Kalika Purana — Chapter 64
KaP 64.64
।।मार्कण्डेय उवाच।। देव्याः कामेश्वरीं मूर्तिं शृणु वक्ष्यामि भैरव। यस्याश्चिन्तनमात्रेण साधको लभते प्रियान् तन्त्रं तस्याः प्रथमतस्ततोऽनुध्यानगोचरम्। ततः पूजाक्रमं वक्ष्यें क्रमाद् वेताल भैरव प्रजापतिस्ततो वह्निरन्द्रबीजं ततः परम्। चूडाचन्द्रार्धसहितं चतुर्थस्वरसंयुतम् इदं कामेश्वरं बीजमन्त्रं सर्वार्थसाधनम्। स्थानाभ्युक्षणयन्त्रादि पात्रन्यासादिकं यथा भूतापसारणादींश्च वैष्णवीतन्त्रभाषितान्। तथोक्तानुत्तरे यन्त्रे गृह्णीयात् साधकोत्तमः प्राणायामत्रयं कुर्याद् दहनं प्लवन तथा। विशेषमण्डलं चास्याः शृणु वेताल भैरव षट्कोणं मण्डलं कुर्याद्रक्तवर्णं तु चिन्तयेत्। विभेद्य शक्त्या शम्भुं तु त्रिपुरातन्त्रवद् बुधः ततः शक्तिं शम्भुनापि भेदयेत् क्रमतः सुधीः। ऐशान्यादिनैर्ऋतान्तां रेखां कृत्वाथ दक्षिणे पश्चिमात् पूर्वगां रेखां पूर्वादपि तथोत्तराम्। उत्तरात् पश्चिमान्तां तु कृत्वा रेखास्तु योजयेत् धनुस्तोरणसङ्काशं द्वारे चोत्तरपश्चिमे। दक्षिणं तु त्रिकोणं स्यात् षट्कोणं पूर्वमुच्यते जालन्धरं लिखेत् पीठमुत्तरे पश्चिमे लिखेत्। ओड्रपीठं दक्षिणे तु कामरूपं तु पूर्वतः देव्या द्वादशगुह्यानि यानि द्वादशभिः करैः। लिखेन्मण्डलकोणेषु तानि दिक्षु त्रयं त्रयम् षड्भिः षड्भिस्तु रेखाभिः कर्तव्यो मण्डलक्रमः। अन्यदुत्तरतन्त्रोक्तं वैष्णवीतन्त्रभाषितम् मण्डलस्य क्रमं सर्वं विद्धि वेताल भैरव। ॐ क्लीं मण्डलतत्त्वाय नम इत्यत्र मण्डलम् पूजयेत् प्रथमं ध्यात्वा मण्डलं योगपीठकम्। पीठे शिलायां विलिखेन्मण्डलं योनिमण्डलम् त्रिकोणं विलिखेत् पश्चाद् वेष्टयेत् कमलेन तु। रूपं तु चिन्तयेद् देव्याः कामेश्वर्या मनोहरम् प्रभिन्नाञ्जनसङ्काशां नीलस्निग्धसिरोरुहाम्। षड्वक्त्रां द्वादशभुजामष्टादशविलोचनाम् प्रत्येकं षट्सु शीर्षेषु चन्द्रार्धकृतशेखराम्। मणिमाणिक्यमुक्तादिकृतमालामुरः स्थले कण्ठे च बिभ्रतीं नित्यं सर्वालङ्कारमण्डिताम्। पुस्तकं सिद्धसूत्रं च पञ्चबाणं तु तं तथा खड्गं शक्तिं च शूलं च बिभ्रतीं दक्षिणैः करैः। अक्षमालां महापद्मं कोदण्डं चाभयं तथा चर्म पश्चात् पिनाकं च बिभ्रतीं वामपाणिभिः। शुक्लं रक्तं च पीतं च हरितं कृष्णमेव च विचित्रं क्रमतः शीर्षमैशान्यां पूर्वमेव च। दक्षिणं पश्चिमं चैव तथैवोत्तरशीर्षकम् मध्यं चेति महाभाग क्रमाच्छीर्षाणि वर्णतः। शुक्लं माहेश्वरीवक्त्रं कामाख्यारक्तमुच्यते त्रिपुरा पीतसङ्काशा शारदा हरिता तथा। कृष्णं कामेश्वरीवक्त्रं चण्डायाश्चित्रमिष्यते धम्मिल्लसंयतकचं प्रतिशीर्ष प्रकीर्तितम्। सिंहोपरिसितप्रेतं तस्मिंल्लोहितपङ्कजम् कामेश्वरी स्थिता तत्र ईषत्प्रहसितानना। विचित्रांशुकसंवीतां व्याघ्रचर्माम्बरां तथा एवं कामेश्वरीं ध्यायेद् धर्मकामार्थसिद्धये। पीठेऽन्यत्राथवादेव्याः पूजायां कथ्यते क्रमः पीठे विशेषो वक्तव्यः सामान्ये त्वन्यदिष्यते। अङ्गुष्ठादिक्रमादेव संयोज्याथ युगं युगम् मूलमन्त्रस्याक्षरेण दीर्घस्वरयुतेन च। षड्भिराद्यैर्न्यसेत् पूर्वमङ्गुलीयकमेव च हृच्छिरस्तु शीर्षवर्मनेत्रास्त्राणि पुनस्तथा। न्यसेद् दक्षिणहस्तेन षड्भिर्मन्त्रैस्तथा क्रमात् आस्यं बाहुयुगं कुक्षि गुह्यं जानुयुगं तथा। पादयुग्मं क्रमात् तेस्तु षड्भिर्मन्त्रैन्यसेत् तथा अष्टधा मूलमन्त्रं तु जप्त्वाथार्घाहिते जले। तेनोपकरणं देयं चाभ्युक्ष्य क्रममारभेत् दैशिकः पूजयेद् देवीं पीठेनादैशिकः क्वचित्। तस्यैव हि करस्पर्शाद् देवी नोद्विजते शिवा यदि देशान्तराद् यातः पीठं देशान्तरं प्रति। तद्दैशिकोपदेशेन तदा पूजां समारभेत् यद्यन्यतः समायाता कामरूपादृते नरः। तद्देशजोपदेशेन सम्पूज्यफलमाप्नुयात् यस्मिन् देशे तु यः पीठ ओड्रपाञ्चलकादिषु। तद्देशजोपदेशेन पूज्यः पीठे सुरो नरैः इतोऽन्यथा पूजने न सम्यक् फलमवाप्नुयात्। महाविभवस्म्पूर्णैर्विहितेनैव भैरव अनुक्तो यः क्रमश्चात्र वैष्णवीतन्त्रगोचरे। तथैवोत्तरतन्त्रेऽपि प्रोक्तो ग्राह्यस्तु साधुकैः पूर्वद्वारि प्रथमतः कामतत्त्वं प्रपूजयेत्। दक्षिणे प्रीतितत्त्वं तु रतितत्त्वं च पश्चिमे उत्तरे मोहनं तत्त्वं क्रमादेतानि पूजयेत्। ऐशान्यां पूजयेद् देव गणैशं द्वारपालकम् अग्नौ तु चाग्निवेतालं नैर्ऋत्यां कालमेव च। वायव्यां नन्दिनं चापि पूजयेत् क्रमतस्त्विमान् चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं चतुः। षट्कारं चैव यो वेद स योग्यः पीठपूजने औड्राख्यं प्रथमं पीठं द्वितीयं जालशैलकम्। तृतीयं पूर्णपीठं तु कामरूपं चतुर्थकम् ओड्रपीठं पश्चिमे तु तथैवोड्रेश्वरी शिवाम्। कात्यायनीं जगन्नाथमोड्रेशं च प्रपूजयेत् उत्तरे पूजयेत् पीठं प्रशस्तं जालसैलकम्। जालेश्वरं महादेवं चण्डीं जालेश्वरीं तथा दीर्घिकां चोग्रचण्डां च तत्रैव परिपूजयेत्। दक्षिणे पूर्णशैलं तु तथा पूर्णेश्वरीं शिवाम् पूर्णनाथं महानाथं सरोजामथ चण्डिकाम्। पूजयेद् दमनीं देवीं शान्तामपि तथा शिवाम् कामरूपं महापीठं नाथं कामेश्वरीं शिवाम्। नीलं च पर्वतश्रेष्ठं नाथं कामेश्वरं तथा पूजयेद् द्वारि पूर्वे तु क्रमादेतांस्तु भैरव। औड्रादीनां तु पीठानां क्षेत्रपालान् गुरूंस्तथा अन्यांस्तु द्वारपालादीन् स्वे स्वे स्थाने प्रपूजयेत्। विशेषात् कामरूपस्य कामेश्वरीं प्रपूजयन् तानेव नीलसैलस्थान् शृणु वेताल भैरव। नाथः कामेश्वरो देवो देवी कामेश्वरी तथा करालः क्षेत्रपालाश्च चिञ्चावृक्षस्तथैव च। त्रिकूटे नीलशैलस्तु गुहा चापि मनोभवा बटुकः कम्बलो नाम वल्ली चैवापराजिता। भैरवः पाण्डुनाथश्च श्मशानं हेरुकाह्वयम् योगिनी च महोत्साहा तथा चन्द्रवती पुरी। लौहित्यो नदराजश्च प्रान्ता दिक्करवासिनी जल्पीशाख्यस्तु वायव्यां केदाराख्योऽथ राक्षसे। एतान् सम्पूजयेद् द्वारि तथा देव्यास्तु मण्डले द्वारपालो योगिनी च बटुकाद्या यथा तथा। कामरूपे पीठवरे ओड्रादिष्वथ तत् तथा मध्ये तु मण्डलस्याथ द्रावणं शोषणं तथा। बन्धनं मोहनं चैव तथैवाकर्षणाह्वयम् मनोभवस्य बाणांस्तु पश्चैतान् परिपूजयेत्। षट्कोणाग्रेषूत्तरादौ भगादिषट्कमेव च त्रिपुरातन्त्रमन्त्रोक्तं पूजयेत् क्रमतः सुधीः। गणाक्रीडादिकं तद्वत् तथा विद्याकलादिकान् बटुकान् सिद्धपुत्रादीन सिद्धाद्याश्च कुमारिकाः। चतुश्चतुष्कमित्येतच्चतुष्कमिति चोच्यते कामं रतिं च प्रीतिं च अनङ्गमेखलादिकम्। सप्त वै त्रिपुरघ्नाद्या असिताङ्गादयो नवे माहेश्वर्यादिका देव्यो दशभिः पञ्चभिर्गणैः। द्वितीयं प़ञ्चकं प्रोक्तं पीठे कामफलप्रदम् आधारशक्तिमुख्या ये नित्यं तत्र प्रतिष्ठिता। धर्माद्याश्च तथैवाष्टौ तथा सत्त्वादिका गुणाः एकत्र ग्रहदिक्पालाश्चतुष्कमपरं स्मृतम्। देव्यास्तथोग्रचण्डाद्या नायिकाः परिपूजयेत् पूर्वोक्तदेशे मन्त्रेण भक्त्या वेताल भैरव। आवाहनं षोडशोपचाराणां प्रतिपादनम् जपं च बलिदानं च अङ्गास्त्राणां प्रपूजनम्। मुद्रा पूर्वा विसृष्टिश्च षट्कमेतत् प्रकीर्तितम् एतानि सप्त जानाति प्रकारान् पूजकः सुधीः। स एवोड्रादिपीठानि सम्पूजयितुमर्हति योऽज्ञात्वा सम्यगेतानि कुरुते पीठपूजनम्। न सम्यक् फलमाप्नोति हीनायुरपि जायते त्रिपुरातन्त्रमन्त्रोक्तस्थानेष्वेतेषु भैरव। पूजयित्वा प्रथमतः पूजयेत् परमेश्वरीम् कामेश्वरि इहागच्छ सम्मुखी भव चेश्वरि। चिन्तयित्वाथ मनसाऽभ्यर्च्य कामेश्वरीं हृदि मानसैर्गन्धपुष्पाद्यैस्ततो दक्षिणनासया। निःसार्य वायुं तत् पुष्पमारोप्य मण्डलान्तरे आवाहयेन्महादेवीं सर्वकामेश्वरेश्वरीम्। कामेश्वरि इहागच्छ सम्मुखी भव सन्निधौ कामेश्वरि विद्महे त्वां कामाख्यायै च धीमहि। तन्नः कुब्जि महामाये ततः पश्चात् प्रचोदयात् एह्येहि भगवत्यम्ब लोकानुग्रहकारिणि। कामेशे कामरूपे त्वं कामकान्ते प्रसोद मे ततस्तु प्रथम स्नानं जलं दत्त्वा तु पूजकः। मूलमन्त्रेण वितरेदुपचारांस्तु षोडश पूजयेन्मध्यभागे तु षडङ्गानि ततोऽर्च्चयेत्। अङ्गन्यासे तु ये मन्त्राः क्रमे पूर्वं तु भाषिताः तैरेव मन्त्रैरङ्गानि देव्या अपि च पूजयेत्। पूर्वाद्यष्टदलेष्वेता योगिनीः परिपूजयेत् यथाक्रमेण कामानां सिद्ध्यर्थं कामदायिकाः। गुप्तकामां तु श्रीकामां तथैव विन्ध्यवासिनीम् कोटेश्वरीं वनस्थां तु योगिनीं पादचण्डिकाम्। दीर्घेश्वरीं तु प्रकटां भुवनेशीं क्रमाद् यजेत् वैष्णवीतन्त्रमन्त्रस्य यान्यष्टावक्षराणि तु। तानि बिन्दिबन्दुयुक्तानि मन्त्रन्यासांश्च च प्रक्षते मन्त्रेषु षष्णां कोणानां षडिमाः परिपूजयेत्। ऐशान्यादिक्रमेणैव कामाख्यां त्रिपुरां तथा शारदां च महोत्साहां प्रकटां भुवनेश्वरीम्। सिद्धकामेश्वरीं चापि देव्या रूपाणि भैरव अष्टपुष्पिकया देवीं पुनः सम्पूज्य चाष्टधा। जप्त्वा स्तुत्वा बलिं दत्त्वा नत्वा मुद्रां प्रदर्श्य च देव्यास्तु सिद्धचण्ड्या वै निर्माल्यं प्रतिपाद्य च। विसृज्य मण्डलाद् देवीं स्थापयेद् योनिमण्डले एतत् कामेश्वरीतन्त्रं कथितं युवयोः सुतौ। शारदाया महातन्त्रं समन्त्रं शृणु भैरव
||mārkaṇḍeya uvāca|| devyāḥ kāmeśvarīṃ mūrtiṃ śṛṇu vakṣyāmi bhairava| yasyāścintanamātreṇa sādhako labhate priyān tantraṃ tasyāḥ prathamatastato'nudhyānagocaram| tataḥ pūjākramaṃ vakṣyeṃ kramād vetāla bhairava prajāpatistato vahnirandrabījaṃ tataḥ param| cūḍācandrārdhasahitaṃ caturthasvarasaṃyutam idaṃ kāmeśvaraṃ bījamantraṃ sarvārthasādhanam| sthānābhyukṣaṇayantrādi pātranyāsādikaṃ yathā bhūtāpasāraṇādīṃśca vaiṣṇavītantrabhāṣitān| tathoktānuttare yantre gṛhṇīyāt sādhakottamaḥ prāṇāyāmatrayaṃ kuryād dahanaṃ plavana tathā| viśeṣamaṇḍalaṃ cāsyāḥ śṛṇu vetāla bhairava ṣaṭkoṇaṃ maṇḍalaṃ kuryādraktavarṇaṃ tu cintayet| vibhedya śaktyā śambhuṃ tu tripurātantravad budhaḥ tataḥ śaktiṃ śambhunāpi bhedayet kramataḥ sudhīḥ| aiśānyādinairṛtāntāṃ rekhāṃ kṛtvātha dakṣiṇe paścimāt pūrvagāṃ rekhāṃ pūrvādapi tathottarām| uttarāt paścimāntāṃ tu kṛtvā rekhāstu yojayet dhanustoraṇasaṅkāśaṃ dvāre cottarapaścime| dakṣiṇaṃ tu trikoṇaṃ syāt ṣaṭkoṇaṃ pūrvamucyate jālandharaṃ likhet pīṭhamuttare paścime likhet| oḍrapīṭhaṃ dakṣiṇe tu kāmarūpaṃ tu pūrvataḥ devyā dvādaśaguhyāni yāni dvādaśabhiḥ karaiḥ| likhenmaṇḍalakoṇeṣu tāni dikṣu trayaṃ trayam ṣaḍbhiḥ ṣaḍbhistu rekhābhiḥ kartavyo maṇḍalakramaḥ| anyaduttaratantroktaṃ vaiṣṇavītantrabhāṣitam maṇḍalasya kramaṃ sarvaṃ viddhi vetāla bhairava| oṃ klīṃ maṇḍalatattvāya nama ityatra maṇḍalam pūjayet prathamaṃ dhyātvā maṇḍalaṃ yogapīṭhakam| pīṭhe śilāyāṃ vilikhenmaṇḍalaṃ yonimaṇḍalam trikoṇaṃ vilikhet paścād veṣṭayet kamalena tu| rūpaṃ tu cintayed devyāḥ kāmeśvaryā manoharam prabhinnāñjanasaṅkāśāṃ nīlasnigdhasiroruhām| ṣaḍvaktrāṃ dvādaśabhujāmaṣṭādaśavilocanām pratyekaṃ ṣaṭsu śīrṣeṣu candrārdhakṛtaśekharām| maṇimāṇikyamuktādikṛtamālāmuraḥ sthale kaṇṭhe ca bibhratīṃ nityaṃ sarvālaṅkāramaṇḍitām| pustakaṃ siddhasūtraṃ ca pañcabāṇaṃ tu taṃ tathā khaḍgaṃ śaktiṃ ca śūlaṃ ca bibhratīṃ dakṣiṇaiḥ karaiḥ| akṣamālāṃ mahāpadmaṃ kodaṇḍaṃ cābhayaṃ tathā carma paścāt pinākaṃ ca bibhratīṃ vāmapāṇibhiḥ| śuklaṃ raktaṃ ca pītaṃ ca haritaṃ kṛṣṇameva ca vicitraṃ kramataḥ śīrṣamaiśānyāṃ pūrvameva ca| dakṣiṇaṃ paścimaṃ caiva tathaivottaraśīrṣakam madhyaṃ ceti mahābhāga kramācchīrṣāṇi varṇataḥ| śuklaṃ māheśvarīvaktraṃ kāmākhyāraktamucyate tripurā pītasaṅkāśā śāradā haritā tathā| kṛṣṇaṃ kāmeśvarīvaktraṃ caṇḍāyāścitramiṣyate dhammillasaṃyatakacaṃ pratiśīrṣa prakīrtitam| siṃhoparisitapretaṃ tasmiṃllohitapaṅkajam kāmeśvarī sthitā tatra īṣatprahasitānanā| vicitrāṃśukasaṃvītāṃ vyāghracarmāmbarāṃ tathā evaṃ kāmeśvarīṃ dhyāyed dharmakāmārthasiddhaye| pīṭhe'nyatrāthavādevyāḥ pūjāyāṃ kathyate kramaḥ pīṭhe viśeṣo vaktavyaḥ sāmānye tvanyadiṣyate| aṅguṣṭhādikramādeva saṃyojyātha yugaṃ yugam mūlamantrasyākṣareṇa dīrghasvarayutena ca| ṣaḍbhirādyairnyaset pūrvamaṅgulīyakameva ca hṛcchirastu śīrṣavarmanetrāstrāṇi punastathā| nyased dakṣiṇahastena ṣaḍbhirmantraistathā kramāt āsyaṃ bāhuyugaṃ kukṣi guhyaṃ jānuyugaṃ tathā| pādayugmaṃ kramāt testu ṣaḍbhirmantrainyaset tathā aṣṭadhā mūlamantraṃ tu japtvāthārghāhite jale| tenopakaraṇaṃ deyaṃ cābhyukṣya kramamārabhet daiśikaḥ pūjayed devīṃ pīṭhenādaiśikaḥ kvacit| tasyaiva hi karasparśād devī nodvijate śivā yadi deśāntarād yātaḥ pīṭhaṃ deśāntaraṃ prati| taddaiśikopadeśena tadā pūjāṃ samārabhet yadyanyataḥ samāyātā kāmarūpādṛte naraḥ| taddeśajopadeśena sampūjyaphalamāpnuyāt yasmin deśe tu yaḥ pīṭha oḍrapāñcalakādiṣu| taddeśajopadeśena pūjyaḥ pīṭhe suro naraiḥ ito'nyathā pūjane na samyak phalamavāpnuyāt| mahāvibhavasmpūrṇairvihitenaiva bhairava anukto yaḥ kramaścātra vaiṣṇavītantragocare| tathaivottaratantre'pi prokto grāhyastu sādhukaiḥ pūrvadvāri prathamataḥ kāmatattvaṃ prapūjayet| dakṣiṇe prītitattvaṃ tu ratitattvaṃ ca paścime uttare mohanaṃ tattvaṃ kramādetāni pūjayet| aiśānyāṃ pūjayed deva gaṇaiśaṃ dvārapālakam agnau tu cāgnivetālaṃ nairṛtyāṃ kālameva ca| vāyavyāṃ nandinaṃ cāpi pūjayet kramatastvimān catuṣkaṃ pañcakaṃ ṣaṭkaṃ catuṣkaṃ pañcakaṃ catuḥ| ṣaṭkāraṃ caiva yo veda sa yogyaḥ pīṭhapūjane auḍrākhyaṃ prathamaṃ pīṭhaṃ dvitīyaṃ jālaśailakam| tṛtīyaṃ pūrṇapīṭhaṃ tu kāmarūpaṃ caturthakam oḍrapīṭhaṃ paścime tu tathaivoḍreśvarī śivām| kātyāyanīṃ jagannāthamoḍreśaṃ ca prapūjayet uttare pūjayet pīṭhaṃ praśastaṃ jālasailakam| jāleśvaraṃ mahādevaṃ caṇḍīṃ jāleśvarīṃ tathā dīrghikāṃ cogracaṇḍāṃ ca tatraiva paripūjayet| dakṣiṇe pūrṇaśailaṃ tu tathā pūrṇeśvarīṃ śivām pūrṇanāthaṃ mahānāthaṃ sarojāmatha caṇḍikām| pūjayed damanīṃ devīṃ śāntāmapi tathā śivām kāmarūpaṃ mahāpīṭhaṃ nāthaṃ kāmeśvarīṃ śivām| nīlaṃ ca parvataśreṣṭhaṃ nāthaṃ kāmeśvaraṃ tathā pūjayed dvāri pūrve tu kramādetāṃstu bhairava| auḍrādīnāṃ tu pīṭhānāṃ kṣetrapālān gurūṃstathā anyāṃstu dvārapālādīn sve sve sthāne prapūjayet| viśeṣāt kāmarūpasya kāmeśvarīṃ prapūjayan tāneva nīlasailasthān śṛṇu vetāla bhairava| nāthaḥ kāmeśvaro devo devī kāmeśvarī tathā karālaḥ kṣetrapālāśca ciñcāvṛkṣastathaiva ca| trikūṭe nīlaśailastu guhā cāpi manobhavā baṭukaḥ kambalo nāma vallī caivāparājitā| bhairavaḥ pāṇḍunāthaśca śmaśānaṃ herukāhvayam yoginī ca mahotsāhā tathā candravatī purī| lauhityo nadarājaśca prāntā dikkaravāsinī jalpīśākhyastu vāyavyāṃ kedārākhyo'tha rākṣase| etān sampūjayed dvāri tathā devyāstu maṇḍale dvārapālo yoginī ca baṭukādyā yathā tathā| kāmarūpe pīṭhavare oḍrādiṣvatha tat tathā madhye tu maṇḍalasyātha drāvaṇaṃ śoṣaṇaṃ tathā| bandhanaṃ mohanaṃ caiva tathaivākarṣaṇāhvayam manobhavasya bāṇāṃstu paścaitān paripūjayet| ṣaṭkoṇāgreṣūttarādau bhagādiṣaṭkameva ca tripurātantramantroktaṃ pūjayet kramataḥ sudhīḥ| gaṇākrīḍādikaṃ tadvat tathā vidyākalādikān baṭukān siddhaputrādīna siddhādyāśca kumārikāḥ| catuścatuṣkamityetaccatuṣkamiti cocyate kāmaṃ ratiṃ ca prītiṃ ca anaṅgamekhalādikam| sapta vai tripuraghnādyā asitāṅgādayo nave māheśvaryādikā devyo daśabhiḥ pañcabhirgaṇaiḥ| dvitīyaṃ pa़ñcakaṃ proktaṃ pīṭhe kāmaphalapradam ādhāraśaktimukhyā ye nityaṃ tatra pratiṣṭhitā| dharmādyāśca tathaivāṣṭau tathā sattvādikā guṇāḥ ekatra grahadikpālāścatuṣkamaparaṃ smṛtam| devyāstathogracaṇḍādyā nāyikāḥ paripūjayet pūrvoktadeśe mantreṇa bhaktyā vetāla bhairava| āvāhanaṃ ṣoḍaśopacārāṇāṃ pratipādanam japaṃ ca balidānaṃ ca aṅgāstrāṇāṃ prapūjanam| mudrā pūrvā visṛṣṭiśca ṣaṭkametat prakīrtitam etāni sapta jānāti prakārān pūjakaḥ sudhīḥ| sa evoḍrādipīṭhāni sampūjayitumarhati yo'jñātvā samyagetāni kurute pīṭhapūjanam| na samyak phalamāpnoti hīnāyurapi jāyate tripurātantramantroktasthāneṣveteṣu bhairava| pūjayitvā prathamataḥ pūjayet parameśvarīm kāmeśvari ihāgaccha sammukhī bhava ceśvari| cintayitvātha manasā'bhyarcya kāmeśvarīṃ hṛdi mānasairgandhapuṣpādyaistato dakṣiṇanāsayā| niḥsārya vāyuṃ tat puṣpamāropya maṇḍalāntare āvāhayenmahādevīṃ sarvakāmeśvareśvarīm| kāmeśvari ihāgaccha sammukhī bhava sannidhau kāmeśvari vidmahe tvāṃ kāmākhyāyai ca dhīmahi| tannaḥ kubji mahāmāye tataḥ paścāt pracodayāt ehyehi bhagavatyamba lokānugrahakāriṇi| kāmeśe kāmarūpe tvaṃ kāmakānte prasoda me tatastu prathama snānaṃ jalaṃ dattvā tu pūjakaḥ| mūlamantreṇa vitaredupacārāṃstu ṣoḍaśa pūjayenmadhyabhāge tu ṣaḍaṅgāni tato'rccayet| aṅganyāse tu ye mantrāḥ krame pūrvaṃ tu bhāṣitāḥ taireva mantrairaṅgāni devyā api ca pūjayet| pūrvādyaṣṭadaleṣvetā yoginīḥ paripūjayet yathākrameṇa kāmānāṃ siddhyarthaṃ kāmadāyikāḥ| guptakāmāṃ tu śrīkāmāṃ tathaiva vindhyavāsinīm koṭeśvarīṃ vanasthāṃ tu yoginīṃ pādacaṇḍikām| dīrgheśvarīṃ tu prakaṭāṃ bhuvaneśīṃ kramād yajet vaiṣṇavītantramantrasya yānyaṣṭāvakṣarāṇi tu| tāni bindibanduyuktāni mantranyāsāṃśca ca prakṣate mantreṣu ṣaṣṇāṃ koṇānāṃ ṣaḍimāḥ paripūjayet| aiśānyādikrameṇaiva kāmākhyāṃ tripurāṃ tathā śāradāṃ ca mahotsāhāṃ prakaṭāṃ bhuvaneśvarīm| siddhakāmeśvarīṃ cāpi devyā rūpāṇi bhairava aṣṭapuṣpikayā devīṃ punaḥ sampūjya cāṣṭadhā| japtvā stutvā baliṃ dattvā natvā mudrāṃ pradarśya ca devyāstu siddhacaṇḍyā vai nirmālyaṃ pratipādya ca| visṛjya maṇḍalād devīṃ sthāpayed yonimaṇḍale etat kāmeśvarītantraṃ kathitaṃ yuvayoḥ sutau| śāradāyā mahātantraṃ samantraṃ śṛṇu bhairava