Kalika Purana — Chapter 69
KaP 69.69
।।श्रीभगवानुवाच।। कार्पासं कम्बलं बाल्कं कोशजं वस्त्रमिष्यते। तत्पूर्वं पूजयित्वैव मन्त्रैर्देवाय चोत्सृजेत् निर्दशं मलिनं जीर्णं छिन्नं गात्रावलिङ्गितम्। परकीयं ह्याखुदष्टं सूचीविद्धं तथोषितम् उप्तलेशं विधौतं च श्लेष्ममूत्रादिदूषितम्। प्रदाने देवताभ्याश्च दैवे पित्र्ये च कर्मणि वर्जयेत् स्वोपयोगे न यज्ञादावुपयोजने। उत्तरीयोत्तरासङ्गैर्निचोलो मोदचेलकः परिधानं च पञ्चैतान्यस्यूतानि प्रयोजयेत्। शाण वस्त्रं निशारं च तथैवातपवारणम् चण्डातकं तथा दूश्यं पञ्च स्यूतान्यदुष्टये। पताकाध्वजदण्डादौ स्यूतं वस्त्रं प्रयोजयेत् अन्यत्रावरणादौ च तद्विनाशस्य तेन तत्। पीतं कौशेयवस्त्रं च महादेव्यै प्रशस्यते पीतं तथैव कौशेयं वासुदेवाय चोत्सृजेत्। रक्तं तु कम्बलं दद्याच्छिवाय परमात्मने विचित्रं सर्वदेवेभ्यो देवीर्भ्योंऽशु निवेदयेत्। कार्पासं सर्वतोभद्रं दद्यात् सर्वेभ्य एव च नैकान्तरक्तं दद्यात् तु वासुदेवाय चैलकम्। तथा नैकान्तनीलं तु शिवाय विनिवेदयेत् नीलिरक्तं तु यद्वस्त्रं तत् सर्वत्र विवर्जितम्। दैवे पित्र्ये तूपयोगे वर्जयेत् तु विचक्षणः नीलीरक्तं प्रमादात्तु यो दद्याद् विष्णवे बुधः। निष्फला तस्य तत्पूजा तदा भवति भैरव विचित्रे वाससि पुनर्लग्नं नीलीविरञ्जितम् । वस्त्रं दद्यान्महादेव्यै नान्यस्मै तु कदाचन द्विपदां ब्राह्मणो यद्वद्देवानां वासवो यथा। तथा भूषणवर्गेषु वस्त्रमुत्तममुच्यते वस्त्रेण जीर्यते लज्जा वस्त्रेण हीयते त्वघम्। वस्त्रात् स्यात् सर्वतः सिद्धिश्चतुर्वर्ग प्रदं च तत् वस्त्रं ते कथितं पुत्र सर्वप्रीतिप्रदायकम्। भोग्यं भूषोत्तमं नित्यं भूषणानि शृणुष्व मे किरीटं च शिरोरत्नं कुण्डलं च ललाटिका। तालपत्रं च हारश्च ग्रैवेयकमथोर्मिका प्रालम्बिकारत्नसूत्रमुत्तङ्गोतर्क्षमालिका। पार्श्वद्योतो नखद्योतो ह्यङ्गुलीच्छादकस्तथा जूटालकं मानवको मूर्धतारा खलन्तिका । अङ्गदो बाहुवलयः शिखाभूषण इङ्गिका प्राग्दण्डबन्धमुद्भासनाभिपूरोऽथ मालिका। सप्तकी शृङ्खलं चैव दन्तपत्रं य कर्णकः ऊरुसूत्रं च नीवीं च मुष्टिबन्धं प्रकीर्णकम्। पादाङ्गदं हंसकश्च नूपुरं क्षुद्रघण्टिका सुखपट्टमिति प्रोक्ता अलङ्काराः सुशोभनाः। चत्वारिंशदमी प्रोक्ता लोके वेदे तु सौख्यदाः अलङ्कारप्रदानेन चतुर्वर्गप्रसाधनम्। एतेषां पूजनं कृत्वा प्रदद्यादिष्टसिद्धये तेषां दैवतमुच्चार्य पूजयेत् तु विचक्षणः। शिरोगतानि वा दद्यात् सौवर्णानि तु सर्वदा चूडारत्नादिकानीह भूषणानि तु भैरव। ग्रैवेयकादिहंसान्तं सौवर्णं राजतं च वा निवेदयेत् तु देवब्यो नान्यत् तैजसम्भवम्। रीतिरङ्गादि संजातं पात्रोपकरणादिकम् दद्यादायसवर्जं तु भूषणं न कदाचन। घण्टाचामर कुम्भादिपात्रोपकरणादिकम् तद्भूषणान्तरे दद्यादयस्मात् तदुपभूषणम्। सर्वं ताम्रमयं दद्याद् यत् किंचिद् भूषणादिकम् सर्वत्र स्वर्मवत् ताम्रमर्घ्यपात्रे ततोऽधिकम्। पूजार्घ्यपपात्रनैवेद्याधारपात्रं च पानकम् औदुम्बरं सदा विष्णोः प्रीतिदं तोषदं तथा। ताम्रे देवाः प्रमोदन्ते ताम्रे देवाः स्थिताः सदा सर्वप्रीतिकरं ताम्रं तस्मात् ताम्रं प्रयोजयेत्। स्वोपयोगे नरः कुर्याद् देवानामपि भैरव ग्रीवोर्ध्वदेशे रौप्यं तु न कदाचिच्च भूषणम्। प्रावारः पानपात्रं च गण्डको गृहमेव च पर्यङ्कादि यदन्यच्च सर्वं तदुपभूषणम्। अयोमयमृते कांस्यमृते यद्भूषणं भवेत् स्वर्णरौप्यस्य चाभावे त्वधः काये नियोजयेत्। एतेषां भूषणादीनां यद् दातुं शक्यते नरैः तत् तद् दद्यात् सम्भवे तु सर्वमेव प्रदापयेत्। चतुर्वर्गप्रदं त्वित्थं भूषणं सर्वसौख्यदम् तुष्टिपुष्टिप्रीतिकरं यथाशक्तीष्टये सृजेत्। इदं वा भूषणं प्रोक्तं सर्वदेवस्य तुष्टिदम् गन्धं च सम्यक् शृणुतं पुत्रौ वेतालभैरवौ। चूर्णीकृतो वा घृष्टो वा दाहाकर्षित एव वा रसः सम्मर्दजो वापि प्राण्यङ्गोद्भव एव वा। गन्धः पञ्चविधः प्रोक्तो देवानां प्रीतिदायकः गन्धचूर्णं गन्धपात्रं चूर्णं सुमनसस्तथा। प्रशस्तगन्धयुक्तानां स्युः पत्रचूर्णानि यानि तु तानि गन्धवहानि स्युः सगन्धः प्रथमः स्मृतः। घृष्टो मलयजो गन्धः सचूर्णीकृतमेरुणा अगुरुप्रभृतिश्चापि यस्य पङ्कः प्रदीयते। गन्धो दृष्ट्वामघृष्टोऽयं द्वितीयः परिकीर्तितः देवदार्वगुरुपद्मगन्धसारान्त चन्दनाः। प्रियादीनां च यो दग्ध्वा गृह्यते दाहजो रसः सदाहाकर्षितो गन्धस्तृतीयः परिकीर्तितः। सुगन्धकरवीबिल्वगन्धीनि तिलकं तथा प्रभृतीनां रसो योऽसौ निष्पीड्य परिगृह्यते। ससम्मर्दोद्भवो गन्धः सम्मर्दज इतीष्यते मृगनाभिसमुद्भूतस्तत्कोषोद्भव एव वा। गन्धः प्राण्यङ्गजः प्रोक्तो मोददः स्वर्गवासिनाम् कर्पूरगन्धसाराद्याः क्षोदे घृष्टे च संस्थिताः। चन्द्रभागादयश्चापि रसे पङ्के च सङ्गताः गन्धसारं सर्वरसं गन्धादौ च प्रयुज्यते। मृगनाभिर्भवेद् घृष्टश्चूर्णोऽप्यनयस्य योगतः एवं सर्वं तु सर्वत्र गन्धो भवति पञ्चधा। घृष्टादिभावादन्योन्यं गन्धः प्रीतिकरं परः गनधस्य विस्तरो भेदः प्रोक्तः कालीयकादयः। सर्वः पञ्चविधेष्वेव प्रविष्टो भवति क्षणात् गन्धो मलयजो यस्तु दैवे पित्र्ये च सम्मतः। तस्य पङ्को रसो वापि चूर्णो वा विष्णुतुष्टिदः सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः। तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा कृष्णागुरुः सकर्पूरः सहितो मलयोद्भवैः। वैष्णवीप्रीतिदो गन्धः कामाख्यायाश्च भैरव कुङ्कुमागुरुकस्तूरीचन्द्रभागैः समीकृतैः। त्रिपुराप्रीतिदो गन्धस्तथा चण्ड्याश्च शस्यते दैवतोद्देशपूर्वेण गन्धं सम्पूज्य साधकः। देवायेष्टाय वितरेत् सर्वसिद्धिप्रदं सदा गन्धेन लभते कामान् गन्धो धर्मप्रदः सदा। अर्थानां साधको गन्धो गन्धे मोक्षः प्रतिष्ठितः अयं वां कथितो गन्धः पुत्रौ वेतालभैरवौ। पुष्पाणि देव्या वैष्णव्याः प्रियाणि शृणु सम्प्रति बकुलैश्चैव मन्दारैः कुन्दपुष्पैः कुरुण्टकैः। करवीरार्कपुष्पैश्च शाल्मलैश्चापराजितैः दमनैः सिन्धुवारैश्च सुरभी कुरुवकैस्तथा। लताबिर्ब्रह्मवृक्षस्य दूर्वाङ्कुरैश्च कौमलैः मञ्जरीभिः कुशानां च बिल्वपत्रैः सुशोभनैः। पूजयेत् वैष्णवीं देवीं कामाख्यां त्रिपुरां तथा अन्याश्च या शिवाप्रीत्यै जायन्ते पुष्पजातयः। ता इमाः शृणु कथ्यन्ते मया वेताल भैरव मालती मल्लिका जाती यूथिका माधवी तथा। पाटला करवीरश्च जवा तर्कारिका तथा कुब्जकस्तगरश्चैव कर्णिकारोऽथ रोचना। चम्पकाम्रातकौ बाणो बर्बरा मल्लिका तथा अशोको लोध्रतिलकौ अटरूषशिरीषकौ। शमीपुष्पं च द्रोणश्च पद्मोत्पलबकारुणाः श्वेतारुणस्त्रिसन्ध्ये च पलाशः खदिरस्तथा। वनमालाऽथ सेवन्ती कुमुदोऽथ कदम्बकः चक्रं कोकनदं चैव तण्डिलो गिरिकर्णिका। नागकेशरपुन्नागौ केतक्यञ्जलिका तथा दोहदा बीजपुरश्च नमेरुः शाल एव च। त्रपुषी चण्डबिल्वश्च झिण्टी पञ्चविधास्तथा एवमाद्युक्तकुसुमैः पूजयेद् वरदां शिवाम्। अपामार्गस्य पत्रं तु ततो भृङ्गारपत्रकम् ततोऽपि गन्धिनोपत्रं वलाहकमतः परम्। तस्मात् खदिरपत्रं तु वञ्जुलस्तवक स्तथा आम्रं तु बकगुच्छं तु जम्बुपत्रं ततः परम्। बीजपूरस्य पत्रं तु ततोऽपि कुशपत्रकम् दूर्वाकुरं ततः प्रोक्तं शमीपत्रमतः परम्। पत्रमामलकं तस्मादामलं पत्रमन्ततः सर्वतो बिल्वपत्रं तु देव्याः प्रीतिकरं मतम्। पुष्पं कोकनदं पद्मं जवा बन्धुक एव च पत्रं बिल्वस्य सर्वेभ्यो वैष्णवीतुष्टिदं मतम्। सर्वेषां पुष्पजातीनां रक्तपद्ममिहोत्तमम् रक्तपद्मसहस्रेण यो मालां सम्प्रयच्छति। भक्तियुक्तो महादेव्यै तस्य पुण्यफलं शृणु कल्पकोटिसहस्राणि कल्पकोटिशतानि च। स्थित्वा मम पुरे श्रीमांस्ततो राजा क्षितौ भवेत् पत्रेषु बिल्वपत्रं तु देवीप्रीतिकरं मतम्। तत्सहस्रकृता माला पूर्ववत् फलदा भवेत् किंचात्र बहुनोक्तेन समान्येनेदमुच्यते। उक्तानुक्तैस्तथापुष्पैर्जलजैः स्थलसम्भवैः पत्रैः सर्वैर्यथालाभं सर्वौषधिगणैरपि। वनजैः सर्वपुष्पैश्च पत्रैरपि शिवां यजेत् पूजयेत् परमेशानीं पुष्पाभावेऽपि पत्रकैः। पत्राणामप्यभावे तु तृणगुल्मौषधादिभिः औषधीनामभावे तु त्फलैरपि पूजयेत्। अक्षतैर्वा जलैर्वापि तदभावे तु सर्षपैः सितैस्तस्याप्यलाभे तु मानीसं भक्तिमाचरेत्। वाजिदन्तकपत्रैश्च पुष्पौघैरपि पूजयेत् तुलसीकुसुमैः पत्रैरर्चयेच्छ्रीविवृद्धये। पुरश्चरणकार्येषु बिल्वपत्रयुतैस्तिलैः साक्षतैः सघृतैर्वापि शिवामुद्दिश्य यत्नतः। जुहुयादनलं वृद्धं संस्कृतं कामवृद्धये संसकल्पितः कामसिद्ध्यै संख्यया यः कृतो जपः। तदन्ते पूजनं यत्तु विहितं क्रियते द्विजैः पुरश्चरणसंज्ञं तु कीर्तितं द्विजसात्तमैः। तस्मिन् पुराणके पूर्वं पूर्वोक्तौर्विस्तरोदितैः विधानैः पूयजेत् देवीं कामाख्यां वैष्णवीमपि। यथासम्भवमेवात्र दद्यात् षोडश साधकः उपचारांस्तथैवोक्तान् विधिकृत्यान्न लंघयेत्। सम्पूर्णं पूजनं कृत्वा कल्पोक्तं शतधा जपेत् जपान्ते जुहुयादग्निं होमान्ते तु बलित्रयम्। त्रिजातीयं तु वितरेत्तौर्यत्रिकमतः परम् पत्नी स्वयं वा भ्राता वा गुरुर्वा विनियोजयेत्। नैवेद्यादीनि सर्वाणि स्वपुत्रः शिष्य एव वा यज्ञावसाने दद्यात् तु गुरवे दक्षिणां शुभाम्। चामोकरं तिलान् गाञ्च तदशक्तौ तु चेलकम् अष्टम्यां शुक्लपक्षस्य ब्रह्मचारो जितेन्द्रियः। नवम्यां वा चतुर्दश्यां महादेव्याः पुरश्चरेत् आदद्याद् गुरुवक्त्रात् तु विधिना विस्तरेण तु। कल्पोदितेन सम्पूज्य तिथिष्वेतासु भैरव सम्पूर्णपूजां नो कृत्वा नादद्यान्मन्त्रमीप्सितम्। न पुरश्चरणं वापि कुर्यात् कृत्वाऽवसीदति नित्यपूजा सा तु पुनः सम्पूर्णा यदि शक्यते। कल्पोदितं पूजयितुं तदा कुर्यादतन्द्रितः न चेद् विस्तरशः कर्तुं देव्याः पूजां तु भैरव। कल्पोक्तां वाऽन्यदेवस्य तत्रायं विधिरुच्यते मार्जनाद्यैस्तु संस्कृत्य स्थण्डिले मण्डलं लिखेत्। पात्रस्य प्रतिपत्तिं तु कृत्वा दाह प्लवं तथा ध्यायेदात्मानमथ च संस्कृत्याङ्गस्वरूपतः। अङ्गुष्ठाद्यस्त्रपर्यन्तं द्वादशाङ्गस्य शुद्धये अर्ध्यपात्रेऽष्टधा जप्त्वा उपचारान् प्रसेचयेत्। आधारशक्तिप्रमुखं मूलवर्णान् प्रयुज्य च हृदिस्थां देवतां ध्यात्वा बहिःकृत्यं च वायुना। आरोप्य मण्डले दद्यादुपचारान् यथाविधि पूजयित्वा षडङ्गानि तथाष्टौ दलदेवताः। पुष्पाढ्जलित्रयं दत्त्वा जप्त्वा स्तुत्वा प्रणम्य च मुद्रामग्रे प्रदर्श्याथ ततः पश्चाद् विसर्जयेत्। सर्वेषामेव देवानामेष एव विधिः स्मृतः सम्यक् कल्पोदिता पूजा यदि कर्तुं न शक्यते। उचारांस्तथा दातुं पञ्चैतान् वितरेत् तदा गन्धं पुष्पं च धूपं च दीपं च नैवेद्यमेव च। अभावे पुष्पतोयाभ्यां तदभावे तु भक्तितः संक्षेपपूजा कथिता तथा वस्त्रादिकं पुनः। पुरश्चरणकृत्ये च प्रदीपं शृणु भैरव दीपेन लोकाञ्जयति दीपस्तेजोमयः स्मृतः। चतुर्वर्गप्रदो दीपस्तस्माद् दीपैर्यजेच्छ्रियम् सततं पुष्पदीपाभ्यां पूजयेद् यस्तु देवताम्। ताभ्यामेव चतुर्वर्गः कथितो नात्र संशयः पुष्पैर्देवाः प्रसीदन्ति पुष्पे देवाश्च संस्थिताः। चराचराश्च सकलाः सदा पुष्परसाः स्मृताः किंचाति बहुनोक्तेन पुष्पस्योक्तिर्मतल्लिका। परं ज्योतिः पुष्पगतं पुष्पेणैव प्रसीदति त्रिवर्गसाधनं पुष्पं तुष्टिश्रीपुष्टिमोक्षदम् । पुष्पमूले वसेद् ब्रह्मा पुष्पमध्ये तु केशवः पुष्पाग्रे तु महादेवः सर्वे देवाः स्थिता दले। तस्मात् पुष्पैर्यजेद् देवान्नित्यं भक्तियुतो नरः उच्चारितं नाममात्रं जायते सर्वभूतये। घृतप्रदीपः प्रथमस्तिलतैलोद्भवस्ततः सार्षपफलनिर्यासजातो वा राजिकोद्भवः। दधिजश्चान्नजश्चैव दीपाः सप्त प्रकीर्तिताः पद्मसूत्रभवा दर्भगर्भसूत्रभवाऽथवा। शणजा बादरी वापि फलकोषोद्भवा तथा वर्तिका दीपकृत्येषु सदा पञ्चविधाः स्मृताः। तैजसं दारवं लौहं मार्त्तिक्यं नारिकेलजम् तृणध्वजोद्भवं वापि दीपपात्रं प्रशस्यते। दीपवृक्षाश्च कर्तव्यास्तैजसाद्यैस्तु भैरव वृक्षेषु दीपो दातव्यो न तु भूमौ कदाचन। सर्वसहा वसुमती सहते न त्विदं द्वयम् अकार्यपादघातं च दीपतापं तथैव च। तस्माद् यथा तु पृथ्वी तापं नाप्नोति वै तथा दीपं दद्यान्महादेव्यै अन्येभ्योऽपि च भैरव। कुर्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः स ताम्रतापं नरकं प्राप्नोत्येव शतं समाः। सुवृत्तवर्तिः सुस्नेहः पात्रमग्नः सुदर्शनः सूच्छ्राये वृक्षकोटौ तु दीपं दद्यात् प्रयत्नतः। लभ्यते यस्य तापस्तु दीपस्य चतुरङ्गुलात् न स दीप इति ख्यातो ह्योघवह्निस्तु स श्रुतः। नेत्राह्लादकरः स्वर्चिर्दूरतापविवर्जितः सुसिखः शब्दरहितो निर्धूमो नातिह्रस्वकः। दक्षिणावर्तवर्तिस्तु प्रदीपः श्रीविवृद्धये दोपवृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते। दक्षिणावर्तवर्त्या तु चारुदीप्तः प्रदीपकः उत्तमः प्रोच्यते पुत्र सर्वतुष्टिप्रदायकः। वृक्षेण वर्जितो दीपो मध्यमः परिकीर्तितः विहीनः पात्रतैलाभ्यामधमः परिकीर्तितः। शाणं वा दारवं वस्त्रं जीर्णं मलिनमेव वा उपयुक्तं च नादद्याद् वर्तिकार्थं तु साधकः। उपादद्यान्नूत्नमेव सततं श्रीविवृद्धये कोषजं रोमजं वस्त्रं वर्तिकार्थं न चाददेत्। न मिश्रीकृत्य दद्यात् तु दीपे स्नेहघृतादिकान् कृत्वा मिश्रीकृतं स्नेहं तामिस्रं नरकं व्रजेत्। वसामज्जास्थिनिर्यासैः स्नेहैः प्राण्यङ्गसम्भवैः प्रदीपं नैव कुर्यात् तु कृत्वा पङ्केऽवसीदति। अस्थिपात्रेऽथ वा पच्येद् दुर्गन्धास्थिपवासिनि नैवं दीपः प्रदातव्यो विबुधैः श्रीविवृद्धये। नैव निर्वापयेद् दीपं कदाचिदपि यत्नतः सततं लक्षणोपेतं देवार्थमुपकल्पितम्। न हरेज्ज्ञानतो दीपं तथा लोभादिना नरः दीपहर्ता भवेदन्धः काणो निर्वापको भवेत्। उद्दीप्तदीपप्रतिमं काष्ठकाण्डसमुद्भवं बिल्वेध्मोद्भवमेवाथ दीपालाभे निवेदयेत्। उल्मुकं नैव दीपार्थे कदाचिदपि चोत्सृजेत् प्रसन्नार्थं तु तं दद्यादुपचाराद् बहिष्कृतम्। एवं वां कथितो दीपो धूपं च शृणुतं सुतौ नासाक्षिरन्ध्रसुखदः सुगन्धोऽतिमनोहरः। दह्यमानस्य काष्ठस्य प्रयतस्येतरस्य च परागस्याथवा धूमो निस्तापो यस्य जायते। स धूप इति विज्ञेयो देवानां तुष्टिदायकः राशीकृतैर्न चैकत्र तैर्द्रव्यैः परिधूपयेत् । तुषाग्निवर्तुलां कृत्वा न तत् फलमवाप्नुयात् श्रीचन्दनं च सरलः शालः कृष्णागुरुस्तथा। उदयः सुरथस्कन्दो रक्तविद्रुम एव च पीतशालः परिमलो विर्मदी काशलस्तथा। नमेरुर्देवदारुश्च बिल्वसारोऽथ खादिरः सन्तानः पारिजातश्च हरिचन्दनवल्लभौ। वृक्षेषु धपाः सर्वेषां प्रीतिदाः परिकीर्तिताः अरालः सह सूत्रेम श्रीवासः पट्टवासकः। कर्पूरः श्रीकरश्चैव परागः श्रीहरामलौ सर्वौषधीप जातीच वराहश्चूर्ण उत्कलः। जातीकोषस्य चुर्णं च गन्धः कस्तूरिका तथा क्षोदे वृत्ते च गदिता धूपा एते उदाहृताः। यक्षधूपो वृक्षधूपः श्रीपिष्टोऽगुरु ढर्ढरः पत्रिवाहः पिण्डधूपः सुगोलः कण्ठ एव च। अन्योन्ययोगा निर्यासा धूपा एते प्रकीर्तिताः एतैर्विधूपयेद् देवान् धूमिभिः कृष्णवत्मना। येषां धूपोद्भवैर्घ्राणैस्तुष्टिं गच्छन्ति जन्तवः निर्यासश्च परागश्च काष्ठं गन्धं तथैव च। कृत्रिमश्चेति पञ्चैते धूपाः प्रीतिकराः पराः न यक्षधूपं वितरेन्माधवाय कदाचन। न रक्तं विद्रुमं मह्यं सुरथं कद्रिलं तथा यक्षधूपः पुत्रिवाहः पिम्डधूपः सुगोलकः। कृष्णागुरुः सकर्पूरो महामायाप्रियः स्मृतः वृक्षधूपेन वा देवीं महामायां प्रपूजयेत्। मेदोमज्जासमायुक्तान् न धूपान् विनियोजयेत् परकीयांस्तथाघ्रातांस्तेऽपि कृत्याभिमर्दितान्। पुष्पं धूपं च गन्धं च उपचारांस्तथापरान् घ्रात्वा निवेद्य देवेभ्यो नरो नरकमाप्नुयात्। न भूमौ वितरेद् धूपं नासने न घटे तथा यथातथाधारगतं कृत्वा तद् विनिवेदयेत्। रक्तविद्रुमशालौ च सुरथः सुरलस्तथा सन्तानको नमेरुश्च कालागुरुसमन्वितः। जातीकोषाक्षसंयुक्तो धूपः कामेश्वरीप्रियः त्रिपुरायास्तथैवायं मातृणामपि नित्यशः। सर्वेषां पीठदेवानां रुद्रादीनां च पुत्रकौ एष वां कथितो धूपः शृणु तन्नेत्ररञ्जनम्। येन तुष्यति कामाख्या त्रिपुरा वैष्णवी तथा सौवीरं यामुनं तुत्थ्रं मयूरग्रीवकं तथा। दर्विका मेघनीलश्च अञ्जनानि भवन्ति षट् स्रवद्द्रुमं च सौवीरं यामुनं प्रस्तरं तथा। मयूरग्रीवकं रत्नं मेघनीलस्तु तैजसम् घृष्ठानि ग्राह्य चैतानि शिलायां तैजसेऽथ वा। प्रदद्यात् सर्वदेवेभ्यो देवीभ्यश्चापि पुत्रक घृततैलादियोगेन ताम्रादौ दीपवह्निना। यदञ्जनं जायते तु दर्विका परिकीर्तिता सर्वाभावे तु तद् दद्याद् देवीभ्यो दाहजाञ्जनम्। महामाया जगद्धात्री कामाख्या त्रिपुरा तथा आप्नुवन्ति महातोषं षड्भिरेभिः सदाञ्जनैः। विधवा नाञ्जनं कुर्यान्महामायार्थमृत्तमम् नादत्ते त्वञ्जनं देवी वैष्णवी विधवाकृतम्। त मृत्पात्रे योजयेत् तु साधको नेत्ररञ्जनम् न पूजाफलमाप्नोति मृत्पात्रविहिताञ्जनैः। चतुर्वर्गप्रदो धूपः कामदं नेत्ररञ्जनम् तस्माद् द्वयमिदं दद्याद् देवेभ्यो भक्तितो नरः। इति वां गदितो धूपस्तथोक्तं नेत्ररञ्जनम्। नैवेद्यं तु महादेव्याः शृण्वैकाग्रमनाः पुनः
||śrībhagavānuvāca|| kārpāsaṃ kambalaṃ bālkaṃ kośajaṃ vastramiṣyate| tatpūrvaṃ pūjayitvaiva mantrairdevāya cotsṛjet nirdaśaṃ malinaṃ jīrṇaṃ chinnaṃ gātrāvaliṅgitam| parakīyaṃ hyākhudaṣṭaṃ sūcīviddhaṃ tathoṣitam uptaleśaṃ vidhautaṃ ca śleṣmamūtrādidūṣitam| pradāne devatābhyāśca daive pitrye ca karmaṇi varjayet svopayoge na yajñādāvupayojane| uttarīyottarāsaṅgairnicolo modacelakaḥ paridhānaṃ ca pañcaitānyasyūtāni prayojayet| śāṇa vastraṃ niśāraṃ ca tathaivātapavāraṇam caṇḍātakaṃ tathā dūśyaṃ pañca syūtānyaduṣṭaye| patākādhvajadaṇḍādau syūtaṃ vastraṃ prayojayet anyatrāvaraṇādau ca tadvināśasya tena tat| pītaṃ kauśeyavastraṃ ca mahādevyai praśasyate pītaṃ tathaiva kauśeyaṃ vāsudevāya cotsṛjet| raktaṃ tu kambalaṃ dadyācchivāya paramātmane vicitraṃ sarvadevebhyo devīrbhyoṃ'śu nivedayet| kārpāsaṃ sarvatobhadraṃ dadyāt sarvebhya eva ca naikāntaraktaṃ dadyāt tu vāsudevāya cailakam| tathā naikāntanīlaṃ tu śivāya vinivedayet nīliraktaṃ tu yadvastraṃ tat sarvatra vivarjitam| daive pitrye tūpayoge varjayet tu vicakṣaṇaḥ nīlīraktaṃ pramādāttu yo dadyād viṣṇave budhaḥ| niṣphalā tasya tatpūjā tadā bhavati bhairava vicitre vāsasi punarlagnaṃ nīlīvirañjitam | vastraṃ dadyānmahādevyai nānyasmai tu kadācana dvipadāṃ brāhmaṇo yadvaddevānāṃ vāsavo yathā| tathā bhūṣaṇavargeṣu vastramuttamamucyate vastreṇa jīryate lajjā vastreṇa hīyate tvagham| vastrāt syāt sarvataḥ siddhiścaturvarga pradaṃ ca tat vastraṃ te kathitaṃ putra sarvaprītipradāyakam| bhogyaṃ bhūṣottamaṃ nityaṃ bhūṣaṇāni śṛṇuṣva me kirīṭaṃ ca śiroratnaṃ kuṇḍalaṃ ca lalāṭikā| tālapatraṃ ca hāraśca graiveyakamathormikā prālambikāratnasūtramuttaṅgotarkṣamālikā| pārśvadyoto nakhadyoto hyaṅgulīcchādakastathā jūṭālakaṃ mānavako mūrdhatārā khalantikā | aṅgado bāhuvalayaḥ śikhābhūṣaṇa iṅgikā prāgdaṇḍabandhamudbhāsanābhipūro'tha mālikā| saptakī śṛṅkhalaṃ caiva dantapatraṃ ya karṇakaḥ ūrusūtraṃ ca nīvīṃ ca muṣṭibandhaṃ prakīrṇakam| pādāṅgadaṃ haṃsakaśca nūpuraṃ kṣudraghaṇṭikā sukhapaṭṭamiti proktā alaṅkārāḥ suśobhanāḥ| catvāriṃśadamī proktā loke vede tu saukhyadāḥ alaṅkārapradānena caturvargaprasādhanam| eteṣāṃ pūjanaṃ kṛtvā pradadyādiṣṭasiddhaye teṣāṃ daivatamuccārya pūjayet tu vicakṣaṇaḥ| śirogatāni vā dadyāt sauvarṇāni tu sarvadā cūḍāratnādikānīha bhūṣaṇāni tu bhairava| graiveyakādihaṃsāntaṃ sauvarṇaṃ rājataṃ ca vā nivedayet tu devabyo nānyat taijasambhavam| rītiraṅgādi saṃjātaṃ pātropakaraṇādikam dadyādāyasavarjaṃ tu bhūṣaṇaṃ na kadācana| ghaṇṭācāmara kumbhādipātropakaraṇādikam tadbhūṣaṇāntare dadyādayasmāt tadupabhūṣaṇam| sarvaṃ tāmramayaṃ dadyād yat kiṃcid bhūṣaṇādikam sarvatra svarmavat tāmramarghyapātre tato'dhikam| pūjārghyapapātranaivedyādhārapātraṃ ca pānakam audumbaraṃ sadā viṣṇoḥ prītidaṃ toṣadaṃ tathā| tāmre devāḥ pramodante tāmre devāḥ sthitāḥ sadā sarvaprītikaraṃ tāmraṃ tasmāt tāmraṃ prayojayet| svopayoge naraḥ kuryād devānāmapi bhairava grīvordhvadeśe raupyaṃ tu na kadācicca bhūṣaṇam| prāvāraḥ pānapātraṃ ca gaṇḍako gṛhameva ca paryaṅkādi yadanyacca sarvaṃ tadupabhūṣaṇam| ayomayamṛte kāṃsyamṛte yadbhūṣaṇaṃ bhavet svarṇaraupyasya cābhāve tvadhaḥ kāye niyojayet| eteṣāṃ bhūṣaṇādīnāṃ yad dātuṃ śakyate naraiḥ tat tad dadyāt sambhave tu sarvameva pradāpayet| caturvargapradaṃ tvitthaṃ bhūṣaṇaṃ sarvasaukhyadam tuṣṭipuṣṭiprītikaraṃ yathāśaktīṣṭaye sṛjet| idaṃ vā bhūṣaṇaṃ proktaṃ sarvadevasya tuṣṭidam gandhaṃ ca samyak śṛṇutaṃ putrau vetālabhairavau| cūrṇīkṛto vā ghṛṣṭo vā dāhākarṣita eva vā rasaḥ sammardajo vāpi prāṇyaṅgodbhava eva vā| gandhaḥ pañcavidhaḥ prokto devānāṃ prītidāyakaḥ gandhacūrṇaṃ gandhapātraṃ cūrṇaṃ sumanasastathā| praśastagandhayuktānāṃ syuḥ patracūrṇāni yāni tu tāni gandhavahāni syuḥ sagandhaḥ prathamaḥ smṛtaḥ| ghṛṣṭo malayajo gandhaḥ sacūrṇīkṛtameruṇā aguruprabhṛtiścāpi yasya paṅkaḥ pradīyate| gandho dṛṣṭvāmaghṛṣṭo'yaṃ dvitīyaḥ parikīrtitaḥ devadārvagurupadmagandhasārānta candanāḥ| priyādīnāṃ ca yo dagdhvā gṛhyate dāhajo rasaḥ sadāhākarṣito gandhastṛtīyaḥ parikīrtitaḥ| sugandhakaravībilvagandhīni tilakaṃ tathā prabhṛtīnāṃ raso yo'sau niṣpīḍya parigṛhyate| sasammardodbhavo gandhaḥ sammardaja itīṣyate mṛganābhisamudbhūtastatkoṣodbhava eva vā| gandhaḥ prāṇyaṅgajaḥ prokto modadaḥ svargavāsinām karpūragandhasārādyāḥ kṣode ghṛṣṭe ca saṃsthitāḥ| candrabhāgādayaścāpi rase paṅke ca saṅgatāḥ gandhasāraṃ sarvarasaṃ gandhādau ca prayujyate| mṛganābhirbhaved ghṛṣṭaścūrṇo'pyanayasya yogataḥ evaṃ sarvaṃ tu sarvatra gandho bhavati pañcadhā| ghṛṣṭādibhāvādanyonyaṃ gandhaḥ prītikaraṃ paraḥ ganadhasya vistaro bhedaḥ proktaḥ kālīyakādayaḥ| sarvaḥ pañcavidheṣveva praviṣṭo bhavati kṣaṇāt gandho malayajo yastu daive pitrye ca sammataḥ| tasya paṅko raso vāpi cūrṇo vā viṣṇutuṣṭidaḥ sarveṣu gandhajāteṣu praśasto malayodbhavaḥ| tasmāt sarvaprayatnena dadyānmalayajaṃ sadā kṛṣṇāguruḥ sakarpūraḥ sahito malayodbhavaiḥ| vaiṣṇavīprītido gandhaḥ kāmākhyāyāśca bhairava kuṅkumāgurukastūrīcandrabhāgaiḥ samīkṛtaiḥ| tripurāprītido gandhastathā caṇḍyāśca śasyate daivatoddeśapūrveṇa gandhaṃ sampūjya sādhakaḥ| devāyeṣṭāya vitaret sarvasiddhipradaṃ sadā gandhena labhate kāmān gandho dharmapradaḥ sadā| arthānāṃ sādhako gandho gandhe mokṣaḥ pratiṣṭhitaḥ ayaṃ vāṃ kathito gandhaḥ putrau vetālabhairavau| puṣpāṇi devyā vaiṣṇavyāḥ priyāṇi śṛṇu samprati bakulaiścaiva mandāraiḥ kundapuṣpaiḥ kuruṇṭakaiḥ| karavīrārkapuṣpaiśca śālmalaiścāparājitaiḥ damanaiḥ sindhuvāraiśca surabhī kuruvakaistathā| latābirbrahmavṛkṣasya dūrvāṅkuraiśca kaumalaiḥ mañjarībhiḥ kuśānāṃ ca bilvapatraiḥ suśobhanaiḥ| pūjayet vaiṣṇavīṃ devīṃ kāmākhyāṃ tripurāṃ tathā anyāśca yā śivāprītyai jāyante puṣpajātayaḥ| tā imāḥ śṛṇu kathyante mayā vetāla bhairava mālatī mallikā jātī yūthikā mādhavī tathā| pāṭalā karavīraśca javā tarkārikā tathā kubjakastagaraścaiva karṇikāro'tha rocanā| campakāmrātakau bāṇo barbarā mallikā tathā aśoko lodhratilakau aṭarūṣaśirīṣakau| śamīpuṣpaṃ ca droṇaśca padmotpalabakāruṇāḥ śvetāruṇastrisandhye ca palāśaḥ khadirastathā| vanamālā'tha sevantī kumudo'tha kadambakaḥ cakraṃ kokanadaṃ caiva taṇḍilo girikarṇikā| nāgakeśarapunnāgau ketakyañjalikā tathā dohadā bījapuraśca nameruḥ śāla eva ca| trapuṣī caṇḍabilvaśca jhiṇṭī pañcavidhāstathā evamādyuktakusumaiḥ pūjayed varadāṃ śivām| apāmārgasya patraṃ tu tato bhṛṅgārapatrakam tato'pi gandhinopatraṃ valāhakamataḥ param| tasmāt khadirapatraṃ tu vañjulastavaka stathā āmraṃ tu bakagucchaṃ tu jambupatraṃ tataḥ param| bījapūrasya patraṃ tu tato'pi kuśapatrakam dūrvākuraṃ tataḥ proktaṃ śamīpatramataḥ param| patramāmalakaṃ tasmādāmalaṃ patramantataḥ sarvato bilvapatraṃ tu devyāḥ prītikaraṃ matam| puṣpaṃ kokanadaṃ padmaṃ javā bandhuka eva ca patraṃ bilvasya sarvebhyo vaiṣṇavītuṣṭidaṃ matam| sarveṣāṃ puṣpajātīnāṃ raktapadmamihottamam raktapadmasahasreṇa yo mālāṃ samprayacchati| bhaktiyukto mahādevyai tasya puṇyaphalaṃ śṛṇu kalpakoṭisahasrāṇi kalpakoṭiśatāni ca| sthitvā mama pure śrīmāṃstato rājā kṣitau bhavet patreṣu bilvapatraṃ tu devīprītikaraṃ matam| tatsahasrakṛtā mālā pūrvavat phaladā bhavet kiṃcātra bahunoktena samānyenedamucyate| uktānuktaistathāpuṣpairjalajaiḥ sthalasambhavaiḥ patraiḥ sarvairyathālābhaṃ sarvauṣadhigaṇairapi| vanajaiḥ sarvapuṣpaiśca patrairapi śivāṃ yajet pūjayet parameśānīṃ puṣpābhāve'pi patrakaiḥ| patrāṇāmapyabhāve tu tṛṇagulmauṣadhādibhiḥ auṣadhīnāmabhāve tu tphalairapi pūjayet| akṣatairvā jalairvāpi tadabhāve tu sarṣapaiḥ sitaistasyāpyalābhe tu mānīsaṃ bhaktimācaret| vājidantakapatraiśca puṣpaughairapi pūjayet tulasīkusumaiḥ patrairarcayecchrīvivṛddhaye| puraścaraṇakāryeṣu bilvapatrayutaistilaiḥ sākṣataiḥ saghṛtairvāpi śivāmuddiśya yatnataḥ| juhuyādanalaṃ vṛddhaṃ saṃskṛtaṃ kāmavṛddhaye saṃsakalpitaḥ kāmasiddhyai saṃkhyayā yaḥ kṛto japaḥ| tadante pūjanaṃ yattu vihitaṃ kriyate dvijaiḥ puraścaraṇasaṃjñaṃ tu kīrtitaṃ dvijasāttamaiḥ| tasmin purāṇake pūrvaṃ pūrvoktaurvistaroditaiḥ vidhānaiḥ pūyajet devīṃ kāmākhyāṃ vaiṣṇavīmapi| yathāsambhavamevātra dadyāt ṣoḍaśa sādhakaḥ upacārāṃstathaivoktān vidhikṛtyānna laṃghayet| sampūrṇaṃ pūjanaṃ kṛtvā kalpoktaṃ śatadhā japet japānte juhuyādagniṃ homānte tu balitrayam| trijātīyaṃ tu vitarettauryatrikamataḥ param patnī svayaṃ vā bhrātā vā gururvā viniyojayet| naivedyādīni sarvāṇi svaputraḥ śiṣya eva vā yajñāvasāne dadyāt tu gurave dakṣiṇāṃ śubhām| cāmokaraṃ tilān gāñca tadaśaktau tu celakam aṣṭamyāṃ śuklapakṣasya brahmacāro jitendriyaḥ| navamyāṃ vā caturdaśyāṃ mahādevyāḥ puraścaret ādadyād guruvaktrāt tu vidhinā vistareṇa tu| kalpoditena sampūjya tithiṣvetāsu bhairava sampūrṇapūjāṃ no kṛtvā nādadyānmantramīpsitam| na puraścaraṇaṃ vāpi kuryāt kṛtvā'vasīdati nityapūjā sā tu punaḥ sampūrṇā yadi śakyate| kalpoditaṃ pūjayituṃ tadā kuryādatandritaḥ na ced vistaraśaḥ kartuṃ devyāḥ pūjāṃ tu bhairava| kalpoktāṃ vā'nyadevasya tatrāyaṃ vidhirucyate mārjanādyaistu saṃskṛtya sthaṇḍile maṇḍalaṃ likhet| pātrasya pratipattiṃ tu kṛtvā dāha plavaṃ tathā dhyāyedātmānamatha ca saṃskṛtyāṅgasvarūpataḥ| aṅguṣṭhādyastraparyantaṃ dvādaśāṅgasya śuddhaye ardhyapātre'ṣṭadhā japtvā upacārān prasecayet| ādhāraśaktipramukhaṃ mūlavarṇān prayujya ca hṛdisthāṃ devatāṃ dhyātvā bahiḥkṛtyaṃ ca vāyunā| āropya maṇḍale dadyādupacārān yathāvidhi pūjayitvā ṣaḍaṅgāni tathāṣṭau daladevatāḥ| puṣpāḍhjalitrayaṃ dattvā japtvā stutvā praṇamya ca mudrāmagre pradarśyātha tataḥ paścād visarjayet| sarveṣāmeva devānāmeṣa eva vidhiḥ smṛtaḥ samyak kalpoditā pūjā yadi kartuṃ na śakyate| ucārāṃstathā dātuṃ pañcaitān vitaret tadā gandhaṃ puṣpaṃ ca dhūpaṃ ca dīpaṃ ca naivedyameva ca| abhāve puṣpatoyābhyāṃ tadabhāve tu bhaktitaḥ saṃkṣepapūjā kathitā tathā vastrādikaṃ punaḥ| puraścaraṇakṛtye ca pradīpaṃ śṛṇu bhairava dīpena lokāñjayati dīpastejomayaḥ smṛtaḥ| caturvargaprado dīpastasmād dīpairyajecchriyam satataṃ puṣpadīpābhyāṃ pūjayed yastu devatām| tābhyāmeva caturvargaḥ kathito nātra saṃśayaḥ puṣpairdevāḥ prasīdanti puṣpe devāśca saṃsthitāḥ| carācarāśca sakalāḥ sadā puṣparasāḥ smṛtāḥ kiṃcāti bahunoktena puṣpasyoktirmatallikā| paraṃ jyotiḥ puṣpagataṃ puṣpeṇaiva prasīdati trivargasādhanaṃ puṣpaṃ tuṣṭiśrīpuṣṭimokṣadam | puṣpamūle vased brahmā puṣpamadhye tu keśavaḥ puṣpāgre tu mahādevaḥ sarve devāḥ sthitā dale| tasmāt puṣpairyajed devānnityaṃ bhaktiyuto naraḥ uccāritaṃ nāmamātraṃ jāyate sarvabhūtaye| ghṛtapradīpaḥ prathamastilatailodbhavastataḥ sārṣapaphalaniryāsajāto vā rājikodbhavaḥ| dadhijaścānnajaścaiva dīpāḥ sapta prakīrtitāḥ padmasūtrabhavā darbhagarbhasūtrabhavā'thavā| śaṇajā bādarī vāpi phalakoṣodbhavā tathā vartikā dīpakṛtyeṣu sadā pañcavidhāḥ smṛtāḥ| taijasaṃ dāravaṃ lauhaṃ mārttikyaṃ nārikelajam tṛṇadhvajodbhavaṃ vāpi dīpapātraṃ praśasyate| dīpavṛkṣāśca kartavyāstaijasādyaistu bhairava vṛkṣeṣu dīpo dātavyo na tu bhūmau kadācana| sarvasahā vasumatī sahate na tvidaṃ dvayam akāryapādaghātaṃ ca dīpatāpaṃ tathaiva ca| tasmād yathā tu pṛthvī tāpaṃ nāpnoti vai tathā dīpaṃ dadyānmahādevyai anyebhyo'pi ca bhairava| kurvantaṃ pṛthivītāpaṃ yo dīpamutsṛjennaraḥ sa tāmratāpaṃ narakaṃ prāpnotyeva śataṃ samāḥ| suvṛttavartiḥ susnehaḥ pātramagnaḥ sudarśanaḥ sūcchrāye vṛkṣakoṭau tu dīpaṃ dadyāt prayatnataḥ| labhyate yasya tāpastu dīpasya caturaṅgulāt na sa dīpa iti khyāto hyoghavahnistu sa śrutaḥ| netrāhlādakaraḥ svarcirdūratāpavivarjitaḥ susikhaḥ śabdarahito nirdhūmo nātihrasvakaḥ| dakṣiṇāvartavartistu pradīpaḥ śrīvivṛddhaye dopavṛkṣasthite pātre śuddhasnehaprapūrite| dakṣiṇāvartavartyā tu cārudīptaḥ pradīpakaḥ uttamaḥ procyate putra sarvatuṣṭipradāyakaḥ| vṛkṣeṇa varjito dīpo madhyamaḥ parikīrtitaḥ vihīnaḥ pātratailābhyāmadhamaḥ parikīrtitaḥ| śāṇaṃ vā dāravaṃ vastraṃ jīrṇaṃ malinameva vā upayuktaṃ ca nādadyād vartikārthaṃ tu sādhakaḥ| upādadyānnūtnameva satataṃ śrīvivṛddhaye koṣajaṃ romajaṃ vastraṃ vartikārthaṃ na cādadet| na miśrīkṛtya dadyāt tu dīpe snehaghṛtādikān kṛtvā miśrīkṛtaṃ snehaṃ tāmisraṃ narakaṃ vrajet| vasāmajjāsthiniryāsaiḥ snehaiḥ prāṇyaṅgasambhavaiḥ pradīpaṃ naiva kuryāt tu kṛtvā paṅke'vasīdati| asthipātre'tha vā pacyed durgandhāsthipavāsini naivaṃ dīpaḥ pradātavyo vibudhaiḥ śrīvivṛddhaye| naiva nirvāpayed dīpaṃ kadācidapi yatnataḥ satataṃ lakṣaṇopetaṃ devārthamupakalpitam| na harejjñānato dīpaṃ tathā lobhādinā naraḥ dīpahartā bhavedandhaḥ kāṇo nirvāpako bhavet| uddīptadīpapratimaṃ kāṣṭhakāṇḍasamudbhavaṃ bilvedhmodbhavamevātha dīpālābhe nivedayet| ulmukaṃ naiva dīpārthe kadācidapi cotsṛjet prasannārthaṃ tu taṃ dadyādupacārād bahiṣkṛtam| evaṃ vāṃ kathito dīpo dhūpaṃ ca śṛṇutaṃ sutau nāsākṣirandhrasukhadaḥ sugandho'timanoharaḥ| dahyamānasya kāṣṭhasya prayatasyetarasya ca parāgasyāthavā dhūmo nistāpo yasya jāyate| sa dhūpa iti vijñeyo devānāṃ tuṣṭidāyakaḥ rāśīkṛtairna caikatra tairdravyaiḥ paridhūpayet | tuṣāgnivartulāṃ kṛtvā na tat phalamavāpnuyāt śrīcandanaṃ ca saralaḥ śālaḥ kṛṣṇāgurustathā| udayaḥ surathaskando raktavidruma eva ca pītaśālaḥ parimalo virmadī kāśalastathā| namerurdevadāruśca bilvasāro'tha khādiraḥ santānaḥ pārijātaśca haricandanavallabhau| vṛkṣeṣu dhapāḥ sarveṣāṃ prītidāḥ parikīrtitāḥ arālaḥ saha sūtrema śrīvāsaḥ paṭṭavāsakaḥ| karpūraḥ śrīkaraścaiva parāgaḥ śrīharāmalau sarvauṣadhīpa jātīca varāhaścūrṇa utkalaḥ| jātīkoṣasya curṇaṃ ca gandhaḥ kastūrikā tathā kṣode vṛtte ca gaditā dhūpā ete udāhṛtāḥ| yakṣadhūpo vṛkṣadhūpaḥ śrīpiṣṭo'guru ḍharḍharaḥ patrivāhaḥ piṇḍadhūpaḥ sugolaḥ kaṇṭha eva ca| anyonyayogā niryāsā dhūpā ete prakīrtitāḥ etairvidhūpayed devān dhūmibhiḥ kṛṣṇavatmanā| yeṣāṃ dhūpodbhavairghrāṇaistuṣṭiṃ gacchanti jantavaḥ niryāsaśca parāgaśca kāṣṭhaṃ gandhaṃ tathaiva ca| kṛtrimaśceti pañcaite dhūpāḥ prītikarāḥ parāḥ na yakṣadhūpaṃ vitarenmādhavāya kadācana| na raktaṃ vidrumaṃ mahyaṃ surathaṃ kadrilaṃ tathā yakṣadhūpaḥ putrivāhaḥ pimḍadhūpaḥ sugolakaḥ| kṛṣṇāguruḥ sakarpūro mahāmāyāpriyaḥ smṛtaḥ vṛkṣadhūpena vā devīṃ mahāmāyāṃ prapūjayet| medomajjāsamāyuktān na dhūpān viniyojayet parakīyāṃstathāghrātāṃste'pi kṛtyābhimarditān| puṣpaṃ dhūpaṃ ca gandhaṃ ca upacārāṃstathāparān ghrātvā nivedya devebhyo naro narakamāpnuyāt| na bhūmau vitared dhūpaṃ nāsane na ghaṭe tathā yathātathādhāragataṃ kṛtvā tad vinivedayet| raktavidrumaśālau ca surathaḥ suralastathā santānako nameruśca kālāgurusamanvitaḥ| jātīkoṣākṣasaṃyukto dhūpaḥ kāmeśvarīpriyaḥ tripurāyāstathaivāyaṃ mātṛṇāmapi nityaśaḥ| sarveṣāṃ pīṭhadevānāṃ rudrādīnāṃ ca putrakau eṣa vāṃ kathito dhūpaḥ śṛṇu tannetrarañjanam| yena tuṣyati kāmākhyā tripurā vaiṣṇavī tathā sauvīraṃ yāmunaṃ tutthraṃ mayūragrīvakaṃ tathā| darvikā meghanīlaśca añjanāni bhavanti ṣaṭ sravaddrumaṃ ca sauvīraṃ yāmunaṃ prastaraṃ tathā| mayūragrīvakaṃ ratnaṃ meghanīlastu taijasam ghṛṣṭhāni grāhya caitāni śilāyāṃ taijase'tha vā| pradadyāt sarvadevebhyo devībhyaścāpi putraka ghṛtatailādiyogena tāmrādau dīpavahninā| yadañjanaṃ jāyate tu darvikā parikīrtitā sarvābhāve tu tad dadyād devībhyo dāhajāñjanam| mahāmāyā jagaddhātrī kāmākhyā tripurā tathā āpnuvanti mahātoṣaṃ ṣaḍbhirebhiḥ sadāñjanaiḥ| vidhavā nāñjanaṃ kuryānmahāmāyārthamṛttamam nādatte tvañjanaṃ devī vaiṣṇavī vidhavākṛtam| ta mṛtpātre yojayet tu sādhako netrarañjanam na pūjāphalamāpnoti mṛtpātravihitāñjanaiḥ| caturvargaprado dhūpaḥ kāmadaṃ netrarañjanam tasmād dvayamidaṃ dadyād devebhyo bhaktito naraḥ| iti vāṃ gadito dhūpastathoktaṃ netrarañjanam| naivedyaṃ tu mahādevyāḥ śṛṇvaikāgramanāḥ punaḥ