम। कामरूपस्य पीठस्य संस्थानं निर्णयं तथा भूयश्च श्रोतुमिच्छामि विस्तरेण महामते। वायव्यस्याथ मध्यस्य पूर्वभागस्य निर्णयम् यथा यस्मिन् निष्ठितोऽस्ति महादेवोऽम्बिका तथा। तत्सर्वं मुनिशार्दूल कथय श्रोतुमुत्सहे ।।और्व उवाच।। उक्तो वायव्यभागस्य निर्णयो नृपसत्तम। नैर्ऋत्योत्तरमध्याद्रेः शृण्विदानीं विनिर्णयम् बहुरोका नाम ननी करतोया प्रदक्षिणे। उत्तरश्रावणी चास्ते तत् पूर्वं कामरूपकम् सुरसो नाम जीमूतः कामरूपं ततः स्थितः। निःसृता बहुरोकेति नदी तस्माद् वृषप्रदा आसन्ने सुरसाख्यस्य शिवलिङ्गो महावृषः। माहेश्वरी तत्र देवी योनिमण्डलरूपिणी स्नात्वा तु बहुरोकायामारुह्य सुरसाचलम्। महावृषं पूजयित्वा महादेवीं महेश्वरीम् धूतपापो जितद्वन्द्वः पुनर्योनौ न जायते। चतुर्भूजो वृषारूढो वरदाभयशूलधृक् शुद्धस्फटिकसंकाशौ जटावान स महावृषः। अघोरस्य तु मन्त्रेण पूजाऽस्य परिकीर्तिता कामेश्वर्याः स्वरूपं तु माहेश्वर्याः प्रकीर्तितम्। पूजापि यद्वदेवास्यास्तद्वत्फलप्रदायिका तत्र वसिष्ठकुण्डं तु वसिष्ठमुनिसेवितम्। यत्र स्थितो वसिष्ठस्तु नरकेण निवारितः अप्राप्य गन्तुं जीमूतं नीलाख्यं वाशपत्तु तम् स्वस्नानार्थं कृतं तत्र कुण्डं देवगणार्चितम् तत्र स्नात्वा नरो याति नाकपृष्ठं यथेच्छया। सुरसस्य च पूर्वस्यां कृत्तिवासाह्वयो गिरिः कृत्तिवासाः स्वयं तत्र सत्या सहावसत् पुरा। चन्द्रिकाख्या नदी यत्र तस्यां स्नात्वा दिवं व्रजेत् चन्द्रिकायां नरः स्नात्वा सम्पूज्य कृत्तिवाससम्। भाद्रशुक्लचतुर्थ्यां तु निष्कलङ्को भवेन्नरः पूर्णभाद्रपदं मासं चन्द्रिकायां नरोत्तमः। स्नात्वा गच्छति भूतेशं दृष्ट्वै कृत्तिवाससम् उत्तरस्राविणी नित्यं चन्द्रिकाख्या सरिद्वरा। नातिदूरे चन्द्रिकायाः पूर्वस्यां दिशि फेनिला संज्ञया च सरिच्छ्रेष्ठा शतानन्दावतारिता। ब्रह्मणो दुहिता सा तु गङ्गा पर्वतसम्भवा फेनिलायां नरः स्नात्वा ब्रह्मोत्थानदिने पुनः। फाल्गुने मासि नरकं जित्वा स्वर्गमवाप्नुयात् ततः सिताह्वया पूर्वं सरिदुत्तरगामिनी। तस्यां स्नात्वा महाचैत्र्यां गङ्गास्नानफलं लभेत् ततः पूर्वं सुमदना योजनद्वतयान्तरे। नदी जनकराजेन समाराध्य वृषध्वजम् हिताय भैरवाख्यस्य सुतीक्ष्णादवतारिता। सुतीक्ष्णं गिरिमारुह्य स्नात्वा सुमदनाजले माघशुक्लचतुर्थ्यां तु पूजयित्वा महेश्वरम्। संप्राप्य सकलान् कामान् शिवलोकाय गच्छति एता नद्यः कामरूपे नैर्ऋत्यामुत्तरस्रवाः। पीठस्य पूर्वतस्तत्र त्रिपुरा यत्र पूज्यते एवं ते कथितं राजन् महापुण्यदमुत्तमम्। कामरूपस्य नैर्ऋत्यां यत्र शम्भुः सदाम्बिका पुनरेव महाराज या नद्यो दक्षिणस्रवाः। हिमवत्प्रभवा याताः क्रमशः शृणु भूपते अगदस्य नदस्योर्ध्वं भद्राख्या तु महानदी। भाद्रे कृष्णचतुर्दश्यां यस्यां स्नात्वा दिवं व्रजेत् ततः पूर्वं सुभद्राख्या नदी पुण्यतमा सदा। वैशाखस्य तृतीयायां यस्यां स्नात्वा दिवं व्रजेत् ततस्तु मानसा नाम नदी पुण्यतमा मता। सरसो मानसाख्यात् तु तृणबिन्द्ववतारिता वैशाखं सकलं मासं तस्यां स्नात्वा नरोत्तमः। विष्णुलोकमवाप्यैव ततो मोक्षमवाप्नुयात् हिमवन्निकटे शैलो विभ्राटः स महाद्युतिः। यस्मिन् वसति भूतेशः सदा भैरवरूपधृक् तस्मात् तु भैरवी नाम नदी पुण्योदका शुभा। प्रङ् मानसाद्या स्रवति गङ्गेव फलदायिनी यस्यां वसन्तसमये स्नात्वा गच्छति वे दिवम्। यस्यां सम्पूज्य कामाख्यामिष्टं ज्ञानमवाप्नुयात् सम्पूज्याथ महामायां द्विगुणं प्राप्नुयात् फलम्। ऊर्ध्वं ततो देवगङ्गा वर्णासाख्या सरिद्वरा हिमवत्प्रभवा नित्यं फलदा मानसोपमा। सुभद्राद्यास्तु याः प्रोक्ता वर्णासान्ताः सरिद्वराः हिमवत्प्रभवास्तास्तु सर्वा एवोत्तरप्लवाः। पूर्वे तु मदनायास्तु ब्रह्मक्षेत्रस्य पश्चिमे रविक्षेत्रं यत्र देव आदित्यः सततं स्थितः। भैरवस्य हितार्थाय यत्र सर्वेश्वराः स्थिताः कामरूपे महापीठे ब्रह्मेन्द्रवरुणादयः। तदा तत्त्वाह्वये शैले श्री सूर्योऽपि व्यवस्थितः त्रिस्रोता नाम यस्यास्ति नदी पूर्वदिशि स्थिता। कपोतकरणं पश्चादस्य कुण्डद्वयं स्थितम् कपोतकुण्डे विधिवत् स्नात्वा करणकुण्डके। तत्त्वाचलं समारुह्य सम्पूज्य च दिवाकरम् सकृदेव नरो याति भास्करस्य गृहं प्रति। सूर्यरश्मिसमुद्भूतं कपोतकरणामृतम् पुण्यतोयसमाख्यातं पापं कपोत मे हर। इत्यनेन तु मन्त्रेण स्नात्वा कपोतपुष्करे करणं समुपस्पृश्य तत्त्वशैले रविं यजेत्। त्रविधं ब्रह्मबीजं तु सहस्रपदमन्ततः रश्मयेऽपि चतुर्थ्यां तु देवो जाया तु चेष्टतः। अङ्गबीजमिदं प्रोक्तमादित्यस्यातिकामदम् पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः। सप्ताश्वः सप्तरज्जुश्च द्विभुजो भास्करः सदा वर्तुलं मण्डलं चास्य अष्टपत्रसमन्वितम्। अङ्गुष्ठाग्राङ्गुलीनां च हृदादीनां तथा च षट् अङ्गमन्त्रेण सहित उपान्ते वह्निसंयुतः। सर्वन्यासे समुद्दिष्टो मन्त्रः सर्वफलप्रदः हृच्छिरस्तु शिखावर्मनेत्रास्योदरपृष्ठतः। बाह्वोः पाण्योर्जङ्घयोस्तु पादयोश्चापि विन्यसेत् जघने च समस्तानि क्रमान्मन्त्राक्षराणि च। क्रमाच्चोत्तरतः प्रोक्तः पूजने परिकीर्तितः बीजमुत्तरतन्त्रस्य पूर्वतः प्रतिपादितम्। अनेन विधिना तत्त्वे पूजयित्वा नरोत्तमः स कामानखिलान् प्राप्य इहलोके प्रमोदते। सुखी शेषे तथा गच्छेद् भास्करस्यालयं प्रति नातिदूरे भास्करस्य दक्षिणस्यां शुभाह्वयः। तस्योर्ध्वसानौ वसति लिङ्गं शांकरमुत्तमम् परिवार्य सदा यान्ति महाकायास्तु वानराः। परिवार्यातिष्ठन्ते सेवमानाश्च शङ्करम् त्रिस्रोतायां नरः स्नात्वा यः पश्येत् तु शुभाचले। महात्मानं महादेवं काममिष्टं लभेन्नरः ततः पूर्वं सुरनदी नाम्ना कुसुममालिनी। क्षीरोदाख्यापरा तस्मात् ते गते दक्षिणस्रवे एते अपि महाराज पुण्यतोयेऽमृतस्रवे। तयोः स्नात्वा नरो याति शङ्करस्यालयं प्रति ततोऽपि पूर्वतो देवी लोलाख्या चापरा नदी। यस्यां स्नात्वा महानद्यां शिवलोकाय गच्छति ततः पूर्वं शिवा चण्डी चण्डिकाख्या महानदी। निर्याति धवलाख्यात् तु पर्वतात् सुमनोहरात् शिवलिङ्गद्वयं तत्र नातिदूरे व्यवस्थितम्। गोलोकं चाथ शृङ्गं च क्रोशमात्रान्तरे स्थितम् चण्डिकायां नरः स्नात्वा आरुह्य धवलेश्वरम्। दक्षिणं सागरं वीक्ष्य पृष्ट्वा गोलोकसंज्ञकम् ततोऽवतीर्य च पुनः शृङ्गिणं भूमिपीठकम्। शिवपूजाविधानेन पूजयित्वा महेश्वरम् अश्वमेधस्य यज्ञस्य फलं सम्प्राप्य मानवः। सर्वान् कामानवाप्येह देहान्ते शिवतां व्रजेत् एता याः कथिता नद्यः सर्वा वै दक्षिणस्रवाः। तस्मादीशानकाष्ठायां पर्वतो गन्धमादनः यत्र भृङ्गाह्वयं लिङ्गं शिवस्यास्ते महत्तरम्। स एव पर्वतश्रेष्ठः प्राप्तः क्षेत्रस्य पश्चिमे धृत्वा ब्रह्मशिलां देवीं सावित्रं प्रतिगामिनी। गन्धमादनकस्यान्ते भृङ्गेशस्य पदद्वयम् स्रवद्गङ्गाजलं चास्ते कुण्डं तत्रान्तरालकम्। अन्तरालककुण्डे तु स्नात्वा पीत्वा च तज्जलम् भृङ्गेशस्य ततो दृष्ट्वा शिलासंस्थं पदद्वयम्। पूजयित्वा महाभृङ्गं गाणपत्यमवाप्नुयात् शम्भूपादसमुद्भूतमन्तरालदृशाकरम्। वृषध्वजपदानां त्वं संयोजय महावृष इत्यनेन तु मन्त्रेण स्नानं कृत्वान्तराजले। भृङ्गदेवं ततः पश्येत् कुब्जपीठान्तवासिनम् मणिकूटस्याथ गिरेर्गन्धमादनकस्य च। मध्ये स्रवति लौहित्यो ब्रह्मणाग्निसमुत्थितः वर्णाशाया दक्षिणस्यां लौहित्यो नाम सागरः। मणिकूटः स्थितः पूर्वे हयग्रीवो हरिर्यतः स हयग्रीवरूपेण विष्णुर्हत्वा ज्वरासुरम्। निहत्य स हयग्रीवः क्रीडायै यत्र संस्थितः हत्वा ज्वरं तथा विष्णुस्तत्र वासमथाकरोत्। नरदेवासुरादीनां यथा भवति वै हितम् ज्वरेणापीडित तनुर्ज्वरं हत्वा महासुरम्। सर्वलोकहितार्थाय सोऽगदस्ना नमचरेत् अगदस्नानसम्भूतं संजातं च महासरः। तस्य स्वयं हयग्रीवो नाम चक्रेऽपुनर्भवम् न पुनर्जायते यस्मात् तत्र स्नात्वा नरोत्तमः। अपुनर्भवसंज्ञं तत् सरस्तु परिकीर्तितम् मणिकटाचले विष्णुर्हयग्रीवस्वरूपधृक्। शतव्यामप्रमाणेन विस्तरेणैव शोभितम् तस्मात् पूर्वे भद्रकामः पर्वतस्तु त्रिकोणकः। यत्र कालहयो नाम शिवलिङ्गो व्यवस्थितः तस्यासन्ने दक्षिणस्यामपुनर्भवकुण्डकम्। अपुनर्भूःसरस्तीरे पर्वते भद्रकामदे हरवोथीति विख्यात शिला ब्रह्मस्वरूपिणी। तत्र योगी महादेवो योगज्ञो ध्यानतत्परः यं दृष्ट्वा योगवान् मर्त्यो मृतो मोक्षमवाप्नुयात्। तस्यामेव शिलायां तु गोकर्णो नाम शङ्करः गोकर्णो निहतो येन अन्धकस्य सखा पुरा। गोकर्णस्य तथैशान्यां केदारः शम्भुरन्ततः ततोऽन्धकसमः प्रोक्तः कमलाकरभोगधृक्। यत्रास्ति शम्भुः केदारः स गिरिर्मदनाह्वयः तत्रैव कमलः प्रोक्तः स महात्मालयप्रदः। स्नात्वाऽपुनर्भवजले दृष्ट्वा गोकर्णयोगिनौ केदारकमलौ दृष्ट्वा मुक्तिर्माधवदर्शने। दृष्ट्वा तु माधवं देवं ततः कामं विलोकयेत् कामं विलोक्य तत्रस्थो निरीक्षेदपुनर्भवम्। एवं कृत्वा पीठयात्रामनेन क्रमयोगतः सप्त पूर्वान् सप्त परानात्मानं दश पञ्च च। पितृनुद्धृत्य त्रिदिवं नयेत् स पुरुषोत्तमः विष्णुस्थानसमुद्भूता पुनर्भवहरीश्वर। पापं हर स्वर्गहेतोर्जितसङ्गमहोदधे अनेनैव तु मन्त्रेण स्नायाद् वीरोऽपुनर्भवे। हयग्रीवस्य तन्त्रं तु पुरैव प्रतिपादितम् रूपं शृणु महाराज चिन्तयेत् तस्य यादृशम्। कर्पूरकुन्दधवलः सितपद्मोपरिस्थितः चतुर्भुजः कुम्डलादिनानालङ्कारभूषितः। वरदाभयहस्तस्तु वामहस्तद्वयेन तु पुस्तकं सितपद्मं च धत्ते हस्तद्वयेऽपरे। श्रीवत्सकौस्तुभोरस्कः क्वचिच्च गरुडासनः सर्व उत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने। विष्वक्सेनो हयारेस्तु निर्माल्यधृग्विसर्जने शिलारूपप्रतिच्छन्नः सदास्ते गरुडध्वजः। क्रीडमानोऽथ गन्धर्वैः स्थितो लोकहिताय च हयग्रीवस्य मन्त्रस्य सिद्धिर्लक्षद्वयेन तु। यावकैः पायसैराज्यैर्होमं कुर्वन् पुरश्चरेत् एकेनैव तु राजेन्द्र पुरश्चरणकर्मणा। इष्टसिद्धिमवाप्येह विष्णुलोकमवाप्नुयात् मन्त्रैस्तु पञ्चवक्त्राणां पञ्चमूर्तीः सदार्चयेत्। पूर्वे तत्पुरुषादीनां कामादीन् पूजको द्विजः कामस्तत्पुरुषो ज्ञेयो योगीशानः प्रकीर्तितः। अधोरो ह्यथ गोकर्णः केदारो वामदेवकः सद्योजातस्तु कमलामन्त्रैस्तैस्तैः प्रपूजयेत्। पर्वतश्चेव केदारः शिवगङ्गा तु कालिका हयग्रीवस्य पूर्वस्यां केदारस्य तु पश्चिमे। छायाभोगाह्वयस्थानं पुरी भोगवती तथा यो गच्छेन्मणिकूटाख्यात् कौतुकाच्च पुनर्भवम्। स सर्वतीर्थयात्राणां फलमाप्नोति मानवः ज्यैष्ठे मासि सिते पक्षे पञ्चदश्यष्टमीषु च। स्नात्वाऽपुनर्भवजले यः पश्येद् विधिवद्धरिम्। स सर्वं कुलमुद्धृत्य विष्णुसायुज्यमाप्नुयात् ज्येष्ठ तु सकलं मासं नित्यं पश्येत् तु यो हरिम्। हरौ विलीनतां याति स सर्वैः सहितः कुलैः एतत् ते कथितं पुण्यं मणिकूटाह्वयं परम्। वाराणसीतो ह्यधिकं सिद्धविद्याधरार्चितम् यः पठेच्छृणुयाद्विप्रो मणिकूटस्य निर्णयम्। स सर्ववेदस्य फलं प्राप्नोत्येव न संशयः
|| aṣṭasaptatitamo'dhyāyaḥ || ||mārkaṇḍeya uvāca|| etacchrutvā tu saṃvādamuttamaṃ śaṃkarasya ca| bhairavasya tu vetālasahitasya mahātmanaḥ bhūyaśca sagaro rājā munimaurvaṃ mahāmatim| papraccha modasaṃhṛṣṭaḥ sūnṛtaṃ cedamuttamam ||sagara uvāca|| vicitramidamākhyātaṃ bhagavanmunisattama| kāmarūpasya pīṭhasya saṃsthānaṃ nirṇayaṃ tathā bhūyaśca śrotumicchāmi vistareṇa mahāmate| vāyavyasyātha madhyasya pūrvabhāgasya nirṇayam yathā yasmin niṣṭhito'sti mahādevo'mbikā tathā| tatsarvaṃ muniśārdūla kathaya śrotumutsahe ||aurva uvāca|| ukto vāyavyabhāgasya nirṇayo nṛpasattama| nairṛtyottaramadhyādreḥ śṛṇvidānīṃ vinirṇayam bahurokā nāma nanī karatoyā pradakṣiṇe| uttaraśrāvaṇī cāste tat pūrvaṃ kāmarūpakam suraso nāma jīmūtaḥ kāmarūpaṃ tataḥ sthitaḥ| niḥsṛtā bahuroketi nadī tasmād vṛṣapradā āsanne surasākhyasya śivaliṅgo mahāvṛṣaḥ| māheśvarī tatra devī yonimaṇḍalarūpiṇī snātvā tu bahurokāyāmāruhya surasācalam| mahāvṛṣaṃ pūjayitvā mahādevīṃ maheśvarīm dhūtapāpo jitadvandvaḥ punaryonau na jāyate| caturbhūjo vṛṣārūḍho varadābhayaśūladhṛk śuddhasphaṭikasaṃkāśau jaṭāvāna sa mahāvṛṣaḥ| aghorasya tu mantreṇa pūjā'sya parikīrtitā kāmeśvaryāḥ svarūpaṃ tu māheśvaryāḥ prakīrtitam| pūjāpi yadvadevāsyāstadvatphalapradāyikā tatra vasiṣṭhakuṇḍaṃ tu vasiṣṭhamunisevitam| yatra sthito vasiṣṭhastu narakeṇa nivāritaḥ aprāpya gantuṃ jīmūtaṃ nīlākhyaṃ vāśapattu tam svasnānārthaṃ kṛtaṃ tatra kuṇḍaṃ devagaṇārcitam tatra snātvā naro yāti nākapṛṣṭhaṃ yathecchayā| surasasya ca pūrvasyāṃ kṛttivāsāhvayo giriḥ kṛttivāsāḥ svayaṃ tatra satyā sahāvasat purā| candrikākhyā nadī yatra tasyāṃ snātvā divaṃ vrajet candrikāyāṃ naraḥ snātvā sampūjya kṛttivāsasam| bhādraśuklacaturthyāṃ tu niṣkalaṅko bhavennaraḥ pūrṇabhādrapadaṃ māsaṃ candrikāyāṃ narottamaḥ| snātvā gacchati bhūteśaṃ dṛṣṭvai kṛttivāsasam uttarasrāviṇī nityaṃ candrikākhyā saridvarā| nātidūre candrikāyāḥ pūrvasyāṃ diśi phenilā saṃjñayā ca saricchreṣṭhā śatānandāvatāritā| brahmaṇo duhitā sā tu gaṅgā parvatasambhavā phenilāyāṃ naraḥ snātvā brahmotthānadine punaḥ| phālgune māsi narakaṃ jitvā svargamavāpnuyāt tataḥ sitāhvayā pūrvaṃ sariduttaragāminī| tasyāṃ snātvā mahācaitryāṃ gaṅgāsnānaphalaṃ labhet tataḥ pūrvaṃ sumadanā yojanadvatayāntare| nadī janakarājena samārādhya vṛṣadhvajam hitāya bhairavākhyasya sutīkṣṇādavatāritā| sutīkṣṇaṃ girimāruhya snātvā sumadanājale māghaśuklacaturthyāṃ tu pūjayitvā maheśvaram| saṃprāpya sakalān kāmān śivalokāya gacchati etā nadyaḥ kāmarūpe nairṛtyāmuttarasravāḥ| pīṭhasya pūrvatastatra tripurā yatra pūjyate evaṃ te kathitaṃ rājan mahāpuṇyadamuttamam| kāmarūpasya nairṛtyāṃ yatra śambhuḥ sadāmbikā punareva mahārāja yā nadyo dakṣiṇasravāḥ| himavatprabhavā yātāḥ kramaśaḥ śṛṇu bhūpate agadasya nadasyordhvaṃ bhadrākhyā tu mahānadī| bhādre kṛṣṇacaturdaśyāṃ yasyāṃ snātvā divaṃ vrajet tataḥ pūrvaṃ subhadrākhyā nadī puṇyatamā sadā| vaiśākhasya tṛtīyāyāṃ yasyāṃ snātvā divaṃ vrajet tatastu mānasā nāma nadī puṇyatamā matā| saraso mānasākhyāt tu tṛṇabindvavatāritā vaiśākhaṃ sakalaṃ māsaṃ tasyāṃ snātvā narottamaḥ| viṣṇulokamavāpyaiva tato mokṣamavāpnuyāt himavannikaṭe śailo vibhrāṭaḥ sa mahādyutiḥ| yasmin vasati bhūteśaḥ sadā bhairavarūpadhṛk tasmāt tu bhairavī nāma nadī puṇyodakā śubhā| praṅ mānasādyā sravati gaṅgeva phaladāyinī yasyāṃ vasantasamaye snātvā gacchati ve divam| yasyāṃ sampūjya kāmākhyāmiṣṭaṃ jñānamavāpnuyāt sampūjyātha mahāmāyāṃ dviguṇaṃ prāpnuyāt phalam| ūrdhvaṃ tato devagaṅgā varṇāsākhyā saridvarā himavatprabhavā nityaṃ phaladā mānasopamā| subhadrādyāstu yāḥ proktā varṇāsāntāḥ saridvarāḥ himavatprabhavāstāstu sarvā evottaraplavāḥ| pūrve tu madanāyāstu brahmakṣetrasya paścime ravikṣetraṃ yatra deva ādityaḥ satataṃ sthitaḥ| bhairavasya hitārthāya yatra sarveśvarāḥ sthitāḥ kāmarūpe mahāpīṭhe brahmendravaruṇādayaḥ| tadā tattvāhvaye śaile śrī sūryo'pi vyavasthitaḥ trisrotā nāma yasyāsti nadī pūrvadiśi sthitā| kapotakaraṇaṃ paścādasya kuṇḍadvayaṃ sthitam kapotakuṇḍe vidhivat snātvā karaṇakuṇḍake| tattvācalaṃ samāruhya sampūjya ca divākaram sakṛdeva naro yāti bhāskarasya gṛhaṃ prati| sūryaraśmisamudbhūtaṃ kapotakaraṇāmṛtam puṇyatoyasamākhyātaṃ pāpaṃ kapota me hara| ityanena tu mantreṇa snātvā kapotapuṣkare karaṇaṃ samupaspṛśya tattvaśaile raviṃ yajet| travidhaṃ brahmabījaṃ tu sahasrapadamantataḥ raśmaye'pi caturthyāṃ tu devo jāyā tu ceṣṭataḥ| aṅgabījamidaṃ proktamādityasyātikāmadam padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ| saptāśvaḥ saptarajjuśca dvibhujo bhāskaraḥ sadā vartulaṃ maṇḍalaṃ cāsya aṣṭapatrasamanvitam| aṅguṣṭhāgrāṅgulīnāṃ ca hṛdādīnāṃ tathā ca ṣaṭ aṅgamantreṇa sahita upānte vahnisaṃyutaḥ| sarvanyāse samuddiṣṭo mantraḥ sarvaphalapradaḥ hṛcchirastu śikhāvarmanetrāsyodarapṛṣṭhataḥ| bāhvoḥ pāṇyorjaṅghayostu pādayoścāpi vinyaset jaghane ca samastāni kramānmantrākṣarāṇi ca| kramāccottarataḥ proktaḥ pūjane parikīrtitaḥ bījamuttaratantrasya pūrvataḥ pratipāditam| anena vidhinā tattve pūjayitvā narottamaḥ sa kāmānakhilān prāpya ihaloke pramodate| sukhī śeṣe tathā gacched bhāskarasyālayaṃ prati nātidūre bhāskarasya dakṣiṇasyāṃ śubhāhvayaḥ| tasyordhvasānau vasati liṅgaṃ śāṃkaramuttamam parivārya sadā yānti mahākāyāstu vānarāḥ| parivāryātiṣṭhante sevamānāśca śaṅkaram trisrotāyāṃ naraḥ snātvā yaḥ paśyet tu śubhācale| mahātmānaṃ mahādevaṃ kāmamiṣṭaṃ labhennaraḥ tataḥ pūrvaṃ suranadī nāmnā kusumamālinī| kṣīrodākhyāparā tasmāt te gate dakṣiṇasrave ete api mahārāja puṇyatoye'mṛtasrave| tayoḥ snātvā naro yāti śaṅkarasyālayaṃ prati tato'pi pūrvato devī lolākhyā cāparā nadī| yasyāṃ snātvā mahānadyāṃ śivalokāya gacchati tataḥ pūrvaṃ śivā caṇḍī caṇḍikākhyā mahānadī| niryāti dhavalākhyāt tu parvatāt sumanoharāt śivaliṅgadvayaṃ tatra nātidūre vyavasthitam| golokaṃ cātha śṛṅgaṃ ca krośamātrāntare sthitam caṇḍikāyāṃ naraḥ snātvā āruhya dhavaleśvaram| dakṣiṇaṃ sāgaraṃ vīkṣya pṛṣṭvā golokasaṃjñakam tato'vatīrya ca punaḥ śṛṅgiṇaṃ bhūmipīṭhakam| śivapūjāvidhānena pūjayitvā maheśvaram aśvamedhasya yajñasya phalaṃ samprāpya mānavaḥ| sarvān kāmānavāpyeha dehānte śivatāṃ vrajet etā yāḥ kathitā nadyaḥ sarvā vai dakṣiṇasravāḥ| tasmādīśānakāṣṭhāyāṃ parvato gandhamādanaḥ yatra bhṛṅgāhvayaṃ liṅgaṃ śivasyāste mahattaram| sa eva parvataśreṣṭhaḥ prāptaḥ kṣetrasya paścime dhṛtvā brahmaśilāṃ devīṃ sāvitraṃ pratigāminī| gandhamādanakasyānte bhṛṅgeśasya padadvayam sravadgaṅgājalaṃ cāste kuṇḍaṃ tatrāntarālakam| antarālakakuṇḍe tu snātvā pītvā ca tajjalam bhṛṅgeśasya tato dṛṣṭvā śilāsaṃsthaṃ padadvayam| pūjayitvā mahābhṛṅgaṃ gāṇapatyamavāpnuyāt śambhūpādasamudbhūtamantarāladṛśākaram| vṛṣadhvajapadānāṃ tvaṃ saṃyojaya mahāvṛṣa ityanena tu mantreṇa snānaṃ kṛtvāntarājale| bhṛṅgadevaṃ tataḥ paśyet kubjapīṭhāntavāsinam maṇikūṭasyātha girergandhamādanakasya ca| madhye sravati lauhityo brahmaṇāgnisamutthitaḥ varṇāśāyā dakṣiṇasyāṃ lauhityo nāma sāgaraḥ| maṇikūṭaḥ sthitaḥ pūrve hayagrīvo hariryataḥ sa hayagrīvarūpeṇa viṣṇurhatvā jvarāsuram| nihatya sa hayagrīvaḥ krīḍāyai yatra saṃsthitaḥ hatvā jvaraṃ tathā viṣṇustatra vāsamathākarot| naradevāsurādīnāṃ yathā bhavati vai hitam jvareṇāpīḍita tanurjvaraṃ hatvā mahāsuram| sarvalokahitārthāya so'gadasnā namacaret agadasnānasambhūtaṃ saṃjātaṃ ca mahāsaraḥ| tasya svayaṃ hayagrīvo nāma cakre'punarbhavam na punarjāyate yasmāt tatra snātvā narottamaḥ| apunarbhavasaṃjñaṃ tat sarastu parikīrtitam maṇikaṭācale viṣṇurhayagrīvasvarūpadhṛk| śatavyāmapramāṇena vistareṇaiva śobhitam tasmāt pūrve bhadrakāmaḥ parvatastu trikoṇakaḥ| yatra kālahayo nāma śivaliṅgo vyavasthitaḥ tasyāsanne dakṣiṇasyāmapunarbhavakuṇḍakam| apunarbhūḥsarastīre parvate bhadrakāmade haravothīti vikhyāta śilā brahmasvarūpiṇī| tatra yogī mahādevo yogajño dhyānatatparaḥ yaṃ dṛṣṭvā yogavān martyo mṛto mokṣamavāpnuyāt| tasyāmeva śilāyāṃ tu gokarṇo nāma śaṅkaraḥ gokarṇo nihato yena andhakasya sakhā purā| gokarṇasya tathaiśānyāṃ kedāraḥ śambhurantataḥ tato'ndhakasamaḥ proktaḥ kamalākarabhogadhṛk| yatrāsti śambhuḥ kedāraḥ sa girirmadanāhvayaḥ tatraiva kamalaḥ proktaḥ sa mahātmālayapradaḥ| snātvā'punarbhavajale dṛṣṭvā gokarṇayoginau kedārakamalau dṛṣṭvā muktirmādhavadarśane| dṛṣṭvā tu mādhavaṃ devaṃ tataḥ kāmaṃ vilokayet kāmaṃ vilokya tatrastho nirīkṣedapunarbhavam| evaṃ kṛtvā pīṭhayātrāmanena kramayogataḥ sapta pūrvān sapta parānātmānaṃ daśa pañca ca| pitṛnuddhṛtya tridivaṃ nayet sa puruṣottamaḥ viṣṇusthānasamudbhūtā punarbhavaharīśvara| pāpaṃ hara svargahetorjitasaṅgamahodadhe anenaiva tu mantreṇa snāyād vīro'punarbhave| hayagrīvasya tantraṃ tu puraiva pratipāditam rūpaṃ śṛṇu mahārāja cintayet tasya yādṛśam| karpūrakundadhavalaḥ sitapadmoparisthitaḥ caturbhujaḥ kumḍalādinānālaṅkārabhūṣitaḥ| varadābhayahastastu vāmahastadvayena tu pustakaṃ sitapadmaṃ ca dhatte hastadvaye'pare| śrīvatsakaustubhoraskaḥ kvacicca garuḍāsanaḥ sarva uttaratantroktaḥ kramo grāhyaḥ prapūjane| viṣvakseno hayārestu nirmālyadhṛgvisarjane śilārūpapraticchannaḥ sadāste garuḍadhvajaḥ| krīḍamāno'tha gandharvaiḥ sthito lokahitāya ca hayagrīvasya mantrasya siddhirlakṣadvayena tu| yāvakaiḥ pāyasairājyairhomaṃ kurvan puraścaret ekenaiva tu rājendra puraścaraṇakarmaṇā| iṣṭasiddhimavāpyeha viṣṇulokamavāpnuyāt mantraistu pañcavaktrāṇāṃ pañcamūrtīḥ sadārcayet| pūrve tatpuruṣādīnāṃ kāmādīn pūjako dvijaḥ kāmastatpuruṣo jñeyo yogīśānaḥ prakīrtitaḥ| adhoro hyatha gokarṇaḥ kedāro vāmadevakaḥ sadyojātastu kamalāmantraistaistaiḥ prapūjayet| parvataśceva kedāraḥ śivagaṅgā tu kālikā hayagrīvasya pūrvasyāṃ kedārasya tu paścime| chāyābhogāhvayasthānaṃ purī bhogavatī tathā yo gacchenmaṇikūṭākhyāt kautukācca punarbhavam| sa sarvatīrthayātrāṇāṃ phalamāpnoti mānavaḥ jyaiṣṭhe māsi site pakṣe pañcadaśyaṣṭamīṣu ca| snātvā'punarbhavajale yaḥ paśyed vidhivaddharim| sa sarvaṃ kulamuddhṛtya viṣṇusāyujyamāpnuyāt jyeṣṭha tu sakalaṃ māsaṃ nityaṃ paśyet tu yo harim| harau vilīnatāṃ yāti sa sarvaiḥ sahitaḥ kulaiḥ etat te kathitaṃ puṇyaṃ maṇikūṭāhvayaṃ param| vārāṇasīto hyadhikaṃ siddhavidyādharārcitam yaḥ paṭhecchṛṇuyādvipro maṇikūṭasya nirṇayam| sa sarvavedasya phalaṃ prāpnotyeva na saṃśayaḥ