Kalika Purana — Chapter 66
KaP 66.66
।।और्व्व उवाच।। एतत्तन्त्रं समस्तं तु श्रुत्वा वेतालभैरवौ। पप्रच्छतुस्त्र्यम्बकं च हर्षोत्फुल्लविलोचनौ ।।वेतालभैरवावूचतुः।। कामाख्यायाः श्रुतं तन्त्रं साङ्गं युष्मत्प्रसादतः। नमस्कारं तथा मुद्रां बलिदानं तथैव च तथैव मातृकान्यासं पूजायां चान्यतः क्रमम्। एतत् सर्वं समाचक्ष्व विस्तरेण जगत्प्रभो। शृण्वतो नहि नौ तृप्तिर्जायते मोदभूमिषु ।।श्रीभगवानुवाच।। वक्ष्यामि यदहं पृष्टो भवद्भ्यां पुत्रकोत्तमौ। शृणुतं नरशार्दूलावेकाग्रमनसाधुना त्रिकोणमथ षट्कोणमर्धचन्द्रं प्रदक्षिणम्। दण्डमष्टाङ्गमुग्रं च सप्तधा नतिलक्षणम् ऐशानी वाथ कौबेरी दिक् कामाख्याप्रपूजने। प्रशस्ता स्थण्डिलादौ च सर्वमूर्तेश्च सर्वतः त्रिकोणादिव्यवस्था तु यदि पूर्वमुखो यजेत्। पश्चिमाच्छाम्भीं गत्वा व्यवस्थां निर्द्दिशेत् तदा यदोत्तरामुखः कुर्यात् साधको देवपूजनम्। तदा याम्यां तु वायव्यां गत्वा कुर्यात् तु संस्थितिम् दक्षिणाद् वायवीं गत्वा दिशं तस्माच्च शाम्भवीम्। ततोऽपि दक्षिणां गत्वा नमस्कारस्त्रिकोणवत् त्रिकोणाख्यो नमस्कारस्त्रिपुराप्रीतिदायकः। दक्षिणाद् वायवीं गत्वा वायव्याच्छाम्भवीं ततः ततोऽपि दक्षिणां गत्वा तां त्यक्त्वाग्नौ प्रविश्य च। अग्नितो राक्षसीं गत्वा तत्पश्चादुत्तरां दिशम् उत्तराच्च तथाग्नेयीं भ्रमणं द्वित्रिकोणवत्। षठ्कोणोऽयं नमस्कारः प्रीतिदः शिवदुर्गयोः दक्षिणाद् वायवीं गत्वा तस्मादावृत्य दक्षिणम्। गत्वा योऽसौ नमस्कारः सोऽर्धचन्द्रः प्रकीर्तितः सकृत् प्रदक्षिणं कृत्वा वर्तुलाकृति साधकः। नमस्कारः कथ्यतेऽसौ प्रदक्षिण इति द्विजैः त्यक्त्वा स्वमासनस्थानं पश्चाद् दुर्गानमस्कृतिः। प्रदक्षिणं विना यातु निपत्य भुवि दण्डवत् दण्ड इत्युच्यते देवैः सर्वदेवौघमोददः। पूर्ववद् दण्डवद् भूमौ निपत्य हृदयेन तु चिबुकेन मुखेनाथ नासया हनुकेन च। ब्रह्मरन्ध्रेण कर्णाभ्यां यद्भूमिस्पर्शनं क्रमात् स चाष्टाङ्ग इति प्रोक्तो नमस्कारो मनीषिभिः। प्रदक्षिणत्रयं कृत्वा साधको वर्तुलाकृतिः ब्रह्मरन्ध्रेण संस्पर्शः क्षितेर्यस्मान्नमस्कृतौ। स उग्र इति देवौघैरुच्यते विष्णुतुष्टिदः नदानां सागरो यद्वद् द्विपदं ब्राह्मणो यथा। नदीनां जाह्नवो यादृग् देवानामपि चक्रधृक् नमस्कारेषु सर्वेषु तथैवोग्रः प्रशस्यते। त्रिकोणाद्यैर्नमस्कारैः कृतैरेव तु भक्तितः चतुर्वर्गं लभेद् भक्तो नचिरादेव साधकः। नमस्कारो महायज्ञः प्रीतिदः सर्वतः सदा सर्वेषामेव देवानामन्येषामपि भैरव। योऽसावुग्रो नमस्कारः प्रीतिदः सतत हरेः महामायाप्रीतिकरः स नमस्करणोत्तमः। उक्तास्तत्र नमस्काराः शृणुतं परतो युवाम् मुद्राणां परिसंख्यानं स्वरूपं च यथाक्रमम्। धेनुश्च सम्पुटश्चैव प्राञ्जलिर्बिल्वपद्मकौ नाराचो मुण्डदण्डौ च योनिरर्धं तथैव च। वन्दनी च महामुद्रा महायोनिस्तथैव च भगश्च पुटकश्चैव निषङ्गोवाऽर्धचन्द्रकः। अङ्गश्च द्विमुखं चैव शङ्खमुद्रा च मुष्टिकः वज्रं चैव तथा रन्ध्रं षड्योनिर्विमल तथा। घटः शिखरिणीतुङ्गः पुण्ड्रोऽथ ह्यर्धपुण्ड्रकः ६६.२८ ।। सम्मिलनी च कुण्डश्च चक्रं शूलं तथैव च। सिंहवक्त्रं गोमुखं च प्रोन्नामोन्नमनं तथा बिम्बं पाशुपतं शुद्धं त्यागोऽथोत्सारिणी तथा। प्रसारिणी चोग्रमुद्रा कुण्डलीव्यूह एव च त्रिमुखा चासिवल्ली च योगो भेदोऽथ मोहनम्। बाणो धनुश्च तूणीरं मुद्रा एताश्च सत्तमाः अष्टोत्तरशतं मुद्रा ब्रह्मणा याः प्रकीर्तिताः। तासां तु पञ्चपञ्चाशदेता ग्राह्यास्तु पूजने शेषास्तु यास्त्रिपञ्चाशन्मुद्रास्ताः समयेषु च। द्रव्यानयनसंकेत नटनादिषु ताः स्मृताः देवानां चिन्तने योगे ध्याने जप्ये विसर्जने। आद्यास्तु पञ्चपञ्चाशन्मुद्रा भैरव कीर्तिता मुद्रां बिना तु यज्जप्यं प्राणायामः सुरार्च्चनम्। योगो ध्यानासने चापि निष्फलानि च भैरव प्रत्येकं लक्षणं तेषां शृणुतं तनयौ युवाम्। दक्षिणामध्यमाग्रेण सव्यहस्तस्य तर्जनीम् योजयेत् सव्यमध्यां तु तर्जन्या दक्षिणेन वै। तथा दक्षिणानामिकया वामहस्तकनिष्ठितकाम् अनामिकां तु वामस्य दक्षिणस्य कनिष्ठया। योजयेद् भक्तिमान् स्म्यग् दक्षिणावर्तनेन तु धेनुमुद्रा समाख्याता सर्वदेवस्य तुष्टिदा। संयोज्य द्वौ तलौ सर्वाण्यंगुल्यग्राणि हस्तयोः संयोज्य पाश्वतोऽङ्गुष्ठौ सम्पुटः प्रोच्यते सुरैः। सर्वेषामथ देवानां सम्पुटः प्रीतिदायकः ध्यानचिन्तनयोगादौ सम्पुटः शस्यते सदा। निकुब्जयुगलं पाण्योस्तं संयोज्यार्ध एव च मध्यशून्यः पुटाकारः प्राञ्जलिः परिकीर्तितः। अङ्गुष्ठमन्तरं कृत्वा पाण्योष्टिं विधाय च संयोज्य बिल्ववत्ते तु बिल्वमुद्रा प्रकीर्तिता। मणिबन्धादाकरभं सयोज्य करयोर्द्वयोः अङ्गुष्ठे चापि संयोज्य तथैव च कनिष्ठिके। तिस्रस्तिस्रस्तयोः पाण्योरङ्गुलोर्विरलास्तथा पद्ममुद्रा समाख्याता चतुर्वर्गफला नृणाम्। अङ्गुष्ठाग्रेण तर्जन्या संयोज्याथोर्ध्वरेखया अन्याङ्गुलीस्तथानम्य नाराचः स्यात् प्रसार्य ते। मम चैव शिवायाश्च प्रीतिदेयं प्रियङ्करी नाराचमुद्रा सततं प्रीत्यै वेतालभैरव। अन्तरङ्गुष्ठमुष्टिं च कृत्वा वामकरस्य तु मध्यमाया दक्षिणस्य तथानम्य प्रयत्नतः। मध्यमेनाथ तर्जन्या अङ्गुष्ठाग्रं नियोज्य च दक्षिणं योजयेत् पाणिं वाममुष्टीं च साधकः। दर्शयेद् दक्षिणे भागे मुण्डमुद्रेयमिष्यते इयं तु गणनाथस्य प्रीतिदा मुद्रिकोत्तमा। सर्वेषामपि देवानां तुष्टिदा सर्वकर्मसु अङ्गुष्ठमध्यमादींश्च सम्यगानम्य तर्जनीम्। प्रसार्य दण्डमुद्रेति दक्षिणस्य करस्य च सर्वाङ्गुलीस्तु संयोज्य करयोरुभयोरपि। संवेष्ट्य रज्जुवद् वेति पाण्योरपि कनिष्ठिके वामस्यानाममूलें वै उदग्रं विनियोजयेत्। दक्षस्य मध्यमामूले तथाग्रं वाममेव च योजयेद् योजनात् पश्चादावर्त्य करशाखिकाः। योन्याकारं तु तन्मध्यं योनिमुद्रा प्रकीर्तिता कामाख्यायाः पञ्चमूर्तेर्दुगाया अपि भैरव। प्रीतिदा योनिमुद्रेयं मम कामस्य च प्रिया संसक्ता अङ्गुलीः सर्वाः प्रसार्याङ्गुष्ठपर्वणा। अग्रेण च कनिष्ठाया अग्रेणापि च योजयेत् करस्य दक्षिणस्यैवमर्धयोनिः प्रकीर्तिता। महायोनिस्तु कथिता वैष्णवीतन्त्रणे वरे सम्पुटं प्राञ्जलिं वापि यदि शीर्षे प्रदर्शयेत्। वन्दनीया समख्याता मुद्रा विष्णुप्रमोदिनी सैव चेच्छ्रवणासक्ता महामुद्रा प्रकीर्तिता। दक्षिणाङ्गे तु सा सक्ता वैष्मवी परिकीर्तिता महायोनिस्तु कथिता वैष्णवी तन्त्रगोचरे। द्वयोस्तु मूलेऽङ्गुष्ठाग्रमङ्गुलीं च कनिष्ठयोः नियोज्य प्रसृतीकृत्य द्वौ पाणी योजयेत् पुनः। भगमुद्रा समाख्याता लक्ष्मीवाणीशिवप्रिया सर्वाङ्गुलीनामग्रौघं दक्षिणस्य च। संयोज्यैकत्र पुरतो निर्देशः पुटकः स्मृतः कनिष्ठानामिकाङ्गुष्ठाङ्गुलीना योजयेद् बुधः। अग्राण्येकत्र मध्यां तु तर्जनीं च प्रसार्य वै कुब्जीकृत्य करद्वन्द्वं पृथगग्रे निदर्शयेत्। निःसङ्गनाममुद्रेयं नरसिंहवराहयोः कनिष्ठानामिकाध्यमाकुञ्चन् दक्षिणेन तु। करस्य तर्जन्यङ्गुष्ठे प्रसार्य क्रियते तु या सा मुद्रा ह्यर्धचन्द्राख्या ग्रहाणां प्रीतिदायिनी। ऊर्ध्वीकृत्य तथाङ्गुष्ठं करस्य दक्षिणस्य तु कृत्वा मध्यां तदङ्गुष्ठं वाममुष्टिं तथोर्ध्वतः। ऊर्ध्वाङ्गुष्ठां तथा कुर्यादङ्गमुद्रा प्रकीर्तिता एतस्या एव मुद्रायाः कनिष्ठादिवियोगतः। अष्टौ मुद्राः समाख्याता नाम तासां पृथक् शृणु द्विमुखं चैव मुष्टिं च वज्रमाबद्धमेव च। विमलश्च घटश्चैव तुङ्गः पुण्ड्रस्तथैव च नवानां विष्णुमूर्तिता सार्धसङ्गेन मुद्रिकाः। क्रमान्नव समाख्याता नायिकानां तथैव च संयोज्य करयोः पृष्ठे तथावर्त्य तु वै समम्। प्रसार्य तर्जनीयुग्मं संयुक्तं सर्वतः पुनः अङ्गुष्ठोच ततासक्तौ शङ्खमुद्रा प्रकीर्तिता। उत्तानमञ्जलिं कृत्वा अङ्गुष्ठे द्वे कनिष्ठयोः मूले निक्षिप्य तु करौ संयोज्याथ प्रदर्शयेत्। सा योनिरिति विख्याता मुद्रा देवौघतुष्टिदा मुष्टिर्दक्षिणहस्तस्य यदोर्धाङ्गुष्ठिका भवेत्। सा स्याञ्छिखरिणीमुद्रा ब्राह्मीसूर्यप्रिया च सा अनामिके कनिष्ठे च संयोज्य वायुना पुनः। मध्यमा तर्जनीनां तु धेनुमुद्रेव बन्धनम् सार्धधेनुरिति ख्याता चन्द्रप्रीति विवर्धिनी। करयोरङ्गुलीनां तु सर्वाग्राण्येकतः स्थिता नियोज्य द्वे तले चैव तदधोऽपि नियोज्य च। अग्रैरग्रैयोजयेत् तु मुद्रा सम्मीलनी तु सा भौमभूमिमुनीशानामियं प्रीतिविवर्धिनी। सर्वाङ्गुलीस्तु संयोज्य दक्षिस्य करस्य च कियद्भागं तथानम्य तलं कुर्यात् तु कुण्डवत्। समाख्याता कुण्डमुद्रा बुधवाणोशिवप्रिया सर्वाङ्गुलीनां मध्यं तु वामहस्तस्य चाङ्गुलीः। प्रसार्याङ्गुष्ठयुगलं संयोज्याग्रेण भैरव तदङ्गुष्ठद्वयं कार्य सम्मुखं वितरेम् ततः। चक्रमुद्रा समाख्याता गुरुविष्णुशिवप्रिया अङ्गुष्ठं मध्यमां चैव नामयित्वा करस्य तु। दक्षिणस्य परास्तिस्रो योजयेदग्रतः पुनः शूलमुद्रा समाख्याता मम शुक्रग्रहप्रिया। निकुब्जीकृत्य तु करौ वामङ्गुलिगणस्य तु अग्राणि योजयेन्मध्ये तलस्यासव्यहस्ततः । अधः कृत्वा वामहस्तं मुद्रा सिंहमुखी स्मृता इयं प्रीत्यै तु दुर्गायाः सूर्यपुत्रस्य चक्रिणः। भगमुद्रा कर्णमूले गोमुखाख्या प्रकीर्तिता मम विष्णोस्तथा राहोः सर्वदा प्रीतिदायिनी। मुष्टिद्वयमथोत्तानं कृत्वा संयोज्य पार्श्वतः दक्षिणस्य कनिष्ठादीन प्रसार्य क्रमतः पुनः। तथा वामकनिष्ठाभ्यामेकैकेन प्रसारयेत् अष्टौ मुद्राः समाख्याता नामतः क्रमतः शृणु। प्रोल्लासोन्नमनं चैव विम्बं पाशुपतं तथा शुद्धं त्यागः सारणी च तथा चैव प्रसारणी। आकुञ्चकरशाखास्तु दक्षिणा सा तु मुद्रिका उग्रमुद्रा समाख्याता स्वहस्तस्य विपर्ययात्। इन्द्रादिलोकपालानां दशमुद्राः प्रकीर्तिताः सर्वेषामेव देवानां परमप्रीतिवर्धनाः । अङ्गुष्ठाग्रं तु तर्जन्या अगे भार्गेन योजयेत् आकुञ्चमध्यमाद्यास्तु दक्षहस्तस्य चाङ्गुलीः। दशयेत् कुण्डलाकारं कुण्डलीशक्तितुष्टिदम् सर्वेषामपि देवानां यथा तुष्टिकरं महत्। अङ्गुष्ठतर्जनीमध्या अग्रभागे नियोज्य च मध्यमां च कनिष्ठां च आकुञ्च्य दक्षिणे करे। त्रिमुखाख्या समाख्याता विश्वदेवप्रिया सदा केतोः प्रियेयं सतत मातृणामपि तुष्टिदा। तर्जन्यङ्गुष्ठयोरग्रभागौ संयोज्य चाङ्गुलीः अन्या आकुञ्चयेत् तिस्रः साऽसिवल्ली प्रकीर्तिता। पितृणामथ साध्यानां रुद्राणां विश्वकर्मणः सर्वदा प्रीतिजननी साऽसिवल्ली प्रकीर्तिता। पादौ तलाभ्यां संयोज्य तदङ्गुष्ठद्वयं यतः ऊर्ध्वं सयोजयेन्नाभौ तस्योपरि तथाञ्जलिः। योगमुद्रा समाख्याता योगिनां तत्त्वदायिनी सर्वेषामपि देवानां पूजने चिन्तने तथा। योगमुद्रा समाख्याता तुष्टप्रीतिकरो सदा प्राञ्जलिर्नाम मुद्रा तु ऊर्ध्वाधो भावयोजिता। विभिद्य दर्शयेद्धस्तौ ऊर्ध्वाधः प्रसृतीकृतौ भेदमुद्रा समाख्याता मम विष्णोविधेः प्रिया। अङ्गुष्ठे द्वे तु निक्षिप्य करयोरुभयोरपि अग्रेण योजयेत् पश्चात् कनिष्ठायुगलं ततः । उभयोर्हस्तयोश्चान्यास्तर्जन्याद्याश्च योजयेत् अग्राग्रैस्तु पृथक्कृत्य दर्शयेत् तु कनिष्ठिकाम्। मुद्रा सम्मोहनं नाम कामदुर्गारमाप्रिया सर्वेषामिह देवानां मोहनं प्रीतिदं स्मृतम्। आनम्यासव्यहस्तस्य मध्यमानामिके तथा तयोः पृष्ठे सुसंयोज्य अङ्गुष्ठाग्रं ततः परम्। कनिष्ठां तर्जनीं चैव अग्रेणायोजयेत् ततः बाणमुद्रा समाख्याता सर्वदेवस्य तुष्टिदा। सर्वाङ्गुलीस्तु सङ्कोच्य अङ्गुष्ठमथा तर्जनीम् प्रसायं करयो पश्चादङ्गुष्ठाग्रं तु योजयेत्। अछ्गुष्ठाग्रेण तर्जन्या अग्रेणापि च तर्जनीम् यथाशक्ति प्रसार्यापि धेनुमुद्रा प्रकीर्तिता। सर्वाङ्गुलीनामग्राणिब्राह्मे तीर्थे नियोजयेत् अनामिकायाः पृष्ठे तु अङ्गुष्ठाग्रं नियोज्य च। शून्यं तूणीरवत् कृत्वा तेषामन्तस्तु भैरव तूणीरमुद्रा चाख्याता सर्वेषां प्रीतिवर्धिनी। मुद्रासु संस्थिता पूजा सर्वेषु परिचिन्तनम् मुद्रासु संस्थिता योगा मुद्रा मोदकरास्ततः। यदा यदा पूजनेषु चिन्तने ध्यानकर्मणि यज्ञादौ स्तवने वापि हस्तकृत्यं न विद्यते। तदा मुद्रान्वितं कुर्यादिष्टापूर्ते करद्वयम् यज्ञकृत्येषु चेच्छक्तो हस्तो मुद्रासु च क्षमः। तदा मुद्रां विधायैव तत्तत् कृत्यं समाचरेत् मुद्राविमुक्तहस्तं तु क्रियते कर्म दैविकम्। कृत्वा तन्निष्फलं यस्मात् तन्मान्मुद्रान्वितो भवेतु विसर्जने तु देवानां यस्य या परिकीर्तिता। मुद्रां तां पूजनादौ तु तस्य नैव प्रयोजयेत् विसृज्योक्तामृते मुद्रां मुद्रायुक्तः समाचरेत्। पूजनादि समस्तं तु कर्मवृद्धौ विचक्षणः अतो मुद्रा परं नाम मुद्रा पुण्यप्रदायिनी। देवानां मोददा मुद्रा तस्मात् तां यत्नतश्चरेत् अर्धयोनिर्महायोनिर्योनिर्ब्राह्मी च वैष्णवी। मुद्रा विसर्जने प्रोक्ता शिवात्रिपुरयोः सदा दुर्गायाः सर्वरूपेषु मुद्रा एताः प्रकीर्तिताः। योनिं च सम्पुटं चैव महायोनिं तथैव च वर्जयित्वा व्यस्तभावादुक्तादन्यत्र योजयेत्। भवेद् यास्तु त्रिपञ्चाशदन्या मुद्राः समन्ततः ता व्यस्तभावाद् वामाः स्युर्मुद्रा मोदकराः पराः। एवं वां कथिता मुद्राः पूजने पूज्यतुष्टिदा। क्रमस्तु बलिदानस्य शृणु वेतालभैरव
||aurvva uvāca|| etattantraṃ samastaṃ tu śrutvā vetālabhairavau| papracchatustryambakaṃ ca harṣotphullavilocanau ||vetālabhairavāvūcatuḥ|| kāmākhyāyāḥ śrutaṃ tantraṃ sāṅgaṃ yuṣmatprasādataḥ| namaskāraṃ tathā mudrāṃ balidānaṃ tathaiva ca tathaiva mātṛkānyāsaṃ pūjāyāṃ cānyataḥ kramam| etat sarvaṃ samācakṣva vistareṇa jagatprabho| śṛṇvato nahi nau tṛptirjāyate modabhūmiṣu ||śrībhagavānuvāca|| vakṣyāmi yadahaṃ pṛṣṭo bhavadbhyāṃ putrakottamau| śṛṇutaṃ naraśārdūlāvekāgramanasādhunā trikoṇamatha ṣaṭkoṇamardhacandraṃ pradakṣiṇam| daṇḍamaṣṭāṅgamugraṃ ca saptadhā natilakṣaṇam aiśānī vātha kauberī dik kāmākhyāprapūjane| praśastā sthaṇḍilādau ca sarvamūrteśca sarvataḥ trikoṇādivyavasthā tu yadi pūrvamukho yajet| paścimācchāmbhīṃ gatvā vyavasthāṃ nirddiśet tadā yadottarāmukhaḥ kuryāt sādhako devapūjanam| tadā yāmyāṃ tu vāyavyāṃ gatvā kuryāt tu saṃsthitim dakṣiṇād vāyavīṃ gatvā diśaṃ tasmācca śāmbhavīm| tato'pi dakṣiṇāṃ gatvā namaskārastrikoṇavat trikoṇākhyo namaskārastripurāprītidāyakaḥ| dakṣiṇād vāyavīṃ gatvā vāyavyācchāmbhavīṃ tataḥ tato'pi dakṣiṇāṃ gatvā tāṃ tyaktvāgnau praviśya ca| agnito rākṣasīṃ gatvā tatpaścāduttarāṃ diśam uttarācca tathāgneyīṃ bhramaṇaṃ dvitrikoṇavat| ṣaṭhkoṇo'yaṃ namaskāraḥ prītidaḥ śivadurgayoḥ dakṣiṇād vāyavīṃ gatvā tasmādāvṛtya dakṣiṇam| gatvā yo'sau namaskāraḥ so'rdhacandraḥ prakīrtitaḥ sakṛt pradakṣiṇaṃ kṛtvā vartulākṛti sādhakaḥ| namaskāraḥ kathyate'sau pradakṣiṇa iti dvijaiḥ tyaktvā svamāsanasthānaṃ paścād durgānamaskṛtiḥ| pradakṣiṇaṃ vinā yātu nipatya bhuvi daṇḍavat daṇḍa ityucyate devaiḥ sarvadevaughamodadaḥ| pūrvavad daṇḍavad bhūmau nipatya hṛdayena tu cibukena mukhenātha nāsayā hanukena ca| brahmarandhreṇa karṇābhyāṃ yadbhūmisparśanaṃ kramāt sa cāṣṭāṅga iti prokto namaskāro manīṣibhiḥ| pradakṣiṇatrayaṃ kṛtvā sādhako vartulākṛtiḥ brahmarandhreṇa saṃsparśaḥ kṣiteryasmānnamaskṛtau| sa ugra iti devaughairucyate viṣṇutuṣṭidaḥ nadānāṃ sāgaro yadvad dvipadaṃ brāhmaṇo yathā| nadīnāṃ jāhnavo yādṛg devānāmapi cakradhṛk namaskāreṣu sarveṣu tathaivograḥ praśasyate| trikoṇādyairnamaskāraiḥ kṛtaireva tu bhaktitaḥ caturvargaṃ labhed bhakto nacirādeva sādhakaḥ| namaskāro mahāyajñaḥ prītidaḥ sarvataḥ sadā sarveṣāmeva devānāmanyeṣāmapi bhairava| yo'sāvugro namaskāraḥ prītidaḥ satata hareḥ mahāmāyāprītikaraḥ sa namaskaraṇottamaḥ| uktāstatra namaskārāḥ śṛṇutaṃ parato yuvām mudrāṇāṃ parisaṃkhyānaṃ svarūpaṃ ca yathākramam| dhenuśca sampuṭaścaiva prāñjalirbilvapadmakau nārāco muṇḍadaṇḍau ca yonirardhaṃ tathaiva ca| vandanī ca mahāmudrā mahāyonistathaiva ca bhagaśca puṭakaścaiva niṣaṅgovā'rdhacandrakaḥ| aṅgaśca dvimukhaṃ caiva śaṅkhamudrā ca muṣṭikaḥ vajraṃ caiva tathā randhraṃ ṣaḍyonirvimala tathā| ghaṭaḥ śikhariṇītuṅgaḥ puṇḍro'tha hyardhapuṇḍrakaḥ 66.28 || sammilanī ca kuṇḍaśca cakraṃ śūlaṃ tathaiva ca| siṃhavaktraṃ gomukhaṃ ca pronnāmonnamanaṃ tathā bimbaṃ pāśupataṃ śuddhaṃ tyāgo'thotsāriṇī tathā| prasāriṇī cogramudrā kuṇḍalīvyūha eva ca trimukhā cāsivallī ca yogo bhedo'tha mohanam| bāṇo dhanuśca tūṇīraṃ mudrā etāśca sattamāḥ aṣṭottaraśataṃ mudrā brahmaṇā yāḥ prakīrtitāḥ| tāsāṃ tu pañcapañcāśadetā grāhyāstu pūjane śeṣāstu yāstripañcāśanmudrāstāḥ samayeṣu ca| dravyānayanasaṃketa naṭanādiṣu tāḥ smṛtāḥ devānāṃ cintane yoge dhyāne japye visarjane| ādyāstu pañcapañcāśanmudrā bhairava kīrtitā mudrāṃ binā tu yajjapyaṃ prāṇāyāmaḥ surārccanam| yogo dhyānāsane cāpi niṣphalāni ca bhairava pratyekaṃ lakṣaṇaṃ teṣāṃ śṛṇutaṃ tanayau yuvām| dakṣiṇāmadhyamāgreṇa savyahastasya tarjanīm yojayet savyamadhyāṃ tu tarjanyā dakṣiṇena vai| tathā dakṣiṇānāmikayā vāmahastakaniṣṭhitakām anāmikāṃ tu vāmasya dakṣiṇasya kaniṣṭhayā| yojayed bhaktimān smyag dakṣiṇāvartanena tu dhenumudrā samākhyātā sarvadevasya tuṣṭidā| saṃyojya dvau talau sarvāṇyaṃgulyagrāṇi hastayoḥ saṃyojya pāśvato'ṅguṣṭhau sampuṭaḥ procyate suraiḥ| sarveṣāmatha devānāṃ sampuṭaḥ prītidāyakaḥ dhyānacintanayogādau sampuṭaḥ śasyate sadā| nikubjayugalaṃ pāṇyostaṃ saṃyojyārdha eva ca madhyaśūnyaḥ puṭākāraḥ prāñjaliḥ parikīrtitaḥ| aṅguṣṭhamantaraṃ kṛtvā pāṇyoṣṭiṃ vidhāya ca saṃyojya bilvavatte tu bilvamudrā prakīrtitā| maṇibandhādākarabhaṃ sayojya karayordvayoḥ aṅguṣṭhe cāpi saṃyojya tathaiva ca kaniṣṭhike| tisrastisrastayoḥ pāṇyoraṅgulorviralāstathā padmamudrā samākhyātā caturvargaphalā nṛṇām| aṅguṣṭhāgreṇa tarjanyā saṃyojyāthordhvarekhayā anyāṅgulīstathānamya nārācaḥ syāt prasārya te| mama caiva śivāyāśca prītideyaṃ priyaṅkarī nārācamudrā satataṃ prītyai vetālabhairava| antaraṅguṣṭhamuṣṭiṃ ca kṛtvā vāmakarasya tu madhyamāyā dakṣiṇasya tathānamya prayatnataḥ| madhyamenātha tarjanyā aṅguṣṭhāgraṃ niyojya ca dakṣiṇaṃ yojayet pāṇiṃ vāmamuṣṭīṃ ca sādhakaḥ| darśayed dakṣiṇe bhāge muṇḍamudreyamiṣyate iyaṃ tu gaṇanāthasya prītidā mudrikottamā| sarveṣāmapi devānāṃ tuṣṭidā sarvakarmasu aṅguṣṭhamadhyamādīṃśca samyagānamya tarjanīm| prasārya daṇḍamudreti dakṣiṇasya karasya ca sarvāṅgulīstu saṃyojya karayorubhayorapi| saṃveṣṭya rajjuvad veti pāṇyorapi kaniṣṭhike vāmasyānāmamūleṃ vai udagraṃ viniyojayet| dakṣasya madhyamāmūle tathāgraṃ vāmameva ca yojayed yojanāt paścādāvartya karaśākhikāḥ| yonyākāraṃ tu tanmadhyaṃ yonimudrā prakīrtitā kāmākhyāyāḥ pañcamūrterdugāyā api bhairava| prītidā yonimudreyaṃ mama kāmasya ca priyā saṃsaktā aṅgulīḥ sarvāḥ prasāryāṅguṣṭhaparvaṇā| agreṇa ca kaniṣṭhāyā agreṇāpi ca yojayet karasya dakṣiṇasyaivamardhayoniḥ prakīrtitā| mahāyonistu kathitā vaiṣṇavītantraṇe vare sampuṭaṃ prāñjaliṃ vāpi yadi śīrṣe pradarśayet| vandanīyā samakhyātā mudrā viṣṇupramodinī saiva cecchravaṇāsaktā mahāmudrā prakīrtitā| dakṣiṇāṅge tu sā saktā vaiṣmavī parikīrtitā mahāyonistu kathitā vaiṣṇavī tantragocare| dvayostu mūle'ṅguṣṭhāgramaṅgulīṃ ca kaniṣṭhayoḥ niyojya prasṛtīkṛtya dvau pāṇī yojayet punaḥ| bhagamudrā samākhyātā lakṣmīvāṇīśivapriyā sarvāṅgulīnāmagraughaṃ dakṣiṇasya ca| saṃyojyaikatra purato nirdeśaḥ puṭakaḥ smṛtaḥ kaniṣṭhānāmikāṅguṣṭhāṅgulīnā yojayed budhaḥ| agrāṇyekatra madhyāṃ tu tarjanīṃ ca prasārya vai kubjīkṛtya karadvandvaṃ pṛthagagre nidarśayet| niḥsaṅganāmamudreyaṃ narasiṃhavarāhayoḥ kaniṣṭhānāmikādhyamākuñcan dakṣiṇena tu| karasya tarjanyaṅguṣṭhe prasārya kriyate tu yā sā mudrā hyardhacandrākhyā grahāṇāṃ prītidāyinī| ūrdhvīkṛtya tathāṅguṣṭhaṃ karasya dakṣiṇasya tu kṛtvā madhyāṃ tadaṅguṣṭhaṃ vāmamuṣṭiṃ tathordhvataḥ| ūrdhvāṅguṣṭhāṃ tathā kuryādaṅgamudrā prakīrtitā etasyā eva mudrāyāḥ kaniṣṭhādiviyogataḥ| aṣṭau mudrāḥ samākhyātā nāma tāsāṃ pṛthak śṛṇu dvimukhaṃ caiva muṣṭiṃ ca vajramābaddhameva ca| vimalaśca ghaṭaścaiva tuṅgaḥ puṇḍrastathaiva ca navānāṃ viṣṇumūrtitā sārdhasaṅgena mudrikāḥ| kramānnava samākhyātā nāyikānāṃ tathaiva ca saṃyojya karayoḥ pṛṣṭhe tathāvartya tu vai samam| prasārya tarjanīyugmaṃ saṃyuktaṃ sarvataḥ punaḥ aṅguṣṭhoca tatāsaktau śaṅkhamudrā prakīrtitā| uttānamañjaliṃ kṛtvā aṅguṣṭhe dve kaniṣṭhayoḥ mūle nikṣipya tu karau saṃyojyātha pradarśayet| sā yoniriti vikhyātā mudrā devaughatuṣṭidā muṣṭirdakṣiṇahastasya yadordhāṅguṣṭhikā bhavet| sā syāñchikhariṇīmudrā brāhmīsūryapriyā ca sā anāmike kaniṣṭhe ca saṃyojya vāyunā punaḥ| madhyamā tarjanīnāṃ tu dhenumudreva bandhanam sārdhadhenuriti khyātā candraprīti vivardhinī| karayoraṅgulīnāṃ tu sarvāgrāṇyekataḥ sthitā niyojya dve tale caiva tadadho'pi niyojya ca| agrairagraiyojayet tu mudrā sammīlanī tu sā bhaumabhūmimunīśānāmiyaṃ prītivivardhinī| sarvāṅgulīstu saṃyojya dakṣisya karasya ca kiyadbhāgaṃ tathānamya talaṃ kuryāt tu kuṇḍavat| samākhyātā kuṇḍamudrā budhavāṇośivapriyā sarvāṅgulīnāṃ madhyaṃ tu vāmahastasya cāṅgulīḥ| prasāryāṅguṣṭhayugalaṃ saṃyojyāgreṇa bhairava tadaṅguṣṭhadvayaṃ kārya sammukhaṃ vitarem tataḥ| cakramudrā samākhyātā guruviṣṇuśivapriyā aṅguṣṭhaṃ madhyamāṃ caiva nāmayitvā karasya tu| dakṣiṇasya parāstisro yojayedagrataḥ punaḥ śūlamudrā samākhyātā mama śukragrahapriyā| nikubjīkṛtya tu karau vāmaṅguligaṇasya tu agrāṇi yojayenmadhye talasyāsavyahastataḥ | adhaḥ kṛtvā vāmahastaṃ mudrā siṃhamukhī smṛtā iyaṃ prītyai tu durgāyāḥ sūryaputrasya cakriṇaḥ| bhagamudrā karṇamūle gomukhākhyā prakīrtitā mama viṣṇostathā rāhoḥ sarvadā prītidāyinī| muṣṭidvayamathottānaṃ kṛtvā saṃyojya pārśvataḥ dakṣiṇasya kaniṣṭhādīna prasārya kramataḥ punaḥ| tathā vāmakaniṣṭhābhyāmekaikena prasārayet aṣṭau mudrāḥ samākhyātā nāmataḥ kramataḥ śṛṇu| prollāsonnamanaṃ caiva vimbaṃ pāśupataṃ tathā śuddhaṃ tyāgaḥ sāraṇī ca tathā caiva prasāraṇī| ākuñcakaraśākhāstu dakṣiṇā sā tu mudrikā ugramudrā samākhyātā svahastasya viparyayāt| indrādilokapālānāṃ daśamudrāḥ prakīrtitāḥ sarveṣāmeva devānāṃ paramaprītivardhanāḥ | aṅguṣṭhāgraṃ tu tarjanyā age bhārgena yojayet ākuñcamadhyamādyāstu dakṣahastasya cāṅgulīḥ| daśayet kuṇḍalākāraṃ kuṇḍalīśaktituṣṭidam sarveṣāmapi devānāṃ yathā tuṣṭikaraṃ mahat| aṅguṣṭhatarjanīmadhyā agrabhāge niyojya ca madhyamāṃ ca kaniṣṭhāṃ ca ākuñcya dakṣiṇe kare| trimukhākhyā samākhyātā viśvadevapriyā sadā ketoḥ priyeyaṃ satata mātṛṇāmapi tuṣṭidā| tarjanyaṅguṣṭhayoragrabhāgau saṃyojya cāṅgulīḥ anyā ākuñcayet tisraḥ sā'sivallī prakīrtitā| pitṛṇāmatha sādhyānāṃ rudrāṇāṃ viśvakarmaṇaḥ sarvadā prītijananī sā'sivallī prakīrtitā| pādau talābhyāṃ saṃyojya tadaṅguṣṭhadvayaṃ yataḥ ūrdhvaṃ sayojayennābhau tasyopari tathāñjaliḥ| yogamudrā samākhyātā yogināṃ tattvadāyinī sarveṣāmapi devānāṃ pūjane cintane tathā| yogamudrā samākhyātā tuṣṭaprītikaro sadā prāñjalirnāma mudrā tu ūrdhvādho bhāvayojitā| vibhidya darśayeddhastau ūrdhvādhaḥ prasṛtīkṛtau bhedamudrā samākhyātā mama viṣṇovidheḥ priyā| aṅguṣṭhe dve tu nikṣipya karayorubhayorapi agreṇa yojayet paścāt kaniṣṭhāyugalaṃ tataḥ | ubhayorhastayoścānyāstarjanyādyāśca yojayet agrāgraistu pṛthakkṛtya darśayet tu kaniṣṭhikām| mudrā sammohanaṃ nāma kāmadurgāramāpriyā sarveṣāmiha devānāṃ mohanaṃ prītidaṃ smṛtam| ānamyāsavyahastasya madhyamānāmike tathā tayoḥ pṛṣṭhe susaṃyojya aṅguṣṭhāgraṃ tataḥ param| kaniṣṭhāṃ tarjanīṃ caiva agreṇāyojayet tataḥ bāṇamudrā samākhyātā sarvadevasya tuṣṭidā| sarvāṅgulīstu saṅkocya aṅguṣṭhamathā tarjanīm prasāyaṃ karayo paścādaṅguṣṭhāgraṃ tu yojayet| achguṣṭhāgreṇa tarjanyā agreṇāpi ca tarjanīm yathāśakti prasāryāpi dhenumudrā prakīrtitā| sarvāṅgulīnāmagrāṇibrāhme tīrthe niyojayet anāmikāyāḥ pṛṣṭhe tu aṅguṣṭhāgraṃ niyojya ca| śūnyaṃ tūṇīravat kṛtvā teṣāmantastu bhairava tūṇīramudrā cākhyātā sarveṣāṃ prītivardhinī| mudrāsu saṃsthitā pūjā sarveṣu paricintanam mudrāsu saṃsthitā yogā mudrā modakarāstataḥ| yadā yadā pūjaneṣu cintane dhyānakarmaṇi yajñādau stavane vāpi hastakṛtyaṃ na vidyate| tadā mudrānvitaṃ kuryādiṣṭāpūrte karadvayam yajñakṛtyeṣu cecchakto hasto mudrāsu ca kṣamaḥ| tadā mudrāṃ vidhāyaiva tattat kṛtyaṃ samācaret mudrāvimuktahastaṃ tu kriyate karma daivikam| kṛtvā tanniṣphalaṃ yasmāt tanmānmudrānvito bhavetu visarjane tu devānāṃ yasya yā parikīrtitā| mudrāṃ tāṃ pūjanādau tu tasya naiva prayojayet visṛjyoktāmṛte mudrāṃ mudrāyuktaḥ samācaret| pūjanādi samastaṃ tu karmavṛddhau vicakṣaṇaḥ ato mudrā paraṃ nāma mudrā puṇyapradāyinī| devānāṃ modadā mudrā tasmāt tāṃ yatnataścaret ardhayonirmahāyoniryonirbrāhmī ca vaiṣṇavī| mudrā visarjane proktā śivātripurayoḥ sadā durgāyāḥ sarvarūpeṣu mudrā etāḥ prakīrtitāḥ| yoniṃ ca sampuṭaṃ caiva mahāyoniṃ tathaiva ca varjayitvā vyastabhāvāduktādanyatra yojayet| bhaved yāstu tripañcāśadanyā mudrāḥ samantataḥ tā vyastabhāvād vāmāḥ syurmudrā modakarāḥ parāḥ| evaṃ vāṃ kathitā mudrāḥ pūjane pūjyatuṣṭidā| kramastu balidānasya śṛṇu vetālabhairava