← Kalika Purana

Kalika Purana — Chapter 60

KaP 60.60

।।श्रीभगवानुवाच।। दुर्गातन्त्रेण मन्त्रेण कुर्याद् दुर्गामहोत्सवम्। महानवम्यां शरदि बलिदानं नृपादयः आश्विनस्य तु शुक्लस्य भवेद् या अष्टमी तिथिः। महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा तनोऽतु नवमी या स्यात् सा महानवमी स्मृता। सा तिथिः सर्वलोकानां पूजनीया शिवप्रिया अनयोर्वत्स पूजायां विशेषं शृणु भैरव। सम्पूज्य मण्डले देवीं विधिवत् प्रयतो नरः वैष्णवीतन्त्रमन्त्रेण दुर्गातन्क्षेण भैरव। मूर्तिभेदे यथा देवी पूजां गृह्णाति भूतये कन्यासंस्थे रवौ वत्स शुक्लामारभ्य नन्दिकाम्। अयाचिताशो नक्ताशी एकाशी त्वथ चापदः प्रातःस्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः। जपहोमसमायुक्तो भोजयेच्च कुमारिका बोधयेद् बिल्वशाखासु षष्ट्यां देवीफलेषु च। सप्तम्यां बिल्वशाखां तामाहृत्य प्रतिपूजयेत् पुनः पुजां तथाष्टम्यां विशेषेण समाचरेत्। जागरं च स्वयं कुर्याद् बलिदानं महानिशि प्रभूतबलिदानं तु नवम्यां विधिवच्चरेत्। ध्यायेद् दशभुजां देवीं दुर्गातन्त्रेण पूजयेत् विसर्जनं दशम्यां तु कुर्याद् वै साधकोतमः। कृत्वा विसर्जनं तस्यां तिथौ नक्तं समाचरेत् यदा तु षौडशभुजां महामायां प्रपूजयेत्। दुर्गातन्त्रेण मन्त्रेण विशेषं तत्र वै शृणु कन्यायां कृष्णपक्षस्य एकादश्यामुपोषितः। द्वादश्यामेकभक्तं तु नक्तं कुर्यात् परेऽहनि चतुर्दश्यां महामायां बोधयित्वा विधानतः। गीतवादित्रनिर्घोषैर्न्नानानैवेद्यवेदनैः अयाचितं बुधः कुर्यादुपवासं परेऽहनि। एवमेव व्रत कुर्याद् यावद्वै नवमी भवेत् ज्येष्ठायां च समभ्यर्च्य मूलेन प्रतिपूजयेत्। उत्तरेणार्चनं कृत्वा श्रवणान्ते विसर्जयेत् यदा त्वष्टादशभुजां महामायां प्रपूजयेत्। दुर्गातन्त्रेण मन्त्रेण तत्रापि शृणु भैरव कन्यायां कृष्णपक्षस्य पूजयित्वार्द्रभे दिवा। नवम्यां बोधयेद् देवीं गीतवादित्रनिस्वनैः शुक्लपक्षे चतुर्थ्या तु देवीकेशविमोचनम्। प्रातरेव तु पञ्चम्यां स्नापयेत् तु शुभैर्जलैः सप्तम्यां पत्रिकापूजा अष्टम्यां चाप्युपोषणम्। पूजाजागरणं चैव नवम्यां विधिबद्बलिः सम्प्रेषणं दशम्यां तु क्रीडाकौतुकमङ्गलैः। नीराजनं दशम्यां तु बलवृद्धिकरं महत् यदा वै वैष्णवीं देवीं महामायां जगन्मयाम्। पूजयेत् तत्र च तदा विशेषं शृणु भैरव कन्यासंस्थे रवौ पूजा या शुक्ला तिथिरष्टमी। तस्यां रात्रौ पूजितव्या महाविभवविस्तरैः नवम्यां बलिदानं तु कर्त्तव्यं वै यथाविधि। जपं होमं च विधिवत् कुर्यात् तत्र विभूतये सम्पूजयेन्महादेवीमष्टपुष्पिकया नरः। रामस्यानुग्रहार्थाय रावणस्य वधाय च रात्रावेव महादेवी ब्रह्मणा बोधिता पुरा। ततस्तु त्यक्तनिद्रा सा नन्दायामाश्विने सिते जगाम नगरीं लङ्कां यत्रासीद्राघवः पुरा। तत्र गत्वा महादेवी तदा तौ रामरावणौ युद्धं नियोजयामास स्वयमन्तर्हिताम्बिका। रक्षसां वानराणां च जग्ध्वा सा मांसशोणिते रामरावणयोर्युद्धं सप्ताहं सा न्ययोजयत्। व्यतीते सप्तमे रात्रौ नव्यां रावणं ततः रामेण घातयामास महामाया जगन्मयी। यावत्तयोः स्वयं देवी युद्धकेलिमुदैक्षत तावत् तु सप्तरात्राणि सैव देवैः सुपूजिता। निहते रावणे वीरे नवम्यां सकलैः सुरैः विशेषपूजां दुर्गायाश्चक्रे लोकपितामहः। ततः सम्प्रेषिता देवी दशम्यां शार्वरोत्सवैः शाक्रोऽपि देवसेनाया नीराजनमथाकरोत्। शान्त्यर्थं सुरसैन्यानां देवराज्यस्य वृद्धये रामरावणबाणेन युद्धं चावेक्ष्य भीतिदम्। तृतीयायां तु लङ्कायाः पूर्वोत्तरदिशि स्थितम् स्वातीनक्षत्रयुक्तायां भीतं सुरबलं महत्। शान्त्यर्थं वरयामास देवेन्द्रो वचनाद् हरेः ततस्तु श्रवणेनाथ दशम्यां चण्डिकां शुभाम्। विसृज्य चक्रे शान्त्यर्थं बलनीराजनं हरिः नीराजितबलः शक्तस्तत्र रामं च राघवम्। सम्प्राप्य प्रययौ स्वर्गं सह देवैः शचीपतिः इतिवृत्तं पुराकल्पे मनोः स्वायम्भुवेऽन्तरे। प्रादुर्भूता दशभुजा देवी देवहिताय वै नृणां त्रेतायुगस्यादौ जगतां हितकाम्यया। पुराकल्पे यथावृत्तं प्रतिकल्पं तथा तथा प्रवर्तते स्वयं देवी दैत्यानां नाशनाय वै। प्रतिकल्पं भवेद्रामो रावमश्चापि राक्षसः तथैव जायते युद्धं तथा त्रिदशसंगमः। एवं रामहस्राणि रावणानां सहस्रशः भवितव्यानि भूतानि तथा देवी प्रवर्तते। पूजयन्ति सुराः सर्वे बलं नीराजयन्त्यपि तथैव च नराः सर्वे कुर्युः पूजां यथाविधि। बलनीराजनं राजा कुर्याद् बलविवृद्धये दिव्यालङ्कारयुक्ताभिर्वारुणीभिः प्रवर्तनम्। कर्त्तव्यं नृत्यगीतानि क्रीडाकौतुकमङ्गलैः मोदकैः पिष्टकैः पेयैर्भक्ष्यभोज्यैरनेकशः। कूष्माण्डैर्नारिकेलैश्च खर्जूरैः पनसैस्तथा द्राक्षामलकशाडिल्यैः प्लीहैश्च करुणैस्तथा। कशेरुक्रमुकैर्मूलैः सजम्बूतिन्दुकादिभिः गव्यैर्गुडैस्तथा मांसैर्मद्यैर्मधुभिरेव च। बालप्रियैश्च नैवेद्यैर्लाजाक्षतफलादिभिः इक्षुदण्डैः सिताभिश्च लवलीनागरङ्गकै। अजाभिर्महिषैरात्मशोणितसञ्चयैः पक्ष्यादिबलिजातीयैस्तता नानाविधैर्मृगैः। पूजयेच्च जगद्धात्रीं मांसशोणितकर्दमैः रात्रौ स्कन्दविशाखस्य कृत्वा पिष्टकपुत्रिकाम्। पूजयेच्छत्रुनाशाय दुर्गायाः प्रीतये तथा होमं च सतिलैराज्यैर्मासैरपि तथा चरेत्। उग्रचण्डादिकाः पूज्यास्तथाष्टौ योगिनीः शुभाः योगिन्यश्च चतुःषष्ठिस्तथा वै कोटियोगिनीः। नवदुर्गास्तथा पूज्या देव्याः सन्निहिताः शुभाः जयन्त्यादिर्गन्धपुष्पैस्ता देव्या मूर्तयो यतः। देव्यः सर्वाणि चास्त्राणि भूषणानि तथैव च अङ्गप्रत्यङ्गयुक्तानि वाहनं सिंहमेव च। महिषासुरमर्दिन्याः पूजयेद् भूतये सदा पुराकल्पे महादेवी मनोः स्वायम्भुवेऽन्तरे। नृणां कृतयुगस्यादौ सर्वदेवैः स्तुता सदा महिषासुरनाशाय जगतां हितकाम्यया। योगनिद्रा महामाया जगद्धात्री जगन्मयी भुजैः षोडशभिर्युक्या भद्रकालीति विश्रुता। क्षीरोदस्योत्तरे तीरे बिभ्रती विपुलां तनुम् अतसीपुष्पवर्णाभा ज्वलत्काञ्चनकुण्डला। जटाजूटसखण्डेन्दुमुकुटत्रयभूषिता नगहारेम सहिता स्वर्महारविभूषिता। शूलं चक्रं च खड्गं च शङ्खं बाणं तथैव च शक्तिं वज्रं च दण्डं च नित्यं दक्षिणबाहुभिः। बिभ्रती सततं देवी विकाशिदशनोज्ज्वला खेटकं चर्म चापं च पाशं चाङ्कुशमेव च। घण्टां पर्शुं च मुषलं बिभ्रती वामपाणिभिः सिंहस्था नयनै रक्तवर्णैस्त्रिभिरतिज्वला। शूलेन महिषं भित्त्वा तिष्ठन्ती परमेश्वरी वामपदेन चाक्रम्य तत्र देवी जगन्मयी। तां दृष्ट्वा सकला देवाः प्रणम्य परमेश्वरीम् किञ्चन तं तृष्ट्वा निहतं महिषासुरम्। ततः प्रोवाच देवांस्तान् ब्रह्मादीन् परमेश्वरी स्मितप्रभिन्नवदना विकाशिवदनोज्जवला। गच्छन्तु भोः सुरगणा जम्बुद्वीपान्तरं प्रति।. ६०.६५ ।। हिमवत् पर्वतासन्ने वरं कात्यायनाश्रमम्। तत्रैव भवतां साध्यं भविष्यति न संशयः इत्युक्त्वा सा महादेवी तत्रैवान्तरधीयत। देवा आपि तदा जग्मुः कात्यायनमुनेः पुरम् आश्रमं प्रति ते गत्वा विस्मयाविष्टमानसाः। निहतो महिषो देव्या दिष्टोऽस्माभिर्यदर्थतः स्तुता चैषा महादेवी जगद्धात्री जगन्मयी। किमर्थमाह सा देवी गन्तुं कात्यायनाश्रमम् किमन्यद् वाञ्छितं कार्यमस्माकं वा भविष्यति। इति ब्रुवन्तस्ते सर्वे गच्छन्ति स्म परस्परम् हिमवत्-पर्वतासन्नं मुनि-कात्यायनाश्रमम्। ततः सेन्द्राः सदिक्पाला ब्रह्मविष्णुशिवास्तथा निषेदुः सुचिरं प्रीता दुर्गादर्शनलालसाः। ततो रुद्रगणाः सर्वे महिषासुरचेष्टितम् आगत्य कथयामासुर्देवलोकपराभवम्। ततस्तत्र महाकोपं ब्रह्मविष्णुशिवादयः चक्रुः कोऽन्योऽस्ति महिषो हतो देव्या स दानवः। पुनर्येनेह क्रियते जगद्विध्वंसनं भृशम् इति प्रकुप्यतां तेषां शरीरेभ्यः पृथक् पृथक्। निश्चक्रमुश्च तेजांसि शक्तिरूपाणि तत्क्षणात् तत्तेजोभिर्धृतवपुर्देवी कात्यायन्न वै। सन्धुक्षिता पूजिता च तेन कात्यायनी स्मृता ततस्तेनैव मन्त्रेण दशबाहुयुतेन वै। पश्चाज्जघान महिषं जगद्धात्री जगन्मयी यदा स्तुता महादेवी बोधिता चाश्विनस्य च। चतुर्दशी कृष्णपक्षे प्रादुर्भूता जगन्मयी देवानां तेजसां मूर्तिः शुक्लपक्षे सुशोभने। सप्तम्यां साऽकरोद् देवी अष्टम्यां तैरलङ्कृता नवम्यामुपहारैस्तु पूजिता महिषासुरम्। निजघान दशम्यां तु विसृष्टान्तर्हिता शिवा ।।मार्कण्डेय उवाच।। श्रुत्वेमां सगरो राजा देव्याः सङ्गतिमुत्तमाम्। संशयालुश्च तद्रूपे पुनरौर्व्वमपृच्छत् ।।सगर उवाच।। यदि पस्चान्महादेवी जघान महिषासुरम्। कथं पूर्वं भद्रकाली-रूपाभून्महिषासुरम् तथाहि दर्शनं तस्याः पादाक्रान्तस्चकार च। हृदि शूलेन निर्भिन्नं ददृशुः सकलाः सुराः। एवं तु संशयं छिन्धि मुनिश्रेष्ठ समाधुना ।।और्व्व उवाच।। शृणुत्वं नृपशार्दूल भद्रकाली यथा पुरा। प्रादुर्भूता महामाया महिषेण सहैव तु महिषासुर एवासौ निद्रायां निशि पर्वते । स्वप्नं प्रददृसे वीरो दारुणं घोरदर्शनम् महामाया भद्रकाली छित्त्वा खड्गेन मे शिरः। पपौ तस्य च रक्तानि व्यादितास्यातिभीषणा ततः प्रातर्भययुतः स दैत्यो महिषासुरः। तामेव पूजयामास सुचिरं सानुगस्तदा आराधिता तदा देवी महिषेणासुरेण वै। प्रादुर्भूता भद्रकाली भुजैः षोडशभिर्युता ततः प्रणम्य महिषो महामायां जगन्मयीम्। उवाचेदं वचो नम्रमूर्तिर्भक्तियुतोऽसुरः ।।महिष उवाच।। देवि खड्गेन सञ्छिद्य शोणितानि शिरो मम। त्वया मुक्तानि दृष्टानि मया स्वप्नेन निश्चितम् अवश्यं तु त्वया कार्यं मया ज्ञातं प्रमाणतः। एतद्रुधिरपानं मे तत्रैकं देहि मे वरम् वध्यस्तवाहं नात्रास्ति संशयः परमेश्वरि। ममापि तत्र नो दुःखं नियतिः केन लङ्घ्यते किन्तु त्वयैव सहितः शम्भुराराधितः पुरा। मम पित्रा मदर्थेन जातः पश्चादहं ततः मयाप्याराधितः शम्भुः प्राप्ताश्चेष्टास्तथाविधाः। मन्वन्तरत्रयं यावदासुरं राज्यमुत्तमम् अकण्टकं मया भुक्तमनुतापो न विद्यते। कात्यायनेन मुनिना शप्तोऽहं शिष्यकारणात् सीमन्तिनी विनाशं ते करिष्यति न संशयः। पुरा मुनिं तपस्यन्तं रौद्राश्वं नाम सत्तमम् मुनेः कात्यायनाख्यस्य शिष्यं हिमवदन्तिके। दिव्यस्त्रीरूपमतुलं कृत्वाहं कौतुकात् तदा मया सम्मोहितो विप्रोऽत्यजत् सद्यस्तदा तपः। नदूरात् संस्थितेनाहं मुनिना कात्यसूनुना ज्ञात्वा मायां तदा शप्तः शिष्यार्थे क्रोधवह्निना। यस्मात् त्वया मे सिष्योऽयं मोहितस्तपसश्च्युतः कृतस्त्वया स्त्रीरूपेण तत् त्वां स्त्री निहनिष्यति। इति मां शप्तवान् पूर्वं मुनिः कात्यायनः स्वयम् तस्य शापस्य कालोऽयमागत्य समुपस्थितः। देवेन्द्रत्वं मया प्राप्तं भुक्तं त्रिभुवनं समम् किञ्चिन्न शोच्यं मेऽत्रास्ति वाञ्छनीयं हि यन्मया। तस्मात् त्वां वै प्रपन्नोऽहं प्रार्थ्यं शेषं हि यन्मम। यदू देहि देवि दुर्गे त्वं भूयस्तुभ्यं नमो नमः ।।देव्युवाच।। प्रार्थनीयो वरो यस्ते तं वृणुष्व महासुर। दास्यामि ते वरं प्रार्थ्यं संशयो नात्र विद्यते ।।महिष उवाच।। यज्ञभागमहं भोक्तुमिच्छामि त्वत्प्रसादतः। यथा मखेषु सर्वेषु पूज्योऽहं स्यां तथा कुरु त्वत्पादसेवां न त्यक्ष्ये यावत्सूर्यः प्रवर्तते। एवं वरद्वयं देहि यदि देयो वरो मम ।।देव्युवाच।। यज्ञभागाः सुरेभ्यस्तु कल्पिता वै पृथक् पृथक्। भागो न विद्यते चान्यो यं दास्यामि तवाधुना किन्तु त्वयि मया युद्धे निहते महिषासुर। नैव त्यक्ष्यसि मत्पादं सततं नात्र संशयः मम प्रवर्तते पूजा यत्र यत्र च तत्र ते। पूज्यश्चिन्त्यश्च तत्रैव कायोऽयं तव दानव इति श्रुत्वा वचस्तस्याः प्रत्यूषे महिषासुरः। वरं प्राप्येह मुदितः प्रसन्नवदनस्तदा उग्रचण्डे भद्रकालि दुर्गे देवि नमोऽस्तुते। प्रभूता मूर्तया देवि भवत्या सकलात्मिकाः काभिस्ते मूर्तिभिः पूज्यो यज्ञेऽहं परमेश्वरि। तत् समाचक्ष्व यदि मे भवत्येह कृपा कृता ।।देव्युवाच।। यानि नामानि प्रोक्तानि त्वयेह महिषासुर। तासु मूर्तिषु संपृष्टः पूज्यो लोके भविष्यसि उग्रचण्डेति या मूर्तिर्भद्रकाली ह्यहं पुनः। यया मूर्त्यात्वां हनिष्ये सा दुर्गेति प्रकीर्तिता एतासु मूर्तिषु सदा पादलग्नो नृणां भवान्। पूज्यो भविष्यति स्वर्गे देवानामपि रक्षसाम् आदिसृष्टावुग्रचण्डामूर्त्या त्वं निहितः पुरा। द्वितीयसृष्टौ तु भवान् भद्रकाल्या मया हतः दुर्गारूपेणाधुना त्वां हनिष्वामि सहानुगम्। किन्तु पूर्वं न गृहीतस्त्वं मया पादयोस्तले अधुना प्रार्थितवरो गहीतः पूर्वकामयोः। ग्रहीतव्यश्च पश्चात् त्वं यज्ञभागोपभुक्तये ।।और्व्व उवाच।। इत्युक्त्वा सा महामाया उग्रचण्डाह्वयां तनुम्। दर्शयामास च तदा महिषायासुराय वै या मूर्तिः षोडशभुजा भद्रकालीति विश्रुता। तथैव मूर्तिं बाहुभ्यामपराभ्यां तु बिभ्रती दक्षिणाधो गदां वामपाणिना पानपात्रकम्। सुरापूर्णं च शिरसा मुण्डमालां बिलेशयम् भिन्नाञ्जनचयप्रख्या प्रचण्डा सिंहवाहिनी। रक्तनेत्रा महाकाया युक्ताऽष्टादशबाहुभिः उग्रचण्डा भद्रकाली देव्या मूर्तिद्वयं तथा। महिषः प्रणनामाशु दुष्ट्वा विस्मयमागतः ततो यथा पदाक्रम्य निहतो महिषासुरः। तथैव जगृहे पादतले देवीद्वयं तु तम् हृदि शूलेन निर्भिन्नं माहिषं विशिरस्ककम्। गृहीतकेशं देव्या तु निर्यदन्त्रविभूषितम् वमद्रक्तं महाकायं दृष्ट्वा पूर्वतनुं स्वकम्। भयं प्राप्यासुरः सोऽथ शुशोच मुमोह च ततस्तु क्षणमात्मानं संस्तभ्य स तु दानवः। प्रणम्य वचनं देवीमिदमाह स गद्गदम् ।।महिष उवाच।। यदि देवी प्रसन्नासि यज्ञभागाश्च कल्पिताः। तदा ममान्यदा नाश एवमेतद् भवेन्न हि यथाहं न सुरैः सार्धं करिष्ये वैरमद्भुतम्। तथा मां कुरु भो देवि न जन्म प्रलभे यथा ।।देव्युवाच।। आराधिताऽहं भवता वरो दत्तो मया तव। वध्यश्च त्वं ममैवेह नात्र कार्या विचारणा यत् त्वया प्रार्थितं चापि सर्वैः सुरगणैः सह। विरोधो मे सदा मा भूदिति चापि भविष्यति मत्पादतलसंस्पर्शाच्छरोरं तव दानव। यज्ञभागोपभोगाय विशीर्णं न भविष्यति तव जीवात्मभिः प्राणाः सर्व एव महासुरः। हरस्य पादसंयोगाच्चिरं स्थास्यति केवलम् कल्पकोटिसहस्राणि त्रिंशत् त्वं महिषासुर। शतानि चाष्टावन्यानि जन्म ते न भविष्यति इति देवी वरं दत्त्वा महिषायासुराय वै। प्रणता तेन शिरसा तत्रेवान्तरधीयत महिषोऽपि निजस्थानं ययौ संमोहितः पुनः। मायया चासुरं भावमादय नृप पूर्ववत् ।।सगर उवाच।। अनेके निहिता दैत्या मायया लोकभूतये। न ते पुनः प्रगृहीतास्तेभ्यो दत्त्वा वराञ् शुभान्। केन वा कारणेनायं प्रगृहीतो वरः कथम्। दत्तास्तस्मै समाचक्ष्व मम सम्यग् द्विजोत्तम ।।और्व्व उवाच।। आराधितो महादेवो रम्भेण सुरवैरिणा। चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः अथ तुष्टो महादेवः प्रत्यक्षं रम्भमूचिवान्। प्रीतोऽस्मि ते वरं रम्भ वरयस्व यथेप्सितम् एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम्। अपुत्रोऽहं महादेव यदि ते मय्यनुग्रहः मम जन्मत्रये पुत्रो भवान् भवतु शङ्कर। अवध्यः सर्वभूतानां जेता च त्रिदिवौकसाम् चिरायुश्च यशस्वी च लक्ष्मीवान् स च शङ्कर। एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः भवत्वेतद्वाञ्छितं ते भविष्यामि सुतस्तव। इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलोचनः। पथि गच्छन् स रम्भोऽथ ददर्श महिषीं शुभाम् त्रिहायणीं चित्रवर्णां सुन्दरीमृतुशालिनीम्। स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः दोर्भ्यां गृहीत्वा च तदा चकार सुरतोत्सवम्। तयोः प्रवृत्ते सुरते तदा सा तस्य देजसा दधार महिषी गर्भं तदाऽभून्महिषासुरः। तस्यां स्वांशेन गिरिशस्तत्पु६त्वमवाप्तवान् ववृधे स तदा राम्भिः सुक्लपक्षशशाङ्कवत् । तं च कात्यायनमुनिः शप्तवान्महिषासुरम् दुर्नयं वीक्ष्य शिष्यार्थे शिष्यानुग्रहकारकः। कात्यायनेन शप्तं तं विज्ञाय महिषासुरम्। प्राह प्रणामपूर्वं तु चण्डिकां चन्द्रसेखरः ।।ईश्वर उवाच।। देवी कात्यायनेनायं शप्तोऽद्य महिषासुरः। योषिद्विनाशकर्त्रीति भवितेति जगन्मये नि-संशयमृषेर्वाक्यं भविष्यति न संशयः। मदीयो माहिषः कायो देवि कार्यस्त्वया त्वयि हन्तव्यः सततं योगयुक्तः पूर्वे परेऽपि च। हरिर्हरिस्वरूपेण न त्वां वोढुं क्षमोऽधुना ममायं माहिषः कायस्तव वोढा भविष्यति। इति पूर्वं महादेवी देवीं प्रार्थितवान् पुरा तेन देवी महादेवं जग्राह महिषासुरम्। त्रिषु जन्मसु पुत्रोऽभूद्रम्भस्य भगवान् हरः सृष्टित्रये स रम्भोऽपि रम्भ एव व्यजायत। आसुर तादृशं तेपे तपः परमदारुणम् तथैवाराधितः शम्भुः पुत्रार्थे प्रददौ वरम्। तथैव महिषीं भेजे प्रथमं सुरताय सः तस्यां तथाऽभवद्वीरो दानवो महिषासुरः। तथैव शेपे भगवान् मुनिः कात्यायनस्तु तम् इति प्रवृत्ते पूर्वोऽस्मिन् परस्मिन् स तु जन्मनि। महिषः पूजयित्वाऽथ देवीं वरमयाचत तृतीये जन्मनि वरं प्राप्य कल्पानशेषतः। नेह मे जन्म भवितेत्येवं वरमयाचत तेन देवीपादतले तिष्ठत्येषोऽसुरोऽधुना। नोत्पत्तिरपि तस्याथ संवर्तान्तादभून्नृप एवं देवीप्रसादेन महादेवांशसम्भवः। परामवाप सततं प्रतिपत्तिं महासुरः इति ते कथितं राजन् यथा स महिषासुरः। देवीपादतलं प्राप्य यथा सोऽद्यापि मोदते। प्रस्तुतं शृणु भो राजन् कथयामि नृपोत्तम ।।मार्कण्डेय उवाच।। इति वः कथितं राजा सगरः सहितो यथा। और्व्वेण चक्रे संवादं देवीमहिषयोजने पुनर्यदाह भूयोऽपि सगराय महात्मने। तच्छृण्वन्तु मुनिश्रेष्ठा गुह्याद् गुह्यतरं परम्

||śrībhagavānuvāca|| durgātantreṇa mantreṇa kuryād durgāmahotsavam| mahānavamyāṃ śaradi balidānaṃ nṛpādayaḥ āśvinasya tu śuklasya bhaved yā aṣṭamī tithiḥ| mahāṣṭamīti sā proktā devyāḥ prītikarī parā tano'tu navamī yā syāt sā mahānavamī smṛtā| sā tithiḥ sarvalokānāṃ pūjanīyā śivapriyā anayorvatsa pūjāyāṃ viśeṣaṃ śṛṇu bhairava| sampūjya maṇḍale devīṃ vidhivat prayato naraḥ vaiṣṇavītantramantreṇa durgātankṣeṇa bhairava| mūrtibhede yathā devī pūjāṃ gṛhṇāti bhūtaye kanyāsaṃsthe ravau vatsa śuklāmārabhya nandikām| ayācitāśo naktāśī ekāśī tvatha cāpadaḥ prātaḥsnāyī jitadvandvastrikālaṃ śivapūjakaḥ| japahomasamāyukto bhojayecca kumārikā bodhayed bilvaśākhāsu ṣaṣṭyāṃ devīphaleṣu ca| saptamyāṃ bilvaśākhāṃ tāmāhṛtya pratipūjayet punaḥ pujāṃ tathāṣṭamyāṃ viśeṣeṇa samācaret| jāgaraṃ ca svayaṃ kuryād balidānaṃ mahāniśi prabhūtabalidānaṃ tu navamyāṃ vidhivaccaret| dhyāyed daśabhujāṃ devīṃ durgātantreṇa pūjayet visarjanaṃ daśamyāṃ tu kuryād vai sādhakotamaḥ| kṛtvā visarjanaṃ tasyāṃ tithau naktaṃ samācaret yadā tu ṣauḍaśabhujāṃ mahāmāyāṃ prapūjayet| durgātantreṇa mantreṇa viśeṣaṃ tatra vai śṛṇu kanyāyāṃ kṛṣṇapakṣasya ekādaśyāmupoṣitaḥ| dvādaśyāmekabhaktaṃ tu naktaṃ kuryāt pare'hani caturdaśyāṃ mahāmāyāṃ bodhayitvā vidhānataḥ| gītavāditranirghoṣairnnānānaivedyavedanaiḥ ayācitaṃ budhaḥ kuryādupavāsaṃ pare'hani| evameva vrata kuryād yāvadvai navamī bhavet jyeṣṭhāyāṃ ca samabhyarcya mūlena pratipūjayet| uttareṇārcanaṃ kṛtvā śravaṇānte visarjayet yadā tvaṣṭādaśabhujāṃ mahāmāyāṃ prapūjayet| durgātantreṇa mantreṇa tatrāpi śṛṇu bhairava kanyāyāṃ kṛṣṇapakṣasya pūjayitvārdrabhe divā| navamyāṃ bodhayed devīṃ gītavāditranisvanaiḥ śuklapakṣe caturthyā tu devīkeśavimocanam| prātareva tu pañcamyāṃ snāpayet tu śubhairjalaiḥ saptamyāṃ patrikāpūjā aṣṭamyāṃ cāpyupoṣaṇam| pūjājāgaraṇaṃ caiva navamyāṃ vidhibadbaliḥ sampreṣaṇaṃ daśamyāṃ tu krīḍākautukamaṅgalaiḥ| nīrājanaṃ daśamyāṃ tu balavṛddhikaraṃ mahat yadā vai vaiṣṇavīṃ devīṃ mahāmāyāṃ jaganmayām| pūjayet tatra ca tadā viśeṣaṃ śṛṇu bhairava kanyāsaṃsthe ravau pūjā yā śuklā tithiraṣṭamī| tasyāṃ rātrau pūjitavyā mahāvibhavavistaraiḥ navamyāṃ balidānaṃ tu karttavyaṃ vai yathāvidhi| japaṃ homaṃ ca vidhivat kuryāt tatra vibhūtaye sampūjayenmahādevīmaṣṭapuṣpikayā naraḥ| rāmasyānugrahārthāya rāvaṇasya vadhāya ca rātrāveva mahādevī brahmaṇā bodhitā purā| tatastu tyaktanidrā sā nandāyāmāśvine site jagāma nagarīṃ laṅkāṃ yatrāsīdrāghavaḥ purā| tatra gatvā mahādevī tadā tau rāmarāvaṇau yuddhaṃ niyojayāmāsa svayamantarhitāmbikā| rakṣasāṃ vānarāṇāṃ ca jagdhvā sā māṃsaśoṇite rāmarāvaṇayoryuddhaṃ saptāhaṃ sā nyayojayat| vyatīte saptame rātrau navyāṃ rāvaṇaṃ tataḥ rāmeṇa ghātayāmāsa mahāmāyā jaganmayī| yāvattayoḥ svayaṃ devī yuddhakelimudaikṣata tāvat tu saptarātrāṇi saiva devaiḥ supūjitā| nihate rāvaṇe vīre navamyāṃ sakalaiḥ suraiḥ viśeṣapūjāṃ durgāyāścakre lokapitāmahaḥ| tataḥ sampreṣitā devī daśamyāṃ śārvarotsavaiḥ śākro'pi devasenāyā nīrājanamathākarot| śāntyarthaṃ surasainyānāṃ devarājyasya vṛddhaye rāmarāvaṇabāṇena yuddhaṃ cāvekṣya bhītidam| tṛtīyāyāṃ tu laṅkāyāḥ pūrvottaradiśi sthitam svātīnakṣatrayuktāyāṃ bhītaṃ surabalaṃ mahat| śāntyarthaṃ varayāmāsa devendro vacanād hareḥ tatastu śravaṇenātha daśamyāṃ caṇḍikāṃ śubhām| visṛjya cakre śāntyarthaṃ balanīrājanaṃ hariḥ nīrājitabalaḥ śaktastatra rāmaṃ ca rāghavam| samprāpya prayayau svargaṃ saha devaiḥ śacīpatiḥ itivṛttaṃ purākalpe manoḥ svāyambhuve'ntare| prādurbhūtā daśabhujā devī devahitāya vai nṛṇāṃ tretāyugasyādau jagatāṃ hitakāmyayā| purākalpe yathāvṛttaṃ pratikalpaṃ tathā tathā pravartate svayaṃ devī daityānāṃ nāśanāya vai| pratikalpaṃ bhavedrāmo rāvamaścāpi rākṣasaḥ tathaiva jāyate yuddhaṃ tathā tridaśasaṃgamaḥ| evaṃ rāmahasrāṇi rāvaṇānāṃ sahasraśaḥ bhavitavyāni bhūtāni tathā devī pravartate| pūjayanti surāḥ sarve balaṃ nīrājayantyapi tathaiva ca narāḥ sarve kuryuḥ pūjāṃ yathāvidhi| balanīrājanaṃ rājā kuryād balavivṛddhaye divyālaṅkārayuktābhirvāruṇībhiḥ pravartanam| karttavyaṃ nṛtyagītāni krīḍākautukamaṅgalaiḥ modakaiḥ piṣṭakaiḥ peyairbhakṣyabhojyairanekaśaḥ| kūṣmāṇḍairnārikelaiśca kharjūraiḥ panasaistathā drākṣāmalakaśāḍilyaiḥ plīhaiśca karuṇaistathā| kaśerukramukairmūlaiḥ sajambūtindukādibhiḥ gavyairguḍaistathā māṃsairmadyairmadhubhireva ca| bālapriyaiśca naivedyairlājākṣataphalādibhiḥ ikṣudaṇḍaiḥ sitābhiśca lavalīnāgaraṅgakai| ajābhirmahiṣairātmaśoṇitasañcayaiḥ pakṣyādibalijātīyaistatā nānāvidhairmṛgaiḥ| pūjayecca jagaddhātrīṃ māṃsaśoṇitakardamaiḥ rātrau skandaviśākhasya kṛtvā piṣṭakaputrikām| pūjayecchatrunāśāya durgāyāḥ prītaye tathā homaṃ ca satilairājyairmāsairapi tathā caret| ugracaṇḍādikāḥ pūjyāstathāṣṭau yoginīḥ śubhāḥ yoginyaśca catuḥṣaṣṭhistathā vai koṭiyoginīḥ| navadurgāstathā pūjyā devyāḥ sannihitāḥ śubhāḥ jayantyādirgandhapuṣpaistā devyā mūrtayo yataḥ| devyaḥ sarvāṇi cāstrāṇi bhūṣaṇāni tathaiva ca aṅgapratyaṅgayuktāni vāhanaṃ siṃhameva ca| mahiṣāsuramardinyāḥ pūjayed bhūtaye sadā purākalpe mahādevī manoḥ svāyambhuve'ntare| nṛṇāṃ kṛtayugasyādau sarvadevaiḥ stutā sadā mahiṣāsuranāśāya jagatāṃ hitakāmyayā| yoganidrā mahāmāyā jagaddhātrī jaganmayī bhujaiḥ ṣoḍaśabhiryukyā bhadrakālīti viśrutā| kṣīrodasyottare tīre bibhratī vipulāṃ tanum atasīpuṣpavarṇābhā jvalatkāñcanakuṇḍalā| jaṭājūṭasakhaṇḍendumukuṭatrayabhūṣitā nagahārema sahitā svarmahāravibhūṣitā| śūlaṃ cakraṃ ca khaḍgaṃ ca śaṅkhaṃ bāṇaṃ tathaiva ca śaktiṃ vajraṃ ca daṇḍaṃ ca nityaṃ dakṣiṇabāhubhiḥ| bibhratī satataṃ devī vikāśidaśanojjvalā kheṭakaṃ carma cāpaṃ ca pāśaṃ cāṅkuśameva ca| ghaṇṭāṃ parśuṃ ca muṣalaṃ bibhratī vāmapāṇibhiḥ siṃhasthā nayanai raktavarṇaistribhiratijvalā| śūlena mahiṣaṃ bhittvā tiṣṭhantī parameśvarī vāmapadena cākramya tatra devī jaganmayī| tāṃ dṛṣṭvā sakalā devāḥ praṇamya parameśvarīm kiñcana taṃ tṛṣṭvā nihataṃ mahiṣāsuram| tataḥ provāca devāṃstān brahmādīn parameśvarī smitaprabhinnavadanā vikāśivadanojjavalā| gacchantu bhoḥ suragaṇā jambudvīpāntaraṃ prati|. 60.65 || himavat parvatāsanne varaṃ kātyāyanāśramam| tatraiva bhavatāṃ sādhyaṃ bhaviṣyati na saṃśayaḥ ityuktvā sā mahādevī tatraivāntaradhīyata| devā āpi tadā jagmuḥ kātyāyanamuneḥ puram āśramaṃ prati te gatvā vismayāviṣṭamānasāḥ| nihato mahiṣo devyā diṣṭo'smābhiryadarthataḥ stutā caiṣā mahādevī jagaddhātrī jaganmayī| kimarthamāha sā devī gantuṃ kātyāyanāśramam kimanyad vāñchitaṃ kāryamasmākaṃ vā bhaviṣyati| iti bruvantaste sarve gacchanti sma parasparam himavat-parvatāsannaṃ muni-kātyāyanāśramam| tataḥ sendrāḥ sadikpālā brahmaviṣṇuśivāstathā niṣeduḥ suciraṃ prītā durgādarśanalālasāḥ| tato rudragaṇāḥ sarve mahiṣāsuraceṣṭitam āgatya kathayāmāsurdevalokaparābhavam| tatastatra mahākopaṃ brahmaviṣṇuśivādayaḥ cakruḥ ko'nyo'sti mahiṣo hato devyā sa dānavaḥ| punaryeneha kriyate jagadvidhvaṃsanaṃ bhṛśam iti prakupyatāṃ teṣāṃ śarīrebhyaḥ pṛthak pṛthak| niścakramuśca tejāṃsi śaktirūpāṇi tatkṣaṇāt tattejobhirdhṛtavapurdevī kātyāyanna vai| sandhukṣitā pūjitā ca tena kātyāyanī smṛtā tatastenaiva mantreṇa daśabāhuyutena vai| paścājjaghāna mahiṣaṃ jagaddhātrī jaganmayī yadā stutā mahādevī bodhitā cāśvinasya ca| caturdaśī kṛṣṇapakṣe prādurbhūtā jaganmayī devānāṃ tejasāṃ mūrtiḥ śuklapakṣe suśobhane| saptamyāṃ sā'karod devī aṣṭamyāṃ tairalaṅkṛtā navamyāmupahāraistu pūjitā mahiṣāsuram| nijaghāna daśamyāṃ tu visṛṣṭāntarhitā śivā ||mārkaṇḍeya uvāca|| śrutvemāṃ sagaro rājā devyāḥ saṅgatimuttamām| saṃśayāluśca tadrūpe punaraurvvamapṛcchat ||sagara uvāca|| yadi pascānmahādevī jaghāna mahiṣāsuram| kathaṃ pūrvaṃ bhadrakālī-rūpābhūnmahiṣāsuram tathāhi darśanaṃ tasyāḥ pādākrāntascakāra ca| hṛdi śūlena nirbhinnaṃ dadṛśuḥ sakalāḥ surāḥ| evaṃ tu saṃśayaṃ chindhi muniśreṣṭha samādhunā ||aurvva uvāca|| śṛṇutvaṃ nṛpaśārdūla bhadrakālī yathā purā| prādurbhūtā mahāmāyā mahiṣeṇa sahaiva tu mahiṣāsura evāsau nidrāyāṃ niśi parvate | svapnaṃ pradadṛse vīro dāruṇaṃ ghoradarśanam mahāmāyā bhadrakālī chittvā khaḍgena me śiraḥ| papau tasya ca raktāni vyāditāsyātibhīṣaṇā tataḥ prātarbhayayutaḥ sa daityo mahiṣāsuraḥ| tāmeva pūjayāmāsa suciraṃ sānugastadā ārādhitā tadā devī mahiṣeṇāsureṇa vai| prādurbhūtā bhadrakālī bhujaiḥ ṣoḍaśabhiryutā tataḥ praṇamya mahiṣo mahāmāyāṃ jaganmayīm| uvācedaṃ vaco namramūrtirbhaktiyuto'suraḥ ||mahiṣa uvāca|| devi khaḍgena sañchidya śoṇitāni śiro mama| tvayā muktāni dṛṣṭāni mayā svapnena niścitam avaśyaṃ tu tvayā kāryaṃ mayā jñātaṃ pramāṇataḥ| etadrudhirapānaṃ me tatraikaṃ dehi me varam vadhyastavāhaṃ nātrāsti saṃśayaḥ parameśvari| mamāpi tatra no duḥkhaṃ niyatiḥ kena laṅghyate kintu tvayaiva sahitaḥ śambhurārādhitaḥ purā| mama pitrā madarthena jātaḥ paścādahaṃ tataḥ mayāpyārādhitaḥ śambhuḥ prāptāśceṣṭāstathāvidhāḥ| manvantaratrayaṃ yāvadāsuraṃ rājyamuttamam akaṇṭakaṃ mayā bhuktamanutāpo na vidyate| kātyāyanena muninā śapto'haṃ śiṣyakāraṇāt sīmantinī vināśaṃ te kariṣyati na saṃśayaḥ| purā muniṃ tapasyantaṃ raudrāśvaṃ nāma sattamam muneḥ kātyāyanākhyasya śiṣyaṃ himavadantike| divyastrīrūpamatulaṃ kṛtvāhaṃ kautukāt tadā mayā sammohito vipro'tyajat sadyastadā tapaḥ| nadūrāt saṃsthitenāhaṃ muninā kātyasūnunā jñātvā māyāṃ tadā śaptaḥ śiṣyārthe krodhavahninā| yasmāt tvayā me siṣyo'yaṃ mohitastapasaścyutaḥ kṛtastvayā strīrūpeṇa tat tvāṃ strī nihaniṣyati| iti māṃ śaptavān pūrvaṃ muniḥ kātyāyanaḥ svayam tasya śāpasya kālo'yamāgatya samupasthitaḥ| devendratvaṃ mayā prāptaṃ bhuktaṃ tribhuvanaṃ samam kiñcinna śocyaṃ me'trāsti vāñchanīyaṃ hi yanmayā| tasmāt tvāṃ vai prapanno'haṃ prārthyaṃ śeṣaṃ hi yanmama| yadū dehi devi durge tvaṃ bhūyastubhyaṃ namo namaḥ ||devyuvāca|| prārthanīyo varo yaste taṃ vṛṇuṣva mahāsura| dāsyāmi te varaṃ prārthyaṃ saṃśayo nātra vidyate ||mahiṣa uvāca|| yajñabhāgamahaṃ bhoktumicchāmi tvatprasādataḥ| yathā makheṣu sarveṣu pūjyo'haṃ syāṃ tathā kuru tvatpādasevāṃ na tyakṣye yāvatsūryaḥ pravartate| evaṃ varadvayaṃ dehi yadi deyo varo mama ||devyuvāca|| yajñabhāgāḥ surebhyastu kalpitā vai pṛthak pṛthak| bhāgo na vidyate cānyo yaṃ dāsyāmi tavādhunā kintu tvayi mayā yuddhe nihate mahiṣāsura| naiva tyakṣyasi matpādaṃ satataṃ nātra saṃśayaḥ mama pravartate pūjā yatra yatra ca tatra te| pūjyaścintyaśca tatraiva kāyo'yaṃ tava dānava iti śrutvā vacastasyāḥ pratyūṣe mahiṣāsuraḥ| varaṃ prāpyeha muditaḥ prasannavadanastadā ugracaṇḍe bhadrakāli durge devi namo'stute| prabhūtā mūrtayā devi bhavatyā sakalātmikāḥ kābhiste mūrtibhiḥ pūjyo yajñe'haṃ parameśvari| tat samācakṣva yadi me bhavatyeha kṛpā kṛtā ||devyuvāca|| yāni nāmāni proktāni tvayeha mahiṣāsura| tāsu mūrtiṣu saṃpṛṣṭaḥ pūjyo loke bhaviṣyasi ugracaṇḍeti yā mūrtirbhadrakālī hyahaṃ punaḥ| yayā mūrtyātvāṃ haniṣye sā durgeti prakīrtitā etāsu mūrtiṣu sadā pādalagno nṛṇāṃ bhavān| pūjyo bhaviṣyati svarge devānāmapi rakṣasām ādisṛṣṭāvugracaṇḍāmūrtyā tvaṃ nihitaḥ purā| dvitīyasṛṣṭau tu bhavān bhadrakālyā mayā hataḥ durgārūpeṇādhunā tvāṃ haniṣvāmi sahānugam| kintu pūrvaṃ na gṛhītastvaṃ mayā pādayostale adhunā prārthitavaro gahītaḥ pūrvakāmayoḥ| grahītavyaśca paścāt tvaṃ yajñabhāgopabhuktaye ||aurvva uvāca|| ityuktvā sā mahāmāyā ugracaṇḍāhvayāṃ tanum| darśayāmāsa ca tadā mahiṣāyāsurāya vai yā mūrtiḥ ṣoḍaśabhujā bhadrakālīti viśrutā| tathaiva mūrtiṃ bāhubhyāmaparābhyāṃ tu bibhratī dakṣiṇādho gadāṃ vāmapāṇinā pānapātrakam| surāpūrṇaṃ ca śirasā muṇḍamālāṃ bileśayam bhinnāñjanacayaprakhyā pracaṇḍā siṃhavāhinī| raktanetrā mahākāyā yuktā'ṣṭādaśabāhubhiḥ ugracaṇḍā bhadrakālī devyā mūrtidvayaṃ tathā| mahiṣaḥ praṇanāmāśu duṣṭvā vismayamāgataḥ tato yathā padākramya nihato mahiṣāsuraḥ| tathaiva jagṛhe pādatale devīdvayaṃ tu tam hṛdi śūlena nirbhinnaṃ māhiṣaṃ viśiraskakam| gṛhītakeśaṃ devyā tu niryadantravibhūṣitam vamadraktaṃ mahākāyaṃ dṛṣṭvā pūrvatanuṃ svakam| bhayaṃ prāpyāsuraḥ so'tha śuśoca mumoha ca tatastu kṣaṇamātmānaṃ saṃstabhya sa tu dānavaḥ| praṇamya vacanaṃ devīmidamāha sa gadgadam ||mahiṣa uvāca|| yadi devī prasannāsi yajñabhāgāśca kalpitāḥ| tadā mamānyadā nāśa evametad bhavenna hi yathāhaṃ na suraiḥ sārdhaṃ kariṣye vairamadbhutam| tathā māṃ kuru bho devi na janma pralabhe yathā ||devyuvāca|| ārādhitā'haṃ bhavatā varo datto mayā tava| vadhyaśca tvaṃ mamaiveha nātra kāryā vicāraṇā yat tvayā prārthitaṃ cāpi sarvaiḥ suragaṇaiḥ saha| virodho me sadā mā bhūditi cāpi bhaviṣyati matpādatalasaṃsparśāccharoraṃ tava dānava| yajñabhāgopabhogāya viśīrṇaṃ na bhaviṣyati tava jīvātmabhiḥ prāṇāḥ sarva eva mahāsuraḥ| harasya pādasaṃyogācciraṃ sthāsyati kevalam kalpakoṭisahasrāṇi triṃśat tvaṃ mahiṣāsura| śatāni cāṣṭāvanyāni janma te na bhaviṣyati iti devī varaṃ dattvā mahiṣāyāsurāya vai| praṇatā tena śirasā tatrevāntaradhīyata mahiṣo'pi nijasthānaṃ yayau saṃmohitaḥ punaḥ| māyayā cāsuraṃ bhāvamādaya nṛpa pūrvavat ||sagara uvāca|| aneke nihitā daityā māyayā lokabhūtaye| na te punaḥ pragṛhītāstebhyo dattvā varāñ śubhān| kena vā kāraṇenāyaṃ pragṛhīto varaḥ katham| dattāstasmai samācakṣva mama samyag dvijottama ||aurvva uvāca|| ārādhito mahādevo rambheṇa suravairiṇā| cireṇa sa ca suprītastapasā tasya śaṅkaraḥ atha tuṣṭo mahādevaḥ pratyakṣaṃ rambhamūcivān| prīto'smi te varaṃ rambha varayasva yathepsitam evamuktaḥ pratyuvāca rambhastaṃ candraśekharam| aputro'haṃ mahādeva yadi te mayyanugrahaḥ mama janmatraye putro bhavān bhavatu śaṅkara| avadhyaḥ sarvabhūtānāṃ jetā ca tridivaukasām cirāyuśca yaśasvī ca lakṣmīvān sa ca śaṅkara| evamuktastu daityena pratyuvāca vṛṣadhvajaḥ bhavatvetadvāñchitaṃ te bhaviṣyāmi sutastava| ityuktvā sa mahādevastatraivāntaradhīyata rambho'pi yātaḥ svasthānaṃ harṣotphullavilocanaḥ| pathi gacchan sa rambho'tha dadarśa mahiṣīṃ śubhām trihāyaṇīṃ citravarṇāṃ sundarīmṛtuśālinīm| sa tāṃ dṛṣṭvātha mahiṣīṃ rambhaḥ kāmena mohitaḥ dorbhyāṃ gṛhītvā ca tadā cakāra suratotsavam| tayoḥ pravṛtte surate tadā sā tasya dejasā dadhāra mahiṣī garbhaṃ tadā'bhūnmahiṣāsuraḥ| tasyāṃ svāṃśena giriśastatpu6tvamavāptavān vavṛdhe sa tadā rāmbhiḥ suklapakṣaśaśāṅkavat | taṃ ca kātyāyanamuniḥ śaptavānmahiṣāsuram durnayaṃ vīkṣya śiṣyārthe śiṣyānugrahakārakaḥ| kātyāyanena śaptaṃ taṃ vijñāya mahiṣāsuram| prāha praṇāmapūrvaṃ tu caṇḍikāṃ candrasekharaḥ ||īśvara uvāca|| devī kātyāyanenāyaṃ śapto'dya mahiṣāsuraḥ| yoṣidvināśakartrīti bhaviteti jaganmaye ni-saṃśayamṛṣervākyaṃ bhaviṣyati na saṃśayaḥ| madīyo māhiṣaḥ kāyo devi kāryastvayā tvayi hantavyaḥ satataṃ yogayuktaḥ pūrve pare'pi ca| harirharisvarūpeṇa na tvāṃ voḍhuṃ kṣamo'dhunā mamāyaṃ māhiṣaḥ kāyastava voḍhā bhaviṣyati| iti pūrvaṃ mahādevī devīṃ prārthitavān purā tena devī mahādevaṃ jagrāha mahiṣāsuram| triṣu janmasu putro'bhūdrambhasya bhagavān haraḥ sṛṣṭitraye sa rambho'pi rambha eva vyajāyata| āsura tādṛśaṃ tepe tapaḥ paramadāruṇam tathaivārādhitaḥ śambhuḥ putrārthe pradadau varam| tathaiva mahiṣīṃ bheje prathamaṃ suratāya saḥ tasyāṃ tathā'bhavadvīro dānavo mahiṣāsuraḥ| tathaiva śepe bhagavān muniḥ kātyāyanastu tam iti pravṛtte pūrvo'smin parasmin sa tu janmani| mahiṣaḥ pūjayitvā'tha devīṃ varamayācata tṛtīye janmani varaṃ prāpya kalpānaśeṣataḥ| neha me janma bhavitetyevaṃ varamayācata tena devīpādatale tiṣṭhatyeṣo'suro'dhunā| notpattirapi tasyātha saṃvartāntādabhūnnṛpa evaṃ devīprasādena mahādevāṃśasambhavaḥ| parāmavāpa satataṃ pratipattiṃ mahāsuraḥ iti te kathitaṃ rājan yathā sa mahiṣāsuraḥ| devīpādatalaṃ prāpya yathā so'dyāpi modate| prastutaṃ śṛṇu bho rājan kathayāmi nṛpottama ||mārkaṇḍeya uvāca|| iti vaḥ kathitaṃ rājā sagaraḥ sahito yathā| aurvveṇa cakre saṃvādaṃ devīmahiṣayojane punaryadāha bhūyo'pi sagarāya mahātmane| tacchṛṇvantu muniśreṣṭhā guhyād guhyataraṃ param