← Kalika Purana

Kalika Purana — Chapter 61

KaP 61.61

।।और्व्व उवाच।। यथाह भगवान् देवो भैरवाय महात्मने। वेतालाय नृपश्रेष्ठ तथा त्वं प्रस्तुतं शृणु ।।श्रीभगवानुवाच।। उग्रचण्डा च या मूर्तिरष्टादशभुजाऽभवत्। सा नवम्यां पुरा कृष्णपक्षे कन्यां गते रवौ प्रादुर्भूता महामाया योगिनीकोटिभिः सह। आषाढस्य तु पूर्णायां सत्रं द्वादशवार्षिकम् दक्षः कर्तुं समारेभे वृताः सर्वे दिवौकसः। ततोऽहं न वृतस्तेन दक्षेण सुमहात्मना कपालीति सती चापि तज्जायेति च नो वृता। ततो रोषसमायुक्ता प्राणास्तत्याज सा सती त्यक्तदेहा सती चापि चण्डमूर्तिस्तदाऽभवत्। ततः प्रवृत्ते यज्ञेऽपि तस्मिन् द्वादसवार्षिके नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्तिधृक्। योगनिद्रा महामाया योगिनीकोटिभिः सह सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत्। शङ्करस्य गणैः सर्वैः सहिता शङ्करेण च स्वयं बभ़ञ्ज सा देवी महासत्रं महात्मनः। ततो देव्या महाक्रोधे व्यतीते त्रिदिवौकसः पूजयाञ्चक्रुरतुलां देवीं पूर्वोदितेन वै। पूर्वोदितविधानेन पूजामस्या दिवौकसः कृत्वैव परमामापुर्निवृतिं दुःखहानये। एवमन्यैरपि सदा कार्यं देव्याः प्रपूजनम् विभूतिमतुलां प्राप्तं चतुर्वर्गप्रदायिकाम्। यो मोहादथवाऽऽलस्याद् देवीं दुर्गां महोत्सवे न पूजयति दम्भाद् वा द्वेषाद्वाऽप्यथ भैरव। क्रुद्धा भगवती तस्य कामानिष्टान्निहन्ति वै परत्र च महामाया-बलिर्भूत्वा प्रजायते । अष्टम्यां रुधिरैश्चैव महामांसैः सुगन्धिभिः पूजयेद्बहुजातीयैर्बलिभिर्भोजनैः शिवाम्। सिन्दूरैः पट्टवासोभिर्नानाविधविलेपनैः पुष्पैरनेकजातीयैः फलैर्बहुविधैरपि। उपवासं महाष्टम्यां पुत्रवान् न समाचरेत् यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत्। पूजयित्वा महाष्टम्यां नवम्यां बलिभिस्तथा विसर्जयेद् दशम्यां तु श्रवणे सावरोत्सवैः। अन्त्यपादो दिवाभागे श्रवणस्य यदा भवेत् तदा सम्प्रेषणं देव्या दशम्यां कारयेद् बुधः। सुवासिनी कुमारीभिर्वेश्याभिर्नर्तकैस्तथा सङ्खतूर्यनिनादैश्च मृदङ्गैः पटहैस्तथा। ध्वजैर्वस्त्रैर्बहुविधार्लाजपुष्पप्रकीर्णकैः धूलिकर्दमविक्षेपैः क्रीडाकौतुकमङ्गलैः। भगलिङ्गाभिधानैश्च भगलिङ्गप्रगीतकैः भगलिङ्गादिशब्दैश्च क्रडयेयुरलं जनाः। परैर्नाक्षिप्यते यस्तु यः परान्नक्षिपेद् यदि क्रुद्धा भगवती तस्य शापं दद्यात् सुदारुणम्। आदिपादो निशाभागे श्रवणस्य यदा भवेत् तदा देव्याः समुत्थानं नवम्यां न पुनर्दिवा। अन्त्यपादो निशाभागे श्रवणस्य यदा भवेत् तदा देव्याः समुत्थानं नवम्यां दिनभागतः। विसर्जनमनेनैव मन्त्रेण वत्स भैरव कर्तव्यमम्भसि स्थाप्य विसृज्य च विभूतये। उत्तिष्ठ देवि चण्डेशे सुभां पूजां प्रगृह्य च कुरुष्व मम कल्याणमष्टभिः शक्तिभिः सह। गच्छ गच्छ परं स्थानं स्वस्थानं देवि चण्डिके यत् पूजतिं मया देवि परिपूर्णं तदस्तु मे। व्रज त्वं स्रोतसि जले तिष्ठ गेहे च भूतये निमज्जाम्भसि सन्त्यज्य पत्रिकावजिते जले। पुत्रायुर्धनवृद्ध्यर्थं स्थापितासि जले मया इत्यनेन तु मन्त्रेण देवीं संस्थापयेज्जले। सर्वलोक-हितार्थाय सर्वलोकविभूतये दुर्गा-तन्त्रेण मन्त्रेण पूजितव्ये उभे अपि। भद्रकालीमुग्रचण्डां महामायां महोत्सवे नेत्रबीजं तु सर्वासां पूजने परिकीर्तितम्। योगिनीनां तु सर्वासां मूलमूर्तेस्तथैव च मन्त्रं तथोग्रचण्डायाः पृथक् त्वं शृणु भैरव। आद्यद्वयं नेत्रबीजं मन्त्रस्योपान्तमन्तरे वह्निनाऽन्तःस्वरेणेन्दुबिन्दुभ्यां तन्त्रमौग्रकम्। नेत्रबीजं द्वितीयं त द्विधावर्तितमुच्यते भद्रकाल्यास्तु मन्त्रोऽयं धर्मकामार्थसिद्धये। यदा तु वैष्णवी देवी महामाया जगन्मयी पूज्यते वैष्णवी देवी तन्त्रोक्ता अष्टयोगिनीः। ताः प्रोक्ताः शैलपुत्र्याश्च पूर्वकल्पे च भैरव उग्रचण्डादयश्चाष्टौ दुर्गातन्त्रस्य कीर्तिताः। भद्रकाल्यास्तु मन्त्रेण भद्रकालीं प्रपूजयेत् पूजयेद् भूतिवृद्ध्यर्थमेता एवाष्टयोगिनीः। जयन्तीं मङ्गलां कालीं भद्रकालीं कपालिनीम् दुर्गां शिवां क्षमां दात्रीं दलेष्वष्टसु पूजयेत्। यदोग्रचण्डातन्त्रेण सा देवी तत्र पूज्यते योगिन्यस्तत्र पूज्याः स्युरष्टावन्याश्च भैरव। कौशिकी शिवदूती च उमा हैमवतीश्वरी शाकम्भरी च दुर्गा च सप्तमी च महोदरी। उमायाः सौम्यमूर्तेस्तु तन्त्रं त्वं शृणु भैरव एकाक्षरस्त्र्यक्षरश्य उमामन्त्र इति स्मृतः सुवर्णसदृशीं गौरीं भुजद्वयसमन्विताम्। नीलारविन्दं वामेन पाणिना बिभ्रतीं सदा शुक्लं तु चामरं धृत्वा भर्गस्याङ्गेऽथ दक्षिणे। विन्यस्य दक्षिणं हस्तं तिष्ठन्तीं परिचिन्तयेत् विनापि शम्भूं रुद्राणीं भक्तस्तु परिचिन्तयेत्। द्विभुजां स्वर्णगौराङ्गीं पद्मचामरधारिणीम् व्याघ्रचर्मस्थिते पद्मे पद्मासनगता सदा। एतस्याः पूजने प्रोक्ता अष्टौ वेतालभैरव योगिन्यो नायिकाश्चापि पृथक्त्वेन व्यवस्थिताः। जया च विजया चैव मातङ्गी ललिता तथा नारायण्यथ सावित्री स्वधा स्वाहा तथाऽष्टमी। पूर्वं शुम्भो निशुम्भश्च दानवौ भ्रातरावुभौ बभूवतुर्महासत्त्वौ महाकायौ महाबलौ। अन्धकस्य सुतौ द्वौ तौ दन्तिनाविव दुर्मदौ मया विनहते तस्मिन्नन्धकाख्ये महाबले। ससैन्यवाहनौ तौ तु पातालतलमाश्रितौ ततस्तप्त्वा तपस्तोव्रं ब्रह्माणन्तौ महासुरौ। सम्यक् तदाऽतोषयातां स सुप्रीतो वरं ददौ तौ ब्रह्मवरदृप्तौ तु समासाद्य जगत्त्रयम्। इन्द्रत्वमकरोच्छुम्भश्चन्द्रत्वं च निशुम्भकः सर्वेषामेव देवानां यज्ञभागानुपाहरत्। स्वयं शुम्भो निशुम्भश्च दिक्पालत्वं च तौ गतौ सर्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम्। गङ्गावतारनिकटे महामायां प्रतुष्टुवुः अनकेशः स्तुता देवी तदा सर्वामरोत्करैः। मातङ्गवनितामूर्तिर्भूत्वा देवानपृच्छत युष्माभिरमरैरत्र स्तूयते का च भामिनी। किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः। समुद्भूताऽब्रवोद् देवी मां स्तुवन्ति सुरा इति शुम्भो निशुम्भो ह्यसुरौ बाधैते सकलान् सुरान्। तस्मात् तयोर्वधायाहं स्तूये तैः सकलैः सुरैः विनिःसृतायां देव्यां तु मातङ्ग्याः कायकोषतः। भिन्नाञ्जननिभा कृष्णा साऽभूद् गौरी क्षणादपि कालिकाख्याऽभवत् सापि हिमाचलकृताश्रया। तामुग्रतारामृषयो वदन्तीह मनीषिणः उग्रादपि भयात्त्राति यस्माद् भक्तान् सदाम्बिका। एतस्याः प्रथमं बीजं कथितं त्रयमेव च एषैवैकजटाख्या तु यस्मात्तस्माज्जटैकिका । शृणुतं चिन्तं चास्याः सम्यग्वेतालभैरवौ यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम्। चतुर्भुजां कृष्णवर्णां मुण्डमालाविभूषिताम् खड्गं दक्षिणपाणिभ्यां बिभ्रतीं चामरं त्वधः। कर्त्रीं च खर्परं चैव क्रमाद्वामेन बिभ्रतीम् लिखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम्। मुण्डमालाधरां शीर्षे ग्रीवायामपि सर्वदा वक्षसा नागहारं तु बिभ्रतीं सक्तलोचनाम्। कृष्णवस्त्रधरां कट्यां व्याघ्रजिनसमन्विताम् वामपादं शवहृदि संस्थाप्य दक्षिणं पदम्। विन्यस्य सिंहपृष्ठे तु लेलिहानां शवं स्वयम् साट्टहासां महाघोरां रावयुक्तातिभीषणाम्। चिन्त्याग्रे तारा सततं भक्तिमद्भिः सुखेप्सुभिः एतस्याः सम्प्रवक्ष्यामि या अष्टौ योगिनीः स्मृताः। महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी। भैरवी चाष्टमी प्रोक्ता योगिनीस्ताः प्रपूजयेत् या कायकोषान्निः सृता कालिकायास्तु भैरव। सा कौशिकीति विख्याता चारुरूपा मनोहरा निःसृता हृदयाद् देव्या रसनाग्रेण चण्डिका। नैतस्याः सदृशी मूर्त्या चारुरूपेण विद्यते त्रिषु लोकेषु कान्त्या वा नास्यास्तुल्या भविष्यति। योगनिद्रा महामाया या मूलप्रकृतिर्मता तस्याः प्राणस्वरूपेयं देवी या कौशिकी स्मृता। नेत्रबीजं तथैतस्या बीजं तु परिकीर्तितम् मन्त्रमस्याः प्रवक्ष्यामि मूर्तिरूपं च भैरव। षष्ठस्वरेण संस्पृष्ठो बिन्दुना समलङ्कृतः। कौशिकीमन्त्रतन्त्रोऽयं सर्वकामार्थदायकः तस्यास्तु सम्प्रवक्ष्यामि या मूर्तिरिह भैरव। शृणुष्वैकमना भूत्वा जगदाह्लादकारकम् धम्मिल्लसंयतकचां विधोश्चाधोमुखीं कलाम्। केशान्ते तिलकस्योर्ध्वे दधती सुमनोहरा मणिकुण्डलसंघृष्टगण्डा मुकुटमण्डिता। सज्जयोतिः कर्णपूराभ्यां कर्णमापूर्य सङ्गता सुवर्णमणिमाणिक्यनागहारविराजिता। सदा सुगन्धिभिः पद्मैरम्लानैरतिसुन्दरी मालां बिभर्ति ग्रीवायां रत्नकेयूरधारिणी। मृणालायतवृत्तैस्तु बाहुभिः कोमलैः शुभैः राजन्ती कञ्चुकोपेत-पीनोन्नतपयोधरा। क्षीणमध्या पीतवस्त्रा त्रिवलीप्रख्यभूषिता शूलं वज्रं च बाणं च खड्गं शक्तिं तथैव च। दक्षिणैः पाणिभिर्देवी गृहीत्वा तु विराजिता गदां घण्टां च चापं च चर्म शङ्खं तथैव च। ऊर्ध्वादिक्रमतो देवी दधती वामपाणिभिः सिंहस्योपरि तिष्ठन्ती व्याघ्रचर्माणि कौशिकी। बिभ्रती रूपमतुलं ससुरासुरमोहनम् एतस्याः शृणु वत्स त्वं याः पूज्या अष्टयोगिनीः। ताः पूजिताश्च कुर्वन्ति चतुर्वर्गं नृणां सदा ब्रह्माणी प्रथमा प्रोक्ता ततो माहेश्वरी मता। कौमारी चैव वाराही वैष्णवी पञ्चमी तथा नारसिंहो तथैवैन्द्री शिवदूती तथाऽष्टमी। एताः पूज्या महाभागा योगिन्यः कामदायिकाः देव्या ललाटनिष्क्रान्ता या कालीति च विश्रुता। तस्या मन्त्रं प्रवक्ष्यामि कामद शृणु भैरव षष्ठस्वराग्निबिन्द्विन्दुसहितः सादिरेव च कालीमन्त्रमिति प्रोक्तं धर्मकामार्थदायकम्। एतन्मूर्ति प्रवक्ष्यामि वत्सैकाग्रमनाः शृणु नीलोत्पलदलश्यामा चतुर्बाहुसमन्विता। खट्वाङ्गं चन्द्रहासं च बिभ्रती दक्षिणे करे वामे चर्म च पाशं च ऊर्ध्वाधोभागतः पुनः। दधती मुण्डमालां च व्याघ्रचर्मधरा वराम् कृशाङ्गी दीर्घदंष्ट्रा च अतिदीर्घातिभीषणा। लोलजिह्वा निम्नरक्तनयना नादभैरवा कबन्धवाहनासीना विस्तारश्रवणानना। एषा ताराह्वया देवी चामुण्डेति च गीयते एतस्या योगिनीश्चाष्टौ पूजयेच्चिन्तयेद् यदि। त्रिपुरा भीषणा चण्डी कर्त्री हर्त्री विधायिनी कराला शूलिनी चेति अष्टौ ताः परिकीर्तिताः। एषाऽतिकामदा देवी जाड्यहानिकरी सदा एतस्याः सदृशी काचित् कामदा न हि विद्यते। कौशिक्या हृदयाद् देवी निःसृता ध्यायतो हरेः शिवदूतीति सा ख्याता या च देवशतैर्वृता। मन्त्रमस्याः प्रवक्ष्यामि धर्मकामार्थदायकम् यच्छ्रुत्वा साधको याति दुर्लभं सिवमन्दिरम्। यामाराध्य महादेवीं शिवदूतीं शिवात्मिकाम् नचिराल्लभते कामान् नरः सर्वजयी भवेत्। स्वरेणोपान्तदन्त्येन संस्पृष्टोऽन्तेन पूर्वशः। स एव बिन्दुयुगलपूर्वस्थोपान्तपावकः षष्ठस्वरकलाशून्यैः सहितः प्रथमस्थितः। मन्त्रोऽयं शिवदूत्यास्तु शिवदूतीजयप्रदः रूपमस्याः प्रवक्ष्यामि शृणु वत्सैकसम्मतः। चतुर्भुजं महाकायं सिन्दूरसदृशद्युति रक्तदन्तं मुण्डमालाजटाजूटार्धचन्द्रधृक्। नागकुण्डलहाराभ्यां शोभितं नखरोज्जवलम् व्याघ्रचर्मपरिधानं दक्षिणे सूलखड्गधृक्। वामे पाशं तथा चर्म बिभ्रदूर्ध्वापरक्रमात् स्थूलवक्त्रं च पीनोष्ठं तुङ्गमूर्ति भयङ्करम्। निक्षिप्य दक्षिणं पादं सन्तिष्ठत् कुणपोपरि वामपादं शृगालस्य पृष्ठे फेरुशतैर्वृतम्। ईदृशीं शिवदूत्यास्तु मूर्तिं ध्यायेद् विभूतये ध्यानमात्रादथैतस्या नरः कल्याणमाप्नुयात्। पूजनादचिराद् देवी सर्वान् कामान् ददाति च यः शिवाविरुतं श्रुत्वा विशदूतीं शुभप्रदाम्। प्रणमेत् साधको भक्त्या तस्य कामाः करे स्थिताः यदा जघान जगतां रक्तबीजं हिताय वै। महादेवी महामाया तदास्याः कायतः सृताः दूतं प्रस्थापयामास शिवं शुम्भाय साम्बिका। सा शिवदूतीति देवैः सर्वैः प्रगीयते क्षेमकारी च शान्ता च वेदमाता महोदरी। कराला कामदा देवी भगास्या भगमालिनी भगोदरी भगारोहा भगजिह्वा भगा तथा। एता द्वादश योगिन्यः पूजने परिकीर्तिताः एता द्वादश योगिन्यः शिवदूत्याः सदैव हि। विचरन्ती स्वयं देवी यत्र तत्रैव गच्चति योगिन्यो ह्यथ सख्यः स्युर्यथान्यासां तथा पुनः। चण्डिकायास्तु योगिन्यः सख्योऽत्र च प्रकीर्तिताः इति ते त्वङ्गमन्त्राणि कथितानि समासतः। कामाख्यायाश्च महात्म्यं कल्पमात्रं वदामि वाम्

||aurvva uvāca|| yathāha bhagavān devo bhairavāya mahātmane| vetālāya nṛpaśreṣṭha tathā tvaṃ prastutaṃ śṛṇu ||śrībhagavānuvāca|| ugracaṇḍā ca yā mūrtiraṣṭādaśabhujā'bhavat| sā navamyāṃ purā kṛṣṇapakṣe kanyāṃ gate ravau prādurbhūtā mahāmāyā yoginīkoṭibhiḥ saha| āṣāḍhasya tu pūrṇāyāṃ satraṃ dvādaśavārṣikam dakṣaḥ kartuṃ samārebhe vṛtāḥ sarve divaukasaḥ| tato'haṃ na vṛtastena dakṣeṇa sumahātmanā kapālīti satī cāpi tajjāyeti ca no vṛtā| tato roṣasamāyuktā prāṇāstatyāja sā satī tyaktadehā satī cāpi caṇḍamūrtistadā'bhavat| tataḥ pravṛtte yajñe'pi tasmin dvādasavārṣike navamyāṃ kṛṣṇapakṣe tu kanyāyāṃ caṇḍamūrtidhṛk| yoganidrā mahāmāyā yoginīkoṭibhiḥ saha satīrūpaṃ parityajya yajñabhaṅgamathākarot| śaṅkarasya gaṇaiḥ sarvaiḥ sahitā śaṅkareṇa ca svayaṃ babha़ñja sā devī mahāsatraṃ mahātmanaḥ| tato devyā mahākrodhe vyatīte tridivaukasaḥ pūjayāñcakruratulāṃ devīṃ pūrvoditena vai| pūrvoditavidhānena pūjāmasyā divaukasaḥ kṛtvaiva paramāmāpurnivṛtiṃ duḥkhahānaye| evamanyairapi sadā kāryaṃ devyāḥ prapūjanam vibhūtimatulāṃ prāptaṃ caturvargapradāyikām| yo mohādathavā''lasyād devīṃ durgāṃ mahotsave na pūjayati dambhād vā dveṣādvā'pyatha bhairava| kruddhā bhagavatī tasya kāmāniṣṭānnihanti vai paratra ca mahāmāyā-balirbhūtvā prajāyate | aṣṭamyāṃ rudhiraiścaiva mahāmāṃsaiḥ sugandhibhiḥ pūjayedbahujātīyairbalibhirbhojanaiḥ śivām| sindūraiḥ paṭṭavāsobhirnānāvidhavilepanaiḥ puṣpairanekajātīyaiḥ phalairbahuvidhairapi| upavāsaṃ mahāṣṭamyāṃ putravān na samācaret yathā tathaiva pūtātmā vratī devīṃ prapūjayet| pūjayitvā mahāṣṭamyāṃ navamyāṃ balibhistathā visarjayed daśamyāṃ tu śravaṇe sāvarotsavaiḥ| antyapādo divābhāge śravaṇasya yadā bhavet tadā sampreṣaṇaṃ devyā daśamyāṃ kārayed budhaḥ| suvāsinī kumārībhirveśyābhirnartakaistathā saṅkhatūryaninādaiśca mṛdaṅgaiḥ paṭahaistathā| dhvajairvastrairbahuvidhārlājapuṣpaprakīrṇakaiḥ dhūlikardamavikṣepaiḥ krīḍākautukamaṅgalaiḥ| bhagaliṅgābhidhānaiśca bhagaliṅgapragītakaiḥ bhagaliṅgādiśabdaiśca kraḍayeyuralaṃ janāḥ| parairnākṣipyate yastu yaḥ parānnakṣiped yadi kruddhā bhagavatī tasya śāpaṃ dadyāt sudāruṇam| ādipādo niśābhāge śravaṇasya yadā bhavet tadā devyāḥ samutthānaṃ navamyāṃ na punardivā| antyapādo niśābhāge śravaṇasya yadā bhavet tadā devyāḥ samutthānaṃ navamyāṃ dinabhāgataḥ| visarjanamanenaiva mantreṇa vatsa bhairava kartavyamambhasi sthāpya visṛjya ca vibhūtaye| uttiṣṭha devi caṇḍeśe subhāṃ pūjāṃ pragṛhya ca kuruṣva mama kalyāṇamaṣṭabhiḥ śaktibhiḥ saha| gaccha gaccha paraṃ sthānaṃ svasthānaṃ devi caṇḍike yat pūjatiṃ mayā devi paripūrṇaṃ tadastu me| vraja tvaṃ srotasi jale tiṣṭha gehe ca bhūtaye nimajjāmbhasi santyajya patrikāvajite jale| putrāyurdhanavṛddhyarthaṃ sthāpitāsi jale mayā ityanena tu mantreṇa devīṃ saṃsthāpayejjale| sarvaloka-hitārthāya sarvalokavibhūtaye durgā-tantreṇa mantreṇa pūjitavye ubhe api| bhadrakālīmugracaṇḍāṃ mahāmāyāṃ mahotsave netrabījaṃ tu sarvāsāṃ pūjane parikīrtitam| yoginīnāṃ tu sarvāsāṃ mūlamūrtestathaiva ca mantraṃ tathogracaṇḍāyāḥ pṛthak tvaṃ śṛṇu bhairava| ādyadvayaṃ netrabījaṃ mantrasyopāntamantare vahninā'ntaḥsvareṇendubindubhyāṃ tantramaugrakam| netrabījaṃ dvitīyaṃ ta dvidhāvartitamucyate bhadrakālyāstu mantro'yaṃ dharmakāmārthasiddhaye| yadā tu vaiṣṇavī devī mahāmāyā jaganmayī pūjyate vaiṣṇavī devī tantroktā aṣṭayoginīḥ| tāḥ proktāḥ śailaputryāśca pūrvakalpe ca bhairava ugracaṇḍādayaścāṣṭau durgātantrasya kīrtitāḥ| bhadrakālyāstu mantreṇa bhadrakālīṃ prapūjayet pūjayed bhūtivṛddhyarthametā evāṣṭayoginīḥ| jayantīṃ maṅgalāṃ kālīṃ bhadrakālīṃ kapālinīm durgāṃ śivāṃ kṣamāṃ dātrīṃ daleṣvaṣṭasu pūjayet| yadogracaṇḍātantreṇa sā devī tatra pūjyate yoginyastatra pūjyāḥ syuraṣṭāvanyāśca bhairava| kauśikī śivadūtī ca umā haimavatīśvarī śākambharī ca durgā ca saptamī ca mahodarī| umāyāḥ saumyamūrtestu tantraṃ tvaṃ śṛṇu bhairava ekākṣarastryakṣaraśya umāmantra iti smṛtaḥ suvarṇasadṛśīṃ gaurīṃ bhujadvayasamanvitām| nīlāravindaṃ vāmena pāṇinā bibhratīṃ sadā śuklaṃ tu cāmaraṃ dhṛtvā bhargasyāṅge'tha dakṣiṇe| vinyasya dakṣiṇaṃ hastaṃ tiṣṭhantīṃ paricintayet vināpi śambhūṃ rudrāṇīṃ bhaktastu paricintayet| dvibhujāṃ svarṇagaurāṅgīṃ padmacāmaradhāriṇīm vyāghracarmasthite padme padmāsanagatā sadā| etasyāḥ pūjane proktā aṣṭau vetālabhairava yoginyo nāyikāścāpi pṛthaktvena vyavasthitāḥ| jayā ca vijayā caiva mātaṅgī lalitā tathā nārāyaṇyatha sāvitrī svadhā svāhā tathā'ṣṭamī| pūrvaṃ śumbho niśumbhaśca dānavau bhrātarāvubhau babhūvaturmahāsattvau mahākāyau mahābalau| andhakasya sutau dvau tau dantināviva durmadau mayā vinahate tasminnandhakākhye mahābale| sasainyavāhanau tau tu pātālatalamāśritau tatastaptvā tapastovraṃ brahmāṇantau mahāsurau| samyak tadā'toṣayātāṃ sa suprīto varaṃ dadau tau brahmavaradṛptau tu samāsādya jagattrayam| indratvamakarocchumbhaścandratvaṃ ca niśumbhakaḥ sarveṣāmeva devānāṃ yajñabhāgānupāharat| svayaṃ śumbho niśumbhaśca dikpālatvaṃ ca tau gatau sarve suragaṇāḥ sendrāstato gatvā himācalam| gaṅgāvatāranikaṭe mahāmāyāṃ pratuṣṭuvuḥ anakeśaḥ stutā devī tadā sarvāmarotkaraiḥ| mātaṅgavanitāmūrtirbhūtvā devānapṛcchata yuṣmābhiramarairatra stūyate kā ca bhāminī| kimarthamāgatā yūyaṃ mātaṅgasyāśramaṃ prati evaṃ bruvantyā mātaṅgyāstasyāstu kāyakoṣataḥ| samudbhūtā'bravod devī māṃ stuvanti surā iti śumbho niśumbho hyasurau bādhaite sakalān surān| tasmāt tayorvadhāyāhaṃ stūye taiḥ sakalaiḥ suraiḥ viniḥsṛtāyāṃ devyāṃ tu mātaṅgyāḥ kāyakoṣataḥ| bhinnāñjananibhā kṛṣṇā sā'bhūd gaurī kṣaṇādapi kālikākhyā'bhavat sāpi himācalakṛtāśrayā| tāmugratārāmṛṣayo vadantīha manīṣiṇaḥ ugrādapi bhayāttrāti yasmād bhaktān sadāmbikā| etasyāḥ prathamaṃ bījaṃ kathitaṃ trayameva ca eṣaivaikajaṭākhyā tu yasmāttasmājjaṭaikikā | śṛṇutaṃ cintaṃ cāsyāḥ samyagvetālabhairavau yathā dhyātvā mahādevīṃ bhaktaḥ prāpnotyabhīpsitam| caturbhujāṃ kṛṣṇavarṇāṃ muṇḍamālāvibhūṣitām khaḍgaṃ dakṣiṇapāṇibhyāṃ bibhratīṃ cāmaraṃ tvadhaḥ| kartrīṃ ca kharparaṃ caiva kramādvāmena bibhratīm likhantīṃ jaṭāmekāṃ bibhratīṃ śirasā svayam| muṇḍamālādharāṃ śīrṣe grīvāyāmapi sarvadā vakṣasā nāgahāraṃ tu bibhratīṃ saktalocanām| kṛṣṇavastradharāṃ kaṭyāṃ vyāghrajinasamanvitām vāmapādaṃ śavahṛdi saṃsthāpya dakṣiṇaṃ padam| vinyasya siṃhapṛṣṭhe tu lelihānāṃ śavaṃ svayam sāṭṭahāsāṃ mahāghorāṃ rāvayuktātibhīṣaṇām| cintyāgre tārā satataṃ bhaktimadbhiḥ sukhepsubhiḥ etasyāḥ sampravakṣyāmi yā aṣṭau yoginīḥ smṛtāḥ| mahākālyatha rudrāṇī ugrā bhīmā tathaiva ca ghorā ca bhrāmarī caiva mahārātriśca saptamī| bhairavī cāṣṭamī proktā yoginīstāḥ prapūjayet yā kāyakoṣānniḥ sṛtā kālikāyāstu bhairava| sā kauśikīti vikhyātā cārurūpā manoharā niḥsṛtā hṛdayād devyā rasanāgreṇa caṇḍikā| naitasyāḥ sadṛśī mūrtyā cārurūpeṇa vidyate triṣu lokeṣu kāntyā vā nāsyāstulyā bhaviṣyati| yoganidrā mahāmāyā yā mūlaprakṛtirmatā tasyāḥ prāṇasvarūpeyaṃ devī yā kauśikī smṛtā| netrabījaṃ tathaitasyā bījaṃ tu parikīrtitam mantramasyāḥ pravakṣyāmi mūrtirūpaṃ ca bhairava| ṣaṣṭhasvareṇa saṃspṛṣṭho bindunā samalaṅkṛtaḥ| kauśikīmantratantro'yaṃ sarvakāmārthadāyakaḥ tasyāstu sampravakṣyāmi yā mūrtiriha bhairava| śṛṇuṣvaikamanā bhūtvā jagadāhlādakārakam dhammillasaṃyatakacāṃ vidhoścādhomukhīṃ kalām| keśānte tilakasyordhve dadhatī sumanoharā maṇikuṇḍalasaṃghṛṣṭagaṇḍā mukuṭamaṇḍitā| sajjayotiḥ karṇapūrābhyāṃ karṇamāpūrya saṅgatā suvarṇamaṇimāṇikyanāgahāravirājitā| sadā sugandhibhiḥ padmairamlānairatisundarī mālāṃ bibharti grīvāyāṃ ratnakeyūradhāriṇī| mṛṇālāyatavṛttaistu bāhubhiḥ komalaiḥ śubhaiḥ rājantī kañcukopeta-pīnonnatapayodharā| kṣīṇamadhyā pītavastrā trivalīprakhyabhūṣitā śūlaṃ vajraṃ ca bāṇaṃ ca khaḍgaṃ śaktiṃ tathaiva ca| dakṣiṇaiḥ pāṇibhirdevī gṛhītvā tu virājitā gadāṃ ghaṇṭāṃ ca cāpaṃ ca carma śaṅkhaṃ tathaiva ca| ūrdhvādikramato devī dadhatī vāmapāṇibhiḥ siṃhasyopari tiṣṭhantī vyāghracarmāṇi kauśikī| bibhratī rūpamatulaṃ sasurāsuramohanam etasyāḥ śṛṇu vatsa tvaṃ yāḥ pūjyā aṣṭayoginīḥ| tāḥ pūjitāśca kurvanti caturvargaṃ nṛṇāṃ sadā brahmāṇī prathamā proktā tato māheśvarī matā| kaumārī caiva vārāhī vaiṣṇavī pañcamī tathā nārasiṃho tathaivaindrī śivadūtī tathā'ṣṭamī| etāḥ pūjyā mahābhāgā yoginyaḥ kāmadāyikāḥ devyā lalāṭaniṣkrāntā yā kālīti ca viśrutā| tasyā mantraṃ pravakṣyāmi kāmada śṛṇu bhairava ṣaṣṭhasvarāgnibindvindusahitaḥ sādireva ca kālīmantramiti proktaṃ dharmakāmārthadāyakam| etanmūrti pravakṣyāmi vatsaikāgramanāḥ śṛṇu nīlotpaladalaśyāmā caturbāhusamanvitā| khaṭvāṅgaṃ candrahāsaṃ ca bibhratī dakṣiṇe kare vāme carma ca pāśaṃ ca ūrdhvādhobhāgataḥ punaḥ| dadhatī muṇḍamālāṃ ca vyāghracarmadharā varām kṛśāṅgī dīrghadaṃṣṭrā ca atidīrghātibhīṣaṇā| lolajihvā nimnaraktanayanā nādabhairavā kabandhavāhanāsīnā vistāraśravaṇānanā| eṣā tārāhvayā devī cāmuṇḍeti ca gīyate etasyā yoginīścāṣṭau pūjayeccintayed yadi| tripurā bhīṣaṇā caṇḍī kartrī hartrī vidhāyinī karālā śūlinī ceti aṣṭau tāḥ parikīrtitāḥ| eṣā'tikāmadā devī jāḍyahānikarī sadā etasyāḥ sadṛśī kācit kāmadā na hi vidyate| kauśikyā hṛdayād devī niḥsṛtā dhyāyato hareḥ śivadūtīti sā khyātā yā ca devaśatairvṛtā| mantramasyāḥ pravakṣyāmi dharmakāmārthadāyakam yacchrutvā sādhako yāti durlabhaṃ sivamandiram| yāmārādhya mahādevīṃ śivadūtīṃ śivātmikām nacirāllabhate kāmān naraḥ sarvajayī bhavet| svareṇopāntadantyena saṃspṛṣṭo'ntena pūrvaśaḥ| sa eva binduyugalapūrvasthopāntapāvakaḥ ṣaṣṭhasvarakalāśūnyaiḥ sahitaḥ prathamasthitaḥ| mantro'yaṃ śivadūtyāstu śivadūtījayapradaḥ rūpamasyāḥ pravakṣyāmi śṛṇu vatsaikasammataḥ| caturbhujaṃ mahākāyaṃ sindūrasadṛśadyuti raktadantaṃ muṇḍamālājaṭājūṭārdhacandradhṛk| nāgakuṇḍalahārābhyāṃ śobhitaṃ nakharojjavalam vyāghracarmaparidhānaṃ dakṣiṇe sūlakhaḍgadhṛk| vāme pāśaṃ tathā carma bibhradūrdhvāparakramāt sthūlavaktraṃ ca pīnoṣṭhaṃ tuṅgamūrti bhayaṅkaram| nikṣipya dakṣiṇaṃ pādaṃ santiṣṭhat kuṇapopari vāmapādaṃ śṛgālasya pṛṣṭhe pheruśatairvṛtam| īdṛśīṃ śivadūtyāstu mūrtiṃ dhyāyed vibhūtaye dhyānamātrādathaitasyā naraḥ kalyāṇamāpnuyāt| pūjanādacirād devī sarvān kāmān dadāti ca yaḥ śivāvirutaṃ śrutvā viśadūtīṃ śubhapradām| praṇamet sādhako bhaktyā tasya kāmāḥ kare sthitāḥ yadā jaghāna jagatāṃ raktabījaṃ hitāya vai| mahādevī mahāmāyā tadāsyāḥ kāyataḥ sṛtāḥ dūtaṃ prasthāpayāmāsa śivaṃ śumbhāya sāmbikā| sā śivadūtīti devaiḥ sarvaiḥ pragīyate kṣemakārī ca śāntā ca vedamātā mahodarī| karālā kāmadā devī bhagāsyā bhagamālinī bhagodarī bhagārohā bhagajihvā bhagā tathā| etā dvādaśa yoginyaḥ pūjane parikīrtitāḥ etā dvādaśa yoginyaḥ śivadūtyāḥ sadaiva hi| vicarantī svayaṃ devī yatra tatraiva gaccati yoginyo hyatha sakhyaḥ syuryathānyāsāṃ tathā punaḥ| caṇḍikāyāstu yoginyaḥ sakhyo'tra ca prakīrtitāḥ iti te tvaṅgamantrāṇi kathitāni samāsataḥ| kāmākhyāyāśca mahātmyaṃ kalpamātraṃ vadāmi vām