Kalika Purana — Chapter 67
KaP 67.67
।।श्रीभगवानुवाच।। क्रमस्तु बलिदानस्य स्वरूप रुधिरादितः । यता स्यात् प्रीतये सम्यक् तद् वां वक्ष्यामि पुत्रकौ वैष्णवीतन्त्रकल्पोक्तः क्रमः सर्वत्रः सर्वदा। साधकैर्बलिदानस्य ग्राह्यः सर्वसुरस्य च पक्षिणः कञ्छपा ग्राहा मत्स्या नवविधा मृगाः। महिषो गोधिका कावश्छागो रुरुश्च शूकरः खड्गश्च कृष्णसारश्च गोधिका शरभो हरिः। शार्दूलश्च नरश्चैव स्वगात्ररुधिरं तथा चण्डिकाभैरवादोनां बलयः परिकीर्तिताः। बलिभिः साध्यते मुक्तिर्बलिभिः साध्यते दिवम् बलिदानेन सततं जयेच्छत्रून्नृपान् नृपः। मत्स्यानां कच्छपानां तु रुधिरैः सततं शिवा मासैकं तृप्तिमाप्नोति ग्राहैर्मासांस्तु त्रीनथ। मृगाणां शोणितैर्देवी नराणामपि शोणितैः अष्टौ मासानवाप्नोति तृप्तिं कल्याणदा च सा। गोधिकानां गौरुधिरैर्वाषिकां तृप्तिमाप्नुयात् कृष्णसारस्य रुधिरैः शूकरस्य च शोणितैः। प्राप्नोति सततं देवी तृप्तिं द्वादशवार्षिकोम् अजाविकानां रुधिरैः पञ्चविंशतिवार्षिकीम्। महिषाणां च खड्गानां रुधिरैः शतवार्षिकीम् तृप्तिमाप्नोति परमां शार्दूलरुधिरैस्तथा। सिंहस्य शरभस्याथ स्वगात्रस्य च शोणितैः देवी तृप्तिमवाप्नोति सहस्रं परिवत्सरान्। मांसैरपि तथा प्रीति रुधिरैर्यस्य यावती कृष्णसारं मृगं खड्गं तता मत्स्यं च रोहितम्। वार्ध्रींणसयुगं चापि फलं तेषां पृथक् पृथक् कृष्णसारस्य मांसेन तथा खड्गेन चण्डिका। वर्षाणां च शतान्येव तप्तिमाप्नोति केवलम् रोहितस्य तु मत्स्यस्य मांसैर्वार्ध्रीणसस्य च। तृप्तिं प्राप्नोति वर्षाणां शतानि त्रीणि मत्प्रिया तृप्नुवन्त्विन्द्रियक्षीणं स्वेतं वृद्धमजापतिम्। वार्ध्रीणसः प्रोच्यतेऽसौ हव्ये कव्ये च सत्कृतः नीलग्रीवो रक्तशीर्षः कृष्णपादः सितच्छदः। वार्ध्रीणसः स्यात्पक्षी च मम विष्णोरपि प्रियः नरेण बलिना देवी सहस्रं परिवत्सरान्। विधिदत्तेन चाप्नोति तृप्तिं लक्षं त्रिभिर्नरैः नरेणेवाथ मांसेन त्रिसहस्रं च वत्सरान्। तृप्तिमाप्नोति कामाख्या भैरवी मम रूपधृक् मन्त्रपूतं शोणितं तु पीयूषं जायते सदा। मस्तकं चापि तस्याति मांसं चापि तथा शिवा तस्मात् तु पूजने दद्याद् वलेः शीर्ष च लोहितम्। भोज्ये होमे च मांसानि नियुञ्जीयाद् विचक्षणः पूजासु नाममांसानि दद्याद् वै साधकः क्वचित्। ऋते तु लोहितं शीर्षममृतं तत्तु जायते कूष्माण्डभिक्षुदण्डं च मद्यमासवमेव च। एते बलिसमाः प्राक्तास्तृप्तौ छागसमाः सदा चन्द्रहासेन कर्त्र्या वा छदनं मुख्यमिष्यते। दात्रासिधेनुक्रकचशंकुलाभिस्तु मध्यमम् क्षुरक्षुरप्रभल्लैश्च वाधम परिकीर्तितम्। एभ्योऽन्यः शक्तिबाणाद्यै र्बलिश्छेद्यः कदापि न नात्ति देवी बलिं तत्तु दाता मृत्युमवाप्नुयात्। हस्तेन चेदयेद् यस्तु प्रोक्षित साधकः पशुम् पक्षिणं वा ब्रह्मवध्यामवाप्नोति सुदुःसहाम् । नामन्त्र्य खण्डं तु बलि नियुञ्जीत विचक्षणः खड्गस्यामन्त्रणे मन्त्रा यावन्तः कथिताः पुरा। महामायाबलौ ते वै योज्यास्तत्रोदिता बुधैः तैः सार्धमेते मन्त्रास्तु योज्याः खड्गादिमन्त्रणे। पूजने शारदादीनां कामाक्याया विशेषतः द्विः कालीति ततो देव्या वज्रेश्वरिपदं ततः। ततोऽनु लौहदण्डायै नमः शेषे तु योजयेत् सम्पूज्यानेन मन्त्रेण खड्गमादाय पाणिना। कालरात्र्यास्तु मन्त्रेण तं खड्गमभिमन्त्रयेत् नेत्रबीजस्य मध्यं तु द्विरावर्त्य प्रयोजयेत्। ततोऽतु कालिकालीति करालोष्ठी ततः परम् हान्तादींश्च तृतीयेन स्वरेणैकादशेन वै । योजिता नाबिन्दुभ्यां द्वौ तत पश्चान्नियोजयेत् फेत्कारिणिपदं तस्मात् खादयच्छेदयेत्यतः। सर्वान् दुष्टानिति ततो द्विमरिय लुलायकम् खड्गेन छिन्धि छिन्धीति ततः किलकिलेति वै। ततः चिकिचिकीत्येवं ततः पिबपिबेति च ततोऽनु रुधिरं चेति स्फैंकिरि किरीति च। कालिकायै नम इति कालरात्र्यास्तु मन्त्रकम् इत्यनेन तु मन्त्रेण करवालेऽभिमन्त्रिते। कालरात्री स्वयं तत्र प्रसीदत्यरिहानये बलेः पूर्वोदिता मन्त्रा नित्यं गुह्यास्तु साधकैः। अयं मन्त्रस्तु वक्तव्यस्तस्य हत्याविहानये यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा। अतस्त्वां घातयिष्यामि तस्माद् यज्ञे वधोऽवधः ततो दैवतमुद्दिश्य काममुद्दिश्य चात्मनः। छेदयेत् तेन खड्गेन बलिं पूर्वाननं तु तम् अथवोत्तरवक्त्त्रं तं स्वयं पूर्वमुखस्तथा। पूर्वोक्तान् सैन्धवादींस्तु वक्त्त्रेऽवश्यं नियोजयेत् सौवर्णं राजत ताम्रं रैत्यं पत्रपुट च वा। माहेयं कांस्यमथवा यज्ञकाष्ठमयं च वा पात्रं रुधिरदानाय कर्त्तव्यं विभवावधि। न लौहे वल्कले वापि वैत्रे राङ्गेऽथ सैसके दद्याद्रक्तं बलीनां तु भूमौ स्रुचि स्रुवे तथा । न घटे भूतले वापि देयं क्षुद्रे न भाजने रुधिराणि प्रदद्यात्तु भूतिकामो नरोत्तमः। नरस्य तु सदा रक्तं माहैये तैजसेऽथ वा दद्यान्नरपतिस्तत्तु न पत्रादौ कदाचन। हयमेधमृते दद्यान्न कदाचिद्धयं बलिम् तथा दिक्पालमेदे तु गजं दद्यान्नराधिपः। न कदाचित् तदा देव्यै प्रदद्याद्धयहस्तिनौ हयाकर्षे चामरं तु बलिं दद्यान्नराधिपः। सिंहं व्याघ्रं नरं चापि स्वगात्ररुधिरं तथा न दद्यात् ब्राह्मणो मद्यं महादेव्यै कदाचन। सिंहं व्यघ्रन्नरं दत्वा ब्राह्मणो नरक व्रजेत् इहापि स्यात् स हीनायुः सुखसौभाग्यवर्जितः। स्वगात्ररुधिरं दद्याच्चात्मवध्यामवाप्नुयात् मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते। न कृष्णासारं वितरेद् बलिं तु क्षत्रियादिकः ददतः कृष्णसारं तु ब्रह्महत्या भवेद् यतः। यत्र सिंहस्य व्याघ्रस्य नरस्य विहितो वधः ब्रह्मणोक्ता तु बल्यादौ तत्रायं विहितः क्रमः। कृत्वा घृतमयं व्याघ्रं नरं सिंहं च भैरव अथवा पूपविकृतं यवक्षोदमयं च वा। घातयेच्चन्द्रहासेन तेन मन्त्रेण संस्कृतम् प्रभूतबलिदाने तु द्वौ वा त्रीन् वाग्रतः कृतान्। पूजयेत् प्रमुखान् कृत्वा सर्वान् मन्त्रेण साधकः सामान्यपूजा कथिता बलीनां पूर्वतो मया। विशेषो यत्रः यत्रास्ति तन्मत्तः शृणु भैरव महिषं प्रददेद् देव्यै भैरव्यै भैरवाय वा । अनेनैव तु मन्त्रेण तदा तं पूययेद् बलिम् यथा वाहं भवान् द्वेष्टि यथा वहसि चण्डिकाम्। तथा मम रिपून् हिंस शुभं वह लूलायक यमस्य वाहनस्त्वं तु वररूपधराव्यय। आयुर्वित्तं यशो देहि कासराय नमोऽस्तु ते खड्गस्य तु यदा दानं क्रियते तन्त्रमन्त्रकम्। जलेनाभ्युक्ष्य कुर्वीत गुहाजातेति भाषयन्।. ६७.६० ।। दैवे पैत्रे च शुभगः खड्गस्त्वं खड्गसन्निभः। छिन्धि विघ्नान् महाभाग गुहाजात नमोऽस्तु ते प्रदाने कृष्णसारस्य मन्त्रोऽयं परिकीर्तितः। कृष्णसार ब्रह्ममूर्ते ब्रह्मतेजोविवर्धन चतुर्वेदमयं प्राज्ञ प्रज्ञां देहि यशी महत् । तथा शरभपूजायां मन्त्रमेतत् प्रकीर्तितम् त्वमष्टपादो विभ्रष्टचन्द्रभागसमुद्भव। अष्टमूर्ते महाबाहो भैरवाख्य नमोऽस्तु ते यथा भैरवरूपेम वराहो निहतस्त्वया। तथा शरभरूपेण रिपून् पिघ्नान् निषूदय हरिस्त्वं हररूपेण यथा वहसि चण्डिकाम्। तथा शुभानि मे नित्यं बहुविघ्नांश्च सूदये त्वं हरिः सिंहरूपेण जगत्प्रत्यूहरूपिणम्। जघान येन सत्येन हिरण्यकशिपुं हरन् इत्येवं सिंहपूजायां क्रम उक्तो मयानघ। नरे स्वगात्ररुधिरे पर्यायं शृणु भैरव पीठे चेद् दीयते मर्त्यो बलिं दद्यात् श्मशानके। श्मशानं हेरुकाख्यं तु तत्पूर्वं प्रतिपादितम् कामाख्यानिलये शैले ओडादौ विद्धि तत् क्रमम्। मम रूपं श्मशानं तद् भैरवाख्यं च कथ्यते तत्राङ्गत्वं तपःसिद्धौ त्रिभागां तु भविष्यति। पूर्वाङ्गे भैरवाख्ये तु समुत्सृष्टिर्नरस्य तु दक्षिणाङ्गे शिरो दद्याद् भैरव्या मुण्डमालया। रुधिरं पश्चिमाङ्गे तु हेरुकाख्ये नियोजयेत् दत्त्वा सम्पूज्य तु नरं विसृज्यागमनक्रमे। पीठश्मशानेषु बलिं नेक्षेत्तु बलिदीपकम् अन्यत्रापि यतो यत्र दीयते यन्महाबलिः। तत्राप्यन्यत्र चोत्सृज्यच्छित्वान्यत्र शिरोऽमृतम् नियोजयेत् साधकस्तु विसृज्य न विलोकयेत्। सस्नातं मनुजं दीप्तं पूर्वाह्णनियताशनम् मांसमैथुनभोग्येन हीनं स्रक्चन्दनोक्षितम्। कृत्वोत्तरामुखं तं तु तदङ्गेष्वङ्गदेवताः पूजयेत् तं तु नाम्ना तु दैवतेन च मानुषम्। तद्ब्रह्मरन्ध्रे ब्रह्माणं तन्नासायां च मेदिनीम् कर्णयोस्तु तथाकाशं जिह्वायां सर्वतोमुखम्। ज्योतींषि नेत्रयोर्विष्णुं वदने परिपूजयेत् ललाटे पूजयेच्चन्द्र शक्तं दक्षिणगण्डतः। वामाण्डे तथा वह्निं ग्रीवायं समवर्तिनम् केशाग्रे निर्ऋतिं मध्ये भ्रवोश्चापि प्रचेतसम्। नासामले तु श्वसनं स्कन्धं चापि धनेश्वरम् हृदये सर्पराजं तु पूजयित्वा पठेदिदम्। नरवर्य्य महाभाग सर्वदेवमयोत्तम रक्ष मां शरणापन्नं सपुत्रपशुबान्धवम्। सराज्यं मां महामात्यं चतुरङ्ग समन्वितम् रक्ष परित्यज्य प्राणान्मरणे नियते सति। महातपोभिर्ज्ञानैश्च यज्ञैर्यत् साध्यतेऽमृतम् तन्मे देहि महाभाग त्वं चापि प्राप्नुहि श्रियम्। राक्षसाश्च पशाचाश्च वेतालाद्याः सरीसृपाः नृपाश्च रिपवश्चान्ये न मां ते ध्नन्तु त्वत्कृते। त्वत्कण्ठनालगलितैः शोणितैरङ्गसंयुतैः आप्यायस्वात्मवन्मृत्वा मरणे नियते सति। एवं सम्पूज्य विधिवत् पूर्वतन्त्रैश्च पूजयेत् पूजितो मत्स्वरूपोऽयं दिक्पालाधिष्ठितो भवेत्। अधिष्ठितस्तथान्यैश्च ब्रह्माद्यैः सकलैः सुरैः कृतपापोऽपि मनुजो निष्पाप्मा स तु जायते। तस्य निष्कलुषस्याशु पीयूषं शोणितं भवेत् प्रीणाति च महादेवी जगन्माता जगन्मयी। सोऽपि कायं परित्यज्य मानुषं नचिरान्मृतः भवेद् गणानामधिपो मयापि बहुसत्कृतः। इतोऽन्यथा पापयुक्तं मलमूत्रवसायुतम् तं बलिं न हि गृह्णाति कामाख्यान्यापि नामतः। अन्येषां महिषदीनां बलीनामथ पूजनात् कायो मेध्यत्वमायाति रक्तं गृह्णाति वै शिवा। अन्येभ्योऽपि च देवेभ्यो यदा यत्तु प्रदीयते तदर्चितं प्रदद्यात् तु पूजिताय सुराय वै। काणं पङ्गुं चातिवृद्धं रोगिणं च गलद्व्रणम् क्लीबं हीनाङ्गमथवा वृद्धलिङ्गं कुलक्षणम्। श्वित्रिणं चातिह्रस्वं च महापातकिनं तथा अद्वादशकवर्षीयं शिशु सूतकसंयुतम्। ऊर्ध्वं संवत्सराच्चापि महागुरुनिपातिनम् बलिकर्मणि चेतांस्तु वर्जयेत् पूजितानपि। पशूनां पक्षिणां वापि नराणां च विशेषतः स्त्रियं न दद्यात् तु बलीन् दत्त्वा नरकमाप्नयात्। सङ्घातवलिदानेषु योषितं पशुपक्षिणः बलिं दद्यान्मानुषीं तु त्यक्त्वा सङ्घातपूजितम्। न त्रिमासीयकान्यूनं पशुं दद्याच्छिवाबलिम् न च त्रैपक्षिकान् न्यून प्रदद्याद् वै पतत्त्रिणम्। काणव्यङ्गादिदुष्टं तु न पशुं पक्षिणं तथा देव्यै दद्यात् तथा मर्त्यं तथैव पशुपक्षिणौ। छिन्नलाङ्गूलकर्णादीन् भग्नदन्तांस्तथैव च भग्नशृङ्गादिकं वापि न दद्यात् तु कदाचन। न ब्राह्मणं बलिं दद्याच्चाण्डालमपि पार्थिव नोत्सृष्टं द्विजदेवेभ्यो भूपतेस्तनयं तथा। रणेन विजितं दद्यात्तनयं रिपुभूभृतः स्वपुत्रं भ्रातरं वापि पितरं चाविरोधिनम्। विट्पतिं च न दद्यात्तु भागिनेयं च मातुलम् अनुक्तान्नापि दद्यात् तु तथाज्ञातान् मृगद्विजान्। उक्तालाभे प्रदद्यात्तु गर्दभं चोष्ट्रमेव च लाभेऽन्येषां न वितरेद् व्याघ्रमुष्ट्रं खरं तया। सम्पूज्य विधिवन्मर्त्यं पशुं पक्षिणमेव वा सच्छिन्नं चापि मन्त्रेण मन्त्रेणैव निवेदयेत्। नारं मर्त्यशिरोरक्तं देव्याः सम्यग् निवेदयेत् छागं तु वामतो दद्यान्माहिषं वितरेत् पुरः। पक्षिणं बामतो दद्यादग्रतो देहशोणितम् क्रव्यादानां पशूनां तु पक्षिणां तु सिरोऽसृजम्। वामे निवेदयेत् पार्श्वे जलजानां च सर्वशः कृष्णसारस्य कूर्मस्य खड्गस्य शशकस्य च। ग्राहाणामथ मत्स्यानामग्रे एव निवेदयेत् सिंहस्य दक्षिमे दद्यात् खड्गिनोऽपि च दक्षिणे। पृष्ठदेशे न दद्यात् तु शिरो वा रुधिरं वलेः नैवेद्यं दक्षिणे वामे पुरतो ने तु पृष्टतः। दीपं दक्षिणतो दद्यात् पुरतो वा न वामतः वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे। निवेदयेत पुरोभागे गन्धं पुष्पं च भूषणम् मण्डले चेन्मध्याभागे वामदक्षादिपूर्ववत्। मदिरां पृष्ठतो दद्यादन्यत् पानं तु वामतः अवश्यं विहित यत्र मद्यं तत्र द्विजः पुनः। नारिकेलजलं कांस्ये ताम्रे वा विसृजेन्मधु नापद्यपि द्विजो मद्यं कदाचिद् विसृजेदपि। ऋते पुष्पासवादुक्ताद गृञ्जनाद् वा विशेषतः राजपुत्रस्तथामात्यः सचिवः सौप्तिकादयः । दद्युर्नरबलिं भूप सम्पत्त्यै विभवाय च नृपाननुमते मर्त्यं दत्त्वा पापमवाप्नुयात्। उपप्लवे रणे वापि यथेच्छं वितरेन्नरम् यः कश्चिद्राजपुरुषो नान्यस्त्वपि कदाचन। बलिदानदिनात् पूर्वं दिवसे तु बलिं नरम् मानस्तोकेति मन्त्रेण देवीसूक्तेन येन च। गन्धद्वारेत्यनेनापि खड्गं शीर्षे निधाय च तस्मिन् खड्गे सुगन्धादि दत्त्वा तेनाधिवासयेत्। गन्धादिकं त खड्गस्थं अम्बेऽम्बिकेति मन्त्रेण रौद्रेण भैरवस्य च। एवं तु संस्कृते मर्त्ये देवी रक्षति तं बलिम् न तस्य व्याधयश्चापि क्षुण्णतारजसी न व। न सूतकं दूषयेत्तज्ज्ञात्युत्पत्तिमृतादिकम् छिन्नं नरस्य शीर्षं तु पतितं यत्र यत्र च। यच्छुभं चाशुभं वापि पश्वादीनां च तच्छृणु छिन्नं सिरस्ततैशान्यां नारं दिश्यथ राक्षसे। पतितं राज्यहानिं च विनाशं च विनिर्दिशेत् पूर्वाग्नियाम्यवारुण्य-वायव्यादिगतं क्रमात्। श्रियं पुष्टिं भयं लाभं पुत्रलाभं धनं तथा क्रमाद् विनिर्दिशेन्नारं छिन्नशीर्षं तु भैरव। उत्तरादिक्रमादेव महिषस्यापि मस्तकः पतितो वायुकाष्ठान्ते सूचयेद् यच्छृणुष्व तत्। भाग्यं हानिन्तथैश्वर्य वित्तं रिपुजयं भयम् राज्यलाभं श्रियं चापि क्रमाद् विद्धि तु भैरव। पशूनां चैव सर्वेषां छागादीनामशेषत- एवं फलं क्रमाद् विद्यादृते जलजवाण्डजौ। जलजानां पक्षिणां तु याम्यनैर्ऋत्ययोर्भयम् अन्यत्र तु श्रियं दद्यात् पतितं शातितं शिरः। यः स्यात् कटकटाशब्दो दन्तानां छिन्नमस्तके नराणां पशुपक्ष्यादिग्राहादीनां च रोगदः। लोतकं चक्षुषोर्जातं यदि स्रवति मस्तके छिन्ने नरस्य राज्यस्य ता हानिं विनिर्दिशेत्। माहिषे मस्तके नेत्राद् यदि स्रवति लोतकम् छिन्ने निवेदितं वैरिभूपमृत्युं तदादिशेत्। अन्येषामथ पश्वादिवलीनां शिरसोऽर्दितात् निगंतं लोतकं धत्ते परां भीतिं गदं तथा। हसति च्छिन्नशीर्षं चेन्नारं स्यात् तु रिपुक्षयः श्रीवृद्धिरयुषो वृद्धिः सदा दातुरसंशयः। यद् यद्वाक्यं निगदति तथा भवति चाचिरात् हूङ्काराद्राज्यहानिः स्याच्छलेष्मस्रावाच्च पञ्चता। देवानां यदि नामानि भाषते छिन्नमस्तकः विभूतिमतुलां विद्यात् षण्मासाभ्यन्तरे तदा। रुधिरादानकाले तु शकृन्मूत्रे यदि स्रवेत् कायं तदाधश्चोर्ध्वं वा दातुः स्यान्मरणं तदा। आक्षेपाद् वामपादस्य महारोगः प्रजायते अन्यदाक्षेपचलनैः कल्याणमुपजायते। महिषस्य तु रक्तस्य मानुषस्य तु साधकः अङ्गुष्ठानामिकाभ्यां तु किंचिदुद्धृत्य भूतले। महाकौशिकमन्त्रेण निक्षिपेद् बलिमुत्तमम् देवेभ्यः पूतनादिभ्यो नैर्ऋत्यां दिशी पूर्वतः। महिषःपञ्चवर्षीयः पञ्चविंशतिवार्षिकः बलिर्देयो नरो देव्यै तस्य रक्तं तु भूतये। नेत्रबीजत्रयं कामवीजं हन्ता प्रजापतिः वह्निबीजं षट्स्वराभ्यां संपृक्तश्च तथा परः। स एवैतास्तथैतावदादिवर्गान्तसंयुतः षष्ठस्वरशिखाबिन्दुश्चन्द्रयुक्तस्थापरः। द्विर्मासिकाबोजकान्तः कौशिकीत्यभिमन्त्रणम् एष बलिः स्वाहेति मन्त्रोऽयं कौशिकी स्मृतः। नृपो वैरिबलिं दद्यात् खड्गमामन्त्र्य पूर्वतः महिषं चाथ छागं वा वैरिनाम्नाभिमन्त्र्य च। सूत्रेण वदने बद्धं त्रिधा तस्य तु मन्त्रकैः छित्त्वा तस्योत्तमाङ्गं तु देव्यै दद्यात् प्रयत्नतः। यदा यदा रिपोर्वृद्धिर्वलिदानं तदा परम् दद्यात् तदा शिरश्छित्त्वा रिपोस्तस्य क्षयाय च। प्राणप्रतिष्ठां च रिपोः कुर्यात् तस्मिन् पशावथ तस्मिन् क्षीणे रिपोः प्राणाः क्षीयन्ते विपदा युताः। आदौ विरुद्धरूपिणि चण्डिके च ततः परम् वैरिणन्त्वमुकं चेति याहीत्याम्रेडितं पुनः। वह्निभार्या ततः पश्चात् खड्गमन्त्रं प्रकीर्तितम् स्वयं स वैरी यो द्वेष्टि तमिमं पशुरूपिणम्। विनाशय महामारी स्फें खादय खादय इत्यनेन तु मन्त्रेण वद्व्यः शिरसि पुष्पकम्। दद्यात् ततस्तद्रुधिरं द्व्यक्षराभ्वां निवेदयेत् महानवम्यां शरदि यद्येवं दीयते बलिः। तदा तदष्टाङ्गभवैर्मांसैर्होमं समाचरेत् दुर्गातन्त्रेण मन्त्रेण प्रणीते दहने शुचौ। एवं दत्त्वा वलिं मर्त्यो रिपुक्षयमवाप्नुयात् नाभेरधस्ताद्रधिरं पृष्ठभागस्य च श्रिये। स्वगात्ररुधिरं दद्यान्न कदाचन साधकः नोष्ठस्य चिबुकस्यापि नेन्द्रियाणां च मानवः। कण्ठाधो नाभितश्चोर्ध्वं बाह्वोः पाणिमृते तथा प्रदद्याद्रुधिरं घातं नातिकुर्याच्च साधकः। गण्डयोश्च ललाटस्य भ्रुवोर्मध्यस्य शोणितम् कर्णाग्रस्य च बाह्वोस्च गलयो रुदरस्य च। कण्ठाधो नाभितश्चोर्ध्वं हृद्भागस्य यतस्ततः पार्श्वयोश्चापि रुधिरं दुर्गायै विनिवेदयेत्। न गुल्फतोऽसृक्प्रदद्यान्न जत्रोर्नापि वक्त्रतः न च रोगबिलादङ्गान्नान्यघाताच्च भैरव। तदर्थे च कृताघातः सश्रद्धोऽभुब्धमानसः श्रुते रक्तं प्रदद्यात्तु पद्मपुष्पस्य पत्रके। सौवर्णे राजते कांस्ये लौहे फलि न वा नरः निधाय देव्यै दद्यात् तु तद्रक्तं मन्त्रपूर्वकम्। खननं क्षुरिकाखड्गशङ्कुलादि यदस्त्रकम् घातेन बृहदस्त्रस्य महाफलमवाप्नुयात्। पद्मपुष्पस्य पत्रं तु यावद् गृह्णाति शोणितम् तत्प्रमाणे चतुर्भागाधिकं रक्तं तु साधकः। न कदाचित् प्रदद्यात्तु नाङ्गच्छेदमथाचरेत् यः स्वहृदयसञ्जातमांसं माषप्रमाणतः। तिलमुद्गप्रमाणाद् वा देव्यै दद्यात् तु भक्तितः षण्मासाभ्यन्तरे तस्मात् काममिष्टमवाप्नुयात्। बाह्वोस्तु स्कन्धयोर्वापि यो दद्याद् दीपवर्तिकाम् हृदये वा स्नेहपात्रं विना भवत्या तु साधकः। क्षणमात्रेण तद्दीषप्रदानस्य फलं शृणु भुक्त्वा च विपुलान् भोगान् देवीगेहे यदृच्छया। कल्पत्रयं तु संस्थाय सार्वभौमो नृपो भवेत् महिषस्य शिरश्छिन्नं सप्रदीपं शिवापुरः। हस्ताभ्यां यः समादाय अहोरात्रं तु तिष्ठति स चिरायुः पूतमूर्तिरिह भुक्त्वा मनोरमान्। भोगान्ते मद्गृहगो गणानामधिपो भवेत् नरस्य शीर्षमादाय साधको दक्षिणे करे। वामेन रौधिरं पात्रं गृहीत्वा निशि जाग्रतः यावद्रात्रं स्थितो मर्त्यो राजा भवति चेह वै। मृते मम गृहं प्राप्य गणानामधिपो भवेत् क्षणमात्रं वलीनां यः शिरोरक्तं करद्वये। गृहीत्वा चिन्तयेद् देवीं पुरस्तिष्ठति मानवः स कामानिह सम्प्राप्य देवीलोके महीयते। महामाये जगन्नाथे सर्वकामप्रदायिनि ददामि देहरुधिरं प्रसीद वरदा भव। इत्युक्त्वा मूलमन्त्रेम नतिपूर्व विचक्षणः स्वगात्ररुधिरं दद्याद् मानवः सिद्धसन्निभः । येनात्ममांसं सत्येन ददामीश्वरि भूतये निर्वाणं तेन सत्यन देहि हं हं नमो नमः। इत्यनेन तु मन्त्रेण स्वमांसं वितरेद् बुधः सौभाग्यंसुखसम्पन्नं प्रदीपं परमं रुचिः। दीपयोन्मांसमिह तं दीपं ह्नौं ह्नौं नमो नमः इत्यनेन तु मन्त्रेण दीपं दद्याद् विचक्षणः। महानवम्यां शिरदि रात्रौ स्कन्दविशाखयोः यवचूर्णंमयं कृत्वा रिपुं मृन्मयमेव वा। शिरश्छित्त्वा वलिं दद्यात् कृत्वा तस्य तु मन्त्रतः अनेनैव तु मन्त्रेम खड्गमामन्त्र्य यत्नतः। रक्तं किलिकिली घोर घोराधारविहिंसकः ब्रह्मशिष्याम्बिकाशिष्यममुकं चारिसत्तमम्। मान्तो विसर्गसहितः स च बिन्दुयुतोऽपरः शिरश्छित्त्वा वलिं दद्यात् कृत्वा तस्य तु मन्त्रतः। अनेनैव तु मन्त्रेण बिन्दुना च समन्वितः ब्रह्मग्निर्योगचन्द्रेण बिन्दुना च समन्वितः। फडन्तो वलिषु प्रोक्तः खड्गः स्कन्दविशाखयोः रक्तद्रव्यैः शोचयित्वा कृत्रिमं तं वलिं रिपुम्। कुचन्दनस्य तिलकं ललाटे विनिवेश्य च रक्तमाल्याम्बरं कृत्वा रक्तवस्त्रधरं तथा। कण्ठे बद्ध्वा रक्तसूत्रैर्नाभौ शल्यं च कृत्रिमम् दत्त्वोत्तरशिरः स्कन्धं कृत्वा खड्गेन छेदयेत्। शिरस्तस्य ततो दद्यात् स्कन्दमन्त्रेण मन्त्रितम् चतुर्दशस्वराग्निभ्यां सम्पृक्तः स्तात् पुरःसकम् । परतः परतः पूर्वं चन्द्रबिन्दुसमन्वितम् स्कन्दस्य मूलमन्त्रोऽयं तेन तस्मै बलिं सृजेत्। चतुर्दशस्वराग्निभ्यां तृतीयं तु च पूर्ववत् प्रोक्तो विशाखमन्त्रोऽयं तेन तस्मै बलिं सृजेत्। कुटिलाक्षौ कृष्णपिङ्गवर्णौ रक्ताङ्गधारिणौ त्रिशूलं करवालं च पाणिभ्यां दक्षिणे तथा। बिभ्रतौ नृकपालं च कत्रिंकां चाति वामतः त्रिनेत्रौ नरमुण्डानां मालामुरसि बिभ्रतौ। विकटौ दशनैर्भीमैर्गणेशौ द्वारपालकौ ध्यानेन चिन्तयेद् देव्याः पुरतः संस्थितौ सदा। चैत्रे मास्यसिते पक्षे चतुर्दश्यां विशेषतः वलिभिर्महिषैश्छागैः मां च बैरवरूपिणम्। तोषयेन्मधुमिर्मांसैस्तेन तुष्याम्यहं सुतौ चण्डिका वलिदाने तु वलिशीर्षं जलेन च। अभिषिच्य तु मन्त्रेण मूलेनैव निवेदयेत् ईषत्प्राणं तु बहुधा चलितं पूर्वमर्चितम्। वीक्षेत् कायसमृद्धिं तु सिद्धभावं च साधकः सितप्रेतो रथस्तेषां योगपीठस्य सन्निभः। ध्यायाम्यस्मिन् महामाये सिद्धिं बोधयते नमः अनेनामन्त्रितं शीर्षं न चिराद् यदि वेपते। तत्कार्यस्य तदा सिद्धिरसिद्धिस्तु विपर्ययात् एवं ददद् वलिं वीरो यथोक्त विधिनाऽमुना। वलिदानादेव चतुर्वर्गमाप्नोत्यसंशयम् एवं वलिप्रदानस्य क्रमो रूपं तथैव च। कथितो रुधिराध्याय उपचाराञ् शृणुष्व मे
||śrībhagavānuvāca|| kramastu balidānasya svarūpa rudhirāditaḥ | yatā syāt prītaye samyak tad vāṃ vakṣyāmi putrakau vaiṣṇavītantrakalpoktaḥ kramaḥ sarvatraḥ sarvadā| sādhakairbalidānasya grāhyaḥ sarvasurasya ca pakṣiṇaḥ kañchapā grāhā matsyā navavidhā mṛgāḥ| mahiṣo godhikā kāvaśchāgo ruruśca śūkaraḥ khaḍgaśca kṛṣṇasāraśca godhikā śarabho hariḥ| śārdūlaśca naraścaiva svagātrarudhiraṃ tathā caṇḍikābhairavādonāṃ balayaḥ parikīrtitāḥ| balibhiḥ sādhyate muktirbalibhiḥ sādhyate divam balidānena satataṃ jayecchatrūnnṛpān nṛpaḥ| matsyānāṃ kacchapānāṃ tu rudhiraiḥ satataṃ śivā māsaikaṃ tṛptimāpnoti grāhairmāsāṃstu trīnatha| mṛgāṇāṃ śoṇitairdevī narāṇāmapi śoṇitaiḥ aṣṭau māsānavāpnoti tṛptiṃ kalyāṇadā ca sā| godhikānāṃ gaurudhirairvāṣikāṃ tṛptimāpnuyāt kṛṣṇasārasya rudhiraiḥ śūkarasya ca śoṇitaiḥ| prāpnoti satataṃ devī tṛptiṃ dvādaśavārṣikom ajāvikānāṃ rudhiraiḥ pañcaviṃśativārṣikīm| mahiṣāṇāṃ ca khaḍgānāṃ rudhiraiḥ śatavārṣikīm tṛptimāpnoti paramāṃ śārdūlarudhiraistathā| siṃhasya śarabhasyātha svagātrasya ca śoṇitaiḥ devī tṛptimavāpnoti sahasraṃ parivatsarān| māṃsairapi tathā prīti rudhirairyasya yāvatī kṛṣṇasāraṃ mṛgaṃ khaḍgaṃ tatā matsyaṃ ca rohitam| vārdhrīṃṇasayugaṃ cāpi phalaṃ teṣāṃ pṛthak pṛthak kṛṣṇasārasya māṃsena tathā khaḍgena caṇḍikā| varṣāṇāṃ ca śatānyeva taptimāpnoti kevalam rohitasya tu matsyasya māṃsairvārdhrīṇasasya ca| tṛptiṃ prāpnoti varṣāṇāṃ śatāni trīṇi matpriyā tṛpnuvantvindriyakṣīṇaṃ svetaṃ vṛddhamajāpatim| vārdhrīṇasaḥ procyate'sau havye kavye ca satkṛtaḥ nīlagrīvo raktaśīrṣaḥ kṛṣṇapādaḥ sitacchadaḥ| vārdhrīṇasaḥ syātpakṣī ca mama viṣṇorapi priyaḥ nareṇa balinā devī sahasraṃ parivatsarān| vidhidattena cāpnoti tṛptiṃ lakṣaṃ tribhirnaraiḥ nareṇevātha māṃsena trisahasraṃ ca vatsarān| tṛptimāpnoti kāmākhyā bhairavī mama rūpadhṛk mantrapūtaṃ śoṇitaṃ tu pīyūṣaṃ jāyate sadā| mastakaṃ cāpi tasyāti māṃsaṃ cāpi tathā śivā tasmāt tu pūjane dadyād valeḥ śīrṣa ca lohitam| bhojye home ca māṃsāni niyuñjīyād vicakṣaṇaḥ pūjāsu nāmamāṃsāni dadyād vai sādhakaḥ kvacit| ṛte tu lohitaṃ śīrṣamamṛtaṃ tattu jāyate kūṣmāṇḍabhikṣudaṇḍaṃ ca madyamāsavameva ca| ete balisamāḥ prāktāstṛptau chāgasamāḥ sadā candrahāsena kartryā vā chadanaṃ mukhyamiṣyate| dātrāsidhenukrakacaśaṃkulābhistu madhyamam kṣurakṣuraprabhallaiśca vādhama parikīrtitam| ebhyo'nyaḥ śaktibāṇādyai rbaliśchedyaḥ kadāpi na nātti devī baliṃ tattu dātā mṛtyumavāpnuyāt| hastena cedayed yastu prokṣita sādhakaḥ paśum pakṣiṇaṃ vā brahmavadhyāmavāpnoti suduḥsahām | nāmantrya khaṇḍaṃ tu bali niyuñjīta vicakṣaṇaḥ khaḍgasyāmantraṇe mantrā yāvantaḥ kathitāḥ purā| mahāmāyābalau te vai yojyāstatroditā budhaiḥ taiḥ sārdhamete mantrāstu yojyāḥ khaḍgādimantraṇe| pūjane śāradādīnāṃ kāmākyāyā viśeṣataḥ dviḥ kālīti tato devyā vajreśvaripadaṃ tataḥ| tato'nu lauhadaṇḍāyai namaḥ śeṣe tu yojayet sampūjyānena mantreṇa khaḍgamādāya pāṇinā| kālarātryāstu mantreṇa taṃ khaḍgamabhimantrayet netrabījasya madhyaṃ tu dvirāvartya prayojayet| tato'tu kālikālīti karāloṣṭhī tataḥ param hāntādīṃśca tṛtīyena svareṇaikādaśena vai | yojitā nābindubhyāṃ dvau tata paścānniyojayet phetkāriṇipadaṃ tasmāt khādayacchedayetyataḥ| sarvān duṣṭāniti tato dvimariya lulāyakam khaḍgena chindhi chindhīti tataḥ kilakileti vai| tataḥ cikicikītyevaṃ tataḥ pibapibeti ca tato'nu rudhiraṃ ceti sphaiṃkiri kirīti ca| kālikāyai nama iti kālarātryāstu mantrakam ityanena tu mantreṇa karavāle'bhimantrite| kālarātrī svayaṃ tatra prasīdatyarihānaye baleḥ pūrvoditā mantrā nityaṃ guhyāstu sādhakaiḥ| ayaṃ mantrastu vaktavyastasya hatyāvihānaye yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā| atastvāṃ ghātayiṣyāmi tasmād yajñe vadho'vadhaḥ tato daivatamuddiśya kāmamuddiśya cātmanaḥ| chedayet tena khaḍgena baliṃ pūrvānanaṃ tu tam athavottaravakttraṃ taṃ svayaṃ pūrvamukhastathā| pūrvoktān saindhavādīṃstu vakttre'vaśyaṃ niyojayet sauvarṇaṃ rājata tāmraṃ raityaṃ patrapuṭa ca vā| māheyaṃ kāṃsyamathavā yajñakāṣṭhamayaṃ ca vā pātraṃ rudhiradānāya karttavyaṃ vibhavāvadhi| na lauhe valkale vāpi vaitre rāṅge'tha saisake dadyādraktaṃ balīnāṃ tu bhūmau sruci sruve tathā | na ghaṭe bhūtale vāpi deyaṃ kṣudre na bhājane rudhirāṇi pradadyāttu bhūtikāmo narottamaḥ| narasya tu sadā raktaṃ māhaiye taijase'tha vā dadyānnarapatistattu na patrādau kadācana| hayamedhamṛte dadyānna kadāciddhayaṃ balim tathā dikpālamede tu gajaṃ dadyānnarādhipaḥ| na kadācit tadā devyai pradadyāddhayahastinau hayākarṣe cāmaraṃ tu baliṃ dadyānnarādhipaḥ| siṃhaṃ vyāghraṃ naraṃ cāpi svagātrarudhiraṃ tathā na dadyāt brāhmaṇo madyaṃ mahādevyai kadācana| siṃhaṃ vyaghrannaraṃ datvā brāhmaṇo naraka vrajet ihāpi syāt sa hīnāyuḥ sukhasaubhāgyavarjitaḥ| svagātrarudhiraṃ dadyāccātmavadhyāmavāpnuyāt madyaṃ dattvā brāhmaṇastu brāhmaṇyādeva hīyate| na kṛṣṇāsāraṃ vitared baliṃ tu kṣatriyādikaḥ dadataḥ kṛṣṇasāraṃ tu brahmahatyā bhaved yataḥ| yatra siṃhasya vyāghrasya narasya vihito vadhaḥ brahmaṇoktā tu balyādau tatrāyaṃ vihitaḥ kramaḥ| kṛtvā ghṛtamayaṃ vyāghraṃ naraṃ siṃhaṃ ca bhairava athavā pūpavikṛtaṃ yavakṣodamayaṃ ca vā| ghātayeccandrahāsena tena mantreṇa saṃskṛtam prabhūtabalidāne tu dvau vā trīn vāgrataḥ kṛtān| pūjayet pramukhān kṛtvā sarvān mantreṇa sādhakaḥ sāmānyapūjā kathitā balīnāṃ pūrvato mayā| viśeṣo yatraḥ yatrāsti tanmattaḥ śṛṇu bhairava mahiṣaṃ pradaded devyai bhairavyai bhairavāya vā | anenaiva tu mantreṇa tadā taṃ pūyayed balim yathā vāhaṃ bhavān dveṣṭi yathā vahasi caṇḍikām| tathā mama ripūn hiṃsa śubhaṃ vaha lūlāyaka yamasya vāhanastvaṃ tu vararūpadharāvyaya| āyurvittaṃ yaśo dehi kāsarāya namo'stu te khaḍgasya tu yadā dānaṃ kriyate tantramantrakam| jalenābhyukṣya kurvīta guhājāteti bhāṣayan|. 67.60 || daive paitre ca śubhagaḥ khaḍgastvaṃ khaḍgasannibhaḥ| chindhi vighnān mahābhāga guhājāta namo'stu te pradāne kṛṣṇasārasya mantro'yaṃ parikīrtitaḥ| kṛṣṇasāra brahmamūrte brahmatejovivardhana caturvedamayaṃ prājña prajñāṃ dehi yaśī mahat | tathā śarabhapūjāyāṃ mantrametat prakīrtitam tvamaṣṭapādo vibhraṣṭacandrabhāgasamudbhava| aṣṭamūrte mahābāho bhairavākhya namo'stu te yathā bhairavarūpema varāho nihatastvayā| tathā śarabharūpeṇa ripūn pighnān niṣūdaya haristvaṃ hararūpeṇa yathā vahasi caṇḍikām| tathā śubhāni me nityaṃ bahuvighnāṃśca sūdaye tvaṃ hariḥ siṃharūpeṇa jagatpratyūharūpiṇam| jaghāna yena satyena hiraṇyakaśipuṃ haran ityevaṃ siṃhapūjāyāṃ krama ukto mayānagha| nare svagātrarudhire paryāyaṃ śṛṇu bhairava pīṭhe ced dīyate martyo baliṃ dadyāt śmaśānake| śmaśānaṃ herukākhyaṃ tu tatpūrvaṃ pratipāditam kāmākhyānilaye śaile oḍādau viddhi tat kramam| mama rūpaṃ śmaśānaṃ tad bhairavākhyaṃ ca kathyate tatrāṅgatvaṃ tapaḥsiddhau tribhāgāṃ tu bhaviṣyati| pūrvāṅge bhairavākhye tu samutsṛṣṭirnarasya tu dakṣiṇāṅge śiro dadyād bhairavyā muṇḍamālayā| rudhiraṃ paścimāṅge tu herukākhye niyojayet dattvā sampūjya tu naraṃ visṛjyāgamanakrame| pīṭhaśmaśāneṣu baliṃ nekṣettu balidīpakam anyatrāpi yato yatra dīyate yanmahābaliḥ| tatrāpyanyatra cotsṛjyacchitvānyatra śiro'mṛtam niyojayet sādhakastu visṛjya na vilokayet| sasnātaṃ manujaṃ dīptaṃ pūrvāhṇaniyatāśanam māṃsamaithunabhogyena hīnaṃ srakcandanokṣitam| kṛtvottarāmukhaṃ taṃ tu tadaṅgeṣvaṅgadevatāḥ pūjayet taṃ tu nāmnā tu daivatena ca mānuṣam| tadbrahmarandhre brahmāṇaṃ tannāsāyāṃ ca medinīm karṇayostu tathākāśaṃ jihvāyāṃ sarvatomukham| jyotīṃṣi netrayorviṣṇuṃ vadane paripūjayet lalāṭe pūjayeccandra śaktaṃ dakṣiṇagaṇḍataḥ| vāmāṇḍe tathā vahniṃ grīvāyaṃ samavartinam keśāgre nirṛtiṃ madhye bhravoścāpi pracetasam| nāsāmale tu śvasanaṃ skandhaṃ cāpi dhaneśvaram hṛdaye sarparājaṃ tu pūjayitvā paṭhedidam| naravaryya mahābhāga sarvadevamayottama rakṣa māṃ śaraṇāpannaṃ saputrapaśubāndhavam| sarājyaṃ māṃ mahāmātyaṃ caturaṅga samanvitam rakṣa parityajya prāṇānmaraṇe niyate sati| mahātapobhirjñānaiśca yajñairyat sādhyate'mṛtam tanme dehi mahābhāga tvaṃ cāpi prāpnuhi śriyam| rākṣasāśca paśācāśca vetālādyāḥ sarīsṛpāḥ nṛpāśca ripavaścānye na māṃ te dhnantu tvatkṛte| tvatkaṇṭhanālagalitaiḥ śoṇitairaṅgasaṃyutaiḥ āpyāyasvātmavanmṛtvā maraṇe niyate sati| evaṃ sampūjya vidhivat pūrvatantraiśca pūjayet pūjito matsvarūpo'yaṃ dikpālādhiṣṭhito bhavet| adhiṣṭhitastathānyaiśca brahmādyaiḥ sakalaiḥ suraiḥ kṛtapāpo'pi manujo niṣpāpmā sa tu jāyate| tasya niṣkaluṣasyāśu pīyūṣaṃ śoṇitaṃ bhavet prīṇāti ca mahādevī jaganmātā jaganmayī| so'pi kāyaṃ parityajya mānuṣaṃ nacirānmṛtaḥ bhaved gaṇānāmadhipo mayāpi bahusatkṛtaḥ| ito'nyathā pāpayuktaṃ malamūtravasāyutam taṃ baliṃ na hi gṛhṇāti kāmākhyānyāpi nāmataḥ| anyeṣāṃ mahiṣadīnāṃ balīnāmatha pūjanāt kāyo medhyatvamāyāti raktaṃ gṛhṇāti vai śivā| anyebhyo'pi ca devebhyo yadā yattu pradīyate tadarcitaṃ pradadyāt tu pūjitāya surāya vai| kāṇaṃ paṅguṃ cātivṛddhaṃ rogiṇaṃ ca galadvraṇam klībaṃ hīnāṅgamathavā vṛddhaliṅgaṃ kulakṣaṇam| śvitriṇaṃ cātihrasvaṃ ca mahāpātakinaṃ tathā advādaśakavarṣīyaṃ śiśu sūtakasaṃyutam| ūrdhvaṃ saṃvatsarāccāpi mahāgurunipātinam balikarmaṇi cetāṃstu varjayet pūjitānapi| paśūnāṃ pakṣiṇāṃ vāpi narāṇāṃ ca viśeṣataḥ striyaṃ na dadyāt tu balīn dattvā narakamāpnayāt| saṅghātavalidāneṣu yoṣitaṃ paśupakṣiṇaḥ baliṃ dadyānmānuṣīṃ tu tyaktvā saṅghātapūjitam| na trimāsīyakānyūnaṃ paśuṃ dadyācchivābalim na ca traipakṣikān nyūna pradadyād vai patattriṇam| kāṇavyaṅgādiduṣṭaṃ tu na paśuṃ pakṣiṇaṃ tathā devyai dadyāt tathā martyaṃ tathaiva paśupakṣiṇau| chinnalāṅgūlakarṇādīn bhagnadantāṃstathaiva ca bhagnaśṛṅgādikaṃ vāpi na dadyāt tu kadācana| na brāhmaṇaṃ baliṃ dadyāccāṇḍālamapi pārthiva notsṛṣṭaṃ dvijadevebhyo bhūpatestanayaṃ tathā| raṇena vijitaṃ dadyāttanayaṃ ripubhūbhṛtaḥ svaputraṃ bhrātaraṃ vāpi pitaraṃ cāvirodhinam| viṭpatiṃ ca na dadyāttu bhāgineyaṃ ca mātulam anuktānnāpi dadyāt tu tathājñātān mṛgadvijān| uktālābhe pradadyāttu gardabhaṃ coṣṭrameva ca lābhe'nyeṣāṃ na vitared vyāghramuṣṭraṃ kharaṃ tayā| sampūjya vidhivanmartyaṃ paśuṃ pakṣiṇameva vā sacchinnaṃ cāpi mantreṇa mantreṇaiva nivedayet| nāraṃ martyaśiroraktaṃ devyāḥ samyag nivedayet chāgaṃ tu vāmato dadyānmāhiṣaṃ vitaret puraḥ| pakṣiṇaṃ bāmato dadyādagrato dehaśoṇitam kravyādānāṃ paśūnāṃ tu pakṣiṇāṃ tu siro'sṛjam| vāme nivedayet pārśve jalajānāṃ ca sarvaśaḥ kṛṣṇasārasya kūrmasya khaḍgasya śaśakasya ca| grāhāṇāmatha matsyānāmagre eva nivedayet siṃhasya dakṣime dadyāt khaḍgino'pi ca dakṣiṇe| pṛṣṭhadeśe na dadyāt tu śiro vā rudhiraṃ valeḥ naivedyaṃ dakṣiṇe vāme purato ne tu pṛṣṭataḥ| dīpaṃ dakṣiṇato dadyāt purato vā na vāmataḥ vāmatastu tathā dhūpamagre vā na tu dakṣiṇe| nivedayeta purobhāge gandhaṃ puṣpaṃ ca bhūṣaṇam maṇḍale cenmadhyābhāge vāmadakṣādipūrvavat| madirāṃ pṛṣṭhato dadyādanyat pānaṃ tu vāmataḥ avaśyaṃ vihita yatra madyaṃ tatra dvijaḥ punaḥ| nārikelajalaṃ kāṃsye tāmre vā visṛjenmadhu nāpadyapi dvijo madyaṃ kadācid visṛjedapi| ṛte puṣpāsavāduktāda gṛñjanād vā viśeṣataḥ rājaputrastathāmātyaḥ sacivaḥ sauptikādayaḥ | dadyurnarabaliṃ bhūpa sampattyai vibhavāya ca nṛpānanumate martyaṃ dattvā pāpamavāpnuyāt| upaplave raṇe vāpi yathecchaṃ vitarennaram yaḥ kaścidrājapuruṣo nānyastvapi kadācana| balidānadināt pūrvaṃ divase tu baliṃ naram mānastoketi mantreṇa devīsūktena yena ca| gandhadvāretyanenāpi khaḍgaṃ śīrṣe nidhāya ca tasmin khaḍge sugandhādi dattvā tenādhivāsayet| gandhādikaṃ ta khaḍgasthaṃ ambe'mbiketi mantreṇa raudreṇa bhairavasya ca| evaṃ tu saṃskṛte martye devī rakṣati taṃ balim na tasya vyādhayaścāpi kṣuṇṇatārajasī na va| na sūtakaṃ dūṣayettajjñātyutpattimṛtādikam chinnaṃ narasya śīrṣaṃ tu patitaṃ yatra yatra ca| yacchubhaṃ cāśubhaṃ vāpi paśvādīnāṃ ca tacchṛṇu chinnaṃ sirastataiśānyāṃ nāraṃ diśyatha rākṣase| patitaṃ rājyahāniṃ ca vināśaṃ ca vinirdiśet pūrvāgniyāmyavāruṇya-vāyavyādigataṃ kramāt| śriyaṃ puṣṭiṃ bhayaṃ lābhaṃ putralābhaṃ dhanaṃ tathā kramād vinirdiśennāraṃ chinnaśīrṣaṃ tu bhairava| uttarādikramādeva mahiṣasyāpi mastakaḥ patito vāyukāṣṭhānte sūcayed yacchṛṇuṣva tat| bhāgyaṃ hānintathaiśvarya vittaṃ ripujayaṃ bhayam rājyalābhaṃ śriyaṃ cāpi kramād viddhi tu bhairava| paśūnāṃ caiva sarveṣāṃ chāgādīnāmaśeṣata- evaṃ phalaṃ kramād vidyādṛte jalajavāṇḍajau| jalajānāṃ pakṣiṇāṃ tu yāmyanairṛtyayorbhayam anyatra tu śriyaṃ dadyāt patitaṃ śātitaṃ śiraḥ| yaḥ syāt kaṭakaṭāśabdo dantānāṃ chinnamastake narāṇāṃ paśupakṣyādigrāhādīnāṃ ca rogadaḥ| lotakaṃ cakṣuṣorjātaṃ yadi sravati mastake chinne narasya rājyasya tā hāniṃ vinirdiśet| māhiṣe mastake netrād yadi sravati lotakam chinne niveditaṃ vairibhūpamṛtyuṃ tadādiśet| anyeṣāmatha paśvādivalīnāṃ śiraso'rditāt nigaṃtaṃ lotakaṃ dhatte parāṃ bhītiṃ gadaṃ tathā| hasati cchinnaśīrṣaṃ cennāraṃ syāt tu ripukṣayaḥ śrīvṛddhirayuṣo vṛddhiḥ sadā dāturasaṃśayaḥ| yad yadvākyaṃ nigadati tathā bhavati cācirāt hūṅkārādrājyahāniḥ syācchaleṣmasrāvācca pañcatā| devānāṃ yadi nāmāni bhāṣate chinnamastakaḥ vibhūtimatulāṃ vidyāt ṣaṇmāsābhyantare tadā| rudhirādānakāle tu śakṛnmūtre yadi sravet kāyaṃ tadādhaścordhvaṃ vā dātuḥ syānmaraṇaṃ tadā| ākṣepād vāmapādasya mahārogaḥ prajāyate anyadākṣepacalanaiḥ kalyāṇamupajāyate| mahiṣasya tu raktasya mānuṣasya tu sādhakaḥ aṅguṣṭhānāmikābhyāṃ tu kiṃciduddhṛtya bhūtale| mahākauśikamantreṇa nikṣiped balimuttamam devebhyaḥ pūtanādibhyo nairṛtyāṃ diśī pūrvataḥ| mahiṣaḥpañcavarṣīyaḥ pañcaviṃśativārṣikaḥ balirdeyo naro devyai tasya raktaṃ tu bhūtaye| netrabījatrayaṃ kāmavījaṃ hantā prajāpatiḥ vahnibījaṃ ṣaṭsvarābhyāṃ saṃpṛktaśca tathā paraḥ| sa evaitāstathaitāvadādivargāntasaṃyutaḥ ṣaṣṭhasvaraśikhābinduścandrayuktasthāparaḥ| dvirmāsikābojakāntaḥ kauśikītyabhimantraṇam eṣa baliḥ svāheti mantro'yaṃ kauśikī smṛtaḥ| nṛpo vairibaliṃ dadyāt khaḍgamāmantrya pūrvataḥ mahiṣaṃ cātha chāgaṃ vā vairināmnābhimantrya ca| sūtreṇa vadane baddhaṃ tridhā tasya tu mantrakaiḥ chittvā tasyottamāṅgaṃ tu devyai dadyāt prayatnataḥ| yadā yadā riporvṛddhirvalidānaṃ tadā param dadyāt tadā śiraśchittvā ripostasya kṣayāya ca| prāṇapratiṣṭhāṃ ca ripoḥ kuryāt tasmin paśāvatha tasmin kṣīṇe ripoḥ prāṇāḥ kṣīyante vipadā yutāḥ| ādau viruddharūpiṇi caṇḍike ca tataḥ param vairiṇantvamukaṃ ceti yāhītyāmreḍitaṃ punaḥ| vahnibhāryā tataḥ paścāt khaḍgamantraṃ prakīrtitam svayaṃ sa vairī yo dveṣṭi tamimaṃ paśurūpiṇam| vināśaya mahāmārī spheṃ khādaya khādaya ityanena tu mantreṇa vadvyaḥ śirasi puṣpakam| dadyāt tatastadrudhiraṃ dvyakṣarābhvāṃ nivedayet mahānavamyāṃ śaradi yadyevaṃ dīyate baliḥ| tadā tadaṣṭāṅgabhavairmāṃsairhomaṃ samācaret durgātantreṇa mantreṇa praṇīte dahane śucau| evaṃ dattvā valiṃ martyo ripukṣayamavāpnuyāt nābheradhastādradhiraṃ pṛṣṭhabhāgasya ca śriye| svagātrarudhiraṃ dadyānna kadācana sādhakaḥ noṣṭhasya cibukasyāpi nendriyāṇāṃ ca mānavaḥ| kaṇṭhādho nābhitaścordhvaṃ bāhvoḥ pāṇimṛte tathā pradadyādrudhiraṃ ghātaṃ nātikuryācca sādhakaḥ| gaṇḍayośca lalāṭasya bhruvormadhyasya śoṇitam karṇāgrasya ca bāhvosca galayo rudarasya ca| kaṇṭhādho nābhitaścordhvaṃ hṛdbhāgasya yatastataḥ pārśvayoścāpi rudhiraṃ durgāyai vinivedayet| na gulphato'sṛkpradadyānna jatrornāpi vaktrataḥ na ca rogabilādaṅgānnānyaghātācca bhairava| tadarthe ca kṛtāghātaḥ saśraddho'bhubdhamānasaḥ śrute raktaṃ pradadyāttu padmapuṣpasya patrake| sauvarṇe rājate kāṃsye lauhe phali na vā naraḥ nidhāya devyai dadyāt tu tadraktaṃ mantrapūrvakam| khananaṃ kṣurikākhaḍgaśaṅkulādi yadastrakam ghātena bṛhadastrasya mahāphalamavāpnuyāt| padmapuṣpasya patraṃ tu yāvad gṛhṇāti śoṇitam tatpramāṇe caturbhāgādhikaṃ raktaṃ tu sādhakaḥ| na kadācit pradadyāttu nāṅgacchedamathācaret yaḥ svahṛdayasañjātamāṃsaṃ māṣapramāṇataḥ| tilamudgapramāṇād vā devyai dadyāt tu bhaktitaḥ ṣaṇmāsābhyantare tasmāt kāmamiṣṭamavāpnuyāt| bāhvostu skandhayorvāpi yo dadyād dīpavartikām hṛdaye vā snehapātraṃ vinā bhavatyā tu sādhakaḥ| kṣaṇamātreṇa taddīṣapradānasya phalaṃ śṛṇu bhuktvā ca vipulān bhogān devīgehe yadṛcchayā| kalpatrayaṃ tu saṃsthāya sārvabhaumo nṛpo bhavet mahiṣasya śiraśchinnaṃ sapradīpaṃ śivāpuraḥ| hastābhyāṃ yaḥ samādāya ahorātraṃ tu tiṣṭhati sa cirāyuḥ pūtamūrtiriha bhuktvā manoramān| bhogānte madgṛhago gaṇānāmadhipo bhavet narasya śīrṣamādāya sādhako dakṣiṇe kare| vāmena raudhiraṃ pātraṃ gṛhītvā niśi jāgrataḥ yāvadrātraṃ sthito martyo rājā bhavati ceha vai| mṛte mama gṛhaṃ prāpya gaṇānāmadhipo bhavet kṣaṇamātraṃ valīnāṃ yaḥ śiroraktaṃ karadvaye| gṛhītvā cintayed devīṃ purastiṣṭhati mānavaḥ sa kāmāniha samprāpya devīloke mahīyate| mahāmāye jagannāthe sarvakāmapradāyini dadāmi deharudhiraṃ prasīda varadā bhava| ityuktvā mūlamantrema natipūrva vicakṣaṇaḥ svagātrarudhiraṃ dadyād mānavaḥ siddhasannibhaḥ | yenātmamāṃsaṃ satyena dadāmīśvari bhūtaye nirvāṇaṃ tena satyana dehi haṃ haṃ namo namaḥ| ityanena tu mantreṇa svamāṃsaṃ vitared budhaḥ saubhāgyaṃsukhasampannaṃ pradīpaṃ paramaṃ ruciḥ| dīpayonmāṃsamiha taṃ dīpaṃ hnauṃ hnauṃ namo namaḥ ityanena tu mantreṇa dīpaṃ dadyād vicakṣaṇaḥ| mahānavamyāṃ śiradi rātrau skandaviśākhayoḥ yavacūrṇaṃmayaṃ kṛtvā ripuṃ mṛnmayameva vā| śiraśchittvā valiṃ dadyāt kṛtvā tasya tu mantrataḥ anenaiva tu mantrema khaḍgamāmantrya yatnataḥ| raktaṃ kilikilī ghora ghorādhāravihiṃsakaḥ brahmaśiṣyāmbikāśiṣyamamukaṃ cārisattamam| mānto visargasahitaḥ sa ca binduyuto'paraḥ śiraśchittvā valiṃ dadyāt kṛtvā tasya tu mantrataḥ| anenaiva tu mantreṇa bindunā ca samanvitaḥ brahmagniryogacandreṇa bindunā ca samanvitaḥ| phaḍanto valiṣu proktaḥ khaḍgaḥ skandaviśākhayoḥ raktadravyaiḥ śocayitvā kṛtrimaṃ taṃ valiṃ ripum| kucandanasya tilakaṃ lalāṭe viniveśya ca raktamālyāmbaraṃ kṛtvā raktavastradharaṃ tathā| kaṇṭhe baddhvā raktasūtrairnābhau śalyaṃ ca kṛtrimam dattvottaraśiraḥ skandhaṃ kṛtvā khaḍgena chedayet| śirastasya tato dadyāt skandamantreṇa mantritam caturdaśasvarāgnibhyāṃ sampṛktaḥ stāt puraḥsakam | parataḥ parataḥ pūrvaṃ candrabindusamanvitam skandasya mūlamantro'yaṃ tena tasmai baliṃ sṛjet| caturdaśasvarāgnibhyāṃ tṛtīyaṃ tu ca pūrvavat prokto viśākhamantro'yaṃ tena tasmai baliṃ sṛjet| kuṭilākṣau kṛṣṇapiṅgavarṇau raktāṅgadhāriṇau triśūlaṃ karavālaṃ ca pāṇibhyāṃ dakṣiṇe tathā| bibhratau nṛkapālaṃ ca katriṃkāṃ cāti vāmataḥ trinetrau naramuṇḍānāṃ mālāmurasi bibhratau| vikaṭau daśanairbhīmairgaṇeśau dvārapālakau dhyānena cintayed devyāḥ purataḥ saṃsthitau sadā| caitre māsyasite pakṣe caturdaśyāṃ viśeṣataḥ valibhirmahiṣaiśchāgaiḥ māṃ ca bairavarūpiṇam| toṣayenmadhumirmāṃsaistena tuṣyāmyahaṃ sutau caṇḍikā validāne tu valiśīrṣaṃ jalena ca| abhiṣicya tu mantreṇa mūlenaiva nivedayet īṣatprāṇaṃ tu bahudhā calitaṃ pūrvamarcitam| vīkṣet kāyasamṛddhiṃ tu siddhabhāvaṃ ca sādhakaḥ sitapreto rathasteṣāṃ yogapīṭhasya sannibhaḥ| dhyāyāmyasmin mahāmāye siddhiṃ bodhayate namaḥ anenāmantritaṃ śīrṣaṃ na cirād yadi vepate| tatkāryasya tadā siddhirasiddhistu viparyayāt evaṃ dadad valiṃ vīro yathokta vidhinā'munā| validānādeva caturvargamāpnotyasaṃśayam evaṃ valipradānasya kramo rūpaṃ tathaiva ca| kathito rudhirādhyāya upacārāñ śṛṇuṣva me