← Kalika Purana

Kalika Purana — Chapter 75

KaP 75.75

।। पञ्चसप्ततितमोऽध्यायः ।। ।।श्रीभगवानुवाच।। निष्पल्लवोद्वादशभिर्लक्षैर्मन्त्रजपैस्तथा। पुरश्चरेत् साधकस्तु काममिष्टाप्तिहेतवे जातीपुष्पं च बकुलं मालतीपुष्पमेव च। नन्द्यावर्तं पाटलं च सितपद्ममतः परम् आज्यमन्नं पायसं च दधिक्षीरं तथा मधु। लाजाश्चापि सकर्पूरा अमी एव चतुर्दश पुरश्चरणसम्भूता त्रिपुरायाः प्रकीर्तिताः। द्वादशष्वेव लक्षेषु जप्तेष्वपि च साधकः एतानि सर्वद्रव्याणि जुहुयादनलोज्ज्वले। लक्षत्रयं तु यो जप्त्वा पुरश्चरणमाचरेत् स तु साज्यं सकर्पूरं जुहुयात् तु चतुष्टयम्। दशभिर्नवलक्षेषु द्रव्यैर्मन्त्री पुरश्चरेत् जप्तेषु चाष्टभिः षट्सु सर्वैः सर्वत्र चाचरेत्। हस्तमात्रं तु कुण्डं स्यात् षट्कोणं त्र्यङ्गुलाधिकम् त्रिपुरायास्तु मध्याया बालायाश्च सदैव हि। तथा त्रिपुरभैरव्याः कुण्डमानं प्रकीर्तितम् चतुष्कोणं भवेत् कुम्डं हस्तमात्रद्वयेषु च। अष्टाङ्गुलाधिकं प्रोक्तं वैष्णव्यास्तु पुरश्चरे त्रिकोणं हस्तमात्रं तु कामाख्यायास्तु कुण्डकम्। एवं सर्वप्रपञ्चानामासामपि तथा तथा संस्कुर्यादनलं वृद्धं विधिवद् वैष्णवीकृतौ। कामाख्यायास्तथा कुर्याज्ज्योतिष्टोमादि मत्सुत आदौ त्रिपुरभैरव्याश्चतुर्भिदंशभिस्तथा। जुहुयादनले वृद्धे आहुतीश्च चतुर्दश पश्चात् तु मूलमन्त्रेण अष्टोत्तरशतत्रयम्। होमं यन्पन् वा तेन शतानि नव वाऽथवा जपान्ते तु बलिं दद्याद् वैष्णव्या बलिदानतः। रत्नकर्पूरकनकान् यत्रैव गुरुदक्षिणाः अलाभे दधिपुष्पाज्यलाजैर्देव्याः पुरश्चरेत्। लाभे चतुर्दशद्रव्यैर्जुहुयाद् विधिपूर्वकम् अस्या यन्त्रं रहस्येन शृंणु वेतालभैरव। यत्कृत्वैवाखिलान् कामाँल्लभते नरसत्तमः षट्कोणं मण्डलं कृत्वा तत् तु कोणत्रये लिखेत्। मन्त्रं त्रिपुरभैरव्यास्त्रिवर्णं तु ततस्त्वधः आद्यायास्त्रिपुरायास्तु त्रिबीजानि लिखेदनु। मध्यबीजत्रयं मध्ये लिखित्वा पीठयन्त्रके सर्वैस्तु मातृकावर्णैस्त्रिधा संवेष्टयेदनु। लाक्षारसैर्लिखित्वा तु त्रिलोहैर्वेष्टयेत् ततः तद् धार्यं मूर्ध्नि सततं तेन सर्वजयी भवेत्। रूपवान् बलवान् वाग्मी धनरत्नयुतः सदा दीर्घायुः कामभोगी च सुप्रजः स च जायते। मध्ये बीजं लिखित्वैकं मूर्ध्नि चाधस्तथापरम् आद्यायास्त्रिपुरायास्तु भैरव्यास्तद्वदेव हि। इमानि षटक्मन्त्राणि क्रमाद् वेतालभैरव पूर्ववत् सँल्लिखित्वैकं संवेष्ट्याथ त्रिलोहकैः। वामे बाहौ दक्षिणे च हृदि कण्ठे करे तथा मूर्ध्नि धार्याणि क्रमतः फलमेतच्च तद्भवम्। सम्पत्सौभाग्यसंस्तम्भ-वशीकरणमोहनम् कवित्वमथ सर्वत्र भवेदेतन्न संशयः। यन्त्रमन्त्राणि तन्त्राणि त्रैपुराणि तु भैरव स पञ्च षट् सहस्राणि मन्त्रौघैस्त्रिगुणीकृतैः। तज्ज्ञात्वा पूजको धीमान् परत्रेह न सीदति मन्त्रौर्घस्तन्त्रमन्त्रैरविचलितपदं त्रैपुरं यत् प्रधानं यद्विप्राद्यैरदेयं विगतभयपदं यत्कवित्वप्रदातृ। त्रैवर्गीयं त्रिरूपं त्रिदिवमथ सुरा यत्र सन्ति त्रयोऽपि तज्ज्ञानौधैः सुभूतं सकलशुभफलं यन्महस्त्रैपुराख्याम् कवचं त्रिपुरायास्तु शृणु वेताल भैरव। यज्ज्ञत्वा मन्त्रवित् सम्यक् फलमाप्नोति पूजने उपचाराः पुरा प्रोक्ता येन एवात्र पूजने। प्रतिपत्तिस्तु सैवात्र कीर्तिता नित्यपूजने कवचस्य च माहात्म्यमहं ब्रह्मा न केशवः। वक्तुं क्षमस्त्वनन्तोऽपि बहुजिह्वः कदाचन क्रव्याद् भयं न लभते तथा तोयपरिप्लवे। कवचस्मरणादेव सर्वं कल्याणमाप्नुयात् ओं त्रिपुराकवचस्यास्य ऋषिर्दक्षिम उच्यते। छन्दश्चित्राह्वयं प्रोक्तं देवी त्रिपुर भैरवी धर्मार्थकाममोक्षाणां विनियोगस्तु साधने। यथाद्यात्रिपुराख्याया बीजानि क्रमतः सुत नामतो वाग्भवादीनि कीर्तितानि मया पुरा। तथा त्रिपुरभैरव्या बीजानामपि नामतः वाग्भवः कामराजश्च तथा त्रैलोक्यमोहनः अवतु सकलशीर्षं वाग्भवे वाचमुग्रां निखिलरचितकामान् कामराजोऽवतान्मे। सकलकरणवर्गमीश्वरः पातु नित्यं तनुगतबहुतेजो वर्धयन् बुद्धिहेतुः कुटैस्तु पञ्चभिरिदं गदितं हि यन्त्रम् मन्त्रं ततोऽनु सततं मम तेज उग्रम्। तेजोमयं महति नित्यपरायणस्थं तन्त्रो हृदि प्रविततां तनुतां सुबुद्धिम् आधारे वाग्भवः पातु कामराजस्तथा हृदि भ्रुवोर्मध्ये च शीर्षे च पातु त्रैलोक्यमोहनः विततकुलकलाज्ञा कामिनी भैरवी या त्रिपुरपुरदहाख्या सर्वलोकस्य माता। वितरतु मम नित्यं नाभिपद्मे सकुक्षौ गणपतिवनिता मां रोगहानिं सुखं च योगैर्जगन्ति परिमोहयतीव नित्यं जागर्ति या त्रिपुरभैरवभामिनीति। सायं च भावकलिता मम पञ्चभागे नासाक्षिकर्णरसनात्वचि पातु नित्यम् आद्या तु त्रिपुरेयं या मध्या या कामदायिनी त्रिधा तु ह्यवतां नित्यं देवी त्रिपुरभैरवी उदयदिशि सदा मां पातु बाला तु माता यमदिशि मम मध्याभद्रमुग्रं विदध्यात्। वरुणपवनकाष्ठामध्यतो भैरवी मामवतु सकलरक्षां कुर्वती सुन्दरी मे महामाया महायोनिर्विश्वयोनिः सदैव तु। सा पातु त्रिपुरा नित्यं सुन्दरीं भैरवी च या ललाटे सुभगा देवी पूर्वस्यां दिशि कामदा। नित्यं तिष्ठतु रक्षन्ती सदा त्रिपुरसुन्दरी भ्रुवोर्मध्ये तथाग्नेय्यां दिशि मां त्रिपुरा च या। वर्धयन्ती भगगणान् पातु त्रिपुरभैरवी वदने दक्षिणस्यां च दिशि मां भगसर्पिणी। त्रिपुरा यमदूतादीन् वारयन्ती सदाऽवतु कर्मयोः पश्चिमायां च दिशि मां भगमालिनी। अयोनिजा जगद्योनिर्बाला मां त्रिपुराऽवतु अनङ्गकुसुमाकण्ठे प्रतीच्यां दिशि सुन्दरी। त्रिपुराभैरवी माता नित्यं पातु महेश्वरी हृदि मारुतकाष्ठायां देवी चानङ्गमेखला। नाभावुदीच्यां दिशि मां मातङ्गी त्रिपुरापरा अनङ्गमदना देवी पातु त्रिपुरभैरवी। ऐशान्यां दिशि लिङ्गे च मदविभ्रममन्थरा वाग्नवादिनी रक्षतु मां सदा त्रिपुरभैरवी। गुदमेढान्तरे पातु रतिस्त्रिपुरभैरवी हृदयाभ्यन्तरे प्रीतिः पातु त्रिपुरभैरवी। भ्रूनासयोर्मध्यदेशे नित्यं पातु मनोभवः द्रावणी मां ग्रहत् पातु वाणी मां दुर्गमूर्धनि। क्षोभणा मां साद पातु क्रव्याद्भ्योऽनिष्टभीतितः वशीकरणवाणी मामग्नितः पातु राजतः। आकर्षणाह्वया वाणी मां पातु शस्त्रघाततः मोहनः सर्वभूतेभ्यः पिशाचेभ्यो जलात्तथा। नित्यं पातु महाबाणस्तन्वानः काममुत्तमम् माला मां शास्त्रबोधाय शास्त्रवादे सदाऽवतु। पुस्तकं पातु मनसि सङ्कल्पं वर्धयन् मम वरः पातु सदा धाम्निधामतेजो विवर्धयन्। अभयं ह्यभयं धत्तां सर्वेभ्यो भूतिभावनम् ऊर्ध्वाधोभावभूतस्थिततरकरणै रक्तकीर्णा सुचक्रा कालाग्निप्रख्यरोचिः सकलसुरगणैरर्चिता मुण्डमाला। ज्ञानध्यानैकतानप्रबलबलकरं तत्त्वभूतप्रतिष्ठं पातादूर्ध्वं तथाधः सकलभयभृतो भोगभीरोस्तु विद्या हः पातु हृदि मां नित्यं सः शीर्षे पातु नित्यशः। रः पातुगुह्यदेशे मां सौः पातु कण्ठपार्श्वयोः रकारो मम नाडीषु शिरः सौः पातु सर्वदा। शक्रः पातु सदाकाशेब्रह्मा रक्षतु सर्वतः विद्या विद्याभाविनी कामरूपा स्थूला सूक्ष्मा मायया यादिमाया। ब्रह्मेन्द्राद्यैरचिता भूतिदात्री रक्षां कुर्यात् सर्वतो भैरवी माम् आद्या मध्या भाविनी नीतियुक्ता सम्यग्ज्ञानज्ञेयरूपापरा या। आदावन्ते मध्यभागे च तारा पायाद् देवी त्रैपुरी भैरवी या यन्मन्त्रभागतन्त्राणां यन्त्राणामपि केशवः। ब्रह्मा रुद्रश्च जानाति तत्वं नान्यो नमोऽस्तु तान् त्वं ब्रह्माणी भवानि विश्वभवितुर्लक्ष्मीरतिर्योगिनी। त्वं वाग्मी सुभगा भवायुतयुगं मन्त्राक्षरं निष्कलम्। वर्णास्ते निखिला स्तनावचलितस्त्वं कामिनीकामदा त्वं देवि त्रिपुरे कवित्वममलं सौभाग्यमुच्चैः कुरु इदं तु कवचं देव्या यो जानाति स मन्त्रवित्। नाधयो व्याधयस्तस्त न भयं च सदा क्वचित् इति ते परमं गुह्यमाख्यातं कवचं परम्। तद्भजस्व महाभाग ततः सिद्धिमवाप्स्यसि इदं पवित्रं परमं पुण्यं कोर्तिविवर्धनम्। त्रिपुरायास्त्रिमूर्तेस्तु कवचं मयकोदितम् यः पठेत् प्रातरुत्थाय स प्राप्नोति मनोगतम्। लिखितं कवचं यस्तु कण्ठे गह्वाति मन्त्रवित् न तस्य गात्रं कृन्तन्ति रणे शस्त्राणि भैरव। संग्रामे शास्त्रवादे च विजयस्तस्य जायते इदं कवचमज्ञात्वा यो जपेत् त्रिपुरां नरः। स शस्त्रघातमाप्नोति भैरवीं सुन्दरीमपि बीजमुच्चारयेत् स्वस्थो गतवाग् दोषनिश्चितः। संयोगबोधः प्रत्येकभेद-श्रवणगोचरः यथैव जायते सम्यग्यज्ञादिदिषवर्जितः। यस्योच्चारणरणकृत्ये तु संयोगो बोधदूषणम् प्रत्येकभिन्नताबोधः स कुष्ठी जायते नरः। न्यासानां प्रचुरत्वे तु फलानामपि भूरिता उक्तन्यासो न हि त्याज्यो ह्यधिकं तु समाचरेत्। मयोक्तन्यासमज्ञात्वा न कृत्वा वा प्रमादतः यः कुर्यात् पूजनं देव्या आप्नुयात् स महापदम्। मन्त्राक्षरस्य विन्यासः सर्वमन्त्रेषु कीर्तितः वैष्णवे चाथवा रौद्रे महाभागेऽथवा पुनः। मन्त्रे कलेवरगते महामायाप्रपूजने मन्त्रन्यासे न वा कुर्यात् कुर्याद् वान्यत्र वाचरेत्। अङ्गरागेषु सिन्दूरं पानेषु मदिरा तथा वस्त्रं रक्तं तु कौशेयं त्रिपुराप्रीतिदं मतम्। त्रयो दीपाः प्रदातव्याः पञ्च वा सप्त भैरव इतो न्यूनान् न प्रदद्यात् त्रिपुरायै कदाचन। मल्लिकामालतीकुन्दं वको द्रोणः सिताम्बुजम् शुक्लपुष्पाणि त्रिपुराप्रीतिदानि तु भैरव। रक्ताम्बुजं जवा रक्ता करवीरोऽथ कोमलः रक्तं त्रिपुरभैरव्याः प्रीतिदा स्नेहकाञ्चनैः। इदं ते कथितं पुत्र संक्षेपादेव भैरव अवाप्य सिद्धिं परमां स्वयं विस्तारयिष्यसि। आराध्य त्वं महामायामवाप्य च गणेशताम् कल्पमन्त्रौधमन्त्राणां भविष्यसि वितानक। अस्यास्त्रिपुरभैरव्याः शुक्लरूपाणि यानि तु तानि सारस्वताख्यानि मन्त्राः सम्यगुदीरिताः। सरस्वती तु या देवी वीणापुस्तकधारिणी स्रक् कमण्डलुहस्ता च दक्षिणे शुक्लपर्णिका। महाचलस्य पृष्ठस्था सितपद्मोपरिस्थिता शुक्लवर्णा शुक्लवस्त्रा शुक्ललाभरणभूषिता। तस्यास्तु वाग्भवाद्याभ्यां नेत्रबीजं द्वितीयकम् कृत्वान्ते विनियोज्यैव मन्त्रं प्राक्प्रतिपादितम्। वरदाभयहस्ता च मालापुस्तकधारिणी शुक्लपद्मासनगता सा परा वाग् सरस्वती। बालाबीजाद्यक्षरं तु द्विरुक्तं चार्ध चन्द्रकम् मन्त्रमस्याः पुरा प्रोक्तं तन्त्रं सामान्यमीरितम्। एषा तु या रक्तवर्णा मुण्डमालाविभूषिता तस्याः प्रोक्तः पुरा मन्त्रः सा तु वृद्धा सरस्वती। षष्ठमन्त्रस्तथैतस्यास्त्रयोदशनिरूपणे एषा कवित्वशास्त्रैध-तत्त्वादविनिश्चये। सुखसम्पत्करा प्रोक्ता नित्यमेव तु भैरव अस्या व्यस्तसमस्तैश्च शुक्रक्तादिभेदतः। चतुःषष्टिमूर्तयश्च त्रैपुरादुत वाग्भवम् महामाया योगनिद्रा मूलभूत जगत्प्रसूः। जगन्माता जगद्धात्री विद्याविद्यापरात्मिका तस्या एव महाभाग त्रिपुराद्या विभूतयः। प्रस्तुताः कथिता नित्यं ताः स्वयंगत एव हि इति ते कथितं पुत्र महादेव्या मनोहरम्। रहस्यं वामदाक्षिण्यं मन्त्रसिद्धिं शृणुष्व मे

|| pañcasaptatitamo'dhyāyaḥ || ||śrībhagavānuvāca|| niṣpallavodvādaśabhirlakṣairmantrajapaistathā| puraścaret sādhakastu kāmamiṣṭāptihetave jātīpuṣpaṃ ca bakulaṃ mālatīpuṣpameva ca| nandyāvartaṃ pāṭalaṃ ca sitapadmamataḥ param ājyamannaṃ pāyasaṃ ca dadhikṣīraṃ tathā madhu| lājāścāpi sakarpūrā amī eva caturdaśa puraścaraṇasambhūtā tripurāyāḥ prakīrtitāḥ| dvādaśaṣveva lakṣeṣu japteṣvapi ca sādhakaḥ etāni sarvadravyāṇi juhuyādanalojjvale| lakṣatrayaṃ tu yo japtvā puraścaraṇamācaret sa tu sājyaṃ sakarpūraṃ juhuyāt tu catuṣṭayam| daśabhirnavalakṣeṣu dravyairmantrī puraścaret japteṣu cāṣṭabhiḥ ṣaṭsu sarvaiḥ sarvatra cācaret| hastamātraṃ tu kuṇḍaṃ syāt ṣaṭkoṇaṃ tryaṅgulādhikam tripurāyāstu madhyāyā bālāyāśca sadaiva hi| tathā tripurabhairavyāḥ kuṇḍamānaṃ prakīrtitam catuṣkoṇaṃ bhavet kumḍaṃ hastamātradvayeṣu ca| aṣṭāṅgulādhikaṃ proktaṃ vaiṣṇavyāstu puraścare trikoṇaṃ hastamātraṃ tu kāmākhyāyāstu kuṇḍakam| evaṃ sarvaprapañcānāmāsāmapi tathā tathā saṃskuryādanalaṃ vṛddhaṃ vidhivad vaiṣṇavīkṛtau| kāmākhyāyāstathā kuryājjyotiṣṭomādi matsuta ādau tripurabhairavyāścaturbhidaṃśabhistathā| juhuyādanale vṛddhe āhutīśca caturdaśa paścāt tu mūlamantreṇa aṣṭottaraśatatrayam| homaṃ yanpan vā tena śatāni nava vā'thavā japānte tu baliṃ dadyād vaiṣṇavyā balidānataḥ| ratnakarpūrakanakān yatraiva gurudakṣiṇāḥ alābhe dadhipuṣpājyalājairdevyāḥ puraścaret| lābhe caturdaśadravyairjuhuyād vidhipūrvakam asyā yantraṃ rahasyena śṛṃṇu vetālabhairava| yatkṛtvaivākhilān kāmā~llabhate narasattamaḥ ṣaṭkoṇaṃ maṇḍalaṃ kṛtvā tat tu koṇatraye likhet| mantraṃ tripurabhairavyāstrivarṇaṃ tu tatastvadhaḥ ādyāyāstripurāyāstu tribījāni likhedanu| madhyabījatrayaṃ madhye likhitvā pīṭhayantrake sarvaistu mātṛkāvarṇaistridhā saṃveṣṭayedanu| lākṣārasairlikhitvā tu trilohairveṣṭayet tataḥ tad dhāryaṃ mūrdhni satataṃ tena sarvajayī bhavet| rūpavān balavān vāgmī dhanaratnayutaḥ sadā dīrghāyuḥ kāmabhogī ca suprajaḥ sa ca jāyate| madhye bījaṃ likhitvaikaṃ mūrdhni cādhastathāparam ādyāyāstripurāyāstu bhairavyāstadvadeva hi| imāni ṣaṭakmantrāṇi kramād vetālabhairava pūrvavat sa~llikhitvaikaṃ saṃveṣṭyātha trilohakaiḥ| vāme bāhau dakṣiṇe ca hṛdi kaṇṭhe kare tathā mūrdhni dhāryāṇi kramataḥ phalametacca tadbhavam| sampatsaubhāgyasaṃstambha-vaśīkaraṇamohanam kavitvamatha sarvatra bhavedetanna saṃśayaḥ| yantramantrāṇi tantrāṇi traipurāṇi tu bhairava sa pañca ṣaṭ sahasrāṇi mantraughaistriguṇīkṛtaiḥ| tajjñātvā pūjako dhīmān paratreha na sīdati mantraurghastantramantrairavicalitapadaṃ traipuraṃ yat pradhānaṃ yadviprādyairadeyaṃ vigatabhayapadaṃ yatkavitvapradātṛ| traivargīyaṃ trirūpaṃ tridivamatha surā yatra santi trayo'pi tajjñānaudhaiḥ subhūtaṃ sakalaśubhaphalaṃ yanmahastraipurākhyām kavacaṃ tripurāyāstu śṛṇu vetāla bhairava| yajjñatvā mantravit samyak phalamāpnoti pūjane upacārāḥ purā proktā yena evātra pūjane| pratipattistu saivātra kīrtitā nityapūjane kavacasya ca māhātmyamahaṃ brahmā na keśavaḥ| vaktuṃ kṣamastvananto'pi bahujihvaḥ kadācana kravyād bhayaṃ na labhate tathā toyapariplave| kavacasmaraṇādeva sarvaṃ kalyāṇamāpnuyāt oṃ tripurākavacasyāsya ṛṣirdakṣima ucyate| chandaścitrāhvayaṃ proktaṃ devī tripura bhairavī dharmārthakāmamokṣāṇāṃ viniyogastu sādhane| yathādyātripurākhyāyā bījāni kramataḥ suta nāmato vāgbhavādīni kīrtitāni mayā purā| tathā tripurabhairavyā bījānāmapi nāmataḥ vāgbhavaḥ kāmarājaśca tathā trailokyamohanaḥ avatu sakalaśīrṣaṃ vāgbhave vācamugrāṃ nikhilaracitakāmān kāmarājo'vatānme| sakalakaraṇavargamīśvaraḥ pātu nityaṃ tanugatabahutejo vardhayan buddhihetuḥ kuṭaistu pañcabhiridaṃ gaditaṃ hi yantram mantraṃ tato'nu satataṃ mama teja ugram| tejomayaṃ mahati nityaparāyaṇasthaṃ tantro hṛdi pravitatāṃ tanutāṃ subuddhim ādhāre vāgbhavaḥ pātu kāmarājastathā hṛdi bhruvormadhye ca śīrṣe ca pātu trailokyamohanaḥ vitatakulakalājñā kāminī bhairavī yā tripurapuradahākhyā sarvalokasya mātā| vitaratu mama nityaṃ nābhipadme sakukṣau gaṇapativanitā māṃ rogahāniṃ sukhaṃ ca yogairjaganti parimohayatīva nityaṃ jāgarti yā tripurabhairavabhāminīti| sāyaṃ ca bhāvakalitā mama pañcabhāge nāsākṣikarṇarasanātvaci pātu nityam ādyā tu tripureyaṃ yā madhyā yā kāmadāyinī tridhā tu hyavatāṃ nityaṃ devī tripurabhairavī udayadiśi sadā māṃ pātu bālā tu mātā yamadiśi mama madhyābhadramugraṃ vidadhyāt| varuṇapavanakāṣṭhāmadhyato bhairavī māmavatu sakalarakṣāṃ kurvatī sundarī me mahāmāyā mahāyonirviśvayoniḥ sadaiva tu| sā pātu tripurā nityaṃ sundarīṃ bhairavī ca yā lalāṭe subhagā devī pūrvasyāṃ diśi kāmadā| nityaṃ tiṣṭhatu rakṣantī sadā tripurasundarī bhruvormadhye tathāgneyyāṃ diśi māṃ tripurā ca yā| vardhayantī bhagagaṇān pātu tripurabhairavī vadane dakṣiṇasyāṃ ca diśi māṃ bhagasarpiṇī| tripurā yamadūtādīn vārayantī sadā'vatu karmayoḥ paścimāyāṃ ca diśi māṃ bhagamālinī| ayonijā jagadyonirbālā māṃ tripurā'vatu anaṅgakusumākaṇṭhe pratīcyāṃ diśi sundarī| tripurābhairavī mātā nityaṃ pātu maheśvarī hṛdi mārutakāṣṭhāyāṃ devī cānaṅgamekhalā| nābhāvudīcyāṃ diśi māṃ mātaṅgī tripurāparā anaṅgamadanā devī pātu tripurabhairavī| aiśānyāṃ diśi liṅge ca madavibhramamantharā vāgnavādinī rakṣatu māṃ sadā tripurabhairavī| gudameḍhāntare pātu ratistripurabhairavī hṛdayābhyantare prītiḥ pātu tripurabhairavī| bhrūnāsayormadhyadeśe nityaṃ pātu manobhavaḥ drāvaṇī māṃ grahat pātu vāṇī māṃ durgamūrdhani| kṣobhaṇā māṃ sāda pātu kravyādbhyo'niṣṭabhītitaḥ vaśīkaraṇavāṇī māmagnitaḥ pātu rājataḥ| ākarṣaṇāhvayā vāṇī māṃ pātu śastraghātataḥ mohanaḥ sarvabhūtebhyaḥ piśācebhyo jalāttathā| nityaṃ pātu mahābāṇastanvānaḥ kāmamuttamam mālā māṃ śāstrabodhāya śāstravāde sadā'vatu| pustakaṃ pātu manasi saṅkalpaṃ vardhayan mama varaḥ pātu sadā dhāmnidhāmatejo vivardhayan| abhayaṃ hyabhayaṃ dhattāṃ sarvebhyo bhūtibhāvanam ūrdhvādhobhāvabhūtasthitatarakaraṇai raktakīrṇā sucakrā kālāgniprakhyarociḥ sakalasuragaṇairarcitā muṇḍamālā| jñānadhyānaikatānaprabalabalakaraṃ tattvabhūtapratiṣṭhaṃ pātādūrdhvaṃ tathādhaḥ sakalabhayabhṛto bhogabhīrostu vidyā haḥ pātu hṛdi māṃ nityaṃ saḥ śīrṣe pātu nityaśaḥ| raḥ pātuguhyadeśe māṃ sauḥ pātu kaṇṭhapārśvayoḥ rakāro mama nāḍīṣu śiraḥ sauḥ pātu sarvadā| śakraḥ pātu sadākāśebrahmā rakṣatu sarvataḥ vidyā vidyābhāvinī kāmarūpā sthūlā sūkṣmā māyayā yādimāyā| brahmendrādyairacitā bhūtidātrī rakṣāṃ kuryāt sarvato bhairavī mām ādyā madhyā bhāvinī nītiyuktā samyagjñānajñeyarūpāparā yā| ādāvante madhyabhāge ca tārā pāyād devī traipurī bhairavī yā yanmantrabhāgatantrāṇāṃ yantrāṇāmapi keśavaḥ| brahmā rudraśca jānāti tatvaṃ nānyo namo'stu tān tvaṃ brahmāṇī bhavāni viśvabhaviturlakṣmīratiryoginī| tvaṃ vāgmī subhagā bhavāyutayugaṃ mantrākṣaraṃ niṣkalam| varṇāste nikhilā stanāvacalitastvaṃ kāminīkāmadā tvaṃ devi tripure kavitvamamalaṃ saubhāgyamuccaiḥ kuru idaṃ tu kavacaṃ devyā yo jānāti sa mantravit| nādhayo vyādhayastasta na bhayaṃ ca sadā kvacit iti te paramaṃ guhyamākhyātaṃ kavacaṃ param| tadbhajasva mahābhāga tataḥ siddhimavāpsyasi idaṃ pavitraṃ paramaṃ puṇyaṃ kortivivardhanam| tripurāyāstrimūrtestu kavacaṃ mayakoditam yaḥ paṭhet prātarutthāya sa prāpnoti manogatam| likhitaṃ kavacaṃ yastu kaṇṭhe gahvāti mantravit na tasya gātraṃ kṛntanti raṇe śastrāṇi bhairava| saṃgrāme śāstravāde ca vijayastasya jāyate idaṃ kavacamajñātvā yo japet tripurāṃ naraḥ| sa śastraghātamāpnoti bhairavīṃ sundarīmapi bījamuccārayet svastho gatavāg doṣaniścitaḥ| saṃyogabodhaḥ pratyekabheda-śravaṇagocaraḥ yathaiva jāyate samyagyajñādidiṣavarjitaḥ| yasyoccāraṇaraṇakṛtye tu saṃyogo bodhadūṣaṇam pratyekabhinnatābodhaḥ sa kuṣṭhī jāyate naraḥ| nyāsānāṃ pracuratve tu phalānāmapi bhūritā uktanyāso na hi tyājyo hyadhikaṃ tu samācaret| mayoktanyāsamajñātvā na kṛtvā vā pramādataḥ yaḥ kuryāt pūjanaṃ devyā āpnuyāt sa mahāpadam| mantrākṣarasya vinyāsaḥ sarvamantreṣu kīrtitaḥ vaiṣṇave cāthavā raudre mahābhāge'thavā punaḥ| mantre kalevaragate mahāmāyāprapūjane mantranyāse na vā kuryāt kuryād vānyatra vācaret| aṅgarāgeṣu sindūraṃ pāneṣu madirā tathā vastraṃ raktaṃ tu kauśeyaṃ tripurāprītidaṃ matam| trayo dīpāḥ pradātavyāḥ pañca vā sapta bhairava ito nyūnān na pradadyāt tripurāyai kadācana| mallikāmālatīkundaṃ vako droṇaḥ sitāmbujam śuklapuṣpāṇi tripurāprītidāni tu bhairava| raktāmbujaṃ javā raktā karavīro'tha komalaḥ raktaṃ tripurabhairavyāḥ prītidā snehakāñcanaiḥ| idaṃ te kathitaṃ putra saṃkṣepādeva bhairava avāpya siddhiṃ paramāṃ svayaṃ vistārayiṣyasi| ārādhya tvaṃ mahāmāyāmavāpya ca gaṇeśatām kalpamantraudhamantrāṇāṃ bhaviṣyasi vitānaka| asyāstripurabhairavyāḥ śuklarūpāṇi yāni tu tāni sārasvatākhyāni mantrāḥ samyagudīritāḥ| sarasvatī tu yā devī vīṇāpustakadhāriṇī srak kamaṇḍaluhastā ca dakṣiṇe śuklaparṇikā| mahācalasya pṛṣṭhasthā sitapadmoparisthitā śuklavarṇā śuklavastrā śuklalābharaṇabhūṣitā| tasyāstu vāgbhavādyābhyāṃ netrabījaṃ dvitīyakam kṛtvānte viniyojyaiva mantraṃ prākpratipāditam| varadābhayahastā ca mālāpustakadhāriṇī śuklapadmāsanagatā sā parā vāg sarasvatī| bālābījādyakṣaraṃ tu dviruktaṃ cārdha candrakam mantramasyāḥ purā proktaṃ tantraṃ sāmānyamīritam| eṣā tu yā raktavarṇā muṇḍamālāvibhūṣitā tasyāḥ proktaḥ purā mantraḥ sā tu vṛddhā sarasvatī| ṣaṣṭhamantrastathaitasyāstrayodaśanirūpaṇe eṣā kavitvaśāstraidha-tattvādaviniścaye| sukhasampatkarā proktā nityameva tu bhairava asyā vyastasamastaiśca śukraktādibhedataḥ| catuḥṣaṣṭimūrtayaśca traipurāduta vāgbhavam mahāmāyā yoganidrā mūlabhūta jagatprasūḥ| jaganmātā jagaddhātrī vidyāvidyāparātmikā tasyā eva mahābhāga tripurādyā vibhūtayaḥ| prastutāḥ kathitā nityaṃ tāḥ svayaṃgata eva hi iti te kathitaṃ putra mahādevyā manoharam| rahasyaṃ vāmadākṣiṇyaṃ mantrasiddhiṃ śṛṇuṣva me