Kalika Purana — Chapter 57
KaP 57.57
।।मार्कण्डेय उवाच।। श्रुत्वेमं सगरो राजा संवादं भैरवेण वै। वेतालेनापि भर्गस्य पुनरौर्व्वमपृच्छत ।।सगर उवाच।। मन्त्रं कलेवरगतं साङ्गं प्रोक्तं त्वया द्विज। अङ्गमन्त्राणि मे देव्याः कथ्यन्तां भो द्विजोत्तम तथा मन्त्राणि सर्वाणि पूजास्थानानि सर्वशः। तथैवोत्तरमन्त्राणि कवचानि पृथक् पृथक् कामाख्यायाश्च माहात्म्यं सरहस्यं समन्त्रकम्। यथा शशंस भगवान् महादेव उमापतिः वेतालभैरवाभ्यां तत् समाचक्ष्व सविस्तरात्। शृण्वतो न हि मे तृप्तिर्जायते महदद्भुतम् भवता कथ्यमानं हि परं कौतूहलं मम। ।।और्व्व उवाच।। शृणुत्वं राजशार्दूल यत्पुत्राभ्यामुमापतिः उवाच महादाख्यानं तन्मे निगदतोऽधुना। एतद्रहस्यं परमं पवित्रं पापनाशनम् परं स्वस्त्ययनं पुंसां गर्भे पुं सवनं स्मृतम्। कल्याणकारकं भद्रं चतुर्वर्गफलप्रदम् शठाय चलचित्ताय नास्तिकायाजितात्मने। देवद्विजगुरूणां च मिथ्यानिर्बन्धकारिणे न पापायाभिशस्ताय खञ्जकाणादिरोगिणे। न कथ्यं न च वा देयं श्रद्धाविरहिताय च महामायामन्त्रकल्पं प्रोक्त्वा ताभ्यामुमापतिः। वेतालभैरवाभ्यां तु पुनरेवाभ्यभाषत ।।भगवानुवाच।। अङ्गमन्त्रं प्रवक्ष्यामि प्रोक्तवाँस्तन्त्रमुत्तमम् । तदेव प्रथमं विद्धि सर्वपूजासु सङ्गतम् आचान्तः शुचितां प्राप्तः सुस्नातो देवपूजने। पूजावेद्या बहिःस्थित्वा चतुर्हस्तान्तरे धिया गृहे वां द्वारदेशस्थः प्रणम्य शिरसा गुरुम्। प्रणमेदिष्टदेवं स्वं दिक्पालानपि चेतसा यत् पूर्वमर्जितं पापं तद्दिनेऽन्यदिनेऽपि वा। प्रायश्चित्तैर्नापनुन्नं तच्च पापं स्मरेद्धिया तत्पापस्यापनोदाय मन्त्रद्वयमुदीरयेत्। देवि त्वं प्राकृतं चित्तं पापाक्रान्तमभून्मम तन्निःसारय चित्तन्मे पापं हूं फट् च ते नमः। सूर्यः सोमो यमः कालो महाभूतानि पञ्च वै एते शुभाशुभस्येह कर्मणो नव साक्षिणः। ततः पुनर्हूं फडिति पार्श्वमूर्ध्वमधस्तथा आत्मानं क्रोधदृष्ट्याथ निरीक्ष्य सुमना भवेत्। एवं कृते प्रथमतः पापोत्सारणकर्मणि यत् स्याद् दृढतरं पापं तद् दूरे चावतिष्ठते। अतीते पूजने स्थानं स्वं प्रयाति पुनश्च यत् यत् स्यादल्पतरं पापं तन्नाशमुपगच्छति। ॐ अः फडितिमन्त्रेण पूजावेदीं ततो विशेत् पूजने त्यक्तपापस्य काममिष्टं क्षणाद् भवेत्। नाराचमुद्रया दृष्ट्वा समया सम्प्रलोकयेत् पुष्पनैवेद्यगन्धादि ह्रीं हूँ फडिति मन्त्रकैः। यदात्मनानवज्ञातं सम्यक् पुष्पादिदूषणम् अस्पृश्यस्पर्शनं वापि यदन्यायार्जितं च वा। तथा निर्माल्यसंसृष्टं कीटाद्यारोहणं च यत् तत्सर्वं नाशमायाति नैवेद्याद्यवलोकनात्। ततो रमितिमन्त्रेण शिखां दीपस्य संस्पृशेत् स तस्य सुभगो दीपो भवेत् स्पर्शनामात्रतः । पतङ्गकीटकेशादि-दाहात् क्रव्यादसंहतः वसामज्जास्थिसम्पूतिर्यज्ञादावुपयोजनम् । अज्ञतरूपं तत्सर्वं दोषं स्पर्शाद् विनाशयेत् नारसिंहेन मन्त्रेण देवतीर्थेन संस्पृशेत्। पानीयं घटमध्यस्थं वीक्षन्नभ्युक्ष्य याजकः वामेन पाणिना धृत्वा वामपार्श्वे स्थितं तदा। पात्रमाधारमन्त्रेण संस्कुर्वन् संस्पृशेज्जलम् यज्ञदानादपेयादि संसृष्टिरिह शङ्गता। यदन्यद् दूषणं पात्रे तोये वा ज्ञानतो भवेत् जलाशयं शवस्पर्शाज्जलं स्ननाच्च सङ्गतम्। दूषणानि विनश्यन्ति तानि वै देवपूजने प्रजापतिसुतो हान्तप्रान्तः स्वरसमन्वितः। चन्द्रार्धबिन्दुसहितो मन्त्रोऽयं नारसिंहकः स्वसंज्ञाद्यक्षरं बिन्दुचन्द्रार्धपरियोजितम्। आधारमन्त्रं जानीयात् साधकः कार्यसिद्धये तत आधारमन्त्रेण पाणिभ्यामासनं स्वकम्। आदाय विनिधायाशु पुनः संस्पृश्य पाणिना आत्ममन्त्रेणोपविशेत् तदा तस्मिन् वरासने। दुःशिल्पिरचितत्वादि यद्वान्यासन दूषणम् अज्ञातं विलयं याति उपवेशात् समन्त्रकात् । आहूय स्वाक्षरं पूर्वं सोमसामिसमन्वितम् सबिन्दुकं विजानीयादात्ममन्त्रं तु साधकः। ततस्तु मातृकान्यासं नादबिन्दुसमन्वितम् कुर्यात् तु मातृकामन्त्रैः स्वशरीरे विचक्षणः। कल्पेषु च यदज्ञातं मन्त्रोच्चारणकर्मणि यद् दुष्टं वा तथा स्पृष्टं माताभ्रष्टादिदूषणम्। तन्न्यस्ता मातृकामन्त्रा नाशयन्ति सदैव हि व्यञ्जनानि च सर्वाणि तथा विष्ण्वादयः स्वराः। सर्वे ते मातृकामन्त्राश्चन्द्रबिन्दुविभूषणा सर्वे युगान्तवन्द्येषु न्यस्तेषु न्यूनपूरणम्। मन्त्रे कल्पे च कुर्वन्ति विन्यस्ता मातृकाः स्वयम् एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते। प्लुतस्त्रिमात्रो विज्ञेयो वर्णा एते व्यवस्थिताः सर्वषामेव वर्णानां मात्रादेव्यस्तु मातृकाः। शिवदूतीप्रभृतयस्तन्न्यासास्तत्तनुस्थिताः पूरयन्ति च तान् न्यूनांश्चतुर्वर्गं तथाचिरात्। ददत्येव सदा रक्षां कुर्वन्ति सुरपूजने चतुर्वर्गप्रदश्चायं सर्वकामफलप्रदः। सर्वदामातृकान्यासस्तुष्टिपुष्टिप्रदायकः यः कुर्याद् मातृकान्यासं विनापि सुरपूजनात्। तस्माद् बिभेति सततं भूतग्रामश्चतुर्विधः तं द्रष्टुमपि देवाश्च स्पृहयन्ति महौजसम्। स सर्वं च वशं कुर्याद् न च याति पराभवम् कुसुमं विष्णुमन्त्रेण अङ्गुल्यग्रेण साधकः। विमर्दनार्थं गृह्णीयात करशोधनकर्मणि उपान्तः सामि चन्द्रेण रञ्जितः शून्यसंयुतः। रुद्रान्तोपरिसंसृष्टो मन्त्रोऽयं वैष्णवो मतः प्रासादेन तु मन्त्रेण अङ्गुल्यग्रेण साधकः। गृहीत्वा च ततः कुर्यात् कराभ्यां पुष्पमर्दनम् निर्मथेत् कामबीजेन जिघ्रेद् ब्राह्मेण तत् पुनः। प्रासादेन परित्यागो दिश्यैशान्यां विशेषतः एवं कृते तु करयोर्विशुद्धिरतुला भवेत्। जलौकागूढपादादिस्पर्शाच्छुद्धिर्विशोधनात् दुर्गन्ध्युच्छिष्टसंस्पर्शाद् दूषणं करयोस्तु यत्। अज्ञातरूपं तत्सर्वं नाशयेत् सुविधानतः अङ्गुल्यग्राणि शुद्धानि पुष्पाणां ग्रहणाद् भवेत्। तलद्वयं मर्दनात् तु विशुद्धमभिजायते निर्मञ्छनात् पाणिपृष्ठं घ्राणान्नासाग्रमुत्तमम्। तीर्थानि च समायान्ति नासिकायां करं प्रति तस्माद् यत्नेन कार्याणि कर्माण्येतानि भैरव। प्रान्तादिर्वासुदेवेन वर्णेनापि च संहितः शम्भुचूडाबिन्दुयुक्तः प्रासाद च स उच्यते। कामबीजं तु विज्ञेयं वासुदेवेन्दुबिन्दुभिः व्यञ्जनं चाद्यदन्तं च प्रान्तदन्त्या तु पूर्वकम्। आद्यदन्त्यद्वयं पश्चाद् व्यञ्जनं प्रणवोत्तरम् ब्रह्मबीजमिदं प्रोक्त सर्वपापप्रणाशनम्। प्रणवं दीर्घमुच्चार्यं प्रथमं मुखशुद्धये वासुदेवस्य बीजेन प्राणायामं समाचरेत्। यस्य देवस्य यद्रूपं तथा भूषणवाहनम् तदेव पूजने तस्य चिन्तयेत् पूरकादिभिः । वैष्मवीतन्त्रमन्त्रस्य कण्ठाद्यं यत्पुरःसरम् तद् बीजं वासुदेवस्य पूर्णचन्द्रनिभं सदा। गङ्गावतारबीजेन प्रथमं धेनुमुद्रया अमृतीकरणं कुर्यादर्घपात्राहिते जले। शशिखण्डयुतः कण्ठ्यः पञ्चमीबलबीजकः गङ्गावतारमन्त्रोऽयं सर्वपापप्रणाशकः। मात्राद्वययुतो विष्णुर्बलबीजमुदाहृतम् अमृतीकरणे वृत्ते तोयं यद् दीयतेऽमृतम्। भूत्वा प्रयाति देवस्य प्रीयते सुरपूजने गङ्गापि स्वयमायाति पूजापात्रजलं प्रति। अमृतीकरणं कुर्याद् धर्मकामार्थसिद्धये स्वस्तिकं गोमुखं पद्ममर्धस्वस्तिकमेव च। पर्यङ्कमासनं शस्तमभीष्टसुरपूजने पादयन्त्रमिदं प्रोक्तं सर्वमन्त्रोत्तमोत्तमम्। तद् गृह्णीयाद् वराहस्य बीजेन प्रथमं बुधः मायादिरग्निबीजस्य चतुर्थः समव्याप्तिकः । षष्ठस्वरोपरिचरो वाराहं बीजमुच्यते वाराहबीजसंशुद्धं मन्त्रपादद्वये कृतम्। पश्यन्नभीष्टदेवं तु पाददोषं न पश्यति न युक्तमन्यथा पाददर्शनं सुरपूजने। मन्त्रेण लभतेऽभीष्टांस्तस्मान्मन्त्रपरो भवेत् पाणिकच्छपिकां कुर्यात् कूर्ममन्त्रेण साधकः। तत्र संस्कृतपुष्पेण पूजयेदात्मनो वपुः पूजिते तेन पुष्पेण देवत्वं स्वस्य जायते। द्वितीयं वैष्णवीतन्त्रं बीजं बिन्द्विन्दुसंयुतम् षष्ठस्वरोपरिचरं कूर्मबीजं प्रकीर्तितम्। दहनप्लवनस्यादौ रन्ध्रस्य दशमस्य तु भेदनं साधकः कुर्यान्मन्त्रेण प्रणवेन तु। बीजेन वासुदेवस्य आकाशे विनिधापयेत् प्राणेन सहितं बीजं ततपूर्वं प्रतिपादितम्। अज्ञाता प्रयतानां तु मण्डलस्थानमार्जनात् द्रव्याणां विप्रकारः स्यात् संसर्गाणां तथैव च। मधुकैटभयोर्मेदः संघातैर्दृढतां गता मेदिनी सर्वदा शुद्धा सुरपूजासु सर्वतः। अद्यापि सर्वे त्रिदशा न स्पृशन्ति पदा क्षितिम् न च स्वीयतनुच्छायां योजयन्ति च भूतले। तस्य दोषस्य मोक्षार्थं मन्त्रराजं लिखेत् क्षितौ प्रोक्षणाद् वीक्षणाद् वापिशुद्धा भवति मेदिनी। वीक्षणं धर्मबीजेन स्थण्डिलस्य समाचरेत् दान्तो बलेन संयुक्तश्चूडाबिन्दुसमन्वितः। धर्मबीजमिति प्रोक्तं धर्मकामार्थसाधनम् आदानं धारणं तथा संस्थानपूजने। पूरणं संलिलेनैव निःक्षेपो गन्धपुष्पयोः मण्डलस्याथ विन्यासः पुनः पुष्पस्य संश्रयः। अमृतीकरण पात्रप्रतिपत्तिरियं नरः आनिरुद्धेन चादाय अस्त्रमन्त्रेण धारणम्। पात्रे तु मण्डलन्यासं वाग्बीजाग्रेण योजयेत् आनिरुद्धं भवेद्बीजमाद्यं बिन्दुद्वयोत्तरम् । फडन्तेनानिरुद्धं तु अस्त्रमन्त्रं प्रकीर्तितम् शम्भुराद्यवलः प्रान्तः सम्पूर्णा सहिता इमे। तृतीयं वाग्भवं बीजं सकलं निष्कलाह्वतम्। स्वरश्चतुर्थः सकलः संसृष्टौ बिन्दुनेन्दुना वर्गाद्यादिर्द्वितीयं तु वाग्भवं बीजमुच्यते। कामराजाह्वयं चैतद् धर्मकामार्थसाधनम् मनोभवस्य बीज तु कुण्डलीशक्तिसंयुतम्। वासुदेवेन सम्पृक्तमाद्यं वाग्भवमुच्यते इदं सारस्वतं नाम यदाद्यं वाग्भवं स्मृतम्। एकैकं कामबीजादि त्रिभिस्तु त्रिपुरामहः आद्यं तृतीयं सामीन्दुबिन्दुभ्यः समलंकृतम्। मदनस्य तु मन्त्रोऽयं कामभोगफलप्रदः औदेतोरूपविन्यस्तं यन्त्रं भास्करसन्निभम्। तद् वक्ष्ये कुण्डलीशक्तिमभेदात् तु निगद्यते भूतापसारणं कुर्यान्मन्त्रेणानेन याजकः। यस्मिन् कृते स्थानभूता दूरं यान्ति सुरार्चने स्थितेषु तत्र भूतेषु नैवेद्यमाण्डलं तथा। विलुम्पन्ति सदा लुब्धा न गृह्णन्ति च देवता तस्माद् यत्नेन कर्तव्यं भूतानामपसारणम्। अस्त्रमन्त्रेण सहितं तस्य मन्त्रमिदं स्मृतम् अपसर्पन्तु ते भूता ये भूता भूमिपालकः। भूतानामविरोधेन पूजाकर्म करोम्यहम् अनेन स्थण्डिलाद् भूतानपसार्याथ साधकः। ततो दिग्बन्धनं कृत्वा दिग्भ्यस्तानपसारयेत् विष्णुबीजं फडन्तं तु मन्त्रं दिग्बन्धने स्थितम्। करेण छोटिकापूर्वं वेष्टनं बन्धनं दिशः आत्मनः पूजनेनाथ कर्मारम्भाधिकारिता। पूजितं चासनं योगपीठस्य सदृशं भवेत् स्वभावतः सदा शुद्धं पञ्चभूतात्मकं वपुः। मलपूतिसमायुक्त श्लेष्मविण्मूत्रपिच्छिलम् रेतोनिष्ठीवलालाभिः स्रवद्भिरपरिष्कृतम्। बीजभूतानि चैतस्य महाभूतानि पञ्च वै तेषां तु सर्वभूतानां बीजानां देहसङ्गिनाम्। वायुतेजःपृथव्यम्भोवियतां शुद्धये क्रमात् शोषणं दहनं भस्मप्रोत्सादोऽमृतवर्षणम्। आप्लावनं च कर्तव्यं चिन्तामात्रविशुद्धये अण्डस्य चिन्तनाद् भेदात्तन्मध्ये देवचिन्तनात्। स्वकीयस्येष्टदेवस्य चिन्ता सर्वात्मना भवेत् सोऽहमित्यस्य सततं चिन्तनाद् देवरूपता। आत्मनो जायते सम्यक् संस्कृतिः पुष्पदानतः अहं देवोऽथ नैवेद्यं पुष्पगन्धादिकं च यत्। पूजोपकरणार्थं च देवत्वमिह जायते देवाधारो ह्यहं देवो देवं देवाय योजयेत्। सर्वेषां देवतासृष्टया जायते शुद्धतापि च मनोजीवात्मनोः शुद्धिः प्राणायामेन जायते। अन्तर्गतं यच्च मलं तच्च शुद्धं प्रजायते गृहे चेत् पूजयेद् देवं तदा तस्य विलोकनम्। कुर्यादादित्यबीजेन चतुः पार्श्वष्वपि क्रमात् उपान्तः सचतुर्थस्तु स तथा सकलोऽग्रतः आदित्यबीजं कथितं सर्वरोगविनाशनम्। धर्मार्थकाममोक्षाणां कारणं तोषदायकम् अशुद्धपक्षिसंयोग-पक्षिविष्ठाप्रसेचने। मूषिकाणां तथा स्पर्शः कृमिकीटादिसङ्गमः एवमादीनि नश्यन्ति लोकनाद् गृहदूषणम्। ततस्तु योगपीठस्य ध्यानं प्रथमतश्चरेत् ध्यानमात्रं योगपीठं प्रविशत्येव मण्डलम्। योगपीठे स्मृते सर्व योगपीठमय समम् न योगपीठादधिकं विद्यते परमासनम्। यस्य ध्यानाज्जगद् व्याप्तं सचराचरमानुषम् तच्चिन्तनस्य माहात्म्यं को वा वक्तुं समुत्सहेत्। चिन्तामात्रेण मानुष्यं पश्य शोकविनाशनम् धारणाद् योगपीठं तु चतुर्वर्गफलप्रदम्। शुद्धफटिकसंकाशं चतुष्कोणं चतुर्वृतिम् आधारशक्त्या विहितं प्रग्रहं सूर्यसन्निभम्। आग्नेयादिषु कोणेषु चतुर्षु क्रमतः स्थितम् धर्मो ज्ञानं तथैश्वर्यं वैराग्यं क्रमतः सदा। पूर्वादिदिक्षु चैतानि स्थितानि क्रमतो यथा अधर्मश्च तथाज्ञानमनैश्वर्यं ततः परम्। अवैराग्यं परं तस्माद्धारणार्थं व्यवस्थितम् तस्योपरि जलौघस्तु तस्मिन् ब्रह्मण्डमास्थितम्। ब्रह्माण्डाभ्यन्तरे तोयं कूर्मस्तस्योपरि स्थितः कूर्मोपरि तथानन्तः पृथ्वी तस्योपरि स्थिता। अनन्तगात्रसंयुक्तं नालं पातालगोचरम् पृथ्वीमध्ये स्थितं पद्मं दिक्पत्रं गिरिकेशरम्। तस्याष्टदिक्षु दिक्पालाः स्वर्गो मध्ये व्यवस्थितः कर्णिकायां ब्रह्मलोको महर्लोकादयो ह्यधः। स्वर्गे ज्योतींषि देवाश्च चतुर्वेदास्तदन्तरे सत्तंव रजस्तम इति गुणाः प्रकृतिसम्भवाः। सदा स्थिता पद्ममध्ये परं तत्त्वं तथैव च आत्मतत्त्वं तत्र संस्थमूर्ध्वच्छदनमूर्धतः। अधोऽधश्छदनं तत्र केशराग्रे स्थितं पुनः सूर्याग्निचन्द्रमरुता मण्डलानि क्रमात् ततः। शावासनं योगपीठे सुखासनमतः परे आराध्यासनमस्माच्च ततश्च विमलासनम्। मध्ये विचिन्तयेत् सर्वं जगद्वै सचराचरम् ब्रह्मविष्णुशिवंश्चैव भागत्रयविनिश्चितान्। आत्मानं चिन्तयेत् तत्र पूजने समुपस्थितम् मण्डलं योगपीठं तु पद्मं पद्मं तु चिन्तयेत्। शावादीन्यासनानीह चत्वार्यपि विचन्तयेत् योगपीठं पृथग्ध्यात्वा मण्डलेन सहैकताम्। पुनर्ध्यात्वा ततः पश्चात् पूजयेदासनं ततः ध्यानेन योगपीठस्य यथा यद्दीयते जलम्। नैवेद्यपुष्पधूपादि तत् स्वयं चोपतिष्ठते सर्वे देवाः सगन्धर्वाः सचराचरगुह्यकाः। चिन्तताः पूजिताश्च स्युर्योगपीठस्य पूजने अभीष्टदेवतापूजां विना यस्य विचिन्तनात्। लभते वै चतुर्वर्गं तुष्टिः पुष्ठिश्च जायते आवाहनानन्तरतः पाणिभ्यामवतारयेत्। प्रागुत्तानौ करौ कृत्वा ऊर्ध्वमुत्क्षिप्य सान्तरौ निरन्तरावधः कुर्यान्नामयन् पूजकस्तथा। हेरम्बस्य तु बीजेन तस्मादवतरेति च आम्रेडितेन चाभीष्टदेवानां लम्बनाय वै। नासिकावायुनिःसाराद्वियत्स्था देवना भवेत् एवं कृते मण्डले तु स्थितिस्तस्य प्रजायते। स्वान्तः शुद्धांशुबिन्दुभ्यां हैरम्बं बीजमुच्यते नाशनं विघ्नबीजानां धर्मकामार्थसाधनम्। गन्धपुष्पे तथा धूपदीपौ नैवेद्यमेव च यदन्यद् दीयते वस्त्रमलङ्कारादिकं च यत् । तेषां दैवतमुच्चार्य कृत्वा प्रोक्षणपूजने उत्सृज्य मूलमन्त्रेण प्रतिनाम्ना निवेदयेत्। वरुणस्य तु बीजेन तेषां प्रोक्षणमाचरेत् इष्टेन मूलमन्त्रेण तथोत्सर्गनिवेदने। लपरश्चन्द्रबिन्दुभ्यां बीजं वारुणमुच्यते विलोकनं पूजनं च तथा दानं पृथक् पृथक्। जपकर्मणि मालायाः प्रतिपत्तिरिदं त्रयम् इष्टमन्त्रेण मालायाः प्रोक्षणं परिकीर्तितम्। बीजं गाणपतं पूर्वमुच्चार्यं तदनन्तरम् अविघ्नं कुरु माले त्वं गृह्णीयादित्यनेन च। जपान्ते शिरसि न्यासो मालायाः परिकीर्तितः स्रजमादाय पाणिभ्यां श्रीबीजेन तथार्चयेत्। अन्त्यदन्त्यान्तमात्राभ्यां चादिवर्गतृतीयकौ परतः परतः पूर्वं श्रीबीजं बिन्दुनेन्दुना। मालाया अवतारस्तु शिरसः क्रियते तदा तां समादाय पाणिभ्यां कुर्यात् सारस्वतेन वै। श्रीबीजानामाद्यमाद्यं बिन्दुचन्द्रार्धसंयुतम् एतच्चतुष्टयं बीजं सारस्वतमुदीरितम्। पौराणिकैर्वैदिकैश्च मूलमन्त्रेण चैव हि प्रदक्षिणां प्रणामं च कुयाद्धर्मार्थसाधकम्। भूमिं वीक्ष्य तथाभ्युक्ष्य क्षितिबीजेन पूर्वतः स्पृशंस्तां शिरसा भूमिं प्रणमेदिष्टदेवताः। क्षितिबीजं विजानीयाच्चतुर्वर्गप्रदायकम्। दर्पणं व्यजनं घण्टां चामरं प्रोक्षयेत् पुनः नैवेद्यालोकमन्त्रेण पूर्वप्रोक्तेन भैरव। नामाक्षराणि चाद्यानि चैतेषां बिन्दुनेन्दुना तस्मै नम इति प्रान्ते ग्रहणे मन्त्र उच्यते। निवेदनमथैतेषामिष्टमन्त्रेण चाचरेत् वाग्भवस्य द्वितीयेन कामबीजेन भैरव। मुद्राया बन्धनं कार्यं मूलमन्त्रेण दर्शनम् परित्यागं तु मुद्रायास्ताराबीजेन चाचरेत्। प्रान्तादिश्चन्द्रबिन्दुभ्यां षष्ठस्वरसमन्वितः ताराबीजमिति प्रोक्तं धर्मकामार्थसाधनम्। मुदं ददाति यस्मात् सा मुद्रा तेन प्रकीर्तिता दर्शितायां तु मुद्रायां भवेत् पूजासमापनम्। कामं मोक्षं तथा धर्ममर्थमोदयुता स्वयम् ददाति साधकायाशु देवता गन्तुमुत्सुका। मुद्रान्ते तु महामन्त्रान् षडिमान् समुदीरयेत् यद् दत्तं भक्तिमात्रेण पत्रं पुष्पं फलं जलम्। आवेदितं च नैवेद्यं तद्गृहाणानुकम्पया आवाहनं न जामामि न जानामि विसर्जनम्। पूजाभावं न जानामि त्वं गतिः परमेश्वरि कर्मणा मनसा वाचा त्वत्तो नान्यं गतिर्मम। अन्तश्चरेण भूतानां त्वं गतिः परमेश्वरि मातर्योनिसहस्रेषु येषु येषु व्रजाम्यहम्। तेषु तेष्वच्युता भक्तिरच्युतेऽस्तु सदा त्वयि देवी दात्री च भोक्त्री च देवी सर्वमिदं जगत्। देवी जयति सर्वत्र या देवी सोऽहमेव च यदक्षरपरिभ्रष्टं मात्राहीनं च यद् भवेत्। तत्सर्वं क्ष्म्यतां देवि कस्य न स्खलितं मनः मन्त्रेषु पठितेष्वेषु स्वयमेव प्रसीदति। दातुं देवीं चतुर्वर्गं न चिरादेव भैरव ऐशान्यां मण्डलं कुर्याद् द्वारपद्मविवर्जितम्। विसर्जनार्थ निर्माल्यधारिण्याः पूजनाय वै पाद्मादिभिः पूजयित्वा ध्यात्वा निर्माल्यधारिणीम्। निःक्षिप्य तस्मिन् निर्माल्यं मन्त्रेम तु विसर्जयेत् गच्छ गच्छ पदं स्थानं स्वस्थानं परमेश्वरि। यत्र ब्रह्मादयो देवा न विदुः परमं पदम् विसृज्य मन्त्रेणानेन ततः पूरकवायुना। ध्यायंस्तु मन्त्रेणानेन नत्वा तां स्थापयेद्धृदि तिष्ठ देवि परे स्थाने स्वस्थाने परमेश्वरि। यत्र ब्रह्मादयः सर्वे सुरास्तिष्ठन्ति मे हृदि तत एकजटाबीजैरिष्टदेवीं धिया स्मरन्। निर्माल्यं मूर्घ्नि गृह्णीयाद् धर्मकामार्थसाधनम् मण्डलप्रतिपत्तिं तु ततः कुर्याद् विभूतये। सर्वाङ्गुलीनामग्रौधैः पद्ममष्टदलान्वितम् निर्मन्थेत् क्षितिबीजेन मण्डलं चापि भैरव। ततस्तु मूलमन्त्रेण सर्ववश्येन वा पुनः अनामिकानामग्रेण ललाटमपि संस्पृशेत्। स्मरबीजं विसर्गेण परतः परतः परम्। भबेदेकजटाबीजं धर्मकामार्थसाधनम् ततो भास्करबीजेन सहितेनात्मना पुनः। मन्त्रेण भास्करायार्धमच्छिद्रार्थं निवेदयेत् नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे। जगत्सवित्रे शुचये सवित्रे कर्मदायिने ततः कृताञ्जलिर्भूत्वा पठित्वा मन्त्रमीरितम्। एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत् यज्ञच्चिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम। सर्वं तदच्छिद्रमस्तु भास्करस्य प्रसादतः ततस्तु पुष्पनैवेद्य तोयपात्रादिकं च यत्। देवीबीजेन तत्सर्वं पुनरेव विलोकयेत् हस्तेन चक्षुषा वापि यत्र यत्र कृतः पुरा। मन्त्रन्यासस्तत्र तत्र विसृष्टिरमुना भवेत् प्रान्तादिपञ्चमो वह्निबीजषष्ठस्वराहितः। तथोपान्तं वाग्भवाद्यं दुर्गाबीजं प्रचक्षते स्थण्डिले ज्वलदग्नौ च तोये सूर्यमरीचिषु। प्रतिमासु च शुद्धासु शालग्रामशिलासु च शिवलिंगे शिलायां तु पूजा कार्या विभूतये। सर्वत्र मण्डलन्यासं कुर्यादेकाग्रमानसः योगपीठस्य बीजेन स्थण्डिलादिषु साधकः। वासुदेवस्य रुद्रस्य ब्रह्मणो मिहिरस्य च कुर्यात् सर्वत्र पूजासु प्रतिपत्तिमिमां बुधः। एवं यः पूजयेद् विष्णुममीभिः प्रतिपत्तिभिः चतुर्वर्गप्रदस्तस्य न चिराज्जायते हरिः। शिवो वा मिहिरो वापि येऽन्ये लम्बोदरादयः प्रसीदन्ति सुराः सर्वे पूजाया विधिनामुना। विशेषतो महादेवी महामाया जगन्मयी प्रतिपत्तिमिमां नित्यं स्पृहयत्येव पूजने। एवं यः कुरुते पूजां सम्यक् स फलभाग्भवेत् एतैर्विहीना या पूजा ततोऽल्पापं फलं भवेत्। अङ्गहीनस्तु पुरुषो न सम्यग्याझिको यथा अंगहीना तथा पूजा न सम्यक् फलभाग्भवेत्। इदं रहस्यं परममिदं स्वस्त्ययनं परम्। मन्त्रवेदमयं शुद्धं सर्वपापप्रणाशनम् यः श्रावयेद् ब्राह्मणसन्निधाने श्राद्धेषु यज्ञे सुरपूजनेषु। सम्यक् फलं तस्य लभेत् स कर्मणो विनापि पूजां तदनन्तरमश्नुते
||mārkaṇḍeya uvāca|| śrutvemaṃ sagaro rājā saṃvādaṃ bhairaveṇa vai| vetālenāpi bhargasya punaraurvvamapṛcchata ||sagara uvāca|| mantraṃ kalevaragataṃ sāṅgaṃ proktaṃ tvayā dvija| aṅgamantrāṇi me devyāḥ kathyantāṃ bho dvijottama tathā mantrāṇi sarvāṇi pūjāsthānāni sarvaśaḥ| tathaivottaramantrāṇi kavacāni pṛthak pṛthak kāmākhyāyāśca māhātmyaṃ sarahasyaṃ samantrakam| yathā śaśaṃsa bhagavān mahādeva umāpatiḥ vetālabhairavābhyāṃ tat samācakṣva savistarāt| śṛṇvato na hi me tṛptirjāyate mahadadbhutam bhavatā kathyamānaṃ hi paraṃ kautūhalaṃ mama| ||aurvva uvāca|| śṛṇutvaṃ rājaśārdūla yatputrābhyāmumāpatiḥ uvāca mahādākhyānaṃ tanme nigadato'dhunā| etadrahasyaṃ paramaṃ pavitraṃ pāpanāśanam paraṃ svastyayanaṃ puṃsāṃ garbhe puṃ savanaṃ smṛtam| kalyāṇakārakaṃ bhadraṃ caturvargaphalapradam śaṭhāya calacittāya nāstikāyājitātmane| devadvijagurūṇāṃ ca mithyānirbandhakāriṇe na pāpāyābhiśastāya khañjakāṇādirogiṇe| na kathyaṃ na ca vā deyaṃ śraddhāvirahitāya ca mahāmāyāmantrakalpaṃ proktvā tābhyāmumāpatiḥ| vetālabhairavābhyāṃ tu punarevābhyabhāṣata ||bhagavānuvāca|| aṅgamantraṃ pravakṣyāmi proktavā~stantramuttamam | tadeva prathamaṃ viddhi sarvapūjāsu saṅgatam ācāntaḥ śucitāṃ prāptaḥ susnāto devapūjane| pūjāvedyā bahiḥsthitvā caturhastāntare dhiyā gṛhe vāṃ dvāradeśasthaḥ praṇamya śirasā gurum| praṇamediṣṭadevaṃ svaṃ dikpālānapi cetasā yat pūrvamarjitaṃ pāpaṃ taddine'nyadine'pi vā| prāyaścittairnāpanunnaṃ tacca pāpaṃ smareddhiyā tatpāpasyāpanodāya mantradvayamudīrayet| devi tvaṃ prākṛtaṃ cittaṃ pāpākrāntamabhūnmama tanniḥsāraya cittanme pāpaṃ hūṃ phaṭ ca te namaḥ| sūryaḥ somo yamaḥ kālo mahābhūtāni pañca vai ete śubhāśubhasyeha karmaṇo nava sākṣiṇaḥ| tataḥ punarhūṃ phaḍiti pārśvamūrdhvamadhastathā ātmānaṃ krodhadṛṣṭyātha nirīkṣya sumanā bhavet| evaṃ kṛte prathamataḥ pāpotsāraṇakarmaṇi yat syād dṛḍhataraṃ pāpaṃ tad dūre cāvatiṣṭhate| atīte pūjane sthānaṃ svaṃ prayāti punaśca yat yat syādalpataraṃ pāpaṃ tannāśamupagacchati| oṃ aḥ phaḍitimantreṇa pūjāvedīṃ tato viśet pūjane tyaktapāpasya kāmamiṣṭaṃ kṣaṇād bhavet| nārācamudrayā dṛṣṭvā samayā sampralokayet puṣpanaivedyagandhādi hrīṃ hū~ phaḍiti mantrakaiḥ| yadātmanānavajñātaṃ samyak puṣpādidūṣaṇam aspṛśyasparśanaṃ vāpi yadanyāyārjitaṃ ca vā| tathā nirmālyasaṃsṛṣṭaṃ kīṭādyārohaṇaṃ ca yat tatsarvaṃ nāśamāyāti naivedyādyavalokanāt| tato ramitimantreṇa śikhāṃ dīpasya saṃspṛśet sa tasya subhago dīpo bhavet sparśanāmātrataḥ | pataṅgakīṭakeśādi-dāhāt kravyādasaṃhataḥ vasāmajjāsthisampūtiryajñādāvupayojanam | ajñatarūpaṃ tatsarvaṃ doṣaṃ sparśād vināśayet nārasiṃhena mantreṇa devatīrthena saṃspṛśet| pānīyaṃ ghaṭamadhyasthaṃ vīkṣannabhyukṣya yājakaḥ vāmena pāṇinā dhṛtvā vāmapārśve sthitaṃ tadā| pātramādhāramantreṇa saṃskurvan saṃspṛśejjalam yajñadānādapeyādi saṃsṛṣṭiriha śaṅgatā| yadanyad dūṣaṇaṃ pātre toye vā jñānato bhavet jalāśayaṃ śavasparśājjalaṃ snanācca saṅgatam| dūṣaṇāni vinaśyanti tāni vai devapūjane prajāpatisuto hāntaprāntaḥ svarasamanvitaḥ| candrārdhabindusahito mantro'yaṃ nārasiṃhakaḥ svasaṃjñādyakṣaraṃ binducandrārdhapariyojitam| ādhāramantraṃ jānīyāt sādhakaḥ kāryasiddhaye tata ādhāramantreṇa pāṇibhyāmāsanaṃ svakam| ādāya vinidhāyāśu punaḥ saṃspṛśya pāṇinā ātmamantreṇopaviśet tadā tasmin varāsane| duḥśilpiracitatvādi yadvānyāsana dūṣaṇam ajñātaṃ vilayaṃ yāti upaveśāt samantrakāt | āhūya svākṣaraṃ pūrvaṃ somasāmisamanvitam sabindukaṃ vijānīyādātmamantraṃ tu sādhakaḥ| tatastu mātṛkānyāsaṃ nādabindusamanvitam kuryāt tu mātṛkāmantraiḥ svaśarīre vicakṣaṇaḥ| kalpeṣu ca yadajñātaṃ mantroccāraṇakarmaṇi yad duṣṭaṃ vā tathā spṛṣṭaṃ mātābhraṣṭādidūṣaṇam| tannyastā mātṛkāmantrā nāśayanti sadaiva hi vyañjanāni ca sarvāṇi tathā viṣṇvādayaḥ svarāḥ| sarve te mātṛkāmantrāścandrabinduvibhūṣaṇā sarve yugāntavandyeṣu nyasteṣu nyūnapūraṇam| mantre kalpe ca kurvanti vinyastā mātṛkāḥ svayam ekamātro bhaveddhrasvo dvimātro dīrgha ucyate| plutastrimātro vijñeyo varṇā ete vyavasthitāḥ sarvaṣāmeva varṇānāṃ mātrādevyastu mātṛkāḥ| śivadūtīprabhṛtayastannyāsāstattanusthitāḥ pūrayanti ca tān nyūnāṃścaturvargaṃ tathācirāt| dadatyeva sadā rakṣāṃ kurvanti surapūjane caturvargapradaścāyaṃ sarvakāmaphalapradaḥ| sarvadāmātṛkānyāsastuṣṭipuṣṭipradāyakaḥ yaḥ kuryād mātṛkānyāsaṃ vināpi surapūjanāt| tasmād bibheti satataṃ bhūtagrāmaścaturvidhaḥ taṃ draṣṭumapi devāśca spṛhayanti mahaujasam| sa sarvaṃ ca vaśaṃ kuryād na ca yāti parābhavam kusumaṃ viṣṇumantreṇa aṅgulyagreṇa sādhakaḥ| vimardanārthaṃ gṛhṇīyāta karaśodhanakarmaṇi upāntaḥ sāmi candreṇa rañjitaḥ śūnyasaṃyutaḥ| rudrāntoparisaṃsṛṣṭo mantro'yaṃ vaiṣṇavo mataḥ prāsādena tu mantreṇa aṅgulyagreṇa sādhakaḥ| gṛhītvā ca tataḥ kuryāt karābhyāṃ puṣpamardanam nirmathet kāmabījena jighred brāhmeṇa tat punaḥ| prāsādena parityāgo diśyaiśānyāṃ viśeṣataḥ evaṃ kṛte tu karayorviśuddhiratulā bhavet| jalaukāgūḍhapādādisparśācchuddhirviśodhanāt durgandhyucchiṣṭasaṃsparśād dūṣaṇaṃ karayostu yat| ajñātarūpaṃ tatsarvaṃ nāśayet suvidhānataḥ aṅgulyagrāṇi śuddhāni puṣpāṇāṃ grahaṇād bhavet| taladvayaṃ mardanāt tu viśuddhamabhijāyate nirmañchanāt pāṇipṛṣṭhaṃ ghrāṇānnāsāgramuttamam| tīrthāni ca samāyānti nāsikāyāṃ karaṃ prati tasmād yatnena kāryāṇi karmāṇyetāni bhairava| prāntādirvāsudevena varṇenāpi ca saṃhitaḥ śambhucūḍābinduyuktaḥ prāsāda ca sa ucyate| kāmabījaṃ tu vijñeyaṃ vāsudevendubindubhiḥ vyañjanaṃ cādyadantaṃ ca prāntadantyā tu pūrvakam| ādyadantyadvayaṃ paścād vyañjanaṃ praṇavottaram brahmabījamidaṃ prokta sarvapāpapraṇāśanam| praṇavaṃ dīrghamuccāryaṃ prathamaṃ mukhaśuddhaye vāsudevasya bījena prāṇāyāmaṃ samācaret| yasya devasya yadrūpaṃ tathā bhūṣaṇavāhanam tadeva pūjane tasya cintayet pūrakādibhiḥ | vaiṣmavītantramantrasya kaṇṭhādyaṃ yatpuraḥsaram tad bījaṃ vāsudevasya pūrṇacandranibhaṃ sadā| gaṅgāvatārabījena prathamaṃ dhenumudrayā amṛtīkaraṇaṃ kuryādarghapātrāhite jale| śaśikhaṇḍayutaḥ kaṇṭhyaḥ pañcamībalabījakaḥ gaṅgāvatāramantro'yaṃ sarvapāpapraṇāśakaḥ| mātrādvayayuto viṣṇurbalabījamudāhṛtam amṛtīkaraṇe vṛtte toyaṃ yad dīyate'mṛtam| bhūtvā prayāti devasya prīyate surapūjane gaṅgāpi svayamāyāti pūjāpātrajalaṃ prati| amṛtīkaraṇaṃ kuryād dharmakāmārthasiddhaye svastikaṃ gomukhaṃ padmamardhasvastikameva ca| paryaṅkamāsanaṃ śastamabhīṣṭasurapūjane pādayantramidaṃ proktaṃ sarvamantrottamottamam| tad gṛhṇīyād varāhasya bījena prathamaṃ budhaḥ māyādiragnibījasya caturthaḥ samavyāptikaḥ | ṣaṣṭhasvaroparicaro vārāhaṃ bījamucyate vārāhabījasaṃśuddhaṃ mantrapādadvaye kṛtam| paśyannabhīṣṭadevaṃ tu pādadoṣaṃ na paśyati na yuktamanyathā pādadarśanaṃ surapūjane| mantreṇa labhate'bhīṣṭāṃstasmānmantraparo bhavet pāṇikacchapikāṃ kuryāt kūrmamantreṇa sādhakaḥ| tatra saṃskṛtapuṣpeṇa pūjayedātmano vapuḥ pūjite tena puṣpeṇa devatvaṃ svasya jāyate| dvitīyaṃ vaiṣṇavītantraṃ bījaṃ bindvindusaṃyutam ṣaṣṭhasvaroparicaraṃ kūrmabījaṃ prakīrtitam| dahanaplavanasyādau randhrasya daśamasya tu bhedanaṃ sādhakaḥ kuryānmantreṇa praṇavena tu| bījena vāsudevasya ākāśe vinidhāpayet prāṇena sahitaṃ bījaṃ tatapūrvaṃ pratipāditam| ajñātā prayatānāṃ tu maṇḍalasthānamārjanāt dravyāṇāṃ viprakāraḥ syāt saṃsargāṇāṃ tathaiva ca| madhukaiṭabhayormedaḥ saṃghātairdṛḍhatāṃ gatā medinī sarvadā śuddhā surapūjāsu sarvataḥ| adyāpi sarve tridaśā na spṛśanti padā kṣitim na ca svīyatanucchāyāṃ yojayanti ca bhūtale| tasya doṣasya mokṣārthaṃ mantrarājaṃ likhet kṣitau prokṣaṇād vīkṣaṇād vāpiśuddhā bhavati medinī| vīkṣaṇaṃ dharmabījena sthaṇḍilasya samācaret dānto balena saṃyuktaścūḍābindusamanvitaḥ| dharmabījamiti proktaṃ dharmakāmārthasādhanam ādānaṃ dhāraṇaṃ tathā saṃsthānapūjane| pūraṇaṃ saṃlilenaiva niḥkṣepo gandhapuṣpayoḥ maṇḍalasyātha vinyāsaḥ punaḥ puṣpasya saṃśrayaḥ| amṛtīkaraṇa pātrapratipattiriyaṃ naraḥ āniruddhena cādāya astramantreṇa dhāraṇam| pātre tu maṇḍalanyāsaṃ vāgbījāgreṇa yojayet āniruddhaṃ bhavedbījamādyaṃ bindudvayottaram | phaḍantenāniruddhaṃ tu astramantraṃ prakīrtitam śambhurādyavalaḥ prāntaḥ sampūrṇā sahitā ime| tṛtīyaṃ vāgbhavaṃ bījaṃ sakalaṃ niṣkalāhvatam| svaraścaturthaḥ sakalaḥ saṃsṛṣṭau bindunendunā vargādyādirdvitīyaṃ tu vāgbhavaṃ bījamucyate| kāmarājāhvayaṃ caitad dharmakāmārthasādhanam manobhavasya bīja tu kuṇḍalīśaktisaṃyutam| vāsudevena sampṛktamādyaṃ vāgbhavamucyate idaṃ sārasvataṃ nāma yadādyaṃ vāgbhavaṃ smṛtam| ekaikaṃ kāmabījādi tribhistu tripurāmahaḥ ādyaṃ tṛtīyaṃ sāmīndubindubhyaḥ samalaṃkṛtam| madanasya tu mantro'yaṃ kāmabhogaphalapradaḥ audetorūpavinyastaṃ yantraṃ bhāskarasannibham| tad vakṣye kuṇḍalīśaktimabhedāt tu nigadyate bhūtāpasāraṇaṃ kuryānmantreṇānena yājakaḥ| yasmin kṛte sthānabhūtā dūraṃ yānti surārcane sthiteṣu tatra bhūteṣu naivedyamāṇḍalaṃ tathā| vilumpanti sadā lubdhā na gṛhṇanti ca devatā tasmād yatnena kartavyaṃ bhūtānāmapasāraṇam| astramantreṇa sahitaṃ tasya mantramidaṃ smṛtam apasarpantu te bhūtā ye bhūtā bhūmipālakaḥ| bhūtānāmavirodhena pūjākarma karomyaham anena sthaṇḍilād bhūtānapasāryātha sādhakaḥ| tato digbandhanaṃ kṛtvā digbhyastānapasārayet viṣṇubījaṃ phaḍantaṃ tu mantraṃ digbandhane sthitam| kareṇa choṭikāpūrvaṃ veṣṭanaṃ bandhanaṃ diśaḥ ātmanaḥ pūjanenātha karmārambhādhikāritā| pūjitaṃ cāsanaṃ yogapīṭhasya sadṛśaṃ bhavet svabhāvataḥ sadā śuddhaṃ pañcabhūtātmakaṃ vapuḥ| malapūtisamāyukta śleṣmaviṇmūtrapicchilam retoniṣṭhīvalālābhiḥ sravadbhirapariṣkṛtam| bījabhūtāni caitasya mahābhūtāni pañca vai teṣāṃ tu sarvabhūtānāṃ bījānāṃ dehasaṅginām| vāyutejaḥpṛthavyambhoviyatāṃ śuddhaye kramāt śoṣaṇaṃ dahanaṃ bhasmaprotsādo'mṛtavarṣaṇam| āplāvanaṃ ca kartavyaṃ cintāmātraviśuddhaye aṇḍasya cintanād bhedāttanmadhye devacintanāt| svakīyasyeṣṭadevasya cintā sarvātmanā bhavet so'hamityasya satataṃ cintanād devarūpatā| ātmano jāyate samyak saṃskṛtiḥ puṣpadānataḥ ahaṃ devo'tha naivedyaṃ puṣpagandhādikaṃ ca yat| pūjopakaraṇārthaṃ ca devatvamiha jāyate devādhāro hyahaṃ devo devaṃ devāya yojayet| sarveṣāṃ devatāsṛṣṭayā jāyate śuddhatāpi ca manojīvātmanoḥ śuddhiḥ prāṇāyāmena jāyate| antargataṃ yacca malaṃ tacca śuddhaṃ prajāyate gṛhe cet pūjayed devaṃ tadā tasya vilokanam| kuryādādityabījena catuḥ pārśvaṣvapi kramāt upāntaḥ sacaturthastu sa tathā sakalo'grataḥ ādityabījaṃ kathitaṃ sarvarogavināśanam| dharmārthakāmamokṣāṇāṃ kāraṇaṃ toṣadāyakam aśuddhapakṣisaṃyoga-pakṣiviṣṭhāprasecane| mūṣikāṇāṃ tathā sparśaḥ kṛmikīṭādisaṅgamaḥ evamādīni naśyanti lokanād gṛhadūṣaṇam| tatastu yogapīṭhasya dhyānaṃ prathamataścaret dhyānamātraṃ yogapīṭhaṃ praviśatyeva maṇḍalam| yogapīṭhe smṛte sarva yogapīṭhamaya samam na yogapīṭhādadhikaṃ vidyate paramāsanam| yasya dhyānājjagad vyāptaṃ sacarācaramānuṣam taccintanasya māhātmyaṃ ko vā vaktuṃ samutsahet| cintāmātreṇa mānuṣyaṃ paśya śokavināśanam dhāraṇād yogapīṭhaṃ tu caturvargaphalapradam| śuddhaphaṭikasaṃkāśaṃ catuṣkoṇaṃ caturvṛtim ādhāraśaktyā vihitaṃ pragrahaṃ sūryasannibham| āgneyādiṣu koṇeṣu caturṣu kramataḥ sthitam dharmo jñānaṃ tathaiśvaryaṃ vairāgyaṃ kramataḥ sadā| pūrvādidikṣu caitāni sthitāni kramato yathā adharmaśca tathājñānamanaiśvaryaṃ tataḥ param| avairāgyaṃ paraṃ tasmāddhāraṇārthaṃ vyavasthitam tasyopari jalaughastu tasmin brahmaṇḍamāsthitam| brahmāṇḍābhyantare toyaṃ kūrmastasyopari sthitaḥ kūrmopari tathānantaḥ pṛthvī tasyopari sthitā| anantagātrasaṃyuktaṃ nālaṃ pātālagocaram pṛthvīmadhye sthitaṃ padmaṃ dikpatraṃ girikeśaram| tasyāṣṭadikṣu dikpālāḥ svargo madhye vyavasthitaḥ karṇikāyāṃ brahmaloko maharlokādayo hyadhaḥ| svarge jyotīṃṣi devāśca caturvedāstadantare sattaṃva rajastama iti guṇāḥ prakṛtisambhavāḥ| sadā sthitā padmamadhye paraṃ tattvaṃ tathaiva ca ātmatattvaṃ tatra saṃsthamūrdhvacchadanamūrdhataḥ| adho'dhaśchadanaṃ tatra keśarāgre sthitaṃ punaḥ sūryāgnicandramarutā maṇḍalāni kramāt tataḥ| śāvāsanaṃ yogapīṭhe sukhāsanamataḥ pare ārādhyāsanamasmācca tataśca vimalāsanam| madhye vicintayet sarvaṃ jagadvai sacarācaram brahmaviṣṇuśivaṃścaiva bhāgatrayaviniścitān| ātmānaṃ cintayet tatra pūjane samupasthitam maṇḍalaṃ yogapīṭhaṃ tu padmaṃ padmaṃ tu cintayet| śāvādīnyāsanānīha catvāryapi vicantayet yogapīṭhaṃ pṛthagdhyātvā maṇḍalena sahaikatām| punardhyātvā tataḥ paścāt pūjayedāsanaṃ tataḥ dhyānena yogapīṭhasya yathā yaddīyate jalam| naivedyapuṣpadhūpādi tat svayaṃ copatiṣṭhate sarve devāḥ sagandharvāḥ sacarācaraguhyakāḥ| cintatāḥ pūjitāśca syuryogapīṭhasya pūjane abhīṣṭadevatāpūjāṃ vinā yasya vicintanāt| labhate vai caturvargaṃ tuṣṭiḥ puṣṭhiśca jāyate āvāhanānantarataḥ pāṇibhyāmavatārayet| prāguttānau karau kṛtvā ūrdhvamutkṣipya sāntarau nirantarāvadhaḥ kuryānnāmayan pūjakastathā| herambasya tu bījena tasmādavatareti ca āmreḍitena cābhīṣṭadevānāṃ lambanāya vai| nāsikāvāyuniḥsārādviyatsthā devanā bhavet evaṃ kṛte maṇḍale tu sthitistasya prajāyate| svāntaḥ śuddhāṃśubindubhyāṃ hairambaṃ bījamucyate nāśanaṃ vighnabījānāṃ dharmakāmārthasādhanam| gandhapuṣpe tathā dhūpadīpau naivedyameva ca yadanyad dīyate vastramalaṅkārādikaṃ ca yat | teṣāṃ daivatamuccārya kṛtvā prokṣaṇapūjane utsṛjya mūlamantreṇa pratināmnā nivedayet| varuṇasya tu bījena teṣāṃ prokṣaṇamācaret iṣṭena mūlamantreṇa tathotsarganivedane| laparaścandrabindubhyāṃ bījaṃ vāruṇamucyate vilokanaṃ pūjanaṃ ca tathā dānaṃ pṛthak pṛthak| japakarmaṇi mālāyāḥ pratipattiridaṃ trayam iṣṭamantreṇa mālāyāḥ prokṣaṇaṃ parikīrtitam| bījaṃ gāṇapataṃ pūrvamuccāryaṃ tadanantaram avighnaṃ kuru māle tvaṃ gṛhṇīyādityanena ca| japānte śirasi nyāso mālāyāḥ parikīrtitaḥ srajamādāya pāṇibhyāṃ śrībījena tathārcayet| antyadantyāntamātrābhyāṃ cādivargatṛtīyakau parataḥ parataḥ pūrvaṃ śrībījaṃ bindunendunā| mālāyā avatārastu śirasaḥ kriyate tadā tāṃ samādāya pāṇibhyāṃ kuryāt sārasvatena vai| śrībījānāmādyamādyaṃ binducandrārdhasaṃyutam etaccatuṣṭayaṃ bījaṃ sārasvatamudīritam| paurāṇikairvaidikaiśca mūlamantreṇa caiva hi pradakṣiṇāṃ praṇāmaṃ ca kuyāddharmārthasādhakam| bhūmiṃ vīkṣya tathābhyukṣya kṣitibījena pūrvataḥ spṛśaṃstāṃ śirasā bhūmiṃ praṇamediṣṭadevatāḥ| kṣitibījaṃ vijānīyāccaturvargapradāyakam| darpaṇaṃ vyajanaṃ ghaṇṭāṃ cāmaraṃ prokṣayet punaḥ naivedyālokamantreṇa pūrvaproktena bhairava| nāmākṣarāṇi cādyāni caiteṣāṃ bindunendunā tasmai nama iti prānte grahaṇe mantra ucyate| nivedanamathaiteṣāmiṣṭamantreṇa cācaret vāgbhavasya dvitīyena kāmabījena bhairava| mudrāyā bandhanaṃ kāryaṃ mūlamantreṇa darśanam parityāgaṃ tu mudrāyāstārābījena cācaret| prāntādiścandrabindubhyāṃ ṣaṣṭhasvarasamanvitaḥ tārābījamiti proktaṃ dharmakāmārthasādhanam| mudaṃ dadāti yasmāt sā mudrā tena prakīrtitā darśitāyāṃ tu mudrāyāṃ bhavet pūjāsamāpanam| kāmaṃ mokṣaṃ tathā dharmamarthamodayutā svayam dadāti sādhakāyāśu devatā gantumutsukā| mudrānte tu mahāmantrān ṣaḍimān samudīrayet yad dattaṃ bhaktimātreṇa patraṃ puṣpaṃ phalaṃ jalam| āveditaṃ ca naivedyaṃ tadgṛhāṇānukampayā āvāhanaṃ na jāmāmi na jānāmi visarjanam| pūjābhāvaṃ na jānāmi tvaṃ gatiḥ parameśvari karmaṇā manasā vācā tvatto nānyaṃ gatirmama| antaścareṇa bhūtānāṃ tvaṃ gatiḥ parameśvari mātaryonisahasreṣu yeṣu yeṣu vrajāmyaham| teṣu teṣvacyutā bhaktiracyute'stu sadā tvayi devī dātrī ca bhoktrī ca devī sarvamidaṃ jagat| devī jayati sarvatra yā devī so'hameva ca yadakṣaraparibhraṣṭaṃ mātrāhīnaṃ ca yad bhavet| tatsarvaṃ kṣmyatāṃ devi kasya na skhalitaṃ manaḥ mantreṣu paṭhiteṣveṣu svayameva prasīdati| dātuṃ devīṃ caturvargaṃ na cirādeva bhairava aiśānyāṃ maṇḍalaṃ kuryād dvārapadmavivarjitam| visarjanārtha nirmālyadhāriṇyāḥ pūjanāya vai pādmādibhiḥ pūjayitvā dhyātvā nirmālyadhāriṇīm| niḥkṣipya tasmin nirmālyaṃ mantrema tu visarjayet gaccha gaccha padaṃ sthānaṃ svasthānaṃ parameśvari| yatra brahmādayo devā na viduḥ paramaṃ padam visṛjya mantreṇānena tataḥ pūrakavāyunā| dhyāyaṃstu mantreṇānena natvā tāṃ sthāpayeddhṛdi tiṣṭha devi pare sthāne svasthāne parameśvari| yatra brahmādayaḥ sarve surāstiṣṭhanti me hṛdi tata ekajaṭābījairiṣṭadevīṃ dhiyā smaran| nirmālyaṃ mūrghni gṛhṇīyād dharmakāmārthasādhanam maṇḍalapratipattiṃ tu tataḥ kuryād vibhūtaye| sarvāṅgulīnāmagraudhaiḥ padmamaṣṭadalānvitam nirmanthet kṣitibījena maṇḍalaṃ cāpi bhairava| tatastu mūlamantreṇa sarvavaśyena vā punaḥ anāmikānāmagreṇa lalāṭamapi saṃspṛśet| smarabījaṃ visargeṇa parataḥ parataḥ param| bhabedekajaṭābījaṃ dharmakāmārthasādhanam tato bhāskarabījena sahitenātmanā punaḥ| mantreṇa bhāskarāyārdhamacchidrārthaṃ nivedayet namo vivasvate brahman bhāsvate viṣṇutejase| jagatsavitre śucaye savitre karmadāyine tataḥ kṛtāñjalirbhūtvā paṭhitvā mantramīritam| ekāgramanasā vāgbhiracchidramavadhārayet yajñaccidraṃ tapaśchidraṃ yacchidraṃ pūjane mama| sarvaṃ tadacchidramastu bhāskarasya prasādataḥ tatastu puṣpanaivedya toyapātrādikaṃ ca yat| devībījena tatsarvaṃ punareva vilokayet hastena cakṣuṣā vāpi yatra yatra kṛtaḥ purā| mantranyāsastatra tatra visṛṣṭiramunā bhavet prāntādipañcamo vahnibījaṣaṣṭhasvarāhitaḥ| tathopāntaṃ vāgbhavādyaṃ durgābījaṃ pracakṣate sthaṇḍile jvaladagnau ca toye sūryamarīciṣu| pratimāsu ca śuddhāsu śālagrāmaśilāsu ca śivaliṃge śilāyāṃ tu pūjā kāryā vibhūtaye| sarvatra maṇḍalanyāsaṃ kuryādekāgramānasaḥ yogapīṭhasya bījena sthaṇḍilādiṣu sādhakaḥ| vāsudevasya rudrasya brahmaṇo mihirasya ca kuryāt sarvatra pūjāsu pratipattimimāṃ budhaḥ| evaṃ yaḥ pūjayed viṣṇumamībhiḥ pratipattibhiḥ caturvargapradastasya na cirājjāyate hariḥ| śivo vā mihiro vāpi ye'nye lambodarādayaḥ prasīdanti surāḥ sarve pūjāyā vidhināmunā| viśeṣato mahādevī mahāmāyā jaganmayī pratipattimimāṃ nityaṃ spṛhayatyeva pūjane| evaṃ yaḥ kurute pūjāṃ samyak sa phalabhāgbhavet etairvihīnā yā pūjā tato'lpāpaṃ phalaṃ bhavet| aṅgahīnastu puruṣo na samyagyājhiko yathā aṃgahīnā tathā pūjā na samyak phalabhāgbhavet| idaṃ rahasyaṃ paramamidaṃ svastyayanaṃ param| mantravedamayaṃ śuddhaṃ sarvapāpapraṇāśanam yaḥ śrāvayed brāhmaṇasannidhāne śrāddheṣu yajñe surapūjaneṣu| samyak phalaṃ tasya labhet sa karmaṇo vināpi pūjāṃ tadanantaramaśnute