← Kalika Purana

Kalika Purana — Chapter 72

KaP 72.72

॥श्रीभगवानुवाच॥ कामाख्यायाश्च माहात्म्यं शृणुतं च वदामि वाम्। साङ्ग तद् सरहस्यं च शृणु वेताल भैरव एकदा गरुडेनाशु विष्णुर्विष्णुपरायणौ। गच्छन् देवीं तु कामाख्यां नीलस्थामाससाद ह आसाद्य तं गिरिश्रेष्ठमवज्ञाय स केशवः। गच्छ गच्छेति गरुडं चोदयामास तं गतौ तं च देवी महामाया कामाख्या जगतां प्रसूः। गरुडेन समं कृष्णं स्तम्भयामास रोदसी स तु गन्तुं महामाया-मायया परिमोहितः न गन्तुमथ वागन्तुमशकद् बद्धवत् स्थितः अशक्तं गरुडं दृष्ट्वा गमने गरुडध्वजः। क्रुद्धस्तं पर्वतश्रेष्ठमुत्सारयितुमुद्यतः ततः कराभ्यां तं शैलं क्रोडीकृत्य जगत्पतिः। अभूत् क्षमश्चालयितुं मनागपि न केशवः तं चिचालयिषुं शैलं कामाख्या क्रोधतत्परा। सिद्धसूत्रेम वैकुण्ठं बबन्ध गरुडेन हि तं बद्ध्वा सिद्धसूत्रेण ग्राहाग्रे लवणार्णवे। चिक्षेप हेलया देवी संक्षेपात् प्रापतत् तलम् तं सागरतलं प्राप्तं पुनरेव स्वमायया। यन्त्रियित्वा समाक्रम्य जग्राहाब्धितलस्थितम् स प्रयत्नेन महता नोत्प्लुतिं कर्तुंमिष्टवान्। महायत्नं प्रकुर्वाणः पुनरुन्मज्जनेहरिः तस्यासारं प्रसारं च कामाख्या प्रतिषेधयेत्। ज्ञानोद्गमनमप्यस्य सा देवी प्रतिषेधयेत् ततः प्रज्ञानरहितः प्रसारासारवर्जितः। गरुडेन समं तोयतले शीर्णमभूच्चिरम् मार्गमाणस्तु तं स्रष्टा सागरान्तरसंस्थितम्। हरिमासादयामास विशीर्णं प्राकृतं यथा तमासाद्य सतार्क्ष्यं तु स्रष्टा लोकपितामहः। हस्ताभ्यां त समादाय वोत्प्लावयितुमिष्टवान् तमुत्प्लावयितुं शक्तो नाभूल्लोकपितामहः। स्वयं च देवीमावाभिर्बद्धः सन् विस्मयन् स्थितः मार्गमाणास्तु ते सर्वे देवाः शक्रपुरोगमाः। चिरेम चाथ कालेन समासे दुर्जलान्तरे तावासाद्य ततः सर्वे सुराः शक्रपुरोगमाः। समुत्प्लावयितुं यत्नं चक्रुर्नाशक्नुवंश्च ते ततः सर्वेऽपि ते देवा मोहिता मायया भृशम्। बिधिंविष्ण स्थितौ यद्वत् तद्वत् ते तत्र संस्थिताः मार्गमाणोऽथ तान् सर्वान् देवान् देवगुरुस्तदा। बृहस्पतिंर्महादेवं हिमवत्-सानुसंस्थितम् समासाद्य स देवानां वृत्तान्तं देवपूजितः। पृष्टवान् सादरं सम्मक् स्तुत्वा नत्वा यथाविधि गुरुरुवाच महादेव जगद्धाम जगत्प्रशमकारण। शक्रादीन्मार्गमाणोऽहं देवांस्त्वां समुपस्थितः ब्रह्मा विष्णुश्च न ब्रह्मसदने नापि नाकतः। संस्थितौ नापि कुत्रापि ज्ञायेने ह्यन्यदा यथा तमिमं संशयं देव च्छिन्धि त्वं देवदेवताः। कुत्र तिष्ठन्ति कस्माद् वा तथा भूत्वा ह्यवस्थिताः अनुयास्यामि तान् सर्वानुपदेशात् तव प्रभो। तेषां स्थितिं त्वं कथय यदि ते वर्तते दया तस्य तद् वचनं श्रुत्वा तदुद्देशमहं पुनः। तत् सर्वमुक्तवान् कर्म यथा बद्धाश्च मायया अवज्ञाता महादेवी महामाया जगन्मयी। तेन तन्मायया बद्धो विष्णुस्तिष्ठति सागरे तं मार्गमाणास्त्रिदशा ब्रह्माद्या मायया पुनः। निबद्धा निकटे तस्य स्थिताश्चात्यर्थसंयताः तांस्तुमार्गयितुं यासियदिह त्वं मया विना। बद्धस्तथैव त्वं चापि नायातुं भविता प्रभुः तस्माद् गच्छाम्यहं तत्र यत्रास्ते गरुडध्वजः। ब्रह्मेन्द्राद्यास्तथा गुप्तान्मोचयिष्ये च तान् क्रमात् इत्युक्त्वा गरुणा सार्धं सम्भूय स वृषध्वजः। देवौघा यत्र तिष्ठन्ति गतस्तत्र महेश्वरः तत्र गत्वा महादेवो विष्णुमाभाष्य वेधसम्। सर्वास्तान् परिपप्रच्छ किमर्थं संस्थितास्त्विह गतागतविहीनाश्च जजवज्ज्ञानवर्जिताः। किमर्थमभवन् देवास्तन्मे भाषन्तु सम्प्रति तस्य तद्वचनं श्रुत्वा महादेवस्य केशवः। शनैर्भर्गमुवाचेदं ब्रह्मादीनां पुरस्तदा नीलकूटस्य शिखरादूर्ध्वभागेन गच्छता। वियता गरुडस्थेन मया नीलो महागिरिः धृतः करेण चोद्धर्तुं गरुडागतिवारणे। तत्र मां सा महामाया कामाख्या कामरूपिणी योगनिद्रां स्वयं धृत्वा चिक्षेपाम्बुधिपुष्करे। ततोऽहं तलमासाद्य तोयराशेः सवाहनः पतितो निवसाम्यत्र चिरमन्धकसूदन। निवसानि चिरं चाहमत्र सागरतोयके नाद्यापि सा महामाया नुदते मां महेश्वर। मदर्थमागता देवा ब्रह्मेन्द्राद्याः समन्ततः तेऽपि बद्धा महादेव्या मायापाशेन वै हठात्। तस्मान्नो ह्यनुगृह्णीष्व नयेदार्नी शिवालये तां च प्रसादयिष्यामः सम्यग्बन्धविहिंसया। हरेस्तद्वचनं श्रुत्वा ह्यहं च करुणायुतः उवाच परमप्रीत्या विधिविष्णू प्रति स्वयम्। ईश्वर्याः कामपूर्वायाः कवचं सुमनोहरम् बद्ध्वा शरीरे चाप्लाव्य पश्चाद् गच्छन्तु तां प्रति। अहं निबद्धकवचस्तेनाहं मायया त्विह न बद्धो मम संसर्गात् तथा चेह बृहस्पतिः। तस्माद् यूयं तु कवचं शृणुध्व वचनान्मम येन सौख्यात् समुत्प्लुत्य द्रक्ष्यामः परमेश्वरीम्। ॐ कामाख्याकावचस्य ऋषिर्बृहस्पतिः स्मृतः देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते। विनियोगः सर्वसिद्धौ तं च शृण्वन्तु देवताः शिरः कामेश्वरी देवी कामाख्या चक्षुषी मम। सारदा कर्णयुगलं त्रिपुरावदनं तथा कण्ठे पातु महामाया हृदि कामेश्वरी पुनः। कामाख्या जठरे पातु शारदा मां तु नाभितः त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने। गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् जानुनोः शारदा पातु त्रिपुरा पातु जङ्घयोः। महामाया पादयुगे नित्यं रक्षतु कामदा केशे कोटेश्वरी पातु नासायां पातु दीर्घिका। भैरवी दन्तसंघाते मातंग्यवतु चाङ्गयोः बाह्वोर्मां ललिता पातु पाण्योस्तु वनवासिनी। विन्ध्यवासिन्यङ्गुलिषु श्रीकामा नखकोटिषु रोमकूपेषु सर्वेषु गुप्तकामा सदावतु। पादाङ्गुलिपार्ष्णिभागे पातु मां भुवनेश्वरी जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु। लः पातु चान्तरे वक्ष हः पातु जठरान्तरे सामीन्दुः पातु मां वस्ताविन्दुबिन्द्वन्तरेऽवतु। तकारस्त्वचि मां पातु रकारोऽस्थिषु सर्वदा लकारः सर्वनाडीषु ईकारः सर्वसन्धिषु। चन्द्रः स्नायुषु मां पातु विन्दुमज्जासु सन्ततम् पूर्वस्यां दिशि चाग्नेय्यां दक्षिणे नैर्ऋते तथा। वारुणे चैव वायव्यां कौबेरे हरमन्दिरे अकाराद्यास्तु वैष्णव्या अष्टौ वर्णास्तु मन्त्रगाः। पान्तु तिष्ठन्तु सततं समुद्भवविवृद्धये ऊद्र्ध्वाधः पातु सततं मां तु सेतुद्वयं सदा। नवाक्षराणि मन्त्रेषु शारदामन्त्रगोचरे नवस्वरं तु मां नित्यं नासादिषु समन्ततः। वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च। तत्सेतू सततांपातां क्रव्याद्भ्यो मान्निवारकौ नमः कामेश्वरी देवीं महामायां जगन्मयीम्। या भूत्वा प्रकृतिर्नित्यं तनोति जगदाद्यताम् कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तांश्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कुमापीतवर्णाम्। ज्ञानध्यानप्रतिष्ठामतिशयविनयांब्रह्मशक्रादिवन्द्यामग्नौ बिन्द्वन्तमन्त्रप्रियतमविषयां नौमि सिद्ध्यै रतिस्थाम् मध्ये मध्यस्य भागे सततविनमिता भावहावावलीयालीला लोकस्य कोष्ठे सकलगुणयुता व्यक्तरूपैकनम्रा। विद्याविद्यैकशान्ता समनशमकरी क्षेमकर्त्री वरास्या नित्यं पातात् पवित्रप्रणववरकरा कामपूर्वैस्वरी नः इति हरकवचंतनुस्थितं शमयति वै शमनं तथा यदि। इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः इत्ययं कवचं यस्तु कामाख्यायाः पठेद् बुधः। सकृत् तं तु महादेवी त्वनुव्रजति नित्यदा नाधिव्याधिभयं तस्य न क्रव्याद्भ्यो भयं तथा। नाग्नितो नापितोयेभ्यो न रिपुभ्यो न राजतः दीर्घायुर्बहुभोगी च पुत्रपौत्रसमन्वितः। आवर्तयञ्छतं देवी-मन्दिरे मोदते परे यथा तथा भवेद् बद्धः संग्रामेऽन्यत्र वा बुधः। तत् क्षणादेव मुक्तः स्यात् स्मरणात् कवचस्य तु ईश्वर उवाच इति श्रुत्वा तु कवचं हरिर्ब्रह्मा सुरास्तथा। शक्रोऽपि कवच देहे न्यासं चक्रुः पृथक् पृथक् ते तु विन्यस्तकवचा महामायाप्रभावतः। उत्प्लुप्य सागरस्याम्भ आसेदुः क्षितिमञ्जसा आसाद्य पृथिवीं सर्वे ब्रह्मविष्णवादयः सुराः। नीलकूटं समासाद्यकामाख्यां द्रष्टुमागताः दृष्ट्वा कामेश्वरीं देवी केशवस्तां जगन्मयीम्। इदमाह स्वयं ज्ञात्वा प्रभावं तत् प्रतिष्ठितम् त्वमेव प्रकृतिर्देवी त्वमेव पृथिवी जलम्। त्वमेव जगतां माता त्वमेव च जगन्मयी त्वं कर्त्री सर्वजगतां विद्या त्वं मुक्तिदायिनी। परापरात्मिका देवी स्थूलसूक्ष्मात्मिका तथा प्रसीद त्वं महादेवी प्रसन्नायां शुभे त्वयि। देवाः सर्वे प्रसीदन्ति चतुर्वर्गप्रदेऽनघे प्रत्यक्षरूपा कामाख्या केशवस्य महात्मनः। प्रत्यक्षरूपा कामाख्या हरिमाभाष्य चाब्रवीत् देव्युवाच केशव ब्रह्मणा सार्धं सर्वैर्देवैस्तथा गणैः। मद्योनिसलिलेष्वद्य स्नानं पानं कुरु द्रुतम् ततस्त्वं निरहङ्कारः परवीर्यसमन्वितः। आरुह्य गरुडं याहि त्रिदिवं सह वेधसा एवमुक्तो महादेव्या केशवः सह वेधसा। योनिमण्डलतोयेषु स्नानं पानं चकार ह कृतप्लावास्ततो देवाः कृतस्नानश्च केशवः। गता देव्याश्च सम्मत्या त्रिदिवं प्रति हर्षिताः गच्छन्तस्ते देवगणाः सहिताः केशवेन च। ब्रह्मणा च तदाद्राक्षुः कामाख्यां तां वियद्गताम् नीलकूटसहस्राणि योनिभिः सह तद्गतै। ऊर्ध्वाधोभागयोगेन ददृशुः संस्थितानि च तानि प्रत्येकतो देवा आरुह्यारुह्य तत्क्षणात्। पपुः सस्नुः पूर्ववत् ते प्रीतिमापुस्तथातुलाम् निरामयास्तथा जग्मुर्विस्मयाक्लिष्टचेतनाः। स्तुवन्तः प्रस्तुवन्तश्च कामाख्यायोनिमण्डलम् ततो देवगुरुं नत्वा मां स्तुत्वा च मया पुनः। विसृष्टास्त्रिदिवं याता हर्षोत्फुल्लविलोचनाः माहात्म्यमीदृशं देव्याः कामाख्यायास्तु भैरव। कवचं चेदृशं प्रोक्तं तत्त्वमासाद्य पुत्रक यथेष्टविनियोगेन तमासाद्य सुखी भव। कामाख्यायाश्च माहात्म्यं किमन्यत् कथयामि ते। यस्या योनिशिलायोगाल्लोहाद्या यान्ति स्वर्णताम् यद्योनिमण्डले स्नात्वा सकृत् पीत्वा च मानवः। नेहोत्पत्तिमवाप्नोति परं निर्वाणमाप्नुयात्

||śrībhagavānuvāca|| kāmākhyāyāśca māhātmyaṃ śṛṇutaṃ ca vadāmi vām| sāṅga tad sarahasyaṃ ca śṛṇu vetāla bhairava ekadā garuḍenāśu viṣṇurviṣṇuparāyaṇau| gacchan devīṃ tu kāmākhyāṃ nīlasthāmāsasāda ha āsādya taṃ giriśreṣṭhamavajñāya sa keśavaḥ| gaccha gaccheti garuḍaṃ codayāmāsa taṃ gatau taṃ ca devī mahāmāyā kāmākhyā jagatāṃ prasūḥ| garuḍena samaṃ kṛṣṇaṃ stambhayāmāsa rodasī sa tu gantuṃ mahāmāyā-māyayā parimohitaḥ na gantumatha vāgantumaśakad baddhavat sthitaḥ aśaktaṃ garuḍaṃ dṛṣṭvā gamane garuḍadhvajaḥ| kruddhastaṃ parvataśreṣṭhamutsārayitumudyataḥ tataḥ karābhyāṃ taṃ śailaṃ kroḍīkṛtya jagatpatiḥ| abhūt kṣamaścālayituṃ manāgapi na keśavaḥ taṃ cicālayiṣuṃ śailaṃ kāmākhyā krodhatatparā| siddhasūtrema vaikuṇṭhaṃ babandha garuḍena hi taṃ baddhvā siddhasūtreṇa grāhāgre lavaṇārṇave| cikṣepa helayā devī saṃkṣepāt prāpatat talam taṃ sāgaratalaṃ prāptaṃ punareva svamāyayā| yantriyitvā samākramya jagrāhābdhitalasthitam sa prayatnena mahatā notplutiṃ kartuṃmiṣṭavān| mahāyatnaṃ prakurvāṇaḥ punarunmajjanehariḥ tasyāsāraṃ prasāraṃ ca kāmākhyā pratiṣedhayet| jñānodgamanamapyasya sā devī pratiṣedhayet tataḥ prajñānarahitaḥ prasārāsāravarjitaḥ| garuḍena samaṃ toyatale śīrṇamabhūcciram mārgamāṇastu taṃ sraṣṭā sāgarāntarasaṃsthitam| harimāsādayāmāsa viśīrṇaṃ prākṛtaṃ yathā tamāsādya satārkṣyaṃ tu sraṣṭā lokapitāmahaḥ| hastābhyāṃ ta samādāya votplāvayitumiṣṭavān tamutplāvayituṃ śakto nābhūllokapitāmahaḥ| svayaṃ ca devīmāvābhirbaddhaḥ san vismayan sthitaḥ mārgamāṇāstu te sarve devāḥ śakrapurogamāḥ| cirema cātha kālena samāse durjalāntare tāvāsādya tataḥ sarve surāḥ śakrapurogamāḥ| samutplāvayituṃ yatnaṃ cakrurnāśaknuvaṃśca te tataḥ sarve'pi te devā mohitā māyayā bhṛśam| bidhiṃviṣṇa sthitau yadvat tadvat te tatra saṃsthitāḥ mārgamāṇo'tha tān sarvān devān devagurustadā| bṛhaspatiṃrmahādevaṃ himavat-sānusaṃsthitam samāsādya sa devānāṃ vṛttāntaṃ devapūjitaḥ| pṛṣṭavān sādaraṃ sammak stutvā natvā yathāvidhi gururuvāca mahādeva jagaddhāma jagatpraśamakāraṇa| śakrādīnmārgamāṇo'haṃ devāṃstvāṃ samupasthitaḥ brahmā viṣṇuśca na brahmasadane nāpi nākataḥ| saṃsthitau nāpi kutrāpi jñāyene hyanyadā yathā tamimaṃ saṃśayaṃ deva cchindhi tvaṃ devadevatāḥ| kutra tiṣṭhanti kasmād vā tathā bhūtvā hyavasthitāḥ anuyāsyāmi tān sarvānupadeśāt tava prabho| teṣāṃ sthitiṃ tvaṃ kathaya yadi te vartate dayā tasya tad vacanaṃ śrutvā taduddeśamahaṃ punaḥ| tat sarvamuktavān karma yathā baddhāśca māyayā avajñātā mahādevī mahāmāyā jaganmayī| tena tanmāyayā baddho viṣṇustiṣṭhati sāgare taṃ mārgamāṇāstridaśā brahmādyā māyayā punaḥ| nibaddhā nikaṭe tasya sthitāścātyarthasaṃyatāḥ tāṃstumārgayituṃ yāsiyadiha tvaṃ mayā vinā| baddhastathaiva tvaṃ cāpi nāyātuṃ bhavitā prabhuḥ tasmād gacchāmyahaṃ tatra yatrāste garuḍadhvajaḥ| brahmendrādyāstathā guptānmocayiṣye ca tān kramāt ityuktvā garuṇā sārdhaṃ sambhūya sa vṛṣadhvajaḥ| devaughā yatra tiṣṭhanti gatastatra maheśvaraḥ tatra gatvā mahādevo viṣṇumābhāṣya vedhasam| sarvāstān paripapraccha kimarthaṃ saṃsthitāstviha gatāgatavihīnāśca jajavajjñānavarjitāḥ| kimarthamabhavan devāstanme bhāṣantu samprati tasya tadvacanaṃ śrutvā mahādevasya keśavaḥ| śanairbhargamuvācedaṃ brahmādīnāṃ purastadā nīlakūṭasya śikharādūrdhvabhāgena gacchatā| viyatā garuḍasthena mayā nīlo mahāgiriḥ dhṛtaḥ kareṇa coddhartuṃ garuḍāgativāraṇe| tatra māṃ sā mahāmāyā kāmākhyā kāmarūpiṇī yoganidrāṃ svayaṃ dhṛtvā cikṣepāmbudhipuṣkare| tato'haṃ talamāsādya toyarāśeḥ savāhanaḥ patito nivasāmyatra ciramandhakasūdana| nivasāni ciraṃ cāhamatra sāgaratoyake nādyāpi sā mahāmāyā nudate māṃ maheśvara| madarthamāgatā devā brahmendrādyāḥ samantataḥ te'pi baddhā mahādevyā māyāpāśena vai haṭhāt| tasmānno hyanugṛhṇīṣva nayedārnī śivālaye tāṃ ca prasādayiṣyāmaḥ samyagbandhavihiṃsayā| harestadvacanaṃ śrutvā hyahaṃ ca karuṇāyutaḥ uvāca paramaprītyā vidhiviṣṇū prati svayam| īśvaryāḥ kāmapūrvāyāḥ kavacaṃ sumanoharam baddhvā śarīre cāplāvya paścād gacchantu tāṃ prati| ahaṃ nibaddhakavacastenāhaṃ māyayā tviha na baddho mama saṃsargāt tathā ceha bṛhaspatiḥ| tasmād yūyaṃ tu kavacaṃ śṛṇudhva vacanānmama yena saukhyāt samutplutya drakṣyāmaḥ parameśvarīm| oṃ kāmākhyākāvacasya ṛṣirbṛhaspatiḥ smṛtaḥ devī kāmeśvarī tasya anuṣṭupchanda iṣyate| viniyogaḥ sarvasiddhau taṃ ca śṛṇvantu devatāḥ śiraḥ kāmeśvarī devī kāmākhyā cakṣuṣī mama| sāradā karṇayugalaṃ tripurāvadanaṃ tathā kaṇṭhe pātu mahāmāyā hṛdi kāmeśvarī punaḥ| kāmākhyā jaṭhare pātu śāradā māṃ tu nābhitaḥ tripurā pārśvayoḥ pātu mahāmāyā tu mehane| gude kāmeśvarī pātu kāmākhyorudvaye tu mām jānunoḥ śāradā pātu tripurā pātu jaṅghayoḥ| mahāmāyā pādayuge nityaṃ rakṣatu kāmadā keśe koṭeśvarī pātu nāsāyāṃ pātu dīrghikā| bhairavī dantasaṃghāte mātaṃgyavatu cāṅgayoḥ bāhvormāṃ lalitā pātu pāṇyostu vanavāsinī| vindhyavāsinyaṅguliṣu śrīkāmā nakhakoṭiṣu romakūpeṣu sarveṣu guptakāmā sadāvatu| pādāṅgulipārṣṇibhāge pātu māṃ bhuvaneśvarī jihvāyāṃ pātu māṃ setuḥ kaḥ kaṇṭhābhyantare'vatu| laḥ pātu cāntare vakṣa haḥ pātu jaṭharāntare sāmīnduḥ pātu māṃ vastāvindubindvantare'vatu| takārastvaci māṃ pātu rakāro'sthiṣu sarvadā lakāraḥ sarvanāḍīṣu īkāraḥ sarvasandhiṣu| candraḥ snāyuṣu māṃ pātu vindumajjāsu santatam pūrvasyāṃ diśi cāgneyyāṃ dakṣiṇe nairṛte tathā| vāruṇe caiva vāyavyāṃ kaubere haramandire akārādyāstu vaiṣṇavyā aṣṭau varṇāstu mantragāḥ| pāntu tiṣṭhantu satataṃ samudbhavavivṛddhaye ūdrdhvādhaḥ pātu satataṃ māṃ tu setudvayaṃ sadā| navākṣarāṇi mantreṣu śāradāmantragocare navasvaraṃ tu māṃ nityaṃ nāsādiṣu samantataḥ| vātapittakaphebhyastu tripurāyāstu tryakṣaram nityaṃ rakṣatu bhūtebhyaḥ piśācebhyastathaiva ca| tatsetū satatāṃpātāṃ kravyādbhyo mānnivārakau namaḥ kāmeśvarī devīṃ mahāmāyāṃ jaganmayīm| yā bhūtvā prakṛtirnityaṃ tanoti jagadādyatām kāmākhyāmakṣamālābhayavaradakarāṃ siddhasūtraikahastāṃśvetapretoparisthāṃ maṇikanakayutāṃ kuṅkumāpītavarṇām| jñānadhyānapratiṣṭhāmatiśayavinayāṃbrahmaśakrādivandyāmagnau bindvantamantrapriyatamaviṣayāṃ naumi siddhyai ratisthām madhye madhyasya bhāge satatavinamitā bhāvahāvāvalīyālīlā lokasya koṣṭhe sakalaguṇayutā vyaktarūpaikanamrā| vidyāvidyaikaśāntā samanaśamakarī kṣemakartrī varāsyā nityaṃ pātāt pavitrapraṇavavarakarā kāmapūrvaisvarī naḥ iti harakavacaṃtanusthitaṃ śamayati vai śamanaṃ tathā yadi| iha gṛhāṇa yatasva vimokṣaṇe sahita eṣa vidhiḥ saha cāmaraiḥ ityayaṃ kavacaṃ yastu kāmākhyāyāḥ paṭhed budhaḥ| sakṛt taṃ tu mahādevī tvanuvrajati nityadā nādhivyādhibhayaṃ tasya na kravyādbhyo bhayaṃ tathā| nāgnito nāpitoyebhyo na ripubhyo na rājataḥ dīrghāyurbahubhogī ca putrapautrasamanvitaḥ| āvartayañchataṃ devī-mandire modate pare yathā tathā bhaved baddhaḥ saṃgrāme'nyatra vā budhaḥ| tat kṣaṇādeva muktaḥ syāt smaraṇāt kavacasya tu īśvara uvāca iti śrutvā tu kavacaṃ harirbrahmā surāstathā| śakro'pi kavaca dehe nyāsaṃ cakruḥ pṛthak pṛthak te tu vinyastakavacā mahāmāyāprabhāvataḥ| utplupya sāgarasyāmbha āseduḥ kṣitimañjasā āsādya pṛthivīṃ sarve brahmaviṣṇavādayaḥ surāḥ| nīlakūṭaṃ samāsādyakāmākhyāṃ draṣṭumāgatāḥ dṛṣṭvā kāmeśvarīṃ devī keśavastāṃ jaganmayīm| idamāha svayaṃ jñātvā prabhāvaṃ tat pratiṣṭhitam tvameva prakṛtirdevī tvameva pṛthivī jalam| tvameva jagatāṃ mātā tvameva ca jaganmayī tvaṃ kartrī sarvajagatāṃ vidyā tvaṃ muktidāyinī| parāparātmikā devī sthūlasūkṣmātmikā tathā prasīda tvaṃ mahādevī prasannāyāṃ śubhe tvayi| devāḥ sarve prasīdanti caturvargaprade'naghe pratyakṣarūpā kāmākhyā keśavasya mahātmanaḥ| pratyakṣarūpā kāmākhyā harimābhāṣya cābravīt devyuvāca keśava brahmaṇā sārdhaṃ sarvairdevaistathā gaṇaiḥ| madyonisalileṣvadya snānaṃ pānaṃ kuru drutam tatastvaṃ nirahaṅkāraḥ paravīryasamanvitaḥ| āruhya garuḍaṃ yāhi tridivaṃ saha vedhasā evamukto mahādevyā keśavaḥ saha vedhasā| yonimaṇḍalatoyeṣu snānaṃ pānaṃ cakāra ha kṛtaplāvāstato devāḥ kṛtasnānaśca keśavaḥ| gatā devyāśca sammatyā tridivaṃ prati harṣitāḥ gacchantaste devagaṇāḥ sahitāḥ keśavena ca| brahmaṇā ca tadādrākṣuḥ kāmākhyāṃ tāṃ viyadgatām nīlakūṭasahasrāṇi yonibhiḥ saha tadgatai| ūrdhvādhobhāgayogena dadṛśuḥ saṃsthitāni ca tāni pratyekato devā āruhyāruhya tatkṣaṇāt| papuḥ sasnuḥ pūrvavat te prītimāpustathātulām nirāmayāstathā jagmurvismayākliṣṭacetanāḥ| stuvantaḥ prastuvantaśca kāmākhyāyonimaṇḍalam tato devaguruṃ natvā māṃ stutvā ca mayā punaḥ| visṛṣṭāstridivaṃ yātā harṣotphullavilocanāḥ māhātmyamīdṛśaṃ devyāḥ kāmākhyāyāstu bhairava| kavacaṃ cedṛśaṃ proktaṃ tattvamāsādya putraka yatheṣṭaviniyogena tamāsādya sukhī bhava| kāmākhyāyāśca māhātmyaṃ kimanyat kathayāmi te| yasyā yoniśilāyogāllohādyā yānti svarṇatām yadyonimaṇḍale snātvā sakṛt pītvā ca mānavaḥ| nehotpattimavāpnoti paraṃ nirvāṇamāpnuyāt