← Kalika Purana

Kalika Purana — Chapter 74

KaP 74.74

।। चतुःसप्ततितमोऽध्यायः ।। ।।श्रीभगवानुवाच।। या योनिमुद्रा कथिता मुद्राविभजने पुरा। अष्टधा योनिमुद्रा स्यात् प्रथमा सा तु कीर्तिता द्वितीया खेचरी मुद्रा कामाख्यायास्तु भैरव। तां विद्धि चाद्भुतं गुह्यं येन तुष्यति चण्डिका अनामिकां दक्षिमस्य तर्जन्यां वामतो न्यसेत्। वामानामां दक्षिणस्य तर्जन्यां विनिवेशयेत् ते द्वे तथा तर्जनीभ्यां वेष्टयेदग्रतोऽग्रतः। मध्ये द्वयं तु विन्यस्य चोर्ध्वभागे त्वनामयोः तदग्राग्रेण संयोगात् तथैव च कनिष्ठिके। अग्रेणैव च संयुक्ते तन्मूलेऽङ्गुष्ठके न्यसेत् इयं ते खेचरी योनिर्योनिमुद्रा तु कामदा। एषैवाधः कनिष्ठे द्वे नियोज्य यदि युज्यते गुह्ययोनिस्तु सा ख्याता कामेश्वर्यास्तु तुष्टिदा। संवेष्ट्य पूर्ववत् पाण्योर्द्वे कनिष्ठे त्वनामिके अधोभागे नियोज्याथ मध्यमे चोर्ध्वतस्तथा। तासां परस्परश्चाग्रैरन्योऽन्यं योजयेद् यदि मध्यां मध्ये तथाङ्गुष्ठे निःक्षिप्याग्रे नियोजयेत्। योनिस्त्रिशाङ्करी प्रोक्ता त्रिपुरा तुष्टिदा सदा मध्ये द्वे च तथा वेष्ट्या पूर्ववच्चाप्यनामिका। कनिष्ठाभ्यां पुरो न्यस्य अङ्गुष्ठौ मूलयोस्तयोः मुद्रेयं शारदी प्रोक्ता शारदायास्तु तुष्टिदा। मूलयोनिस्तु कथिता वैष्मवीतन्त्रगोचरे तर्जन्यनामिकं मध्ये कनिष्ठेऽपि क्रमादपि। करयोर्योजयित्वैव कनिष्ठामूलदेशतः अङ्गुष्ठाग्रं तु निःक्षिप्य महायोनिः प्रकीर्तिता। अङ्गुष्ठौ चाथ संवेष्ठ्य संयुज्याथ कराङ्गुलीः अग्रभागैर्मध्यशून्यं तत्र कुर्यात् करद्वयम्। इयं तु योगिनीयोनिर्योगिनीनां प्रियंकरी एता अष्टौ समाख्याता योन्यः कामेश्वरीप्रियाः। मूर्तिभेदेन चान्येषां देवानामपि तुष्टिदाः यात्रायां युद्धविषये वाग्वादे कलहे तथा। अष्टौ योन्यः स्मरेद् यस्तु जयस्तस्य सनातनः विसर्जने पूजने च स्मरणे कर्मभेदतः। एता योन्यः समाख्याताश्चण्डिकापूजनेषु च एतास्तु कथिता योन्यः क्रमात् क्रमविसर्जने। रहस्यं वामदाक्षिण्यं मन्त्रशुद्धिं शृणुष्व मे मन्त्रेण क्रियते यत् तु शारीरं मन्त्रमुत्तमम्। तद्रहस्यमिति प्राहुर्मन्त्रेषु मन्त्रकोविदाः कामाख्यायास्तु षट्कोणं मण्डलस्य दलान्तरे। त्रिधा लिखेन्मूलमन्त्रमूर्ध्वं त्रिष्वपि सन्धिषु अधस्त्रिसन्धिषु पुनर्विधिं शक्रं हरं तथा। सहितं मदनेनैव लिखेद् भूर्जत्वचि त्रिधा तन्तुमादाय साहस्रं दक्षिणेन करेण वै। मालामपि सामादाय संजपुदुत्तरामुखः तद्भुजे दक्षिणे धार्यं बाहौ वा साधकोत्तमैः। जपान्ते लिखितं यन्त्रं तेन सर्वजयी भवेत् दीर्घायुः सर्ववशकृद्धनधान्यसमृद्धिमान्। मृतो देवीगृहे याति यन्त्रयन्त्रितबुद्धिमान् षट्कोणानन्तरकृतं वेष्टिताष्टदलेष्वथ। लिखित्वा भूर्जपत्रेषु विलीनैर्यावकोदकैः उत्तरादिक्रमेणैव वैष्णवीतन्त्रसङ्गतान्। अष्टौ वर्णान्मध्यबागे पूर्ववत् कामराजकम् त्रीन् वर्णान् नेत्रबीजस्य त्रिकोणस्याग्रतो लिखेत्। एवं त्रिधाकृतं यन्त्रं कृत्वा वामकरे स्थितः जपेत् त्रीणि सहस्राणि मालामादाय दक्षिणे। जपान्ते वैष्णवीरूपध्यानं कुर्यादतन्द्रितः प्राणायामसहस्रं तु ततस्तं लिखितोत्तमम्। ग्रीवायां धारयेद् यन्त्रं तेन सर्वजयी भवेत् राजपुत्रो भवेद्राजा तदन्यः सचिवो भवेत्। द्विजराजो भवेद् विद्वान् कविर्वाग्मी च वा भवेत् राक्षसेभ्यः पिशाचेभ्यो भूतेभ्यश्चापि चान्यतः। साधु संविद्यते तस्य न कदाचित् पराजयः दीर्घायुर्बलवान् प्राज्ञो मृते मोक्षमवाप्नुयात्। सम्पूर्णं मण्डलं कृत्वा अष्टपत्रसमन्वितम् भूर्जत्वचि श्रीफलस्य निर्यासैस्तस्य मध्यतः। षट्कोणं विलिखेत् तस्य प्रागग्रेष्वथ त्रिष्वपि विलिखेत् त्रिपुरावर्मानधो बीजं तु नेत्रकम्। दलेष्वष्टासु तु पुनर्वैष्णवीतन्त्रसङ्गतान् अष्टौ वर्णास्तु विलिखेत् तथा द्वार्षु चतुष्वैपि। षट्कोणेषूत्तराकोणक्रमेणैकाग्रमानसः तद्धृत्वा दक्षिणकरे वैष्णवीतन्त्रमन्त्रकम्। जपेत् त्रिर्भिर्दिनैरेवायुतं संयतमानसः प्राणायामसहस्राणि त्रीणि कृत्वा तु हर्षितः। सन्ध्याकाले नवम्यां तु शीर्षेण धारयेद् बुधः शतायुः सर्वदमनो मतिमान् पण्डितोत्तमः। बलवीर्यधनैश्वर्युक्तः पार्थिव एव वा प्रत्यक्षतो महामायां कामाख्यां त्रिपुरामपि। नित्यं पश्यति मेधावी महोच्छवासां च शारदाम् सिंहव्याघ्रौ भुजङ्गो वा येऽन्ये वा तस्य हिंसकाः। सर्वे तस्य तनुं प्राप्य विषीदन्ति न संशयः जयहेतुरतोऽन्यस्मात् संग्रामे शास्त्रवादतः। न विद्यते त्रिभुवने तस्मात् कुर्यात् तु यन्त्रकम् अन्ते देवीगृहं प्राप्य ततो मोक्षमवाप्नुयात्। महामाया शारदाख्या कामाख्या त्रिपुरा तथा महोत्साहा तथैतेषां मन्त्राणां यो गणो भवेत्। मण्डलं चाष्टदलकं तन्मध्ये विलिखेत् पुनः लिखित्वा पूर्ववत् पूर्वं प्रोक्तं मन्त्रगणं समम्। अन्यद्वयं द्वारदेशे कोष्ठेष्वक्षरतो लिखेत् शुक्लकौशैयवस्त्रेषु रसैर्वह्निशिखस्य तु। उत्तरीयं तु तद्वस्त्रं कृत्वा जप्यं समाचरेत् कृतोपवासः शुद्धश्च मातृकान्यासपूर्वकम्। पञ्चानामपि वर्गाणां सहस्राणि तु पंच वै दिवसैः पञ्चभिर्जप्त्वा तदन्ते च समाचरेत्। प्राणायामसहस्राणि पंच वै पंचभिर्दिनैः अन्ते तु कवचन्यासं कात्यायन्याः समाचरेत्। ततस्तु मातृकामन्त्रैः श्वासरोधनपूर्वकम् त्रिः पिबेत् कपिलाक्षीरं जागृवांश्च तदा निशि। एवं यः कुरुते यन्त्रं शरीरे शुक्लवाससा सोऽत्र सिद्धिमवाप्नोति देवीलोकं च गच्छति। य उत्तरीयं बिभृयाद् वस्त्रं मन्त्रेण मन्त्रितम् नित्यमेव महाभाग प्रभावं तस्य वै शृणु। न तस्य देहे शस्त्राणि प्रवेक्ष्यन्ति कदाचन नाग्निर्दहति तत्कायं नापः संक्लेदयन्ति च। राक्षसाश्च पिशाचाश्च भूताद्या ये तु हिंसकाः ते तं दृष्ट्वा महाभागं भुवं गच्छन्ति वै भिया। गच्छेदवारितः सोऽपि सर्वत्र साधकोत्तमः वशीकरोति देवांश्च नृपानन्याश्च योषितः। उत्सहेत् यदि मेधावी वाग्मी राजा च वै भवेत् चिरजीवी महाभागो धनधान्यसमृद्धिमान्। कविः प्रज्ञासमायुक्तः सोऽभेद्यो जायतेऽरिभिः यस्मिन् पुरे स निवसेद् वज्रपातो न तत्र वै। रसः शरीरं शस्त्राणि दृढहस्तोज्झितान्यपि एतं न घ्नन्ति सततं जयः सर्वत्र भैरव। अपराध्यन्ति सततं तस्य सर्वत्र भैरव नाधयो व्याधयस्तस्य जायन्ते तु कदाचन। देवीपुत्रः स मतिमान् मृतो मोक्षमवाप्नुयात् यन्त्रता स्वामिना यन्त्रं या दधाति पतिव्रता। पुत्रैश्वर्यमवाप्नोति दीर्घायुः सा वधूर्भवेत् प्रत्येकमेकं संहत्यावर्धनासहितेन च। क्रमाद् विंशतियन्त्राणि कथितानि मयेह वै तानि प्रत्येकतो बुद्ध्वा यो न्यसेत् सर्वदा हृदि। लिखित्वा सर्वयन्त्राणि बिभृयाद्योऽथ वा गले देवेन्द्रो जायते सोऽत्र प्रभावेणेह भूतले। पूर्वोक्तानि समस्तानि फलान्याप्नोति तत्क्षणात्। पिहितः सर्वलोकांस्त्रोन्नीत्यमेव प्रपश्यति एवं सार्धं यन्त्रवर्गैः समस्तैरष्टाभिर्यत् पूर्वमुक्तं सहस्रम्। शुक्ले वस्त्रे संलिखित्वा स्वदेहे धृत्वा नित्य प्राप्नुयाद् वै समस्तम् यः क्षत्रजातिर्हृदये स कुर्यात्। संग्रामकाले कवचेष्टधाम्नि। मन्त्राक्षराण्यादिकृतानि देव्या अष्टौ बहिर्गात्रविशेषतश्च एवं रणाष्टाङ्गमिदं विधाय गात्रे सवर्मण्यनुचिनतयेच्छिवाम्। लिखेल्ललाटे तिलकान्तरे नरः समस्तमन्त्राक्षरयन्त्रमुत्तमम् ततो जपेदष्टधा तु पाणिं दत्त्वाष्टधामसु च। वैष्णवीतन्त्रमन्त्रं तु ततो गच्छेद्रणाजिरम् स तु वीरो मम समः संग्रामेषु च जायते। तृणानीव परास्त्राणि जायन्तेऽग्नौ तथात्मनि विनिःसरन्ति रिपवो याचका धनिनो धनम्। सिंहाग्र्यान्नरशार्दूलो वीर्यवान् बलवान् भवेत् इदं रहस्यं कथितं कामाख्यायास्तु भैरव। वैष्णव्यास्तन्त्रमुख्येषु त्रिपुरायास्ततः शुणुः तस्यास्तु सर्वमन्त्राणि त्रयोदशयुतानि वै। विंशतिं तु सहस्राणां तत्राद्यं वाग्भवं स्मृतम् द्वितीयं कामराजाख्यं मोहनं च तृतीयकम्। आम्रेडितं वाग्भवं तु चतुर्थं परिकीर्तितम् नेत्रबीजं द्वितीयं तु द्विरुक्तं वाग्भवं तथा। आद्यं तत्पंचमं प्रोक्तं चतुर्भिरपि चाक्षरैः नेत्रबीजं द्वितीयं तु प्रथमं परिकीर्तितम्। द्वितीयं कामबीजं तु तृतीयं वाग्भवं तथा एभिस्त्रिभिस्तु यन्मन्त्रं तत् षष्ठं परिकीर्तितम्। नेत्रबीजं द्वितीयं तु वाग्भवं तेन सप्तमम् तदेवं वाग्भवाद्यं तु अष्टमं परिकीर्तितम्। वाग्भवं कामबीजं तु नेत्राभ्यां नवमं स्मृतम् कामबीजं तथैवाद्यं दशमं चैव मोहनम्। एकादशमिदं प्रोक्तं डामराद्यं तु वाग्भवम् द्वादशं कीर्तितं मन्त्रं शेषतस्त्रैपुरं महः। तन्महस्त्रैपुरं मन्त्रं शृणुष्वैकमनास्त्विदम् प्रान्तादिस्तस्य चाप्यादिर्वह्निर्वाग्भवसन्धितः। आद्यं त्रिपुरभैरव्या बीजमाद्यं प्रकीर्तितम् उपान्तश्च तदादिश्च वह्निशेषस्वरस्तथा। चतुर्थस्वरबिन्द्विन्दुयुताश्चैतत् द्वितीयकम् उपान्तश्च तदादिश्च वह्निशेषस्वरस्तथा। एतत् तत्त्वं विजानाति यो नरो भुवि भूमणिः। सिद्दविद्याधरेभ्यस्तु सोऽधिकस्तत्समो भवेत् एते त्रयोदश प्रोक्ता मन्त्रा मन्त्रेषु चोज्ज्वलाः। विंशतेस्तु सहस्रेभ्यः पराश्चैते प्रकीर्तिताः विंशतेस्तु सहस्राणामाद्यमेतत् प्रकीर्तितम्। त्रिपुरायास्तु बालाया मन्त्रं तच्छृणु भैरव वाग्भवं कामराजस्तु उपान्तादिः सबिन्दुकः। एषा तु त्रिपुरा बाला मध्या प्रोक्ता पुरैव हि। शेषा तेजस्विनी प्रोक्ता येयं त्रिपुरभैरवी मध्यायाः पूजनं प्रोक्तं बालायाः शृणु साम्प्रतम्। तथा त्रिपुरभैरव्याः सर्वसिद्धिप्रदायकम् विभिद्य शक्त्या शम्भुं तु शक्तिं चापि विभेदयेत्। शम्भवे वर्णषट्कोणं केशरं तत्र संलिखेत् मध्यायास्त्रिपुरायास्तु यादृशे द्वारमण्डले। तादृशेऽत्रापि कर्तव्यं कोणेषु लिखितं तथा पापोत्सारणकर्माणि भूम्यादीनां विशोधनम्। पूर्वमुत्तरतन्त्रोक्तं त्रिपुरापीठभाषितम् कामाख्यापूजने प्रोक्तं सर्वं कुर्यात् तु साधकः। दहनप्लवनादीनि प्रतिपत्तिं च पात्रके सर्वं तु पूर्ववत् कार्यं कामाखयापूजने यथा। कृत्वाऽत्र देहन्यासं तु मन्त्रवर्णैस्तथाक्षरैः सर्वैः स्वरैस्तथा काद्यैस्ततो रूपं विचिन्तयेत्। चतुर्भुजां रक्तवर्णां रक्तवस्त्रविभूषिताम् दक्षिणोर्ध्वे स्रजं चाधो बिभ्रतीं पुस्तकोत्तमम्। अभयं वामहस्ताभ्यां वरं च दधतीं तथा सहस्रसूर्यसंकाशां त्रिनेत्रां गजगामिनीम्। पीनतुङ्गस्तनयुगं सितप्रेतासनस्थिताम् स्मितप्रसन्नवदनां सर्वालंकारसंयुताम्। तिसृभिर्मुण्डमालाभिः शिरोवक्षः कटीषु चे त्रिगुणां त्रिगुणीभूतैः प्रत्येकम परिभूषिताम्। मदिराघूर्णनयानां रक्तदन्ततच्छदद्वयाम् चिन्तयेद् वरदां देवीमेवं त्रिपुरभैरवीम्। बालायास्त्रिपुरायास्तु रूपं पूर्वं प्रपूजने उक्तः क्रमः पीठयोगे तन्त्रादि शृणु भैरव। पुष्पबाणांस्तु पाशं च धत्ते पौष्पं शरासनम् पाशं च कुणपारूढा सा बाला त्रिपुरा स्मृता। मन्मथे त्रिपुरे देवीं विद्यहे पदमादितः कामेश्वरीं धीमहि त्वां तन्नः क्लिन्ने प्रचोदयात्। एषा त्रिपुरगायत्रीत्यावाहनविशेषतः स्नानाद्यैः पूजयेत् सम्यग् बालामन्यां च भैरवीम्। अस्याः क्रमे विशेषो यो न्यासे चोत्तरकर्मणि तत्सर्वं सह मन्त्रैघैः शृणु वेताल भैरव। ब्राह्मे मुहूर्ते उत्थाय चिन्तयेत् परमं गुरुम् ततोऽनु स्वगुरुं शुद्धं ततस्त्रिपुरभैरवीम्। चतुर्भुजां शुक्लवर्णां वरदाभयपुस्तकाम् अक्षमालां च क्रमतो धत्ते वामे च दक्षिणे। सुवर्णरत्नखचिते संस्थितां प्रवरासने सौवर्णमुत्तरीयं तु धत्ते सौवर्णकुण्ले। स्वगुरुं वर्णतो ध्यानात् तथैव परिचिन्यते भैरवीं चिन्तयित्वा तु तत उत्थाय चाचरेत्। मैत्रमाचमनं चैव दन्तानां शोधनं तथा प्रातःस्नानं ततः कुर्यात् त्रैपुरं योजयन् क्रमम्। सर्वत्र देवीमन्त्रेषु वैदिकेष्वपि भैरवीम् त्रिपुरां चिन्तयेन्नित्यं देवमन्त्रेषु च क्रमात्। त्रिभिस्तु त्रिपुराबीजैस्त्रिधा मज्जनमाचरेत् देवानामपि सर्वेषु भैरवेषु पदं सदा। कुर्याद् विशेषणं नित्यं नोच्चार्यं निर्विशेषणम् आपः पुनन्तु पृथिवीमुक्त्वा त्रिपुरभैरवीम्। कुर्यादाचमनं विप्रो द्रुपदायां तथाचरेत् इदं विष्णुर्भैरवस्तु विचक्रम इतीरितम्। मृदालम्भनकृत्येषु नित्यमेवाप्युदीरयेत् गायत्रीं त्रिपुराद्यां तु भैरवीमाह्वयेच्छिवाम्। मार्तण्डभैरवायेति सूर्यायार्घ्यं निवेदयेत् उद्त्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यं शेषे भैरवमीरयेत् तर्पणादौ प्रयुंजीत तृप्यतां ब्रह्मभैरवः। आवाहने स्वयं पितृन् भैरवानिति कीर्तयेत् तृप्यतां भैरवीमातः पितर्भैरव तृप्यताम्। आदौ च त्रिपुरापूर्वं तर्पणेऽपि प्रयोजयेत् ज्योतिष्टोमाश्वमेधादौ यत्र यं यं प्रपूजयेत्। तत्र भैरवरूपेण देवीमपि च भैरवीम् मदिरापात्रमालोक्य रक्तवस्त्रां स्त्रियं तथा। शिरो नरस्य दृष्ट्वा तु भैरवीं चिन्तयेद् द्विजः स्त्रियो दृष्ट्वा ह्यथैकत्र युवतीः सुमनोहराः। ताभ्यस्त्रिपुरभैरव्याः प्रीतये वन्दनादिकम् दद्याद् भक्त्या तु मनसा चिन्तयन्नथ भैरवीम्। भैरवीं प्रतिगृह्णामि भैरवोऽहं प्रतिग्रही कन्यायां भावयेद् धीमांस्त्रिपुरायाः प्रपूजकः। भैरवाय ददाम्यद्य देवीं त्रिपुरभैरवीम् इतीरयेत् प्रदानं तु कन्यायास्त्रिपुरां ततः। तस्याः पूजोपकरणपात्रादि नान्यपूजने आसवाद्यं च सततं नोपयोज्यं कदाचन। सकृत् तु दापयेदन्यैर्मदिरां साधको द्विजः शूद्रादयस्तु सततं ददयुरासवमुत्तमम्। एवं तु वामभावेन यजेत् त्रिपुरभैरवीम् बालां तु वामदाक्षिण्यमार्गाभ्यामपि पूजयेत्। श्मशानभैरवीं देवीमुग्रतारां तथैव च उच्चिष्टभैरवीं जण्डीं तथा त्रिपुरभैरवीम्। एतास्तु वामभावेन पूज्या दक्षिणतां विना ऋषीन् देवान् पितृश्चैव मनुष्यान् भुतसञ्चयान्। यजेत् पंचभिर्यज्ञैर्ऋणानि परिशोधयेत् विधिवत् स्नानदानाभ्यां कुर्वन् यद्विधिपूजनम्। क्रियते सरहस्यं तु तद्दाक्षिण्यमिहोच्यते सर्वे च पितृदेवादौ यस्माद् भवति दक्षिणः। देवी च दक्षिणा यस्मात् तस्माद् दक्षिण उच्यते या पुनः पूज्यमाना तु देवादीनां च पूर्वतः। यज्ञभागं स्वयं धत्ते सावामा तु प्रकीर्तिता पूजकोऽपि भवेद् वामस्तत्रैव सततं सुत। पंचयज्ञान् न वा कुर्याद् यद् वाम्यप्रपूजने अन्यस्य पूजाभागं हि यतो गृह्णाति वापिका। यत्पूजयेद्वामभावैर्न तत् स्यादृणशोधनम् पितृदेवनरादीनां जायते च कदाचन। सोऽभ्यस्य त्रिपुरायोगं तेन योगेन संयुतः जायते यदि सुप्राज्ञस्तदा मोक्षमवाप्नुयात्। स च मोक्षश्चिरेणैव जायतेऽत्र पुनः पुनः ऋणाशोधनजैः पापैराक्रान्तश्चैव भैरव। इह लोके सुखश्वैर्ययुक्तः सर्वत्र वल्लभः मदनोमकान्तेन शरीरेम विराजता। सराष्ट्रकं च राजानं वशीकृत्य समन्ततः मोहयन् वनिताः सर्वाः सर्वाश्च मदविह्वलाः। सिंहान् व्याघ्रान् स्तरक्षूंश्च भतप्रेतपिशाचकान् वशीकुर्वन् विचरति वायुवेगोद्यतस्ततः। बालां वा त्रिपुरां देवीं मध्यां वाप्यथ भैरवीम् यो यजेत् परया भक्त्या यश्च बाणोपमाकृतिः। कामेश्वरीं तु माकाक्यां पूजयेत् तु यथेच्छया दाक्षिण्याद् वामभावाद् वा सर्वथा सिद्धिमाप्नुयात्। महामायां शारदां च शैलपुत्रीं तथैव च यथा यथा प्रकारेम दाक्षिण्यादेव पूजयेत्। यो दाक्षिण्यं विना भावं महामायां समर्चति स पापः स्वर्गलोकेभ्यश्च्युतो भवति रोगधृक्। अन्यास्तु शिवदूत्याद्या देव्यो याः पूर्वमीरिताः तास्तु वां पान्तु दाक्षिण्यात् पूजितव्यास्तु साधकैः। किन्तु यः पजको वामः सोऽन्यासां परिवर्जितः सर्वासां पूजकः स्यात् तु दक्षिणस्तेन उत्तमः। अथ त्रिपुरभैरव्या न्यासं च शृणु भैरव येन वै न्यासमात्रेण देववज्जायते नरः। भैरवीतन्त्रमन्त्रस्य ऋषिर्दक्षिम उच्यते छन्दः पंक्तिः समाख्याता देवी त्रिपुरभैरवी। कामार्थयोः साधने च विनियोगः प्रकीर्तितः हकारं विन्यसेन्नाभौ सकारं वस्तितो न्यसेत्। वकारं शेफे विन्यस्य एकारं च गुदे तथा पुनरूर्वोस्तथैवाद्यं जानुयुग्मे द्वितीयकम्। तृतीयं जङ्घयोर्न्यस्य चतुर्थ पादयोर्न्यसेत् त्रिवुधं विन्यसेद् देवं नाभ्यादेः पादसङ्गतम्। द्वितीयस्य तु बीजस्य आद्यं तृतीयं ह्यद्येव विन्यसेत् वामे स्तने द्वीतीयं तु तृतीयं दक्षिम स्तने। चतुर्थमुदरे न्यस्य पंचमं पार्श्वयोर्न्यसेत् षष्ठं नाभौ परिन्यस्य न्यसेच्चापि त्रिधा त्रिधा। तृतीयस्य तु बीजस्य मूर्ध्नि चाद्यं तु विन्यसेत् द्वितीयं न्यस्य केशान्ते तृतीयं वदने न्यसेत्। चतुर्थं हृदये न्यस्य यथा स्यात् तु त्रिधा त्रिधा आद्याद्यं दक्षिणाङ्गुष्ठे द्वितीयं तर्जनीं पुनः। तृतीयं च मध्यमायामनामायां चतुर्थकम् द्वितीयाद्यं कनिष्ठायां वामाङ्गुष्ठे द्वितीयकम्। तृतीयं वामतर्जन्यां चतुर्थं मध्यमातनौ आनामायां पंचमं तु षष्ठं शेषे तु विन्यसेत्। एवं त्रिधा तु विन्यस्य द्वितीयमथ बीजकम् उभयोर्हस्तयोः कृत्वा अङ्गुष्ठाद्यं युगं युगम्। तृतीयं बीजवर्णांस्तु विन्यसेत् क्रमतो बुधः पिण्डितं सर्वबीजं तु विन्यसेत् तु कनिष्ठयोः। आद्य तु तलयोर्न्यस्य पृष्ठयोश्च द्वितीयकम् तालत्रयं ततो दत्त्वा तृतीयेन तु वेष्टनम्। कर्णयोश्चिबुके गण्डे मुखे दृङ्नासयोस्तथा स्कन्धयोश्च कफोणौ च जठरे शिश्नमूर्धनि। पादयोः पार्श्वयोश्चैव हृदये स्तनयुग्मके कण्ठदेशे च न्यस्तव्या मन्त्रवर्णक्रमात् पुनः। लिङ्गे रत्यै नम इति वाग्भवाद्येन विन्यसेत् ॐ क्लीं प्रीत्यै नम इति हृदये विन्यसेत् ततः। मनोभवायेति ततो भ्रुवोर्मध्ये तृतीयकम् विन्यसेत् त्रिपुराबीजं सद्यो देवत्वसिद्धये। ॐ ईं ईशानरूपाय ततो मनोभवाय वै नम इत्यन्ततः प्रोक्तो मूर्ध्नीशानं न्यसेत् पुनः। वक्त्रे तत्पुरुषं चापि बीजेन मकरध्वजम् हृदये घोरकन्दर्पमाद्यबीजेन वै न्यसेत्। शिश्ने वा वामदेवं तु मन्मथं चापि विन्यसेत् सद्योजातं पादद्वये कामदेवं च विन्यसेत्। ॐकारं च हकारं च रेफमेकत्र सन्धितम् प्रान्तस्वरं वाग्भवाद्यं स्वरैर्ह्रस्वैस्तु पञ्चभिः। एभिस्तु पञ्चभिर्मन्त्रैरीशनादीनि विन्यसेत् वक्त्राणि पूर्वमुक्तानि स्वमुखोर्ध्वे तु पूर्वतः। दक्षिणोत्तरयोः पश्चात् पश्चिमे चापि विन्यसेत् हृदयादिषडङ्गानि दीर्घैराद्यस्वरैः पुनः। न्यसेत् ततः प्ञबाणान् मूर्धादिष्वथ विन्यसेत् ॐ ह्रीं क्लीं सौं द्रावणाय न्यसेन्यमूर्ध्नि ततः पुनः। ॐ ह्रीं क्षोभणबाणाय पद्भ्यां नम इतीरयेत् ॐ क्लीं क्लीं ह्रीं समाप्यन्तु षट्कारान्तार्धचन्द्रकैः। वक्त्रेवशीकृतं लिङ्गे सम्मोहनमथो न्यसेत् आकर्षणं तथा बाणं हृदि मन्त्रैः क्रमान्न्यसेत्। वाग्भवाद्यन्तकारान्तो वषट्कारसमन्वितः त्रिःशेषस्वर एवात्र चन्द्रार्धो बिन्दुसंयुतः। एभिस्तु पञ्चभिर्मन्त्रैरष्टशक्तीः क्रमादिमाः एतेषु चाष्टस्थानेषु विन्यसेन्मन्त्रवित् पुनः। सुभगां च भगां देवीं तृतीयां भगरूपिणीम् भगमालां चतुर्थीं तु अनङ्गकुसुमां ततः। अनङ्गमेखलां पश्चादनङ्गमदनां तथा अष्टमीं च तथा देवीं मदविभ्रममन्थराम्। रूपतो ध्यानतश्चैता यथा त्रिपुरभैरवी ललाटभ्रूमध्यभागमुखर्णान्तकण्ठके। हृन्नाभिलिंगेष्वेवात्र न्यस्तव्या अष्टशक्तयः शिरोललाटभ्रूयुग्मकर्णनेत्रद्वयेषु च। गण्डयोरथ नासायां दन्तवीथ्यां मुखे तथा चतुर्दशपदेष्वेषु न्यसेच्चतुर्दशस्वरान्। चिबुके त्वथ ग्रीवायां कण्ठेदेशे तु पार्श्वयोः स्तनयोः कक्षयोश्चापि कफोण्योर्हस्तयोस्तथा। तत् पृष्ठयोस्तथा नाभौ लिङ्गे चोरुद्वये तथा अष्ठीवतोर्जङ्घयोस्तु स्फिचोस्तु पदमूलयोः। चरणाङ्गुष्ठयोः कादिमात्रान् वर्णास्तु विन्यसेत् मेखलायां कण्ठदेश बाहुभूषणभागतः। हारे स्रजि कुण्डले च केशबन्धे तथैव च चूडामणौ च न्यस्तव्या यकाराद्याः क्रमात्पुनः। मन्त्राक्षराणि त्रीण्येव सन्धितानि पुनस्तथा प्रातिलोम्येन विन्यस्य मन्त्रैमूर्ध्नि त्रिधा त्रिधा। अमृतां योगिनीं विश्वयोगिनीं चाक्षरक्रमात् ततो बीजत्र्यक्षराणि मूर्ध्नि बाहौ तथा हृदि। विन्यस्य पूर्ववत् पूजामारभेन्मन्त्रविद् बुधः पूर्ववत् पूजयेद् देवीं पीठदेवविवर्जिताम्। विशेषतो ह्यष्टशक्ती, क्रमात् तु सुवभगादिकाः मण्डलस्याष्टदिग्भागे पूर्वादौ परिचिन्तयेत्। त्रिकोणाग्रेऽमृताद्यास्तु सम्पूज्यास्तु त्रिनोनयः मध्येऽष्टभूषणान्येव पूजयेत् तु ततः पुनः। ईशानादीनि वक्त्राणि मम भैरव मध्यतः पूजयेत् तु तथा तत्र मनोभवमुखानपि। अन्यच्च पूजने तत्र क्रमः पूर्वोदितश्च यः स एव सततं ग्राह्यः त्रिपुरापरिपूजने। निर्माल्यधारिणी देवी चैतस्याः शुणु भैरवी विसर्जनं चोत्तरस्यां त्यक्त्वा निर्माल्यमाचरेत्। त्रिमूर्ति पूजयेत् तां तु देवीं त्रिपुरभैरवीम् न जपेत् त्रिंशता न्यूनं साधकस्तु कदाचन। अङ्गुष्ठमध्यमानामाङ्गुलीभिस्तसृभिः पुनः। सदा पुष्पादिकं दद्यान्मालां तु त्रिगुणां चरेत् चर्मासनमधिष्ठाय पश्चात् कृत्वा पदद्वयम् पूजयेन्निर्जने देशे साधकोऽनन्यमानसः। आसादयेत् तु पुष्पादि नैबेद्यादि च यद् भवेत्। तद् वामहस्तमुख्येन सततं साधको बुधः त्रिच्छिद्रा त्रिपुरा प्रोक्ता न सम्यक्पूजिता यदि शरीरे निन्दितो व्याधिर्जायतेऽवश्यमेव हि। अवश्याः पुत्रदाराश्च भृत्याद्याश्च भवन्ति हि अस्त्राघातो भवेत् स्वस्य प्राणत्यागो न संशयः। त्रिच्छिद्रदायिनी चैवमन्यथा पूजिता यदि इतः प्रकारां सततं सम्यग् वेताल भैरव। एषा च त्रिपुरादेवी याश्चान्याः पूर्वभाषिताः सर्वास्तु माया भैरव्या योगनिद्रा जगत्प्रसूः। तस्याः प्रपंचरूपैस्तु बहुभिः सैव क्रीडति महामाया मूलभूता ततस्तु शारदा पुरा। उमा ततः शैलपुत्री मत्प्रियायास्ततस्त्विमाः उग्रचण्डा प्रचण्डाद्यास्त्रिषुराद्यास्तथैव च। तासां चापि सदैवाहं महाभैरवरूपधृक् नायकः सुतरां ताभिर्नित्यं नित्यं वसेद् बुधः। मम भैरवरूपस्य मन्त्रः पूर्वं मयोदितः रूपं चोक्तं पूजनेषु त्रिपुरायाः क्रमः स्मृतः। महाभैरवं विद्महे कालरुद्राय धीमहि तन्नः कामो भैरवस्तु क्लेदिन् नित्यं प्रचोदयात्। एषा भैरवरूपस्य गायत्री मे प्रतिष्ठिता यथेष्ठमांसमद्यादि भोजनार्थं मया धृतः। महाभैरवकायोऽयं तथा स्त्रीरतिसङ्गमे अयं तु वाम्यभावेन पूज्यो मद्यादिभिः सदा। वामः कायो ब्रह्मणोऽपि मांसमद्यादिभुक्तये कृतो महामोहनामा चार्वाकादिप्रवर्तकः। विष्णोर्वामात्मिका मूर्तिर्नरसिंहाह्वया भवेत् सा तु दाक्षिण्यवामाभ्यां पूजनीया सदा बुधैः। तथैव बालगोपालमूर्तिर्जरायुवेष्टिता मद्यमांसाशनो भोगी लोलुपः स्त्रीषु सर्वदा। वह्व्यस्तु चण्डिकादेव्याः वामिका मूर्तयः स्मृताः लक्ष्म्यास्तु वामिकामूर्तिरुक्ता दहनभैरवी। याग्निदाहं पुरग्राममन्दिरेष्वकरोदियम्। अपूजिता महालक्ष्मीर्देहल्यां तां तु पूजयेत् वाग्भैरवी सरस्वत्या वामिकामूर्तिरीरिता तस्या मन्त्रं पुरा प्रोक्तं शुक्लवर्णा तु सा स्मृता। मध्यायास्त्रिपुरायास्तु रूपं ध्यानमिहोच्यते पूजाक्रमस्तथैवोक्तः सर्वत्रैव तु भैरव। मार्तण्डभैरवो नाम मूर्तिः सूर्यस्य कीर्तिता गणेशस्याग्निवेतालः कथितो वामनामकः। एते वाम्येन भावेन पूजनीया विशेषतः त्रिधाद्यस्तु यथापूर्वं नमयैर्रलवैस्तथा। वान्तैर्द्विरेफैः सर्वत्र यथा कृत्वा तथा तथा अनुस्वारविसर्गाभ्यां प्राक्शेषौ परिकीर्तितौ। मध्ये तु केवलाः पूर्वं सानुस्वारविसृष्टिभिः पश्चाद् द्वित्रिक्रमाद् यस्तु वर्णैरेकेन चैव हि। व्यस्तैः समस्तैरपि च दकारादिषु संयुतैः आद्यायास्त्रिपुरायास्तु मन्त्रवद् योजितैस्तथा। तथा त्रिपुरभैरव्या मन्त्रवच्चाक्षरैरपि त्रिश्चतुर्दशभिः कृत्वा डादींस्त्रींस्तु विशारयेत्। द्वितीयं द्विगुणं कृत्वा शेषेऽत्रादौ च योजयेत् विंशतिस्तु सहस्राणि शेषे चापि त्रयोदश। आद्यमाद्यं ततः प्रोक्तं वाग्भवाद्यं तृतीयकम् एवं च परमप्येतन्मन्त्राणां च चतुष्टयम्। एतज्ज्ञात्वा नरः कामानखिलान् प्राप्य सङ्गतः मृते देवीपुरं याति क्रमादेव तु भैरव। यः सकृत् तु जपेदेतत् सकलं मन्त्रसञ्चयम् प्रथमं कामतो न्यस्य साधकस्तु त्रिभिर्दिनैः। चिन्तयन्मनसा देवीं सम्यक् त्रिपुरभैरवीम् स कामानखिलान् प्राप्य स्वरूपे मदनोपमः। धार्मिको नृपतिर्भूयाद् ब्राह्मणो द्विजराड् भवेत् अवाधितशरीरस्तु पिशाचाद्यैः सदैव हि। नीरोगश्च चिरायुश्च वलवानपि जायते एवं त्रिपुरभैरव्या मया प्रोक्तस्त्वयं क्रमः। वैष्णव्यास्तु महादेव्याः सहस्रामि तु षोडश शृणु भैरव मन्त्राणि शिवैकाग्रमनाः पुनः। अष्टोत्तरसहस्रं तु चतुःषष्टिस्तथा त्रयः मन्त्राः प्रोक्ता महादेव्या मूर्तिभेदेन ताः पुनः। अनुस्वारविसर्गाभ्यां द्विगुणास्ते पुनः समाः कादिव्यञ्जनसंयोगादूर्ध्वाधो व्यस्तभावतः। द्वाभ्यां त्रिभिश्च सततमुद्धरेन्मन्त्रवित् पुनः अष्टावष्टौ ततः कृत्वा समस्तव्यस्तसंयुतैः। विस्वरैः सस्वरैश्चापि सानुस्वारविसर्गकैः केवलैरपि तत्रैव द्वियस्तैरन्तरैस्तथा। एवमष्टोत्तरं यावत् संयोगयोगभावतः देव्यास्तु षट्सहस्राणि सहस्राणि तथा दश। मन्त्रास्तु संख्यया ख्याताः क्रमाद् वेताल भैरव समस्तव्यस्तरूपेम वैष्णव्या ये मयोदिताः। ताञ् ज्ञात्वा मानवो याति ममैव सदनं प्रति अष्टम्यां च नवम्यां च सहस्राणि तु षोडश। यो जपेन्मन्त्रबीजानि सकृदेव तु भैरव ध्यायंस्तु वैष्णवीं मूर्तिं तदेकाग्रमनाः शृणु। नरराजो भवेद् भूमौ पण्डितश्चातिहर्षितः। चिरायुः सुखभोघी स्यादुद्रिक्तो बलवाहनैः तान्येव चाष्टधा जप्त्वा सार्वभौमो नृपो भवेत्। गणाध्यक्षो मृते स स्यात् ततो मुक्तिमवाप्नुयात् इति सकलगुणौघैरस्तदोषस्तु नित्यं भवति कलुषहन्ता श्रीविवृद्ध्यै सुमन्त्रः। सततमखिलवेत्ता यो भवेदेतयोस्तु स च भवति जितारी रोगशोकप्रमुक्तः

|| catuḥsaptatitamo'dhyāyaḥ || ||śrībhagavānuvāca|| yā yonimudrā kathitā mudrāvibhajane purā| aṣṭadhā yonimudrā syāt prathamā sā tu kīrtitā dvitīyā khecarī mudrā kāmākhyāyāstu bhairava| tāṃ viddhi cādbhutaṃ guhyaṃ yena tuṣyati caṇḍikā anāmikāṃ dakṣimasya tarjanyāṃ vāmato nyaset| vāmānāmāṃ dakṣiṇasya tarjanyāṃ viniveśayet te dve tathā tarjanībhyāṃ veṣṭayedagrato'grataḥ| madhye dvayaṃ tu vinyasya cordhvabhāge tvanāmayoḥ tadagrāgreṇa saṃyogāt tathaiva ca kaniṣṭhike| agreṇaiva ca saṃyukte tanmūle'ṅguṣṭhake nyaset iyaṃ te khecarī yoniryonimudrā tu kāmadā| eṣaivādhaḥ kaniṣṭhe dve niyojya yadi yujyate guhyayonistu sā khyātā kāmeśvaryāstu tuṣṭidā| saṃveṣṭya pūrvavat pāṇyordve kaniṣṭhe tvanāmike adhobhāge niyojyātha madhyame cordhvatastathā| tāsāṃ parasparaścāgrairanyo'nyaṃ yojayed yadi madhyāṃ madhye tathāṅguṣṭhe niḥkṣipyāgre niyojayet| yonistriśāṅkarī proktā tripurā tuṣṭidā sadā madhye dve ca tathā veṣṭyā pūrvavaccāpyanāmikā| kaniṣṭhābhyāṃ puro nyasya aṅguṣṭhau mūlayostayoḥ mudreyaṃ śāradī proktā śāradāyāstu tuṣṭidā| mūlayonistu kathitā vaiṣmavītantragocare tarjanyanāmikaṃ madhye kaniṣṭhe'pi kramādapi| karayoryojayitvaiva kaniṣṭhāmūladeśataḥ aṅguṣṭhāgraṃ tu niḥkṣipya mahāyoniḥ prakīrtitā| aṅguṣṭhau cātha saṃveṣṭhya saṃyujyātha karāṅgulīḥ agrabhāgairmadhyaśūnyaṃ tatra kuryāt karadvayam| iyaṃ tu yoginīyoniryoginīnāṃ priyaṃkarī etā aṣṭau samākhyātā yonyaḥ kāmeśvarīpriyāḥ| mūrtibhedena cānyeṣāṃ devānāmapi tuṣṭidāḥ yātrāyāṃ yuddhaviṣaye vāgvāde kalahe tathā| aṣṭau yonyaḥ smared yastu jayastasya sanātanaḥ visarjane pūjane ca smaraṇe karmabhedataḥ| etā yonyaḥ samākhyātāścaṇḍikāpūjaneṣu ca etāstu kathitā yonyaḥ kramāt kramavisarjane| rahasyaṃ vāmadākṣiṇyaṃ mantraśuddhiṃ śṛṇuṣva me mantreṇa kriyate yat tu śārīraṃ mantramuttamam| tadrahasyamiti prāhurmantreṣu mantrakovidāḥ kāmākhyāyāstu ṣaṭkoṇaṃ maṇḍalasya dalāntare| tridhā likhenmūlamantramūrdhvaṃ triṣvapi sandhiṣu adhastrisandhiṣu punarvidhiṃ śakraṃ haraṃ tathā| sahitaṃ madanenaiva likhed bhūrjatvaci tridhā tantumādāya sāhasraṃ dakṣiṇena kareṇa vai| mālāmapi sāmādāya saṃjapuduttarāmukhaḥ tadbhuje dakṣiṇe dhāryaṃ bāhau vā sādhakottamaiḥ| japānte likhitaṃ yantraṃ tena sarvajayī bhavet dīrghāyuḥ sarvavaśakṛddhanadhānyasamṛddhimān| mṛto devīgṛhe yāti yantrayantritabuddhimān ṣaṭkoṇānantarakṛtaṃ veṣṭitāṣṭadaleṣvatha| likhitvā bhūrjapatreṣu vilīnairyāvakodakaiḥ uttarādikrameṇaiva vaiṣṇavītantrasaṅgatān| aṣṭau varṇānmadhyabāge pūrvavat kāmarājakam trīn varṇān netrabījasya trikoṇasyāgrato likhet| evaṃ tridhākṛtaṃ yantraṃ kṛtvā vāmakare sthitaḥ japet trīṇi sahasrāṇi mālāmādāya dakṣiṇe| japānte vaiṣṇavīrūpadhyānaṃ kuryādatandritaḥ prāṇāyāmasahasraṃ tu tatastaṃ likhitottamam| grīvāyāṃ dhārayed yantraṃ tena sarvajayī bhavet rājaputro bhavedrājā tadanyaḥ sacivo bhavet| dvijarājo bhaved vidvān kavirvāgmī ca vā bhavet rākṣasebhyaḥ piśācebhyo bhūtebhyaścāpi cānyataḥ| sādhu saṃvidyate tasya na kadācit parājayaḥ dīrghāyurbalavān prājño mṛte mokṣamavāpnuyāt| sampūrṇaṃ maṇḍalaṃ kṛtvā aṣṭapatrasamanvitam bhūrjatvaci śrīphalasya niryāsaistasya madhyataḥ| ṣaṭkoṇaṃ vilikhet tasya prāgagreṣvatha triṣvapi vilikhet tripurāvarmānadho bījaṃ tu netrakam| daleṣvaṣṭāsu tu punarvaiṣṇavītantrasaṅgatān aṣṭau varṇāstu vilikhet tathā dvārṣu catuṣvaipi| ṣaṭkoṇeṣūttarākoṇakrameṇaikāgramānasaḥ taddhṛtvā dakṣiṇakare vaiṣṇavītantramantrakam| japet trirbhirdinairevāyutaṃ saṃyatamānasaḥ prāṇāyāmasahasrāṇi trīṇi kṛtvā tu harṣitaḥ| sandhyākāle navamyāṃ tu śīrṣeṇa dhārayed budhaḥ śatāyuḥ sarvadamano matimān paṇḍitottamaḥ| balavīryadhanaiśvaryuktaḥ pārthiva eva vā pratyakṣato mahāmāyāṃ kāmākhyāṃ tripurāmapi| nityaṃ paśyati medhāvī mahocchavāsāṃ ca śāradām siṃhavyāghrau bhujaṅgo vā ye'nye vā tasya hiṃsakāḥ| sarve tasya tanuṃ prāpya viṣīdanti na saṃśayaḥ jayaheturato'nyasmāt saṃgrāme śāstravādataḥ| na vidyate tribhuvane tasmāt kuryāt tu yantrakam ante devīgṛhaṃ prāpya tato mokṣamavāpnuyāt| mahāmāyā śāradākhyā kāmākhyā tripurā tathā mahotsāhā tathaiteṣāṃ mantrāṇāṃ yo gaṇo bhavet| maṇḍalaṃ cāṣṭadalakaṃ tanmadhye vilikhet punaḥ likhitvā pūrvavat pūrvaṃ proktaṃ mantragaṇaṃ samam| anyadvayaṃ dvāradeśe koṣṭheṣvakṣarato likhet śuklakauśaiyavastreṣu rasairvahniśikhasya tu| uttarīyaṃ tu tadvastraṃ kṛtvā japyaṃ samācaret kṛtopavāsaḥ śuddhaśca mātṛkānyāsapūrvakam| pañcānāmapi vargāṇāṃ sahasrāṇi tu paṃca vai divasaiḥ pañcabhirjaptvā tadante ca samācaret| prāṇāyāmasahasrāṇi paṃca vai paṃcabhirdinaiḥ ante tu kavacanyāsaṃ kātyāyanyāḥ samācaret| tatastu mātṛkāmantraiḥ śvāsarodhanapūrvakam triḥ pibet kapilākṣīraṃ jāgṛvāṃśca tadā niśi| evaṃ yaḥ kurute yantraṃ śarīre śuklavāsasā so'tra siddhimavāpnoti devīlokaṃ ca gacchati| ya uttarīyaṃ bibhṛyād vastraṃ mantreṇa mantritam nityameva mahābhāga prabhāvaṃ tasya vai śṛṇu| na tasya dehe śastrāṇi pravekṣyanti kadācana nāgnirdahati tatkāyaṃ nāpaḥ saṃkledayanti ca| rākṣasāśca piśācāśca bhūtādyā ye tu hiṃsakāḥ te taṃ dṛṣṭvā mahābhāgaṃ bhuvaṃ gacchanti vai bhiyā| gacchedavāritaḥ so'pi sarvatra sādhakottamaḥ vaśīkaroti devāṃśca nṛpānanyāśca yoṣitaḥ| utsahet yadi medhāvī vāgmī rājā ca vai bhavet cirajīvī mahābhāgo dhanadhānyasamṛddhimān| kaviḥ prajñāsamāyuktaḥ so'bhedyo jāyate'ribhiḥ yasmin pure sa nivased vajrapāto na tatra vai| rasaḥ śarīraṃ śastrāṇi dṛḍhahastojjhitānyapi etaṃ na ghnanti satataṃ jayaḥ sarvatra bhairava| aparādhyanti satataṃ tasya sarvatra bhairava nādhayo vyādhayastasya jāyante tu kadācana| devīputraḥ sa matimān mṛto mokṣamavāpnuyāt yantratā svāminā yantraṃ yā dadhāti pativratā| putraiśvaryamavāpnoti dīrghāyuḥ sā vadhūrbhavet pratyekamekaṃ saṃhatyāvardhanāsahitena ca| kramād viṃśatiyantrāṇi kathitāni mayeha vai tāni pratyekato buddhvā yo nyaset sarvadā hṛdi| likhitvā sarvayantrāṇi bibhṛyādyo'tha vā gale devendro jāyate so'tra prabhāveṇeha bhūtale| pūrvoktāni samastāni phalānyāpnoti tatkṣaṇāt| pihitaḥ sarvalokāṃstronnītyameva prapaśyati evaṃ sārdhaṃ yantravargaiḥ samastairaṣṭābhiryat pūrvamuktaṃ sahasram| śukle vastre saṃlikhitvā svadehe dhṛtvā nitya prāpnuyād vai samastam yaḥ kṣatrajātirhṛdaye sa kuryāt| saṃgrāmakāle kavaceṣṭadhāmni| mantrākṣarāṇyādikṛtāni devyā aṣṭau bahirgātraviśeṣataśca evaṃ raṇāṣṭāṅgamidaṃ vidhāya gātre savarmaṇyanucinatayecchivām| likhellalāṭe tilakāntare naraḥ samastamantrākṣarayantramuttamam tato japedaṣṭadhā tu pāṇiṃ dattvāṣṭadhāmasu ca| vaiṣṇavītantramantraṃ tu tato gacchedraṇājiram sa tu vīro mama samaḥ saṃgrāmeṣu ca jāyate| tṛṇānīva parāstrāṇi jāyante'gnau tathātmani viniḥsaranti ripavo yācakā dhanino dhanam| siṃhāgryānnaraśārdūlo vīryavān balavān bhavet idaṃ rahasyaṃ kathitaṃ kāmākhyāyāstu bhairava| vaiṣṇavyāstantramukhyeṣu tripurāyāstataḥ śuṇuḥ tasyāstu sarvamantrāṇi trayodaśayutāni vai| viṃśatiṃ tu sahasrāṇāṃ tatrādyaṃ vāgbhavaṃ smṛtam dvitīyaṃ kāmarājākhyaṃ mohanaṃ ca tṛtīyakam| āmreḍitaṃ vāgbhavaṃ tu caturthaṃ parikīrtitam netrabījaṃ dvitīyaṃ tu dviruktaṃ vāgbhavaṃ tathā| ādyaṃ tatpaṃcamaṃ proktaṃ caturbhirapi cākṣaraiḥ netrabījaṃ dvitīyaṃ tu prathamaṃ parikīrtitam| dvitīyaṃ kāmabījaṃ tu tṛtīyaṃ vāgbhavaṃ tathā ebhistribhistu yanmantraṃ tat ṣaṣṭhaṃ parikīrtitam| netrabījaṃ dvitīyaṃ tu vāgbhavaṃ tena saptamam tadevaṃ vāgbhavādyaṃ tu aṣṭamaṃ parikīrtitam| vāgbhavaṃ kāmabījaṃ tu netrābhyāṃ navamaṃ smṛtam kāmabījaṃ tathaivādyaṃ daśamaṃ caiva mohanam| ekādaśamidaṃ proktaṃ ḍāmarādyaṃ tu vāgbhavam dvādaśaṃ kīrtitaṃ mantraṃ śeṣatastraipuraṃ mahaḥ| tanmahastraipuraṃ mantraṃ śṛṇuṣvaikamanāstvidam prāntādistasya cāpyādirvahnirvāgbhavasandhitaḥ| ādyaṃ tripurabhairavyā bījamādyaṃ prakīrtitam upāntaśca tadādiśca vahniśeṣasvarastathā| caturthasvarabindvinduyutāścaitat dvitīyakam upāntaśca tadādiśca vahniśeṣasvarastathā| etat tattvaṃ vijānāti yo naro bhuvi bhūmaṇiḥ| siddavidyādharebhyastu so'dhikastatsamo bhavet ete trayodaśa proktā mantrā mantreṣu cojjvalāḥ| viṃśatestu sahasrebhyaḥ parāścaite prakīrtitāḥ viṃśatestu sahasrāṇāmādyametat prakīrtitam| tripurāyāstu bālāyā mantraṃ tacchṛṇu bhairava vāgbhavaṃ kāmarājastu upāntādiḥ sabindukaḥ| eṣā tu tripurā bālā madhyā proktā puraiva hi| śeṣā tejasvinī proktā yeyaṃ tripurabhairavī madhyāyāḥ pūjanaṃ proktaṃ bālāyāḥ śṛṇu sāmpratam| tathā tripurabhairavyāḥ sarvasiddhipradāyakam vibhidya śaktyā śambhuṃ tu śaktiṃ cāpi vibhedayet| śambhave varṇaṣaṭkoṇaṃ keśaraṃ tatra saṃlikhet madhyāyāstripurāyāstu yādṛśe dvāramaṇḍale| tādṛśe'trāpi kartavyaṃ koṇeṣu likhitaṃ tathā pāpotsāraṇakarmāṇi bhūmyādīnāṃ viśodhanam| pūrvamuttaratantroktaṃ tripurāpīṭhabhāṣitam kāmākhyāpūjane proktaṃ sarvaṃ kuryāt tu sādhakaḥ| dahanaplavanādīni pratipattiṃ ca pātrake sarvaṃ tu pūrvavat kāryaṃ kāmākhayāpūjane yathā| kṛtvā'tra dehanyāsaṃ tu mantravarṇaistathākṣaraiḥ sarvaiḥ svaraistathā kādyaistato rūpaṃ vicintayet| caturbhujāṃ raktavarṇāṃ raktavastravibhūṣitām dakṣiṇordhve srajaṃ cādho bibhratīṃ pustakottamam| abhayaṃ vāmahastābhyāṃ varaṃ ca dadhatīṃ tathā sahasrasūryasaṃkāśāṃ trinetrāṃ gajagāminīm| pīnatuṅgastanayugaṃ sitapretāsanasthitām smitaprasannavadanāṃ sarvālaṃkārasaṃyutām| tisṛbhirmuṇḍamālābhiḥ śirovakṣaḥ kaṭīṣu ce triguṇāṃ triguṇībhūtaiḥ pratyekama paribhūṣitām| madirāghūrṇanayānāṃ raktadantatacchadadvayām cintayed varadāṃ devīmevaṃ tripurabhairavīm| bālāyāstripurāyāstu rūpaṃ pūrvaṃ prapūjane uktaḥ kramaḥ pīṭhayoge tantrādi śṛṇu bhairava| puṣpabāṇāṃstu pāśaṃ ca dhatte pauṣpaṃ śarāsanam pāśaṃ ca kuṇapārūḍhā sā bālā tripurā smṛtā| manmathe tripure devīṃ vidyahe padamāditaḥ kāmeśvarīṃ dhīmahi tvāṃ tannaḥ klinne pracodayāt| eṣā tripuragāyatrītyāvāhanaviśeṣataḥ snānādyaiḥ pūjayet samyag bālāmanyāṃ ca bhairavīm| asyāḥ krame viśeṣo yo nyāse cottarakarmaṇi tatsarvaṃ saha mantraighaiḥ śṛṇu vetāla bhairava| brāhme muhūrte utthāya cintayet paramaṃ gurum tato'nu svaguruṃ śuddhaṃ tatastripurabhairavīm| caturbhujāṃ śuklavarṇāṃ varadābhayapustakām akṣamālāṃ ca kramato dhatte vāme ca dakṣiṇe| suvarṇaratnakhacite saṃsthitāṃ pravarāsane sauvarṇamuttarīyaṃ tu dhatte sauvarṇakuṇle| svaguruṃ varṇato dhyānāt tathaiva paricinyate bhairavīṃ cintayitvā tu tata utthāya cācaret| maitramācamanaṃ caiva dantānāṃ śodhanaṃ tathā prātaḥsnānaṃ tataḥ kuryāt traipuraṃ yojayan kramam| sarvatra devīmantreṣu vaidikeṣvapi bhairavīm tripurāṃ cintayennityaṃ devamantreṣu ca kramāt| tribhistu tripurābījaistridhā majjanamācaret devānāmapi sarveṣu bhairaveṣu padaṃ sadā| kuryād viśeṣaṇaṃ nityaṃ noccāryaṃ nirviśeṣaṇam āpaḥ punantu pṛthivīmuktvā tripurabhairavīm| kuryādācamanaṃ vipro drupadāyāṃ tathācaret idaṃ viṣṇurbhairavastu vicakrama itīritam| mṛdālambhanakṛtyeṣu nityamevāpyudīrayet gāyatrīṃ tripurādyāṃ tu bhairavīmāhvayecchivām| mārtaṇḍabhairavāyeti sūryāyārghyaṃ nivedayet udtyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ| dṛśe viśvāya sūryaṃ śeṣe bhairavamīrayet tarpaṇādau prayuṃjīta tṛpyatāṃ brahmabhairavaḥ| āvāhane svayaṃ pitṛn bhairavāniti kīrtayet tṛpyatāṃ bhairavīmātaḥ pitarbhairava tṛpyatām| ādau ca tripurāpūrvaṃ tarpaṇe'pi prayojayet jyotiṣṭomāśvamedhādau yatra yaṃ yaṃ prapūjayet| tatra bhairavarūpeṇa devīmapi ca bhairavīm madirāpātramālokya raktavastrāṃ striyaṃ tathā| śiro narasya dṛṣṭvā tu bhairavīṃ cintayed dvijaḥ striyo dṛṣṭvā hyathaikatra yuvatīḥ sumanoharāḥ| tābhyastripurabhairavyāḥ prītaye vandanādikam dadyād bhaktyā tu manasā cintayannatha bhairavīm| bhairavīṃ pratigṛhṇāmi bhairavo'haṃ pratigrahī kanyāyāṃ bhāvayed dhīmāṃstripurāyāḥ prapūjakaḥ| bhairavāya dadāmyadya devīṃ tripurabhairavīm itīrayet pradānaṃ tu kanyāyāstripurāṃ tataḥ| tasyāḥ pūjopakaraṇapātrādi nānyapūjane āsavādyaṃ ca satataṃ nopayojyaṃ kadācana| sakṛt tu dāpayedanyairmadirāṃ sādhako dvijaḥ śūdrādayastu satataṃ dadayurāsavamuttamam| evaṃ tu vāmabhāvena yajet tripurabhairavīm bālāṃ tu vāmadākṣiṇyamārgābhyāmapi pūjayet| śmaśānabhairavīṃ devīmugratārāṃ tathaiva ca ucciṣṭabhairavīṃ jaṇḍīṃ tathā tripurabhairavīm| etāstu vāmabhāvena pūjyā dakṣiṇatāṃ vinā ṛṣīn devān pitṛścaiva manuṣyān bhutasañcayān| yajet paṃcabhiryajñairṛṇāni pariśodhayet vidhivat snānadānābhyāṃ kurvan yadvidhipūjanam| kriyate sarahasyaṃ tu taddākṣiṇyamihocyate sarve ca pitṛdevādau yasmād bhavati dakṣiṇaḥ| devī ca dakṣiṇā yasmāt tasmād dakṣiṇa ucyate yā punaḥ pūjyamānā tu devādīnāṃ ca pūrvataḥ| yajñabhāgaṃ svayaṃ dhatte sāvāmā tu prakīrtitā pūjako'pi bhaved vāmastatraiva satataṃ suta| paṃcayajñān na vā kuryād yad vāmyaprapūjane anyasya pūjābhāgaṃ hi yato gṛhṇāti vāpikā| yatpūjayedvāmabhāvairna tat syādṛṇaśodhanam pitṛdevanarādīnāṃ jāyate ca kadācana| so'bhyasya tripurāyogaṃ tena yogena saṃyutaḥ jāyate yadi suprājñastadā mokṣamavāpnuyāt| sa ca mokṣaścireṇaiva jāyate'tra punaḥ punaḥ ṛṇāśodhanajaiḥ pāpairākrāntaścaiva bhairava| iha loke sukhaśvairyayuktaḥ sarvatra vallabhaḥ madanomakāntena śarīrema virājatā| sarāṣṭrakaṃ ca rājānaṃ vaśīkṛtya samantataḥ mohayan vanitāḥ sarvāḥ sarvāśca madavihvalāḥ| siṃhān vyāghrān starakṣūṃśca bhatapretapiśācakān vaśīkurvan vicarati vāyuvegodyatastataḥ| bālāṃ vā tripurāṃ devīṃ madhyāṃ vāpyatha bhairavīm yo yajet parayā bhaktyā yaśca bāṇopamākṛtiḥ| kāmeśvarīṃ tu mākākyāṃ pūjayet tu yathecchayā dākṣiṇyād vāmabhāvād vā sarvathā siddhimāpnuyāt| mahāmāyāṃ śāradāṃ ca śailaputrīṃ tathaiva ca yathā yathā prakārema dākṣiṇyādeva pūjayet| yo dākṣiṇyaṃ vinā bhāvaṃ mahāmāyāṃ samarcati sa pāpaḥ svargalokebhyaścyuto bhavati rogadhṛk| anyāstu śivadūtyādyā devyo yāḥ pūrvamīritāḥ tāstu vāṃ pāntu dākṣiṇyāt pūjitavyāstu sādhakaiḥ| kintu yaḥ pajako vāmaḥ so'nyāsāṃ parivarjitaḥ sarvāsāṃ pūjakaḥ syāt tu dakṣiṇastena uttamaḥ| atha tripurabhairavyā nyāsaṃ ca śṛṇu bhairava yena vai nyāsamātreṇa devavajjāyate naraḥ| bhairavītantramantrasya ṛṣirdakṣima ucyate chandaḥ paṃktiḥ samākhyātā devī tripurabhairavī| kāmārthayoḥ sādhane ca viniyogaḥ prakīrtitaḥ hakāraṃ vinyasennābhau sakāraṃ vastito nyaset| vakāraṃ śephe vinyasya ekāraṃ ca gude tathā punarūrvostathaivādyaṃ jānuyugme dvitīyakam| tṛtīyaṃ jaṅghayornyasya caturtha pādayornyaset trivudhaṃ vinyased devaṃ nābhyādeḥ pādasaṅgatam| dvitīyasya tu bījasya ādyaṃ tṛtīyaṃ hyadyeva vinyaset vāme stane dvītīyaṃ tu tṛtīyaṃ dakṣima stane| caturthamudare nyasya paṃcamaṃ pārśvayornyaset ṣaṣṭhaṃ nābhau parinyasya nyaseccāpi tridhā tridhā| tṛtīyasya tu bījasya mūrdhni cādyaṃ tu vinyaset dvitīyaṃ nyasya keśānte tṛtīyaṃ vadane nyaset| caturthaṃ hṛdaye nyasya yathā syāt tu tridhā tridhā ādyādyaṃ dakṣiṇāṅguṣṭhe dvitīyaṃ tarjanīṃ punaḥ| tṛtīyaṃ ca madhyamāyāmanāmāyāṃ caturthakam dvitīyādyaṃ kaniṣṭhāyāṃ vāmāṅguṣṭhe dvitīyakam| tṛtīyaṃ vāmatarjanyāṃ caturthaṃ madhyamātanau ānāmāyāṃ paṃcamaṃ tu ṣaṣṭhaṃ śeṣe tu vinyaset| evaṃ tridhā tu vinyasya dvitīyamatha bījakam ubhayorhastayoḥ kṛtvā aṅguṣṭhādyaṃ yugaṃ yugam| tṛtīyaṃ bījavarṇāṃstu vinyaset kramato budhaḥ piṇḍitaṃ sarvabījaṃ tu vinyaset tu kaniṣṭhayoḥ| ādya tu talayornyasya pṛṣṭhayośca dvitīyakam tālatrayaṃ tato dattvā tṛtīyena tu veṣṭanam| karṇayościbuke gaṇḍe mukhe dṛṅnāsayostathā skandhayośca kaphoṇau ca jaṭhare śiśnamūrdhani| pādayoḥ pārśvayoścaiva hṛdaye stanayugmake kaṇṭhadeśe ca nyastavyā mantravarṇakramāt punaḥ| liṅge ratyai nama iti vāgbhavādyena vinyaset oṃ klīṃ prītyai nama iti hṛdaye vinyaset tataḥ| manobhavāyeti tato bhruvormadhye tṛtīyakam vinyaset tripurābījaṃ sadyo devatvasiddhaye| oṃ īṃ īśānarūpāya tato manobhavāya vai nama ityantataḥ prokto mūrdhnīśānaṃ nyaset punaḥ| vaktre tatpuruṣaṃ cāpi bījena makaradhvajam hṛdaye ghorakandarpamādyabījena vai nyaset| śiśne vā vāmadevaṃ tu manmathaṃ cāpi vinyaset sadyojātaṃ pādadvaye kāmadevaṃ ca vinyaset| oṃkāraṃ ca hakāraṃ ca rephamekatra sandhitam prāntasvaraṃ vāgbhavādyaṃ svarairhrasvaistu pañcabhiḥ| ebhistu pañcabhirmantrairīśanādīni vinyaset vaktrāṇi pūrvamuktāni svamukhordhve tu pūrvataḥ| dakṣiṇottarayoḥ paścāt paścime cāpi vinyaset hṛdayādiṣaḍaṅgāni dīrghairādyasvaraiḥ punaḥ| nyaset tataḥ pñabāṇān mūrdhādiṣvatha vinyaset oṃ hrīṃ klīṃ sauṃ drāvaṇāya nyasenyamūrdhni tataḥ punaḥ| oṃ hrīṃ kṣobhaṇabāṇāya padbhyāṃ nama itīrayet oṃ klīṃ klīṃ hrīṃ samāpyantu ṣaṭkārāntārdhacandrakaiḥ| vaktrevaśīkṛtaṃ liṅge sammohanamatho nyaset ākarṣaṇaṃ tathā bāṇaṃ hṛdi mantraiḥ kramānnyaset| vāgbhavādyantakārānto vaṣaṭkārasamanvitaḥ triḥśeṣasvara evātra candrārdho bindusaṃyutaḥ| ebhistu pañcabhirmantrairaṣṭaśaktīḥ kramādimāḥ eteṣu cāṣṭasthāneṣu vinyasenmantravit punaḥ| subhagāṃ ca bhagāṃ devīṃ tṛtīyāṃ bhagarūpiṇīm bhagamālāṃ caturthīṃ tu anaṅgakusumāṃ tataḥ| anaṅgamekhalāṃ paścādanaṅgamadanāṃ tathā aṣṭamīṃ ca tathā devīṃ madavibhramamantharām| rūpato dhyānataścaitā yathā tripurabhairavī lalāṭabhrūmadhyabhāgamukharṇāntakaṇṭhake| hṛnnābhiliṃgeṣvevātra nyastavyā aṣṭaśaktayaḥ śirolalāṭabhrūyugmakarṇanetradvayeṣu ca| gaṇḍayoratha nāsāyāṃ dantavīthyāṃ mukhe tathā caturdaśapadeṣveṣu nyaseccaturdaśasvarān| cibuke tvatha grīvāyāṃ kaṇṭhedeśe tu pārśvayoḥ stanayoḥ kakṣayoścāpi kaphoṇyorhastayostathā| tat pṛṣṭhayostathā nābhau liṅge corudvaye tathā aṣṭhīvatorjaṅghayostu sphicostu padamūlayoḥ| caraṇāṅguṣṭhayoḥ kādimātrān varṇāstu vinyaset mekhalāyāṃ kaṇṭhadeśa bāhubhūṣaṇabhāgataḥ| hāre sraji kuṇḍale ca keśabandhe tathaiva ca cūḍāmaṇau ca nyastavyā yakārādyāḥ kramātpunaḥ| mantrākṣarāṇi trīṇyeva sandhitāni punastathā prātilomyena vinyasya mantraimūrdhni tridhā tridhā| amṛtāṃ yoginīṃ viśvayoginīṃ cākṣarakramāt tato bījatryakṣarāṇi mūrdhni bāhau tathā hṛdi| vinyasya pūrvavat pūjāmārabhenmantravid budhaḥ pūrvavat pūjayed devīṃ pīṭhadevavivarjitām| viśeṣato hyaṣṭaśaktī, kramāt tu suvabhagādikāḥ maṇḍalasyāṣṭadigbhāge pūrvādau paricintayet| trikoṇāgre'mṛtādyāstu sampūjyāstu trinonayaḥ madhye'ṣṭabhūṣaṇānyeva pūjayet tu tataḥ punaḥ| īśānādīni vaktrāṇi mama bhairava madhyataḥ pūjayet tu tathā tatra manobhavamukhānapi| anyacca pūjane tatra kramaḥ pūrvoditaśca yaḥ sa eva satataṃ grāhyaḥ tripurāparipūjane| nirmālyadhāriṇī devī caitasyāḥ śuṇu bhairavī visarjanaṃ cottarasyāṃ tyaktvā nirmālyamācaret| trimūrti pūjayet tāṃ tu devīṃ tripurabhairavīm na japet triṃśatā nyūnaṃ sādhakastu kadācana| aṅguṣṭhamadhyamānāmāṅgulībhistasṛbhiḥ punaḥ| sadā puṣpādikaṃ dadyānmālāṃ tu triguṇāṃ caret carmāsanamadhiṣṭhāya paścāt kṛtvā padadvayam pūjayennirjane deśe sādhako'nanyamānasaḥ| āsādayet tu puṣpādi naibedyādi ca yad bhavet| tad vāmahastamukhyena satataṃ sādhako budhaḥ tricchidrā tripurā proktā na samyakpūjitā yadi śarīre nindito vyādhirjāyate'vaśyameva hi| avaśyāḥ putradārāśca bhṛtyādyāśca bhavanti hi astrāghāto bhavet svasya prāṇatyāgo na saṃśayaḥ| tricchidradāyinī caivamanyathā pūjitā yadi itaḥ prakārāṃ satataṃ samyag vetāla bhairava| eṣā ca tripurādevī yāścānyāḥ pūrvabhāṣitāḥ sarvāstu māyā bhairavyā yoganidrā jagatprasūḥ| tasyāḥ prapaṃcarūpaistu bahubhiḥ saiva krīḍati mahāmāyā mūlabhūtā tatastu śāradā purā| umā tataḥ śailaputrī matpriyāyāstatastvimāḥ ugracaṇḍā pracaṇḍādyāstriṣurādyāstathaiva ca| tāsāṃ cāpi sadaivāhaṃ mahābhairavarūpadhṛk nāyakaḥ sutarāṃ tābhirnityaṃ nityaṃ vased budhaḥ| mama bhairavarūpasya mantraḥ pūrvaṃ mayoditaḥ rūpaṃ coktaṃ pūjaneṣu tripurāyāḥ kramaḥ smṛtaḥ| mahābhairavaṃ vidmahe kālarudrāya dhīmahi tannaḥ kāmo bhairavastu kledin nityaṃ pracodayāt| eṣā bhairavarūpasya gāyatrī me pratiṣṭhitā yatheṣṭhamāṃsamadyādi bhojanārthaṃ mayā dhṛtaḥ| mahābhairavakāyo'yaṃ tathā strīratisaṅgame ayaṃ tu vāmyabhāvena pūjyo madyādibhiḥ sadā| vāmaḥ kāyo brahmaṇo'pi māṃsamadyādibhuktaye kṛto mahāmohanāmā cārvākādipravartakaḥ| viṣṇorvāmātmikā mūrtirnarasiṃhāhvayā bhavet sā tu dākṣiṇyavāmābhyāṃ pūjanīyā sadā budhaiḥ| tathaiva bālagopālamūrtirjarāyuveṣṭitā madyamāṃsāśano bhogī lolupaḥ strīṣu sarvadā| vahvyastu caṇḍikādevyāḥ vāmikā mūrtayaḥ smṛtāḥ lakṣmyāstu vāmikāmūrtiruktā dahanabhairavī| yāgnidāhaṃ puragrāmamandireṣvakarodiyam| apūjitā mahālakṣmīrdehalyāṃ tāṃ tu pūjayet vāgbhairavī sarasvatyā vāmikāmūrtirīritā tasyā mantraṃ purā proktaṃ śuklavarṇā tu sā smṛtā| madhyāyāstripurāyāstu rūpaṃ dhyānamihocyate pūjākramastathaivoktaḥ sarvatraiva tu bhairava| mārtaṇḍabhairavo nāma mūrtiḥ sūryasya kīrtitā gaṇeśasyāgnivetālaḥ kathito vāmanāmakaḥ| ete vāmyena bhāvena pūjanīyā viśeṣataḥ tridhādyastu yathāpūrvaṃ namayairralavaistathā| vāntairdvirephaiḥ sarvatra yathā kṛtvā tathā tathā anusvāravisargābhyāṃ prākśeṣau parikīrtitau| madhye tu kevalāḥ pūrvaṃ sānusvāravisṛṣṭibhiḥ paścād dvitrikramād yastu varṇairekena caiva hi| vyastaiḥ samastairapi ca dakārādiṣu saṃyutaiḥ ādyāyāstripurāyāstu mantravad yojitaistathā| tathā tripurabhairavyā mantravaccākṣarairapi triścaturdaśabhiḥ kṛtvā ḍādīṃstrīṃstu viśārayet| dvitīyaṃ dviguṇaṃ kṛtvā śeṣe'trādau ca yojayet viṃśatistu sahasrāṇi śeṣe cāpi trayodaśa| ādyamādyaṃ tataḥ proktaṃ vāgbhavādyaṃ tṛtīyakam evaṃ ca paramapyetanmantrāṇāṃ ca catuṣṭayam| etajjñātvā naraḥ kāmānakhilān prāpya saṅgataḥ mṛte devīpuraṃ yāti kramādeva tu bhairava| yaḥ sakṛt tu japedetat sakalaṃ mantrasañcayam prathamaṃ kāmato nyasya sādhakastu tribhirdinaiḥ| cintayanmanasā devīṃ samyak tripurabhairavīm sa kāmānakhilān prāpya svarūpe madanopamaḥ| dhārmiko nṛpatirbhūyād brāhmaṇo dvijarāḍ bhavet avādhitaśarīrastu piśācādyaiḥ sadaiva hi| nīrogaśca cirāyuśca valavānapi jāyate evaṃ tripurabhairavyā mayā proktastvayaṃ kramaḥ| vaiṣṇavyāstu mahādevyāḥ sahasrāmi tu ṣoḍaśa śṛṇu bhairava mantrāṇi śivaikāgramanāḥ punaḥ| aṣṭottarasahasraṃ tu catuḥṣaṣṭistathā trayaḥ mantrāḥ proktā mahādevyā mūrtibhedena tāḥ punaḥ| anusvāravisargābhyāṃ dviguṇāste punaḥ samāḥ kādivyañjanasaṃyogādūrdhvādho vyastabhāvataḥ| dvābhyāṃ tribhiśca satatamuddharenmantravit punaḥ aṣṭāvaṣṭau tataḥ kṛtvā samastavyastasaṃyutaiḥ| visvaraiḥ sasvaraiścāpi sānusvāravisargakaiḥ kevalairapi tatraiva dviyastairantaraistathā| evamaṣṭottaraṃ yāvat saṃyogayogabhāvataḥ devyāstu ṣaṭsahasrāṇi sahasrāṇi tathā daśa| mantrāstu saṃkhyayā khyātāḥ kramād vetāla bhairava samastavyastarūpema vaiṣṇavyā ye mayoditāḥ| tāñ jñātvā mānavo yāti mamaiva sadanaṃ prati aṣṭamyāṃ ca navamyāṃ ca sahasrāṇi tu ṣoḍaśa| yo japenmantrabījāni sakṛdeva tu bhairava dhyāyaṃstu vaiṣṇavīṃ mūrtiṃ tadekāgramanāḥ śṛṇu| nararājo bhaved bhūmau paṇḍitaścātiharṣitaḥ| cirāyuḥ sukhabhoghī syādudrikto balavāhanaiḥ tānyeva cāṣṭadhā japtvā sārvabhaumo nṛpo bhavet| gaṇādhyakṣo mṛte sa syāt tato muktimavāpnuyāt iti sakalaguṇaughairastadoṣastu nityaṃ bhavati kaluṣahantā śrīvivṛddhyai sumantraḥ| satatamakhilavettā yo bhavedetayostu sa ca bhavati jitārī rogaśokapramuktaḥ

KaP 74.75

गले हरि वक्षसि वै लिखेद् विधिं स्तनद्वये पुत्रयुतं महेश्वरम् बाह्वंगसन्ध्योश्च हरं च वैष्णवीं बाह्वोस्तु लक्ष्मीं च सरस्वतीं च

gale hari vakṣasi vai likhed vidhiṃ stanadvaye putrayutaṃ maheśvaram bāhvaṃgasandhyośca haraṃ ca vaiṣṇavīṃ bāhvostu lakṣmīṃ ca sarasvatīṃ ca

On the throat (let him write) Hari; on the chest let him write Vidhi (Brahmā); on the two breasts Maheśvara together with his son; on the joints of the arms and body Hara and Vaiṣṇavī; and on the two arms Lakṣmī and Sarasvatī.

AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain