Kalika Purana — Chapter 76
KaP 76.76
।। षट्सप्ततितमोऽध्यायः ।। ।।श्रीभगवानुवाच।। मन्त्रशुद्धिमवेक्ष्येव गृह्णीयान्मन्त्रमुत्तमम् तत्र सिद्धं सुसिद्धं च साध्यं शात्रवमेव च। मन्त्रं चतुर्विधं प्रोक्तं तद्विद्ध्यक्षरभेदतः वर्णक्रमः शाश्वतस्तु यो मया भाषितः पुरा। तत्रादौ भैरव ज्ञात्वा पश्चाच्चक्रं शृणुष्व मे। वर्णानां तु मुखादीनां वैष्मवीतन्त्रसंज्ञक यः प्रोक्तोऽभून्महामन्त्रस्तस्यासन्नक्षराणि तु। मूलभूतानि तान्येव ततोऽन्यानपि वर्धयेत् अकारश्च ककारश्च चटकारौ तथैव च। तपकारौ यकारश्च वर्गाद्याः परिकीर्तिताः अ आ इ ई उ ऊ ऋ ॠ लृ लृ एतेऽदीर्घदीर्घकाः। ए ऐ ओ औ विसर्गश्च बिन्दिवादिर्याज्ञिकस्तथा ध्वनेरन्तरजाश्चेति कीर्तितास्तु स्वरा अमी। खकराश्च गकराश्च घ ङो वर्गः प्रकीर्तितः व्यञ्जनकारादिछजौ भैरवशब्दादिरेव च णकारान्तस्तृतीयोऽयं वर्गोष्ठादिः प्रकीर्तितः। थकारश्च दकारश्व धर्मशब्दादिरेव च नवशब्दस्य चैवादिश्चतुर्थो वर्ग उच्यते। फलशब्दस्य यश्चादिर्बहुशब्दादिरेव च भकारो मनःशब्दादिः पञ्चमो वर्ग उच्यते। यकारश्च रकारश्च लकारो वस्तथैव च एभिश्चतुर्भिर्वर्गाऽयं षष्ठो भैरव उच्यते। शषसा हः क्षकारश्च संयोगः परिवेदकः पञ्चभिः शेषवर्गोऽयं सप्तमः परिकीर्तितः। संयोगयोगसंलोमप्रतिलोमैरिमे सुत वर्णाः स्युर्मन्त्रनामादौ वाङ्मात्रेऽपि च भैरव। चर्तुवर्गप्रदा वर्णाः सुखदुःखकरास्तथा रोगं च तेजसम्पूज्यपूजकाः करिकोर्तिताः। अहं विष्णुश्च ब्रह्मा च गायत्री ब्रह्ममातृकाः अपरं ब्रह्मवर्णा ये परब्रह्मसुखप्रदम्। अपरं ब्रह्मकुशलः परब्रह्मधिगच्छति सिसृक्षुरीश्वरो वर्णाज्ज गन्ति स्वेच्छया पुनः। ससर्ज मम वक्त्रे तां ब्रह्मवक्त्रे च वै न्यधात् अहं तु सकलान् वर्णान् न्यस्य भैरव तन्त्रकम्। अकार बहुलं पुत्र ज्ञानमार्गं विवर्धयन् य इमे गदिता वर्णा मया वर्णविनिश्चये। मन्त्रशुद्धिविवेकार्थं वर्णचक्रं ततः शृणु शक्तिशम्भुस्वरूपिण्यो रेखे द्वे प्रथमं न्यसेत्। तन्मध्यतः पुनारेखे विष्णुलक्ष्मीतले तथा तयोस्तु रेखयोर्मंध्ये द्वे रेखे समतो न्यसेत्। तस्य चक्रस्य चारेषु रेखास्तु परिसंख्यया चतस्रस्तु प्रदातव्याः स्वरमध्ये तु भैरव। भिन्नानां च तथा वर्णाः सन्धयोऽष्टौ प्रकीर्तिताः नेमयस्तु चतस्रोऽस्य सन्धिमध्येषु कीर्तिताः। अष्टारसंयुतं चक्रं चतुर्नेमिसमन्वितम् बहिर्वेष्टनसंयुक्तं वर्णचक्रं प्रकीर्तितम्। मेषादीनां च राशीनामुदयास्तप्रतिज्ञया इदमेव भवेच्चक्रं ज्ञानश्रीवृद्धि-कारकम्। इदं चक्रं लिखित्वा तु समभूमावुदङ्मुखः प्राङ्मुखो वा लिखेद् वर्णांच्छुचिरिष्टं नमन् गुरुम्। प्रदक्षिणं लिखेत् तस्मिन् वर्णास्तेष्वेव तु क्रमात् पुरो नेमेवकारं तु रकारं चापि वै लिखेत्। अकारं वर्जयेद् दीर्घमीकारं च स्वरेषु वै अकरादिक्षकारान्त ढ ट ञ ण वर्जितम्। प्रदक्षिणक्रमादेव लिखित्वा वर्णसञ्चयम् स्वनामाद्यक्षरं गृह्य कुर्यात् तु गणनक्रमम्। मन्त्रस्याद्यक्षरं यावत् सिद्धाद्यं तत्र योजयेत् नवैकपञ्चके सिद्धः साध्यः षड्युग्मपङ्किषु। त्रिसप्तकादशेष्वेव सुसुद्धः परिकीर्तितः द्वादशाष्टजतुर्थेषु भात्रवः परिकीर्तितः। सिद्धेनावाचिरात् सिद्धिः साध्यः कालेन सिध्यति क्रमान्नाशयते शत्रुः सुसिद्धः सिद्धिदोऽचिरात्। यो यो वर्णक्रमः प्रोक्तो मन्त्रे दक्षिणगोचरे वाम्याराधनमन्त्रेषु क्रमं शृण्विह भैरव। ऋलृद्वयं ङ ञ ण ना वर्ज्याश्च वर्णगोचरे लिखेद् वामक्रमेणैव तत्र वर्णांस्तु मन्त्रवित्। नृसिंहार्कवराहाणां प्रसादप्रणवस्य च एकाक्षरद्व्यक्षराणां न सिद्धादिविचिन्तनम्। बीजेतु चापि सर्वेषु दीक्षार्थेषु च भैरव सिद्धादिचिन्ता नो कार्या ग्राह्यास्तु दश वश्यकम्। सुसिद्धं कामदं ग्राह्यं साध्यसिद्धविचारणात् न ग्राह्यः शात्रवो धीरैर्गृहीत्वाप्नोति चापदम्। यो यस्यैकाक्षरो मन्त्रस्तन्नाम्ना स निगद्यते सहितश्चन्द्रबिन्दुभ्यां तद्बीजमिति गद्यते। तथा शक्रो सकारः स्यात् सार्धचन्द्रः सबिन्दुकः स एव शक्रबीजं स्यात् तथान्यत्रापि योजयेत्। मन्त्रोद्धारेषु सर्वत्र परतः परतः पुरः पूर्वतोऽपि परे कार्यमनुक्तः पूर्वपक्षकः। यदा षोडशसाहस्रं वैष्मव्या मन्त्रसञ्चयम् चक्रे निरीक्ष्यते तत्र षोडशारं तु चक्रकम्। विंशतिस्तु सहस्राणि त्रिपुराया यदीक्षते द्वात्रिंशारं तत्र चक्रं लेखनीयं सदा बुधैः। इदमेव महाचक्रं षोडशारादिकं कृती कुर्यादधिकरेखाभिर्मन्त्रशुद्ध्यन्तरे सुत। इयं ते कथिता पुत्र मन्त्रसिद्धिरभीष्टदा जानाति सम्यक् य इमां स जयी काममाप्नुयात्। रहस्यं परमं पुत्र प्रयोगादिप्रकारतः वक्ष्यामि तत् समासेन शृणु वेताल भैरव। दन्तः पक्षविडालस्य तत्त्वचा परिवेष्टितः निर्माल्येन तु वैष्मव्या तत् संवेष्टय गुणत्रयम्। तत् तद् वा वामसूत्रस्य तत्तन्मन्त्रेण मन्त्रितम् गृहीत्वा दक्षिणे पाणौ मन्त्राणां शतमादितः। सञ्चयेदथ वैष्णव्या अष्टम्यां नियतेन्द्रियः ततस्तु दक्षिणे बाहौ धार्यं यन्त्रोत्तमं बुधैः। ततो द्वादशसिद्धिः स्याद्धर्ताचेन्नात्रितित्तिलीम् जयः संग्रामवादेषु शरीरस्याप्यरोगिता। वशकृद्राजपुत्राणां राज्ञामपि च सन्ततम् भूतप्रेतपिशाचाश्च नो यान्ति नेत्रगोचरम्। योषितां समदानां तु वशकृच्चिन्तनात् सकृत् रुधिराणां श्लेष्मणा च धातूनां स्तम्भनं तथा। तेजसां स्तम्भकं चैव चक्षुस्तेजः प्रदं तथा मूर्ध्नि पक्षविडालस्य हस्तं दत्त्वा शतत्रयम्। वैष्मवीतन्त्रमन्त्रं तु जप्त्वा तं स्थापयेद् गृहे तं विडालं तु या पश्येन्मलिनी वनिता सुत। नापुत्रा सा भवित्री तु कदाचिदपि भैरव तादृक् पक्षविडालस्तु यस्य तिष्ठति मन्दिरे। मृतापत्यापि तद्गेहे जीवत्पुत्रा प्रजायते कोकिलो भृङ्गराजो वा चकोरो वा शुकोऽथवा। वैष्णवीतन्त्रमन्त्रेण मन्त्रितो यत्र तिष्ठति विघ्नं न मन्दिरे तस्य भवितृ सुप्रजा भवेत्। न सर्पास्तत्र गच्छन्ति गताः खादन्ति नो नरान्। नारी न बन्धकी तस्य मन्दिरेऽपि प्रजायते पञ्चमूर्तेश्चण्डिकाया निर्माल्यानि च पञ्चमः तेषाँ वलीनां मांस्न स्थाल्यां पक्त्वा दिनत्रयम्। अष्टम्यां तत्पुनर्देव्यै दत्त्वा तन्मन्त्रमन्त्रितैः तोयौर्भ्युक्ष्य भुञ्जीयान्मनसा चिन्तयेच्छिवाम्। तस्मिन् भुक्ते तु दीर्घायुजंरा शोकविवर्जितः तेजस्वी शत्रुदमनः कविर्वाग्मो च जायते। ललाटे मूर्ध्नि कण्ठे च बाह्वोः पाण्योस्तथा हृदि वैष्णवीतन्त्रमन्त्रस्य यानि चाष्टाक्षराणि च। लिखित्वा तानि चैतेषु स्थानेषु मन्त्रविद् बुधः कुङ्कुमं क्षीरमलयजातपङ्कः सुयावकैः। अष्टम्यां संयतो भूत्वा नवम्यां प्रथमं नरः प्रतिष्ठाने न्यस्य करमष्टावष्टौ जपेद् बुधः। आवर्तनेन मन्त्राणां ततोऽनु पूजयेच्छिवाम् ततस्तस्मिन् दिने देव्यै विजातीयं वलित्रयम्। दत्त्वा सहस्रं मन्त्रस्य संख्यया जपमारभेत् जपान्ते तु हविर्भुक्ता संयतो रजनीं नयेत्। एवं सकृत्कृते पुत्र रणे तस्य पराजयः कदाचिदपि नो भूयान्न च वादेषु शास्त्रतः। विधिमेवं सकृत्कृत्वा रणकाले यथा तथा सदा लिखेत् क्षत्रियस्तु विजयाय रणेषु च। अपरं तु रणाष्टाङ्गं गुह्यमेतत् प्रकीर्तितम् अनेनैव तु गुह्येन विजयी त्वं भविष्यसि। इति नौ कथितं सर्वं गुह्याद् गुह्यतरं शुभम् सुखसम्पत्करं मन्त्रं यन्त्रतन्त्रसमन्वितम्। यच्छ्रोतुं त्रिदशाः सर्वे नित्यं वाञ्छन्ति चामृतम् तदिदन्ते समाख्यातं पुत्र वेताल भैरव। एतत् सर्वं नदो ज्ञात्वा तत्त्वतः पुत्र भैरव स कामानखिलान् प्राप्य नित्यं कैवल्यमाप्नुयात्। शृणोति यः सकृदिदं कथ्यमानो द्विजोत्तमैः न तस्य विघ्ना जायन्ते नापुत्रः स च जायते। दीर्घायुर्बलयुक्तश्च नित्यं प्रमुदितः कृती। वाञ्चितार्थमवाप्नोति देवीगृहमवाप्नुयात् गच्छतं कामरूपान्तःपीठं नीलाचलाह्वयम् कामाख्यानिलयं गुह्यं कुब्जिकापीठसंज्ञकम्। आकाशगङ्गा यत्रास्ति तज्जलैरभिषिच्य च तत्राराधयतं पुत्रौ महामायां जगन्मयीम्। सा प्रसन्नाचिराद् देवो वरदा नौ भविष्यति ।।और्व्य उवाच।। इत्युक्त्वा वृषभारूढस्तदा वेतालभैरवौ। स पुत्रौ तु परित्यज्य तत्रैवान्तरधीयत ततस्तौ नाटक शैलं परित्यज्य तपस्विनौ। आसेदतुर्महात्मानं वसिष्ठं ब्रह्मणः सुतम् स तु सन्ध्याचलगतस्तौ दृष्ट्वा समुपस्थितौ। सभाजयामास मुनिः शिष्यवत् तौ हरात्मजौ ततस्तस्योपदेशेन वसिष्ठस्य महात्मनः। जग्मतुस्तौ महाशैलं नीलं कामाख्ययागतम् तत्र गत्वा महात्मानौ वैष्णवीतन्त्रगोचरम्। आदाय जातां तां देवीं महामायां जगन्मयीम् भैरवाख्यस्य लिङ्गस्य निकटस्थौ शिवात्मनः। आकाशगङ्गामाप्लाव्य स्थण्डिले मण्डलोत्तमम् विधाय नरशार्दूलौ जेपतुर्मन्त्रमुत्तमम्। तौ जप्त्वा विधिवन्मन्त्रं सिद्धमष्टाक्षरात्कम् वेतालस्य तथासाध्यमष्टलक्षाणि संख्यया। त्रिभिर्वर्षैस्तु लक्षाणां चतुर्णामन्ततस्ततः त्रिधा पुरश्चरणं च तौ भक्त्या समकुर्वताम्। यद्यदुत्तरतन्त्रोक्तं कल्पोक्तं पूजने कृतम् तत्सर्वं चक्रतुस्तौ तु तं त्रिहायणसंवृतौ। कामाख्या त्रिपुरादीनामन्यासामपि पूजनम् सकृत्कृत्वा पीठयात्रां चेरतुर्विधिवत् तदा। एवं तौ बद्धकवचौ कृतन्यासौ हरात्मजौ सुप्रीता चानुजग्राह महामायाऽथ तौ तदा। ध्यानस्थयोस्तु जपतोर्यजतोश्च जगन्मयो शिवलिङ्गं विनिर्भिद्य तदा प्रत्यक्षतां गता। तस्यां विनिर्गतायां तु शिवलिङ्गं त्रिधाऽभवत् भैरवो भैरवी चेति हेरुकश्च तथा त्रयः। तां ददर्श तदा देवीं वेतालो भैरवस्तदा। यथा ध्यानगता दृष्टा बहिश्चापि तथा तथा तां दृष्ट्वा चारुसर्वाङ्गी पीनोन्नतपयोधराम् बरदाभयहस्तां च सिद्धसूत्रासिधारिणीम्। रक्तपद्मप्रतीकाशां सितप्रेतासनस्थिताम् निमील्य नयनद्वन्द्वं तदा वेतालभैरवौ। त्राहि त्राहि महामाये ऊचतुस्तौ मुहुर्मुहुः ततस्तया महादेव्या तेजसाप्यायि तु तौ। पस्पर्श वरहस्तस्य चाग्रभागेन वैष्णवी आप्यायितौ ततस्तौ तु स्पृष्टावपि तथा पुनः। आसेदतुश्च देवत्वं मनुष्यत्वं विहाय च देवभूतौ तदा तौ तु महामायां जगन्मयीम्। स्तुतिभिर्नतिभिश्चेति तदा तुष्टुवतुः शिवाम् ।।वेतालभैरवावूचतुः।। जय जय देवि सुरगणार्चितपङ्कजे विश्वस्य भूतिभाविनी शशिमौलि-केलिभाविनि गिरिजे। नेत्रत्रयनिर्जितविवस्वद्विधुवह्लिकान्तितुलितकमलजे मध्यनेत्रनतभ्रू भङ्गभक्तरक्तमतिचयज्वायकविमलजे आज्ञाचक्रान्तशान्तनवकोटिकरोटितुल्यकान्त शान्तशशधरे। बहुमायकायभोगयोगतरङ्गसारस्य पद्मवसुचरे त्रिनाडिनीतमध्यबद्धविष्किरवल्लभशुभसुषुम्नसमाधारपरे। विबुधरत्नविमोदिविश्वमूर्तिमहोमयानवसि षट्चक्रधरे आदिषोडशचक्रचुम्बितचारुदेहपीनतुङ्गकुचाचलालिगितभूमिमध्यनागशाकगते पङ्कजातकमूलमणिचतुर्बाहुयुते। ज्ञानतालकमन्त्रतन्त्रयोगियोगनिबद्धसारसूतभङ्ग विनोदकृते। आत्मतत्त्वपरैकशाररत्नहारकमुक्तिसूक्तिविवेकसितप्रेतरते रत्नसारसमस्तसङ्गतरंगरागवियोगिमन्त्रशान्तपुरविशेषकृते। योगिनीगणनॉत्यभृत्यभावननिबद्धनद्धहारकङ्कणमुख्यभूषणपते। साट्टहासविनोदमोदितमुक्तकेशसुरेशनिबद्धदेहपुटे। देहि देवि शोकशोचनबन्धमोचनपापशातनशुद्धमते सर्वविद्यात्मिकां गुह्यां मन्त्रयन्त्रमयीं शिवाम्। प्रणमामि महामायां लोके वेदे च कीर्तिताम् परापरात्मिकां नित्यां साध्याधारैकसंस्थिताम्। कामाह्लादकरीं कान्तां त्वां नमामि जगन्मयोम् प्रपञ्चपरमव्यक्तं जगदेकविवर्धिनि। प्रभावनेनार्धरक्तांगि देवि तुभ्यं नमोऽस्तु ते कामाख्या नित्यरूपाख्या महामाया सरस्वती। या लक्ष्मीर्विष्णुवक्षःस्था नामावो ह्यच्युतां शिवाम् मन्त्राणि यस्यास्तन्त्राणि सहस्राणि च षोडश। मन्त्रयन्त्रात्मके तुभ्यं नम्ऽस्तु मम पार्वति ।।और्वउवाच।। इति स्तुता ततस्ताभ्यां महामाया जगत्प्रसूः। उवाच मुदिता चेति वरं वरयतं युवाम् प्रत्यक्षतो महामायां पूर्ववद् ध्यानगोचराम्। तौ दृष्ट्वा भर्गतनयौ प्राहतुश्चेदमुत्तमम् ।।वैतालभैरवावूचतुः।। देव्यनेन शरीरेम भवत्याः शङ्करस्य च। प्रार्थये शाश्वतीं सेवां नित्यं यावद्रविः शशी नान्यं वरं सोधयावो माये त्वत्तो जगन्मयि। अन्यथा तव भक्त्यैव स्थास्यावो गिरिकन्दरे ।।और्वउवाच।। एवमुक्ता ततस्ताभ्यां महामाया जगन्मयी। एवमस्त्विति चोवाच भवत्येवं मुहुर्मुहुः एवं सिद्धिर्जगद्धात्री प्रोक्ता स्वस्याथ चूचुके। निष्पीड्य कारयामास क्षीरधाराद्वयं शिवा ततस्तु निःसृतं क्षीरं पाययामास भैरवम्। वेतालं च महाराज पिबतस्तौ च तत् तदा पीत्वा तौ च तदा क्षीरं देवत्वं प्राप्य शाश्वतम्। अजरौ चामरौ भूती महातेजस्विनौ शुभौ तस्यास्तु क्षीरममृतं तत् पीत्वा तौ महाबलौ। पीयूषपानात् सजातौ ततस्तौ प्राह वैष्णवी गणानां देवदेवस्य भवतस्चाधिपौ युवाम्। द्वाःस्थौ च नित्यमासन्नौ नन्दिवद् भवतं सुतौ इत्युक्त्वा हरसम्मत्या महामाया जगन्मयी। योगिनीगणसंयुक्ता तत्रैवान्तरधीयत अन्तर्हितायां तस्यां तु तदा वेतालभैरवौ। मुदितौ परमप्रीतौ कृतकृत्यौ बभूवतुः अथागच्छद् देवगणैः सार्धं सप्रमथो हरः। सभाजयितुमत्यर्थं पुत्रौ वेतालभैरवौ तावासाद्य महादेवस्तदा नीलाह्वयं गिरिम्। सकलं दर्शयामास पीठं तु स्थानभेदतः कामाख्याया गुहां तत्र दर्शयित्वा मनोभवाम्। ततः स्वीयां कामगुहां चायाच्छत्रं स्वमालयम् स्वकीयं पञ्चमूर्तीनां संस्थानं चाप्यदर्शयत्। कामरूपस्य सकलं पीठं देवमयं तथा प्रत्येकं दर्शयामास क्रमतस्त्रिपुरान्तकः। प्रथमं करतोयाख्यां सत्यगङ्गा सदाशिवाम्। पुण्यतोयमयीं शुद्धां दक्षिणाब्ध्येकगमिनीम्
|| ṣaṭsaptatitamo'dhyāyaḥ || ||śrībhagavānuvāca|| mantraśuddhimavekṣyeva gṛhṇīyānmantramuttamam tatra siddhaṃ susiddhaṃ ca sādhyaṃ śātravameva ca| mantraṃ caturvidhaṃ proktaṃ tadviddhyakṣarabhedataḥ varṇakramaḥ śāśvatastu yo mayā bhāṣitaḥ purā| tatrādau bhairava jñātvā paścāccakraṃ śṛṇuṣva me| varṇānāṃ tu mukhādīnāṃ vaiṣmavītantrasaṃjñaka yaḥ prokto'bhūnmahāmantrastasyāsannakṣarāṇi tu| mūlabhūtāni tānyeva tato'nyānapi vardhayet akāraśca kakāraśca caṭakārau tathaiva ca| tapakārau yakāraśca vargādyāḥ parikīrtitāḥ a ā i ī u ū ṛ ṝ lṛ lṛ ete'dīrghadīrghakāḥ| e ai o au visargaśca bindivādiryājñikastathā dhvanerantarajāśceti kīrtitāstu svarā amī| khakarāśca gakarāśca gha ṅo vargaḥ prakīrtitaḥ vyañjanakārādichajau bhairavaśabdādireva ca ṇakārāntastṛtīyo'yaṃ vargoṣṭhādiḥ prakīrtitaḥ| thakāraśca dakāraśva dharmaśabdādireva ca navaśabdasya caivādiścaturtho varga ucyate| phalaśabdasya yaścādirbahuśabdādireva ca bhakāro manaḥśabdādiḥ pañcamo varga ucyate| yakāraśca rakāraśca lakāro vastathaiva ca ebhiścaturbhirvargā'yaṃ ṣaṣṭho bhairava ucyate| śaṣasā haḥ kṣakāraśca saṃyogaḥ parivedakaḥ pañcabhiḥ śeṣavargo'yaṃ saptamaḥ parikīrtitaḥ| saṃyogayogasaṃlomapratilomairime suta varṇāḥ syurmantranāmādau vāṅmātre'pi ca bhairava| cartuvargapradā varṇāḥ sukhaduḥkhakarāstathā rogaṃ ca tejasampūjyapūjakāḥ karikortitāḥ| ahaṃ viṣṇuśca brahmā ca gāyatrī brahmamātṛkāḥ aparaṃ brahmavarṇā ye parabrahmasukhapradam| aparaṃ brahmakuśalaḥ parabrahmadhigacchati sisṛkṣurīśvaro varṇājja ganti svecchayā punaḥ| sasarja mama vaktre tāṃ brahmavaktre ca vai nyadhāt ahaṃ tu sakalān varṇān nyasya bhairava tantrakam| akāra bahulaṃ putra jñānamārgaṃ vivardhayan ya ime gaditā varṇā mayā varṇaviniścaye| mantraśuddhivivekārthaṃ varṇacakraṃ tataḥ śṛṇu śaktiśambhusvarūpiṇyo rekhe dve prathamaṃ nyaset| tanmadhyataḥ punārekhe viṣṇulakṣmītale tathā tayostu rekhayormaṃdhye dve rekhe samato nyaset| tasya cakrasya cāreṣu rekhāstu parisaṃkhyayā catasrastu pradātavyāḥ svaramadhye tu bhairava| bhinnānāṃ ca tathā varṇāḥ sandhayo'ṣṭau prakīrtitāḥ nemayastu catasro'sya sandhimadhyeṣu kīrtitāḥ| aṣṭārasaṃyutaṃ cakraṃ caturnemisamanvitam bahirveṣṭanasaṃyuktaṃ varṇacakraṃ prakīrtitam| meṣādīnāṃ ca rāśīnāmudayāstapratijñayā idameva bhaveccakraṃ jñānaśrīvṛddhi-kārakam| idaṃ cakraṃ likhitvā tu samabhūmāvudaṅmukhaḥ prāṅmukho vā likhed varṇāṃcchuciriṣṭaṃ naman gurum| pradakṣiṇaṃ likhet tasmin varṇāsteṣveva tu kramāt puro nemevakāraṃ tu rakāraṃ cāpi vai likhet| akāraṃ varjayed dīrghamīkāraṃ ca svareṣu vai akarādikṣakārānta ḍha ṭa ña ṇa varjitam| pradakṣiṇakramādeva likhitvā varṇasañcayam svanāmādyakṣaraṃ gṛhya kuryāt tu gaṇanakramam| mantrasyādyakṣaraṃ yāvat siddhādyaṃ tatra yojayet navaikapañcake siddhaḥ sādhyaḥ ṣaḍyugmapaṅkiṣu| trisaptakādaśeṣveva susuddhaḥ parikīrtitaḥ dvādaśāṣṭajaturtheṣu bhātravaḥ parikīrtitaḥ| siddhenāvācirāt siddhiḥ sādhyaḥ kālena sidhyati kramānnāśayate śatruḥ susiddhaḥ siddhido'cirāt| yo yo varṇakramaḥ prokto mantre dakṣiṇagocare vāmyārādhanamantreṣu kramaṃ śṛṇviha bhairava| ṛlṛdvayaṃ ṅa ña ṇa nā varjyāśca varṇagocare likhed vāmakrameṇaiva tatra varṇāṃstu mantravit| nṛsiṃhārkavarāhāṇāṃ prasādapraṇavasya ca ekākṣaradvyakṣarāṇāṃ na siddhādivicintanam| bījetu cāpi sarveṣu dīkṣārtheṣu ca bhairava siddhādicintā no kāryā grāhyāstu daśa vaśyakam| susiddhaṃ kāmadaṃ grāhyaṃ sādhyasiddhavicāraṇāt na grāhyaḥ śātravo dhīrairgṛhītvāpnoti cāpadam| yo yasyaikākṣaro mantrastannāmnā sa nigadyate sahitaścandrabindubhyāṃ tadbījamiti gadyate| tathā śakro sakāraḥ syāt sārdhacandraḥ sabindukaḥ sa eva śakrabījaṃ syāt tathānyatrāpi yojayet| mantroddhāreṣu sarvatra parataḥ parataḥ puraḥ pūrvato'pi pare kāryamanuktaḥ pūrvapakṣakaḥ| yadā ṣoḍaśasāhasraṃ vaiṣmavyā mantrasañcayam cakre nirīkṣyate tatra ṣoḍaśāraṃ tu cakrakam| viṃśatistu sahasrāṇi tripurāyā yadīkṣate dvātriṃśāraṃ tatra cakraṃ lekhanīyaṃ sadā budhaiḥ| idameva mahācakraṃ ṣoḍaśārādikaṃ kṛtī kuryādadhikarekhābhirmantraśuddhyantare suta| iyaṃ te kathitā putra mantrasiddhirabhīṣṭadā jānāti samyak ya imāṃ sa jayī kāmamāpnuyāt| rahasyaṃ paramaṃ putra prayogādiprakārataḥ vakṣyāmi tat samāsena śṛṇu vetāla bhairava| dantaḥ pakṣaviḍālasya tattvacā pariveṣṭitaḥ nirmālyena tu vaiṣmavyā tat saṃveṣṭaya guṇatrayam| tat tad vā vāmasūtrasya tattanmantreṇa mantritam gṛhītvā dakṣiṇe pāṇau mantrāṇāṃ śatamāditaḥ| sañcayedatha vaiṣṇavyā aṣṭamyāṃ niyatendriyaḥ tatastu dakṣiṇe bāhau dhāryaṃ yantrottamaṃ budhaiḥ| tato dvādaśasiddhiḥ syāddhartācennātritittilīm jayaḥ saṃgrāmavādeṣu śarīrasyāpyarogitā| vaśakṛdrājaputrāṇāṃ rājñāmapi ca santatam bhūtapretapiśācāśca no yānti netragocaram| yoṣitāṃ samadānāṃ tu vaśakṛccintanāt sakṛt rudhirāṇāṃ śleṣmaṇā ca dhātūnāṃ stambhanaṃ tathā| tejasāṃ stambhakaṃ caiva cakṣustejaḥ pradaṃ tathā mūrdhni pakṣaviḍālasya hastaṃ dattvā śatatrayam| vaiṣmavītantramantraṃ tu japtvā taṃ sthāpayed gṛhe taṃ viḍālaṃ tu yā paśyenmalinī vanitā suta| nāputrā sā bhavitrī tu kadācidapi bhairava tādṛk pakṣaviḍālastu yasya tiṣṭhati mandire| mṛtāpatyāpi tadgehe jīvatputrā prajāyate kokilo bhṛṅgarājo vā cakoro vā śuko'thavā| vaiṣṇavītantramantreṇa mantrito yatra tiṣṭhati vighnaṃ na mandire tasya bhavitṛ suprajā bhavet| na sarpāstatra gacchanti gatāḥ khādanti no narān| nārī na bandhakī tasya mandire'pi prajāyate pañcamūrteścaṇḍikāyā nirmālyāni ca pañcamaḥ teṣā~ valīnāṃ māṃsna sthālyāṃ paktvā dinatrayam| aṣṭamyāṃ tatpunardevyai dattvā tanmantramantritaiḥ toyaurbhyukṣya bhuñjīyānmanasā cintayecchivām| tasmin bhukte tu dīrghāyujaṃrā śokavivarjitaḥ tejasvī śatrudamanaḥ kavirvāgmo ca jāyate| lalāṭe mūrdhni kaṇṭhe ca bāhvoḥ pāṇyostathā hṛdi vaiṣṇavītantramantrasya yāni cāṣṭākṣarāṇi ca| likhitvā tāni caiteṣu sthāneṣu mantravid budhaḥ kuṅkumaṃ kṣīramalayajātapaṅkaḥ suyāvakaiḥ| aṣṭamyāṃ saṃyato bhūtvā navamyāṃ prathamaṃ naraḥ pratiṣṭhāne nyasya karamaṣṭāvaṣṭau japed budhaḥ| āvartanena mantrāṇāṃ tato'nu pūjayecchivām tatastasmin dine devyai vijātīyaṃ valitrayam| dattvā sahasraṃ mantrasya saṃkhyayā japamārabhet japānte tu havirbhuktā saṃyato rajanīṃ nayet| evaṃ sakṛtkṛte putra raṇe tasya parājayaḥ kadācidapi no bhūyānna ca vādeṣu śāstrataḥ| vidhimevaṃ sakṛtkṛtvā raṇakāle yathā tathā sadā likhet kṣatriyastu vijayāya raṇeṣu ca| aparaṃ tu raṇāṣṭāṅgaṃ guhyametat prakīrtitam anenaiva tu guhyena vijayī tvaṃ bhaviṣyasi| iti nau kathitaṃ sarvaṃ guhyād guhyataraṃ śubham sukhasampatkaraṃ mantraṃ yantratantrasamanvitam| yacchrotuṃ tridaśāḥ sarve nityaṃ vāñchanti cāmṛtam tadidante samākhyātaṃ putra vetāla bhairava| etat sarvaṃ nado jñātvā tattvataḥ putra bhairava sa kāmānakhilān prāpya nityaṃ kaivalyamāpnuyāt| śṛṇoti yaḥ sakṛdidaṃ kathyamāno dvijottamaiḥ na tasya vighnā jāyante nāputraḥ sa ca jāyate| dīrghāyurbalayuktaśca nityaṃ pramuditaḥ kṛtī| vāñcitārthamavāpnoti devīgṛhamavāpnuyāt gacchataṃ kāmarūpāntaḥpīṭhaṃ nīlācalāhvayam kāmākhyānilayaṃ guhyaṃ kubjikāpīṭhasaṃjñakam| ākāśagaṅgā yatrāsti tajjalairabhiṣicya ca tatrārādhayataṃ putrau mahāmāyāṃ jaganmayīm| sā prasannācirād devo varadā nau bhaviṣyati ||aurvya uvāca|| ityuktvā vṛṣabhārūḍhastadā vetālabhairavau| sa putrau tu parityajya tatraivāntaradhīyata tatastau nāṭaka śailaṃ parityajya tapasvinau| āsedaturmahātmānaṃ vasiṣṭhaṃ brahmaṇaḥ sutam sa tu sandhyācalagatastau dṛṣṭvā samupasthitau| sabhājayāmāsa muniḥ śiṣyavat tau harātmajau tatastasyopadeśena vasiṣṭhasya mahātmanaḥ| jagmatustau mahāśailaṃ nīlaṃ kāmākhyayāgatam tatra gatvā mahātmānau vaiṣṇavītantragocaram| ādāya jātāṃ tāṃ devīṃ mahāmāyāṃ jaganmayīm bhairavākhyasya liṅgasya nikaṭasthau śivātmanaḥ| ākāśagaṅgāmāplāvya sthaṇḍile maṇḍalottamam vidhāya naraśārdūlau jepaturmantramuttamam| tau japtvā vidhivanmantraṃ siddhamaṣṭākṣarātkam vetālasya tathāsādhyamaṣṭalakṣāṇi saṃkhyayā| tribhirvarṣaistu lakṣāṇāṃ caturṇāmantatastataḥ tridhā puraścaraṇaṃ ca tau bhaktyā samakurvatām| yadyaduttaratantroktaṃ kalpoktaṃ pūjane kṛtam tatsarvaṃ cakratustau tu taṃ trihāyaṇasaṃvṛtau| kāmākhyā tripurādīnāmanyāsāmapi pūjanam sakṛtkṛtvā pīṭhayātrāṃ ceraturvidhivat tadā| evaṃ tau baddhakavacau kṛtanyāsau harātmajau suprītā cānujagrāha mahāmāyā'tha tau tadā| dhyānasthayostu japatoryajatośca jaganmayo śivaliṅgaṃ vinirbhidya tadā pratyakṣatāṃ gatā| tasyāṃ vinirgatāyāṃ tu śivaliṅgaṃ tridhā'bhavat bhairavo bhairavī ceti herukaśca tathā trayaḥ| tāṃ dadarśa tadā devīṃ vetālo bhairavastadā| yathā dhyānagatā dṛṣṭā bahiścāpi tathā tathā tāṃ dṛṣṭvā cārusarvāṅgī pīnonnatapayodharām baradābhayahastāṃ ca siddhasūtrāsidhāriṇīm| raktapadmapratīkāśāṃ sitapretāsanasthitām nimīlya nayanadvandvaṃ tadā vetālabhairavau| trāhi trāhi mahāmāye ūcatustau muhurmuhuḥ tatastayā mahādevyā tejasāpyāyi tu tau| pasparśa varahastasya cāgrabhāgena vaiṣṇavī āpyāyitau tatastau tu spṛṣṭāvapi tathā punaḥ| āsedatuśca devatvaṃ manuṣyatvaṃ vihāya ca devabhūtau tadā tau tu mahāmāyāṃ jaganmayīm| stutibhirnatibhiśceti tadā tuṣṭuvatuḥ śivām ||vetālabhairavāvūcatuḥ|| jaya jaya devi suragaṇārcitapaṅkaje viśvasya bhūtibhāvinī śaśimauli-kelibhāvini girije| netratrayanirjitavivasvadvidhuvahlikāntitulitakamalaje madhyanetranatabhrū bhaṅgabhaktaraktamaticayajvāyakavimalaje ājñācakrāntaśāntanavakoṭikaroṭitulyakānta śāntaśaśadhare| bahumāyakāyabhogayogataraṅgasārasya padmavasucare trināḍinītamadhyabaddhaviṣkiravallabhaśubhasuṣumnasamādhārapare| vibudharatnavimodiviśvamūrtimahomayānavasi ṣaṭcakradhare ādiṣoḍaśacakracumbitacārudehapīnatuṅgakucācalāligitabhūmimadhyanāgaśākagate paṅkajātakamūlamaṇicaturbāhuyute| jñānatālakamantratantrayogiyoganibaddhasārasūtabhaṅga vinodakṛte| ātmatattvaparaikaśāraratnahārakamuktisūktivivekasitapretarate ratnasārasamastasaṅgataraṃgarāgaviyogimantraśāntapuraviśeṣakṛte| yoginīgaṇanaॉtyabhṛtyabhāvananibaddhanaddhahārakaṅkaṇamukhyabhūṣaṇapate| sāṭṭahāsavinodamoditamuktakeśasureśanibaddhadehapuṭe| dehi devi śokaśocanabandhamocanapāpaśātanaśuddhamate sarvavidyātmikāṃ guhyāṃ mantrayantramayīṃ śivām| praṇamāmi mahāmāyāṃ loke vede ca kīrtitām parāparātmikāṃ nityāṃ sādhyādhāraikasaṃsthitām| kāmāhlādakarīṃ kāntāṃ tvāṃ namāmi jaganmayom prapañcaparamavyaktaṃ jagadekavivardhini| prabhāvanenārdharaktāṃgi devi tubhyaṃ namo'stu te kāmākhyā nityarūpākhyā mahāmāyā sarasvatī| yā lakṣmīrviṣṇuvakṣaḥsthā nāmāvo hyacyutāṃ śivām mantrāṇi yasyāstantrāṇi sahasrāṇi ca ṣoḍaśa| mantrayantrātmake tubhyaṃ nam'stu mama pārvati ||aurvauvāca|| iti stutā tatastābhyāṃ mahāmāyā jagatprasūḥ| uvāca muditā ceti varaṃ varayataṃ yuvām pratyakṣato mahāmāyāṃ pūrvavad dhyānagocarām| tau dṛṣṭvā bhargatanayau prāhatuścedamuttamam ||vaitālabhairavāvūcatuḥ|| devyanena śarīrema bhavatyāḥ śaṅkarasya ca| prārthaye śāśvatīṃ sevāṃ nityaṃ yāvadraviḥ śaśī nānyaṃ varaṃ sodhayāvo māye tvatto jaganmayi| anyathā tava bhaktyaiva sthāsyāvo girikandare ||aurvauvāca|| evamuktā tatastābhyāṃ mahāmāyā jaganmayī| evamastviti covāca bhavatyevaṃ muhurmuhuḥ evaṃ siddhirjagaddhātrī proktā svasyātha cūcuke| niṣpīḍya kārayāmāsa kṣīradhārādvayaṃ śivā tatastu niḥsṛtaṃ kṣīraṃ pāyayāmāsa bhairavam| vetālaṃ ca mahārāja pibatastau ca tat tadā pītvā tau ca tadā kṣīraṃ devatvaṃ prāpya śāśvatam| ajarau cāmarau bhūtī mahātejasvinau śubhau tasyāstu kṣīramamṛtaṃ tat pītvā tau mahābalau| pīyūṣapānāt sajātau tatastau prāha vaiṣṇavī gaṇānāṃ devadevasya bhavatascādhipau yuvām| dvāḥsthau ca nityamāsannau nandivad bhavataṃ sutau ityuktvā harasammatyā mahāmāyā jaganmayī| yoginīgaṇasaṃyuktā tatraivāntaradhīyata antarhitāyāṃ tasyāṃ tu tadā vetālabhairavau| muditau paramaprītau kṛtakṛtyau babhūvatuḥ athāgacchad devagaṇaiḥ sārdhaṃ sapramatho haraḥ| sabhājayitumatyarthaṃ putrau vetālabhairavau tāvāsādya mahādevastadā nīlāhvayaṃ girim| sakalaṃ darśayāmāsa pīṭhaṃ tu sthānabhedataḥ kāmākhyāyā guhāṃ tatra darśayitvā manobhavām| tataḥ svīyāṃ kāmaguhāṃ cāyācchatraṃ svamālayam svakīyaṃ pañcamūrtīnāṃ saṃsthānaṃ cāpyadarśayat| kāmarūpasya sakalaṃ pīṭhaṃ devamayaṃ tathā pratyekaṃ darśayāmāsa kramatastripurāntakaḥ| prathamaṃ karatoyākhyāṃ satyagaṅgā sadāśivām| puṇyatoyamayīṃ śuddhāṃ dakṣiṇābdhyekagaminīm