Kalika Purana — Chapter 59
KaP 59.2
।।श्री भगवानुवाच।। अङ्गमन्त्राण्यहं वक्ष्ये चण्डिकाया विशेषतः। यैः समाराधिता देवी चतुवंर्गप्रदा भवेत् तालव्यान्तो युतः षष्ठस्वरबिन्द्विन्दुवह्निभिः । तथोपान्तः स्वरस्त्वेते बाह्यं वाग्भवमेव च नेत्रबीजं चण्डिकायास्त्रयमेतत् प्रकीर्तितम्। वामललाटदाक्षिण्यनेत्रेषु त्रितयं क्रमात् धर्मार्थकाममोक्षाणां सर्वदा कारणं परम्। मन्त्रमेतन्महगुह्यं दुर्गाबीजमिति स्मृतम् यदा कात्यायानमुनेराश्रमेषु दिवौकसाम् । तेजोभिर्धृतकायाभूद् देवी देवौघसंस्तुता तदा नेत्रत्रयाद् देव्या मूलमूर्तिर्विनिः सृता। तेजोमयी जगद्धात्री महिषासुरघातिनी तेजोभिः सर्वदेवानां सा धृत्वा वपुरुत्तमम्। अस्त्राण्यनेकान्यादाय देवैर्दत्तानि भागशः सगणं सानुवन्धं च सामात्यबलवाहनम्। ब्रह्माद्यैः संस्तुता देवी जघान महिषासुरम् हते तु महिषे देवी पूजिता त्रिदशैस्ततः। अनेनैव तु मन्त्रेण लोके ख्यातिं च सा गता ततः प्रभृति सा मूर्तिः सर्वैः सर्वत्र पूज्यते। मूलमूर्त्तिः सुगुप्ताभूत् स्वमूर्त्या ख्यातिमागता देवानां वरदानेन ब्रह्माद्यैरुपयोजनात्। यन्मूर्तिः पूज्यते सर्वैस्तां मूर्तिं शृणु भैरव जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम्। लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् तप्तकाञ्चनवर्णाभां सुप्रतिष्ठां सुलोचनाम्। नवयौवनसम्पन्नां सर्वाभरणभूषिताम् सुचारुदशनां तीक्ष्णां पीनोन्नतपयोधराम्। त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् मृणालायतसंस्पर्शदशबाहुसमन्विताम्। त्रिशूलं दक्षिणे देयं खड्गं चक्रं क्रमादधः तीक्ष्णबाणं तथा शक्तिं बाहुसंघेषु सङ्गताम्। खेटकं पूर्णचापं च पाशं चाङ्कुशमूर्धतः घण्टां च परशुं चापि वामेऽधः प्रतियोजयेत्। अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम्। हृदि शूलेन निर्भिन्नं निर्यदन्त्रविभूषितम् रक्तरक्तोकृताङ्गं च रक्तविस्फुरितेक्षणम्। वेष्टितं नागपाशेन भ्रुकुटीकुटिलाननम् सपाशवामहस्तेन धृकेशं च दुर्गया। वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम्। किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका। चण्डा चण्डवती चैव चामुण्डा चण्डिका तथा आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम्। चिन्तयेत् सततं देवीं धर्मकामार्थमोक्षदाम् एतस्याश्चाङ्गमन्त्रं तु दुर्गातन्त्रमिति श्रुतम्। शृणुष्वैकमना भूत्वा धर्मकामार्थसाधनम् वह्निभार्या स्वरः षष्ठो हान्तः प्रान्तोऽग्निरेव च। दुर्गादिरिति सोङ्कारं दुर्गामन्त्रं मिति श्रुतम् रवौ मकरराशिस्थे या भवेत् सितपञ्चमी। तस्यामनेन मन्त्रेण सम्पूज्य विधिवच्छिवाम् शुक्लाष्टम्यां पुनर्देवीं पूजयित्वा यथाविधि। नवम्यां बलिदानानि प्रभूतानि समाचरेत् सन्ध्यायां च बलिं कुर्याग्निजगात्रासृगुक्षितम्। एवं कृते तु कल्याणैर्युक्तो नित्यं प्रमोदते पुत्रपौत्रसमृद्धस्तु धनधान्यसमृद्धिभिः। दीर्घायुः सर्वसुभगो लोकेऽस्मिन् स च जायते सिताष्टम्यां तु चैत्रस्य पुष्पैस्तत्कालसम्भवैः। अशोकैरपि यः कुर्यान्मत्रेणानेन पूजनम् न तस्य जायते शोको रोगो वाप्यथ दुर्गतिः। ज्यैष्ठे तु शुक्लपक्षस्य अष्टाभ्यां समुपोषितः नवम्यां सतिलैरन्नैर्यावकैरथ मोदकैः। क्षीरैराज्यैस्तथा क्षौद्रैः शर्कराभिः सपिष्टकैः नानापशूनां रुधिरैर्मांसैरपि च पूजयेत्। ततो दशम्यां शुक्लायामद्भिस्तु तिलमिश्रितैः दुर्गातन्त्रेण मन्त्रेण दातव्यमञ्जलित्रयम्। एव कृते दशम्यां तु यत्पापं दशजन्मभिः कृतं तत्प्रलयं याति दीर्घायुरपि जायते। आषाढे शुक्लपक्षस्य याष्टमी श्रावणस्य च पवित्रारोपणं कुर्याद् देवीप्रीतिकरं परम्। दुर्गातन्त्रेण मन्त्रेण दुर्गाबीजेन भैरव वैष्णवीतन्त्रमन्त्रेण दुर्गाबीजेन भैरव। वैष्णवीतन्त्रमन्त्रेण पवित्रारोपणं चरेत्। विशेषाच्छ्रावणं प्राप्य देव्याः कुर्यात् पवित्रकम् सर्वेषामेव देवानां पवित्रारोपणं चरेत्। आषाढे श्रावणे वापि संवत्सरफलप्रदम् प्रतिपद्धनदस्योक्ता पवित्रारोपणे तिथिः। द्वितीया तु श्रियो देव्यास्तिथीनामुत्तमा स्मृता तृतीया भवभाविन्याश्चतुर्थी तत्सुतस्य च। पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य च सप्तमी भास्करस्योक्ता दुर्गायाश्च तथाष्टमी। मातृणां नवमी प्रोक्ता वासुकेर्दशमी मता एकादशो ऋषीणां च द्वादशी चक्रपाणिनः। त्रयोदशी त्वनङ्गस्य मम चैव चतुर्दशी ब्रह्मणो दिक्पतीनां च पौर्णमासी तिथिर्मता। पवित्रारोपणं यो वै देवानां न समाचरेत् तस्य सांवत्सरीपूजाफलं हरति केशवः। तस्माद् यत्नेन कर्तव्यं पवित्रारोपणं परम् कृते बहुफलप्राप्तिस्तत्पूजा सफला भवेत्। पवित्रं येन सूत्रेण यथा कार्यं विजानता तच्छ्रणुष्व प्रमाणं तु वचनान्मम भैरव। प्रथमं दर्भसूत्रं च पद्मसूत्रं ततः परम् ततः क्षौमं सुपुण्यं स्यात् कार्पासकमतः परम्। पट्टसूत्रं तथान्येन पवित्राणिन कारयेत् विचित्राणि पवित्राणि कर्तव्यानि तु यत्नतः। गन्धमाल्यैः सुरभिभिः रचितानि यथोदितम् कन्या च कर्तयेत् सूत्रं प्रमदा च पतिव्रता। विधवा साधुशीला वा दुःखशीला न कर्तयेत् यत्सूचिभिन्नं दग्धं च भस्मधूमाभिगुण्ठितम्। तद्वर्जनीयं यत्नेन सूत्रमस्मिन् पवित्रके उपयुक्तं चाखुजग्धं मद्यरक्तादिदूषितम्। मलिनं नीलरक्तं च प्रयत्नेन विवर्जयेत् सूत्रैः पवित्रं कुर्वीत कनिष्ठोत्तममध्यमम्। कनिष्ठं यत् पवित्रं तु सप्तविंशतितन्तुभिः मर्त्यलोके यशः कीर्तिः सुखसौभाग्यवर्धनम्। चतुःपञ्चाशता प्रोक्तं तन्तूनां मध्यमं परम् दिव्यभोगावहं पुण्यं स्वर्गमोक्ष प्रदायकम्। उत्तमं चैव तन्तूनामष्टोत्तरशतेन वै तद्दत्वा तु महादेव्यै शिवासयुज्यमाप्नुयात्। उत्तमं वासुदेवाय दद्याद् यदि पवित्रकम् तदा याति हरेर्लोकं साधको नात्र संशयः। अष्टोत्तरसहस्रं तु रत्नमालेति गीयते पवित्रं सु महादेव्या भुक्तिमुक्तिप्रदायकम्। रत्नमाल्यां तु यो यच्छेन्महादेव्यै पवित्रकम् कल्पकोटिसहस्राणि स्वर्गे स्थित्वा शिवो भवेत्। एतत् तु नागहाराख्यं शङ्करस्य पवित्रकम् अष्टोत्तरसहस्रेण तन्तुना सुमनोहरम्। यः प्रयच्छति मह्यं तु स यावांस्तन्तुसञ्चयः तावत्कल्पसहस्राणि मम लोके प्रमोदते। अष्टोत्तरसहस्रेण वनमाला हरेः स्मृता तन्तूनां तस्य दानेन विष्णुसायुज्यमाप्नुयात्। यत् कनिष्ठं पवित्रं तु नाभिमात्रं भवेत् तु तत् द्वादशग्रन्थिसंयुक्तमात्ममाने न योजयेत्। ऊरुप्रमाणं मध्यं स्याद् ग्रन्थीनां तत्र योजयेत् चतुर्विंशतिमप्यस्य मानमात्मन एव च। वपित्रमुत्तमं प्रोक्तं जानुमात्रं च भैरव षट्त्रिंशत्तन्तुग्रन्थीनां योजयेदात्ममानतः। शतमष्टोत्तरं कार्यं ग्रन्थीनां सुविधानतः नागहाराह्वयं तद्वदन्येषु च विधानतः। वपित्रं क्रियते येन सूत्रेण ग्रन्थयः पुनः तदन्यवर्णसूत्रेण कर्तव्या लक्षणान्विता। ग्रन्थिं तु सप्तभिः कुर्याद् वेष्टनैस्तु कनिष्ठके द्विगुणैर्मध्यमे कुर्यात्त्रिगुणरुत्तमे तथा। अधिवास्य पवित्राणि पूर्वस्मिन् दिवसे ततः मन्त्रन्यासं पवित्रे तु कुर्यात् तत्रापरेऽहनि। दुर्गाबीजेन मन्त्रेण मन्त्रन्यासं द्विजश्चरेत् वैष्णवीतन्त्रमन्त्रेण कुर्युरन्ये च भैरव। प्रतिग्रन्थि स्वयं कुर्यान्मन्त्रन्यासं विचक्षणः अङ्गुष्ठाग्रण जपनं मालायामिह भैरव। यावन्तो ग्रन्थयश्चात्र तावन्त्येव च सन्न्यसेत् मन्त्राणि तस्य तेन स्यादेवाङ्गोपनियोजनम्। दुर्गातन्त्रेण मन्त्रेण तत्त्वन्यासं तु कारयेत् एकत्र न्यस्य सकलं यज्ञपात्रे पवित्रकम्। तस्मिन् निधाय गन्धादि पुष्पाणि च सुशोभनम् तत्त्वन्यासं ततः कुर्यादङ्गुल्यग्रेण भैरव। विष्णोस्तु मूलमन्त्रेण तत्त्वन्यासं तु कारयेत् इदं विष्णुरिति प्रोक्तं मन्त्रन्यासं द्विजस्य हि। शूद्राणां मन्त्रविन्यासे मन्त्रो वै द्वादशाक्षरः प्रासादेन तु मन्त्रेण तत्त्वन्यासो मम स्मृतः। अनेन मन्त्रन्यासं च दानं चानेन कारयेत् कुड्कुमोशीरकर्पूरै श्चन्दनादिविलेपनैः। पवित्राणि विलिप्याथ तत्त्वन्यासं तु योजयेत् सम्पूज्य मण्डले देवीं विधिवत् प्रयतो नरः। वैष्णवीतन्त्रमन्त्रेण दुर्गातन्त्रेण भैरव दुर्गाबीजेन दद्यात् तु देव्या मूर्ध्नि पवित्रकम्। यस्य देवस्य यः प्रोक्तस्तस्य तेनैव मण्डलम् यस्य यस्य तु यो मन्त्रो यथा ध्यानादिपूजनम्। तत् तत् तेनैव मन्त्रेण पूजयित्वा प्रयत्नतः तस्यैव बीजमन्त्राभ्यां मूर्ध्नि दद्यात् पवित्रकम्। पवित्रं मम यो दद्याद् देवेभ्यश्च पवित्रकम् सर्वेषामेव देवानां सम्पूर्णार्थश्च भैरव। अग्निर्ब्रह्मा भवानी च गजवक्त्रो महोरगः स्कन्दो भानुर्मातृगणो दिक्पालाश्च नबग्रहाः। एतान् घटेषु प्रत्येकं पूजयित्वा यथाविधि पवित्रं मूर्ध्नि चैकैकं दद्यादेभ्यः समाहितः। पञ्चगव्यचरुं कृत्वा देव्यै दत्त्वाहुतित्रयम् तेनैव विष्णवे दत्त्वा शम्भवे च यथाविधि। आज्यैरष्टोत्तरशतं तिलैराज्यैस्तथैव च अष्टोत्तरशतं दद्यान्महादेव्यै च साधकः। एवमेव विधानेन निष्ण्वादीनां च साधकः पवित्रारोपणं कुर्याद् धर्मकामार्थसिद्धये। नैवेद्यैर्विविधैः पेयैर्वटपिष्टकमोदकैः कूष्माण्डैर्नारिकेलैश्च खर्ज्जूरैः पनसैस्तथा। आम्रदाडिमकर्कारुद्राक्षादिविविधैः फलैः भक्ष्यभोज्यादिभिः सर्वैर्मत्स्यैर्मांसेस्तथौदनैः। गन्धैः पुष्पैस्तथा धूपैर्दीपैश्च सुमनोहरैः वासोभिर्भूषणैश्चैव भवानीसाधको यजेत् । नटनर्तकसङ्घैश्च वेश्याभिश्चैव भैरव नृत्यगीतः समुदितो जागरं कारयेन्निशि। भोजयेद् ब्राह्मणांश्चापि ज्ञातीनपि द्विजातिभिः पवित्रारोपणे वृत्ते दक्षिणामुपदापयेत्। हिरण्यं गां तिलघृतं वासो वा शाकमेव वा इमं मन्त्रं ततः पश्चात् साधकः समुदीरयेत्। मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः इयं सांवत्सरी पूजा तवास्तु परमेश्वरि। ततो विसर्जयेद् देवीं पूजाभिः प्रतिपत्तिभिः एवं कृते पवित्राणां दाने देव्या यथाविधि। संवत्सरस्य या पूजा सम्पूर्णा वत्सराद् भवेत् कल्पकोटिशतं यावद् देवीगेहे वसेन्नरः। तत्रापि सुखसौभाग्यसमृद्धिरतुला भवेत्
||śrī bhagavānuvāca|| aṅgamantrāṇyahaṃ vakṣye caṇḍikāyā viśeṣataḥ| yaiḥ samārādhitā devī catuvaṃrgapradā bhavet tālavyānto yutaḥ ṣaṣṭhasvarabindvinduvahnibhiḥ | tathopāntaḥ svarastvete bāhyaṃ vāgbhavameva ca netrabījaṃ caṇḍikāyāstrayametat prakīrtitam| vāmalalāṭadākṣiṇyanetreṣu tritayaṃ kramāt dharmārthakāmamokṣāṇāṃ sarvadā kāraṇaṃ param| mantrametanmahaguhyaṃ durgābījamiti smṛtam yadā kātyāyānamunerāśrameṣu divaukasām | tejobhirdhṛtakāyābhūd devī devaughasaṃstutā tadā netratrayād devyā mūlamūrtirviniḥ sṛtā| tejomayī jagaddhātrī mahiṣāsuraghātinī tejobhiḥ sarvadevānāṃ sā dhṛtvā vapuruttamam| astrāṇyanekānyādāya devairdattāni bhāgaśaḥ sagaṇaṃ sānuvandhaṃ ca sāmātyabalavāhanam| brahmādyaiḥ saṃstutā devī jaghāna mahiṣāsuram hate tu mahiṣe devī pūjitā tridaśaistataḥ| anenaiva tu mantreṇa loke khyātiṃ ca sā gatā tataḥ prabhṛti sā mūrtiḥ sarvaiḥ sarvatra pūjyate| mūlamūrttiḥ suguptābhūt svamūrtyā khyātimāgatā devānāṃ varadānena brahmādyairupayojanāt| yanmūrtiḥ pūjyate sarvaistāṃ mūrtiṃ śṛṇu bhairava jaṭājūṭasamāyuktāmarddhendukṛtaśekharām| locanatrayasaṃyuktāṃ pūrṇendusadṛśānanām taptakāñcanavarṇābhāṃ supratiṣṭhāṃ sulocanām| navayauvanasampannāṃ sarvābharaṇabhūṣitām sucārudaśanāṃ tīkṣṇāṃ pīnonnatapayodharām| tribhaṅgasthānasaṃsthānāṃ mahiṣāsuramardinīm mṛṇālāyatasaṃsparśadaśabāhusamanvitām| triśūlaṃ dakṣiṇe deyaṃ khaḍgaṃ cakraṃ kramādadhaḥ tīkṣṇabāṇaṃ tathā śaktiṃ bāhusaṃgheṣu saṅgatām| kheṭakaṃ pūrṇacāpaṃ ca pāśaṃ cāṅkuśamūrdhataḥ ghaṇṭāṃ ca paraśuṃ cāpi vāme'dhaḥ pratiyojayet| adhastānmahiṣaṃ tadvadviśiraskaṃ pradarśayet śiraśchedodbhavaṃ tadvaddānavaṃ khaḍgapāṇinam| hṛdi śūlena nirbhinnaṃ niryadantravibhūṣitam raktaraktokṛtāṅgaṃ ca raktavisphuritekṣaṇam| veṣṭitaṃ nāgapāśena bhrukuṭīkuṭilānanam sapāśavāmahastena dhṛkeśaṃ ca durgayā| vamadrudhiravaktraṃ ca devyāḥ siṃhaṃ pradarśayet devyāstu dakṣiṇaṃ pādaṃ samaṃ siṃhopari sthitam| kiñcidūrdhvaṃ tathā vāmamaṅguṣṭhaṃ mahiṣopari ugracaṇḍā pracaṇḍā ca caṇḍogrā caṇḍanāyikā| caṇḍā caṇḍavatī caiva cāmuṇḍā caṇḍikā tathā ābhiḥ śaktibhiraṣṭābhiḥ satataṃ pariveṣṭitām| cintayet satataṃ devīṃ dharmakāmārthamokṣadām etasyāścāṅgamantraṃ tu durgātantramiti śrutam| śṛṇuṣvaikamanā bhūtvā dharmakāmārthasādhanam vahnibhāryā svaraḥ ṣaṣṭho hāntaḥ prānto'gnireva ca| durgādiriti soṅkāraṃ durgāmantraṃ miti śrutam ravau makararāśisthe yā bhavet sitapañcamī| tasyāmanena mantreṇa sampūjya vidhivacchivām śuklāṣṭamyāṃ punardevīṃ pūjayitvā yathāvidhi| navamyāṃ balidānāni prabhūtāni samācaret sandhyāyāṃ ca baliṃ kuryāgnijagātrāsṛgukṣitam| evaṃ kṛte tu kalyāṇairyukto nityaṃ pramodate putrapautrasamṛddhastu dhanadhānyasamṛddhibhiḥ| dīrghāyuḥ sarvasubhago loke'smin sa ca jāyate sitāṣṭamyāṃ tu caitrasya puṣpaistatkālasambhavaiḥ| aśokairapi yaḥ kuryānmatreṇānena pūjanam na tasya jāyate śoko rogo vāpyatha durgatiḥ| jyaiṣṭhe tu śuklapakṣasya aṣṭābhyāṃ samupoṣitaḥ navamyāṃ satilairannairyāvakairatha modakaiḥ| kṣīrairājyaistathā kṣaudraiḥ śarkarābhiḥ sapiṣṭakaiḥ nānāpaśūnāṃ rudhirairmāṃsairapi ca pūjayet| tato daśamyāṃ śuklāyāmadbhistu tilamiśritaiḥ durgātantreṇa mantreṇa dātavyamañjalitrayam| eva kṛte daśamyāṃ tu yatpāpaṃ daśajanmabhiḥ kṛtaṃ tatpralayaṃ yāti dīrghāyurapi jāyate| āṣāḍhe śuklapakṣasya yāṣṭamī śrāvaṇasya ca pavitrāropaṇaṃ kuryād devīprītikaraṃ param| durgātantreṇa mantreṇa durgābījena bhairava vaiṣṇavītantramantreṇa durgābījena bhairava| vaiṣṇavītantramantreṇa pavitrāropaṇaṃ caret| viśeṣācchrāvaṇaṃ prāpya devyāḥ kuryāt pavitrakam sarveṣāmeva devānāṃ pavitrāropaṇaṃ caret| āṣāḍhe śrāvaṇe vāpi saṃvatsaraphalapradam pratipaddhanadasyoktā pavitrāropaṇe tithiḥ| dvitīyā tu śriyo devyāstithīnāmuttamā smṛtā tṛtīyā bhavabhāvinyāścaturthī tatsutasya ca| pañcamī somarājasya ṣaṣṭhī proktā guhasya ca saptamī bhāskarasyoktā durgāyāśca tathāṣṭamī| mātṛṇāṃ navamī proktā vāsukerdaśamī matā ekādaśo ṛṣīṇāṃ ca dvādaśī cakrapāṇinaḥ| trayodaśī tvanaṅgasya mama caiva caturdaśī brahmaṇo dikpatīnāṃ ca paurṇamāsī tithirmatā| pavitrāropaṇaṃ yo vai devānāṃ na samācaret tasya sāṃvatsarīpūjāphalaṃ harati keśavaḥ| tasmād yatnena kartavyaṃ pavitrāropaṇaṃ param kṛte bahuphalaprāptistatpūjā saphalā bhavet| pavitraṃ yena sūtreṇa yathā kāryaṃ vijānatā tacchraṇuṣva pramāṇaṃ tu vacanānmama bhairava| prathamaṃ darbhasūtraṃ ca padmasūtraṃ tataḥ param tataḥ kṣaumaṃ supuṇyaṃ syāt kārpāsakamataḥ param| paṭṭasūtraṃ tathānyena pavitrāṇina kārayet vicitrāṇi pavitrāṇi kartavyāni tu yatnataḥ| gandhamālyaiḥ surabhibhiḥ racitāni yathoditam kanyā ca kartayet sūtraṃ pramadā ca pativratā| vidhavā sādhuśīlā vā duḥkhaśīlā na kartayet yatsūcibhinnaṃ dagdhaṃ ca bhasmadhūmābhiguṇṭhitam| tadvarjanīyaṃ yatnena sūtramasmin pavitrake upayuktaṃ cākhujagdhaṃ madyaraktādidūṣitam| malinaṃ nīlaraktaṃ ca prayatnena vivarjayet sūtraiḥ pavitraṃ kurvīta kaniṣṭhottamamadhyamam| kaniṣṭhaṃ yat pavitraṃ tu saptaviṃśatitantubhiḥ martyaloke yaśaḥ kīrtiḥ sukhasaubhāgyavardhanam| catuḥpañcāśatā proktaṃ tantūnāṃ madhyamaṃ param divyabhogāvahaṃ puṇyaṃ svargamokṣa pradāyakam| uttamaṃ caiva tantūnāmaṣṭottaraśatena vai taddatvā tu mahādevyai śivāsayujyamāpnuyāt| uttamaṃ vāsudevāya dadyād yadi pavitrakam tadā yāti harerlokaṃ sādhako nātra saṃśayaḥ| aṣṭottarasahasraṃ tu ratnamāleti gīyate pavitraṃ su mahādevyā bhuktimuktipradāyakam| ratnamālyāṃ tu yo yacchenmahādevyai pavitrakam kalpakoṭisahasrāṇi svarge sthitvā śivo bhavet| etat tu nāgahārākhyaṃ śaṅkarasya pavitrakam aṣṭottarasahasreṇa tantunā sumanoharam| yaḥ prayacchati mahyaṃ tu sa yāvāṃstantusañcayaḥ tāvatkalpasahasrāṇi mama loke pramodate| aṣṭottarasahasreṇa vanamālā hareḥ smṛtā tantūnāṃ tasya dānena viṣṇusāyujyamāpnuyāt| yat kaniṣṭhaṃ pavitraṃ tu nābhimātraṃ bhavet tu tat dvādaśagranthisaṃyuktamātmamāne na yojayet| ūrupramāṇaṃ madhyaṃ syād granthīnāṃ tatra yojayet caturviṃśatimapyasya mānamātmana eva ca| vapitramuttamaṃ proktaṃ jānumātraṃ ca bhairava ṣaṭtriṃśattantugranthīnāṃ yojayedātmamānataḥ| śatamaṣṭottaraṃ kāryaṃ granthīnāṃ suvidhānataḥ nāgahārāhvayaṃ tadvadanyeṣu ca vidhānataḥ| vapitraṃ kriyate yena sūtreṇa granthayaḥ punaḥ tadanyavarṇasūtreṇa kartavyā lakṣaṇānvitā| granthiṃ tu saptabhiḥ kuryād veṣṭanaistu kaniṣṭhake dviguṇairmadhyame kuryāttriguṇaruttame tathā| adhivāsya pavitrāṇi pūrvasmin divase tataḥ mantranyāsaṃ pavitre tu kuryāt tatrāpare'hani| durgābījena mantreṇa mantranyāsaṃ dvijaścaret vaiṣṇavītantramantreṇa kuryuranye ca bhairava| pratigranthi svayaṃ kuryānmantranyāsaṃ vicakṣaṇaḥ aṅguṣṭhāgraṇa japanaṃ mālāyāmiha bhairava| yāvanto granthayaścātra tāvantyeva ca sannyaset mantrāṇi tasya tena syādevāṅgopaniyojanam| durgātantreṇa mantreṇa tattvanyāsaṃ tu kārayet ekatra nyasya sakalaṃ yajñapātre pavitrakam| tasmin nidhāya gandhādi puṣpāṇi ca suśobhanam tattvanyāsaṃ tataḥ kuryādaṅgulyagreṇa bhairava| viṣṇostu mūlamantreṇa tattvanyāsaṃ tu kārayet idaṃ viṣṇuriti proktaṃ mantranyāsaṃ dvijasya hi| śūdrāṇāṃ mantravinyāse mantro vai dvādaśākṣaraḥ prāsādena tu mantreṇa tattvanyāso mama smṛtaḥ| anena mantranyāsaṃ ca dānaṃ cānena kārayet kuḍkumośīrakarpūrai ścandanādivilepanaiḥ| pavitrāṇi vilipyātha tattvanyāsaṃ tu yojayet sampūjya maṇḍale devīṃ vidhivat prayato naraḥ| vaiṣṇavītantramantreṇa durgātantreṇa bhairava durgābījena dadyāt tu devyā mūrdhni pavitrakam| yasya devasya yaḥ proktastasya tenaiva maṇḍalam yasya yasya tu yo mantro yathā dhyānādipūjanam| tat tat tenaiva mantreṇa pūjayitvā prayatnataḥ tasyaiva bījamantrābhyāṃ mūrdhni dadyāt pavitrakam| pavitraṃ mama yo dadyād devebhyaśca pavitrakam sarveṣāmeva devānāṃ sampūrṇārthaśca bhairava| agnirbrahmā bhavānī ca gajavaktro mahoragaḥ skando bhānurmātṛgaṇo dikpālāśca nabagrahāḥ| etān ghaṭeṣu pratyekaṃ pūjayitvā yathāvidhi pavitraṃ mūrdhni caikaikaṃ dadyādebhyaḥ samāhitaḥ| pañcagavyacaruṃ kṛtvā devyai dattvāhutitrayam tenaiva viṣṇave dattvā śambhave ca yathāvidhi| ājyairaṣṭottaraśataṃ tilairājyaistathaiva ca aṣṭottaraśataṃ dadyānmahādevyai ca sādhakaḥ| evameva vidhānena niṣṇvādīnāṃ ca sādhakaḥ pavitrāropaṇaṃ kuryād dharmakāmārthasiddhaye| naivedyairvividhaiḥ peyairvaṭapiṣṭakamodakaiḥ kūṣmāṇḍairnārikelaiśca kharjjūraiḥ panasaistathā| āmradāḍimakarkārudrākṣādivividhaiḥ phalaiḥ bhakṣyabhojyādibhiḥ sarvairmatsyairmāṃsestathaudanaiḥ| gandhaiḥ puṣpaistathā dhūpairdīpaiśca sumanoharaiḥ vāsobhirbhūṣaṇaiścaiva bhavānīsādhako yajet | naṭanartakasaṅghaiśca veśyābhiścaiva bhairava nṛtyagītaḥ samudito jāgaraṃ kārayenniśi| bhojayed brāhmaṇāṃścāpi jñātīnapi dvijātibhiḥ pavitrāropaṇe vṛtte dakṣiṇāmupadāpayet| hiraṇyaṃ gāṃ tilaghṛtaṃ vāso vā śākameva vā imaṃ mantraṃ tataḥ paścāt sādhakaḥ samudīrayet| maṇividrumamālābhirmandārakusumādibhiḥ iyaṃ sāṃvatsarī pūjā tavāstu parameśvari| tato visarjayed devīṃ pūjābhiḥ pratipattibhiḥ evaṃ kṛte pavitrāṇāṃ dāne devyā yathāvidhi| saṃvatsarasya yā pūjā sampūrṇā vatsarād bhavet kalpakoṭiśataṃ yāvad devīgehe vasennaraḥ| tatrāpi sukhasaubhāgyasamṛddhiratulā bhavet