Kalika Purana — Chapter 56
KaP 56.56
।।श्रीभगवानुवाच।। अस्य मन्त्रस्य कवचं शृणु वेतालभैरव। वैष्णवीतन्त्रसंज्ञस्य वैष्णव्याश्च विशेषतः तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपधृक्। वर्णो द्वितीयो ब्रह्मैव तृतीयश्चन्द्रशेखरः चतुर्थो गजवक्त्रश्च पञ्चमस्तु दिवाकरः। शक्तिः स्वयं पकारश्च महामाया जगन्मयी यकारस्तु महालक्ष्मीः शेषवर्णः सरस्वतो। योगिनीपूर्ववर्णस्य शैलपुत्री प्रकीर्तिता द्वितीयस्य तु वर्णस्य चण्डिका योगिनी मता। चन्द्रघण्टा तृतीयस्य कुष्माण्डी तत् परस्य च स्कन्दमाता तकारस्य पस्य कात्यायनी स्वयम्। कालरात्रिः सप्तमस्य महादेवीति संस्थिता प्रथमं वर्णकवचं योगिनीकवचं तथा ततः । देवौघकवचं पश्चाद् देवीदिक्कवचं तथा ततस्तु पार्श्वकवचं द्वितीयान्ताव्यस्य च। कवचं तु ततः पश्चात् षड्वर्णं कवचं तथा अभेद्यकवचं चेति सर्वत्राणपरायणम्। इमानि कवचान्यष्टौ यो जानाति नरोत्तमः सोऽहमेव महादेवी देवीरूपश्च शक्तिमान्। अस्य वैष्णवीतन्त्रकवचस्य नारदऋषि रनुष्टुप्छन्दः कात्यायनी देवता सर्वकामार्थसाधने विनियोगः। अः पातु पूर्वकाष्ठायामाग्नेय्यां पातु कः सदा पातु चो यमकाष्ठायां दो नैऋत्यां च सर्वदा। मां पातु तोऽसौ पाश्चात्ये शक्तिर्वायव्यदिग्गता यः पातु मां चोत्तरस्यामैशान्यां यस्तथावतु। मूर्ध्नि रक्षतु मां सोऽसौ बाहौ मां दक्षिणे तु कः मां वामबाहौ चः पातु हृदि टो मां सदावतु। तः पातु कण्ठदेशे मां कट्योः शक्तिस्तथावतु यः पातु दक्षिणे पादे षो मां वामपादे तथा। शैलपुत्री तु पूर्वस्यामाग्नेय्यां पातु चण्डिका चन्द्रघण्टा पातु याम्यां यमभीतिविवर्धिनी। नैर्ऋत्ये त्वथ कूष्माण्डी पातु मां जगतां प्रसूः स्कन्दमाता पश्चिमायां मां रक्षतु सदैव हि। कात्यायनी मां वायव्ये पातु लोकेश्वरी सदा कालरात्री तु कौबेर्यां सदा रक्षतु मां स्वयम्। महागौरी तथैशान्यां सततं पातु पावनी नेत्रयोर्वासुदेवो मां पातु नित्यं सनातनः। ब्रह्मा मां पातु वदने पद्मयोनिरयोनिजः नासाभागे रक्षतु मां सर्वदा चन्द्रशेखरः। गजवक्त्रः स्तनयुग्मे पातु नित्यं हरात्मजः वामदक्षिणपाण्योर्मां नित्यं पातु दिवाकरः। महामाया स्वयं नाभौ मां पातु परमेश्वरी महालक्ष्मीः पातु गुह्ये जानुनोश्च सरस्वती। महामाया पूर्वभागे नित्यं रक्षतु मां शुभा अग्निज्वाला तथाग्नेय्यां पायान्नित्यं वरासिनी। रुद्राणी पातु मां याम्यां नैर्ऋत्यां चण्डनायिका उग्रचण्डा पश्चिमायां पातु नित्यं महेश्वरी। प्रचण्डा पातु वायव्ये कौबेर्यां घोररूपिणी ईश्वरी च तथैशान्यां पातु नित्यं सनातनी। ऊर्ध्वं पातु महामाया पात्वधः परमेश्वरी अग्रतः पातु मामुग्रा पृष्ठतो वैष्णवी तथा। ब्रह्माणी दक्षिणे पार्श्वे नित्यं रक्षतु शोभना माहेश्वरी वामपार्श्वे नित्यं पायाद् वृषध्वजा। कौमारी पर्वते पातु वाराही सलिले च माम् नारसिंही दंष्टिभये पातु मां विपिनेषु च। ऐन्द्री मां पातु चाकाशे तथा सर्वजले स्थले सेतुः सर्वाङ्गुलीः पातु देवादिः पातु कर्णयोः। देवान्तश्चिबुके पातु पार्श्वयोः शक्तिप़ञ्चमः हा पातु मां तथैवोर्वोर्माया रक्षतु जङ्घयोः। सर्वैन्द्रियाणि यः पातु रोमकूपेषु सर्वदा त्वचि मां वै सदा पातु मां शम्भुः पातु सर्वदा। नखदन्तकरोष्ठादौ राँ मां पातु सदैव हि देवादिः पातु मां वस्तौ देवान्तः स्तनकक्षयोः। एतदादौ तु यः सेतुर्बाह्ये मां पातु देहतः आज्ञाचक्रे सुषम्नायां षट्चक्रे हृदि सन्धिषु। आदिषोडशचक्रे च ललाटाकाश एव च वैष्णवी तन्त्रमन्त्रो मां नित्यं रक्षंश्च तिष्ठतु। कर्णनाडीषु सर्वासु पार्श्वकक्षशिखासु च रुधिरस्नायुमज्जासु मस्तिष्केषु च पर्वसु। द्वितीयाष्टाक्षरो मन्त्रः कवचं पातु सर्वतः रेतो वायौ नाभिरन्ध्रे पृष्ठसन्धिषु सर्वतः। षडक्षरस्तृतीयोऽयं मन्त्रो मां पातु सर्वदा नासारन्ध्रे महामाया कण्ठरन्ध्रे तु वैष्णवी। सर्वसन्धिषु मां पातु दुर्गा दुर्गातिहारिणी श्रोत्रयोर्हूं फडित्येवं नित्यं रक्षतु कालिका। नेत्रबीजत्रयं नेत्रे सदा तिष्ठतु रक्षितुम् ॐ ऐं ह्रीं ह्रैं नासिकायां रक्षन्ती चास्तु चण्डिका। ॐ ह्रीं हूं मां सदा तारा जिह्वामूले तु तिष्ठतु हृदि तिष्ठतु मे सेतुर्ज्ञानं रक्षितुमुत्तमम्। ॐ क्षौं फट् च महामाया पातु मां सर्वतः सदा ॐ युँ सः प्राणान् कौशिकी मां प्राणान् रक्षतु रक्षिका। ॐ ह्रीं हूं सौं भर्गदयिता देहशून्येषु पातु माम् ॐ नमः सदा शैलपुत्री सर्वान् रोगान् प्रमृज्यताम् प्रमार्जनाम् । ॐ ह्रीं सः स्फें क्षः फडस्त्राय सिंहव्याघ्रभयाद्रणात् शिवदूती पातु नित्यं ह्रीं सर्वास्त्रेषु तिष्ठत्। ॐ हां हीं सश्चण्डघण्टा कर्णच्छिद्रेषु पातु माम् ॐ क्रीं सः कामेश्वरी कामानभितिष्ठतु रक्षतु। ॐ आं हं फडुग्रचण्डा रिपून् विघ्नान् विमर्दताम् ओ पं पातु नारसिंही मां क्रव्यादेभ्यस्रयास्त्रतः। ओं श्रीं ह्रीं ह्रां ह्रँ कालरात्रिः खड्गाद्रक्षतु मां सदा।। ॐ अं शूलात् पातु नित्यं वैष्णवी जगदीश्वरी। ॐ कं ब्रह्माणी पातु चक्रात् चं रुद्राणी तु शक्तितः ओं टं कौमारी पातु वज्रात् ओं तं वाराही तु काण्डतः। ॐ पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः शस्त्रास्त्रेभ्यः समस्तेभ्यो यन्त्रेभ्योऽनिष्टमन्त्रतः। चण्डिका मां साद पातु यं सं देव्यै नमो नमः। विश्वासघातकेभ्यो मामैन्द्री रक्षतु मन्मनः ओं नमो महामायायै ओं वैष्णव्यै नमे नमः। रक्ष मां सर्वभूतेभ्यः सर्वत्र परमेश्वरि आधारे वायुमार्गे हृदि कमलदले चान्द्रवत् स्मेरसूर्ये । वस्तौ वह्नौ समिद्धे विशतुवरदया मन्त्रमष्टाक्षरन्तत्। यद्ब्रह्मा मूर्ध्नि धत्ते हरिरवति गले चन्द्रचूडो हृदिस्थं तं मां पातु प्रधानं निखिलमतिशयं पद्मगर्भाभबीजम् आद्याः शेषाः स्वरौघैर्म मयवलवरैरस्वरेणापि युक्तैः सानुस्वाराविसर्गैर्हरिहरविदितं यत्सहस्रं च साष्टम्। मन्त्राणां सेतुबन्धं निवसति सततं वैष्णवीतन्त्रमन्त्रे तन्मां पायात्पवित्रं परमपरमजं भूजल भूतलव्योमभागे अङ्गान्यष्टौ तताष्टौ वसव इह तथैवाष्टमूर्तिर्दलानि प्रोक्तान्यष्टौ तथाष्टौ मधुमतिरचिताः सिद्धयोऽष्टौ तथैव। अष्टावष्टाष्टसंख्या जगति रतिकलाः क्षिप्रकाष्ठाङ्गयोगा मय्यष्टावक्षराणि क्षरतु न हि गणो यद्धृदो यस्त्वमूषाम् इयि तत्कवचं प्रोक्तं धर्मकामार्थसाधनम् । इदं रहस्यं परममिदं सर्वार्थसाधकम् यः सकृच्छृणुयादेतत् कवचं मयकोदितम्। स सर्वांल्लभते कामान् परत्र शिवरूपताम् सकृद् यस्तु पठेदेतत् कवचं मयकोदितम्। स सर्वयज्ञस्य फलं लभते नात्र संशयः सङ्ग्रामेषु जयेच्छत्रुं मातङ्गानिव केशरी। दहेत् तृणं यतावह्निस्तथा शत्रुं दहेत् सदा नास्त्राणि तस्य शस्त्राणि शरीरे प्रविशन्ति वै। न तस्य जायते व्याधिर्न च दुःखं कदाचन गुटिकाञ्जनपातालपादलेपरसाञ्जनम्। उच्चाटनाद्यास्ताः सर्वाः प्रसीदन्ति च सिद्धयः वायोरिव गतिस्तस्य भवेदन्यैरवारिता। दीर्घायुः कामभोगी च धनवानभिजायते अष्टम्यां संयतो भूत्वा नवम्यां विधिवच्छिवाम्। पूजयित्वा विधानेन विचिन्त्य मनमा शिवाम् यो न्यसेत् कवचं देह तस्य पुण्यफल शृणु। जितव्याधिः शतायुश्च रूपवान् गुणवान् सदा धनरत्नौघसम्पूर्णो विद्यावान् स च जायते। नाग्निर्दहति तत्कायं नापः सङ्क्लेदयन्ति च न शोषयति तं वायुः क्रव्यात् तं न हिनस्ति च। शस्त्राणि नैनं छिन्दन्ति न तापयति भास्करः न तस्य जायते विघ्नो नास्ति तस्य च सञ्ज्वरः। वेतालाश्च पिशाचाश्च राक्षसा गणनायकाः सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः। नित्यं पठति यो भक्तया कवचं हरिनिर्मितम् सोऽहमेव महादेवो महामाया च मातृका। धर्मार्थकाममोक्षाश्च तस्य नित्यं करे स्थिताः अन्यस्य वरदः सोऽर्थैर्नित्यं भवति पण्डितः। कवित्वं सत्यवादित्वं सततं तस्य जायते वदेच्छ्लोकसहस्राणि भवेच्छ्रुतिधरस्तथा। लिखितं यस्य गेहे तु कवचं भैरव स्थितम् न तस्य दुर्गतिः क्वापि जायते तस्य दूषणम्। ग्रहाश्च सर्वे तुष्यन्ति वशं गच्छन्ति भूमिपाः यद्राज्ये कवचज्ञोऽस्ति जायन्ते तत्र नेतयः। सेतुर्देवः शक्तिबीजं पञ्चमोहाय ते नमः वायुर्बलेन चैतायै द्वितीयाष्टाक्षरं त्विदम्। सेतुर्देवोऽथ वैष्णव्यै षडक्षरमिदं स्मृतम् एतद् द्वयं तु जिह्वाग्रे सततं यस्य वर्तते। तस्य देवी महामाया काये तिष्ठति वै सदा मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः। क्षरत्यनोङ्कृतः पूर्वं परस्ताच्च विशीर्यते नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः। द्विजातीनामयं मन्त्रः शूद्राणां सर्वकर्मणि अकार चात्युकारं च मकारं च प्रजापतिः। वेदत्रयात्समुद्धृत्य प्रणवं निर्ममे पुरा स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः। प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् चतुर्दशस्वरो योऽसौ शेष औकारसंज्ञकः। स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते निःसेतु च यथा तोयं क्षणान्निम्नं प्रसर्पति। मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् तस्मात् सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः। पार्श्वयोः सेतुमादाय जतकर्मसमारभेत् शूद्राणामादिसेतुर्वा द्विःसेतुर्वा यथेच्छतः। द्विःसेतवः समाख्याताः सर्वदैव द्विजातयः ।।और्व्व उवाच।। एतत् ते सर्वमाख्यातं कवचं त्र्यम्बकोदितम्। अभेद्यं कवचं तत् तु कवचाष्टकमुत्तमम् महामायामन्त्रकल्पं कवचं मन्त्रसंयुतम्। षडक्षरसमायुक्तं त्रिषु लोकेषु दुर्लभम् एतत् त्वं नृपषार्दूल नित्यभक्तियुतः पठन्। जपन् मन्त्रं च वैष्णव्याः सर्वसिद्धिमवाप्स्यसि
||śrībhagavānuvāca|| asya mantrasya kavacaṃ śṛṇu vetālabhairava| vaiṣṇavītantrasaṃjñasya vaiṣṇavyāśca viśeṣataḥ tatra mantrādyakṣaraṃ tu vāsudevasvarūpadhṛk| varṇo dvitīyo brahmaiva tṛtīyaścandraśekharaḥ caturtho gajavaktraśca pañcamastu divākaraḥ| śaktiḥ svayaṃ pakāraśca mahāmāyā jaganmayī yakārastu mahālakṣmīḥ śeṣavarṇaḥ sarasvato| yoginīpūrvavarṇasya śailaputrī prakīrtitā dvitīyasya tu varṇasya caṇḍikā yoginī matā| candraghaṇṭā tṛtīyasya kuṣmāṇḍī tat parasya ca skandamātā takārasya pasya kātyāyanī svayam| kālarātriḥ saptamasya mahādevīti saṃsthitā prathamaṃ varṇakavacaṃ yoginīkavacaṃ tathā tataḥ | devaughakavacaṃ paścād devīdikkavacaṃ tathā tatastu pārśvakavacaṃ dvitīyāntāvyasya ca| kavacaṃ tu tataḥ paścāt ṣaḍvarṇaṃ kavacaṃ tathā abhedyakavacaṃ ceti sarvatrāṇaparāyaṇam| imāni kavacānyaṣṭau yo jānāti narottamaḥ so'hameva mahādevī devīrūpaśca śaktimān| asya vaiṣṇavītantrakavacasya nāradaṛṣi ranuṣṭupchandaḥ kātyāyanī devatā sarvakāmārthasādhane viniyogaḥ| aḥ pātu pūrvakāṣṭhāyāmāgneyyāṃ pātu kaḥ sadā pātu co yamakāṣṭhāyāṃ do naiṛtyāṃ ca sarvadā| māṃ pātu to'sau pāścātye śaktirvāyavyadiggatā yaḥ pātu māṃ cottarasyāmaiśānyāṃ yastathāvatu| mūrdhni rakṣatu māṃ so'sau bāhau māṃ dakṣiṇe tu kaḥ māṃ vāmabāhau caḥ pātu hṛdi ṭo māṃ sadāvatu| taḥ pātu kaṇṭhadeśe māṃ kaṭyoḥ śaktistathāvatu yaḥ pātu dakṣiṇe pāde ṣo māṃ vāmapāde tathā| śailaputrī tu pūrvasyāmāgneyyāṃ pātu caṇḍikā candraghaṇṭā pātu yāmyāṃ yamabhītivivardhinī| nairṛtye tvatha kūṣmāṇḍī pātu māṃ jagatāṃ prasūḥ skandamātā paścimāyāṃ māṃ rakṣatu sadaiva hi| kātyāyanī māṃ vāyavye pātu lokeśvarī sadā kālarātrī tu kauberyāṃ sadā rakṣatu māṃ svayam| mahāgaurī tathaiśānyāṃ satataṃ pātu pāvanī netrayorvāsudevo māṃ pātu nityaṃ sanātanaḥ| brahmā māṃ pātu vadane padmayonirayonijaḥ nāsābhāge rakṣatu māṃ sarvadā candraśekharaḥ| gajavaktraḥ stanayugme pātu nityaṃ harātmajaḥ vāmadakṣiṇapāṇyormāṃ nityaṃ pātu divākaraḥ| mahāmāyā svayaṃ nābhau māṃ pātu parameśvarī mahālakṣmīḥ pātu guhye jānunośca sarasvatī| mahāmāyā pūrvabhāge nityaṃ rakṣatu māṃ śubhā agnijvālā tathāgneyyāṃ pāyānnityaṃ varāsinī| rudrāṇī pātu māṃ yāmyāṃ nairṛtyāṃ caṇḍanāyikā ugracaṇḍā paścimāyāṃ pātu nityaṃ maheśvarī| pracaṇḍā pātu vāyavye kauberyāṃ ghorarūpiṇī īśvarī ca tathaiśānyāṃ pātu nityaṃ sanātanī| ūrdhvaṃ pātu mahāmāyā pātvadhaḥ parameśvarī agrataḥ pātu māmugrā pṛṣṭhato vaiṣṇavī tathā| brahmāṇī dakṣiṇe pārśve nityaṃ rakṣatu śobhanā māheśvarī vāmapārśve nityaṃ pāyād vṛṣadhvajā| kaumārī parvate pātu vārāhī salile ca mām nārasiṃhī daṃṣṭibhaye pātu māṃ vipineṣu ca| aindrī māṃ pātu cākāśe tathā sarvajale sthale setuḥ sarvāṅgulīḥ pātu devādiḥ pātu karṇayoḥ| devāntaścibuke pātu pārśvayoḥ śaktipa़ñcamaḥ hā pātu māṃ tathaivorvormāyā rakṣatu jaṅghayoḥ| sarvaindriyāṇi yaḥ pātu romakūpeṣu sarvadā tvaci māṃ vai sadā pātu māṃ śambhuḥ pātu sarvadā| nakhadantakaroṣṭhādau rā~ māṃ pātu sadaiva hi devādiḥ pātu māṃ vastau devāntaḥ stanakakṣayoḥ| etadādau tu yaḥ seturbāhye māṃ pātu dehataḥ ājñācakre suṣamnāyāṃ ṣaṭcakre hṛdi sandhiṣu| ādiṣoḍaśacakre ca lalāṭākāśa eva ca vaiṣṇavī tantramantro māṃ nityaṃ rakṣaṃśca tiṣṭhatu| karṇanāḍīṣu sarvāsu pārśvakakṣaśikhāsu ca rudhirasnāyumajjāsu mastiṣkeṣu ca parvasu| dvitīyāṣṭākṣaro mantraḥ kavacaṃ pātu sarvataḥ reto vāyau nābhirandhre pṛṣṭhasandhiṣu sarvataḥ| ṣaḍakṣarastṛtīyo'yaṃ mantro māṃ pātu sarvadā nāsārandhre mahāmāyā kaṇṭharandhre tu vaiṣṇavī| sarvasandhiṣu māṃ pātu durgā durgātihāriṇī śrotrayorhūṃ phaḍityevaṃ nityaṃ rakṣatu kālikā| netrabījatrayaṃ netre sadā tiṣṭhatu rakṣitum oṃ aiṃ hrīṃ hraiṃ nāsikāyāṃ rakṣantī cāstu caṇḍikā| oṃ hrīṃ hūṃ māṃ sadā tārā jihvāmūle tu tiṣṭhatu hṛdi tiṣṭhatu me seturjñānaṃ rakṣitumuttamam| oṃ kṣauṃ phaṭ ca mahāmāyā pātu māṃ sarvataḥ sadā oṃ yu~ saḥ prāṇān kauśikī māṃ prāṇān rakṣatu rakṣikā| oṃ hrīṃ hūṃ sauṃ bhargadayitā dehaśūnyeṣu pātu mām oṃ namaḥ sadā śailaputrī sarvān rogān pramṛjyatām pramārjanām | oṃ hrīṃ saḥ spheṃ kṣaḥ phaḍastrāya siṃhavyāghrabhayādraṇāt śivadūtī pātu nityaṃ hrīṃ sarvāstreṣu tiṣṭhat| oṃ hāṃ hīṃ saścaṇḍaghaṇṭā karṇacchidreṣu pātu mām oṃ krīṃ saḥ kāmeśvarī kāmānabhitiṣṭhatu rakṣatu| oṃ āṃ haṃ phaḍugracaṇḍā ripūn vighnān vimardatām o paṃ pātu nārasiṃhī māṃ kravyādebhyasrayāstrataḥ| oṃ śrīṃ hrīṃ hrāṃ hra~ kālarātriḥ khaḍgādrakṣatu māṃ sadā|| oṃ aṃ śūlāt pātu nityaṃ vaiṣṇavī jagadīśvarī| oṃ kaṃ brahmāṇī pātu cakrāt caṃ rudrāṇī tu śaktitaḥ oṃ ṭaṃ kaumārī pātu vajrāt oṃ taṃ vārāhī tu kāṇḍataḥ| oṃ paṃ pātu nārasiṃhī māṃ kravyādebhyastathāstrataḥ śastrāstrebhyaḥ samastebhyo yantrebhyo'niṣṭamantrataḥ| caṇḍikā māṃ sāda pātu yaṃ saṃ devyai namo namaḥ| viśvāsaghātakebhyo māmaindrī rakṣatu manmanaḥ oṃ namo mahāmāyāyai oṃ vaiṣṇavyai name namaḥ| rakṣa māṃ sarvabhūtebhyaḥ sarvatra parameśvari ādhāre vāyumārge hṛdi kamaladale cāndravat smerasūrye | vastau vahnau samiddhe viśatuvaradayā mantramaṣṭākṣarantat| yadbrahmā mūrdhni dhatte hariravati gale candracūḍo hṛdisthaṃ taṃ māṃ pātu pradhānaṃ nikhilamatiśayaṃ padmagarbhābhabījam ādyāḥ śeṣāḥ svaraughairma mayavalavarairasvareṇāpi yuktaiḥ sānusvārāvisargairhariharaviditaṃ yatsahasraṃ ca sāṣṭam| mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūjala bhūtalavyomabhāge aṅgānyaṣṭau tatāṣṭau vasava iha tathaivāṣṭamūrtirdalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo'ṣṭau tathaiva| aṣṭāvaṣṭāṣṭasaṃkhyā jagati ratikalāḥ kṣiprakāṣṭhāṅgayogā mayyaṣṭāvakṣarāṇi kṣaratu na hi gaṇo yaddhṛdo yastvamūṣām iyi tatkavacaṃ proktaṃ dharmakāmārthasādhanam | idaṃ rahasyaṃ paramamidaṃ sarvārthasādhakam yaḥ sakṛcchṛṇuyādetat kavacaṃ mayakoditam| sa sarvāṃllabhate kāmān paratra śivarūpatām sakṛd yastu paṭhedetat kavacaṃ mayakoditam| sa sarvayajñasya phalaṃ labhate nātra saṃśayaḥ saṅgrāmeṣu jayecchatruṃ mātaṅgāniva keśarī| dahet tṛṇaṃ yatāvahnistathā śatruṃ dahet sadā nāstrāṇi tasya śastrāṇi śarīre praviśanti vai| na tasya jāyate vyādhirna ca duḥkhaṃ kadācana guṭikāñjanapātālapādaleparasāñjanam| uccāṭanādyāstāḥ sarvāḥ prasīdanti ca siddhayaḥ vāyoriva gatistasya bhavedanyairavāritā| dīrghāyuḥ kāmabhogī ca dhanavānabhijāyate aṣṭamyāṃ saṃyato bhūtvā navamyāṃ vidhivacchivām| pūjayitvā vidhānena vicintya manamā śivām yo nyaset kavacaṃ deha tasya puṇyaphala śṛṇu| jitavyādhiḥ śatāyuśca rūpavān guṇavān sadā dhanaratnaughasampūrṇo vidyāvān sa ca jāyate| nāgnirdahati tatkāyaṃ nāpaḥ saṅkledayanti ca na śoṣayati taṃ vāyuḥ kravyāt taṃ na hinasti ca| śastrāṇi nainaṃ chindanti na tāpayati bhāskaraḥ na tasya jāyate vighno nāsti tasya ca sañjvaraḥ| vetālāśca piśācāśca rākṣasā gaṇanāyakāḥ sarve tasya vaśaṃ yānti bhūtagrāmāścaturvidhāḥ| nityaṃ paṭhati yo bhaktayā kavacaṃ harinirmitam so'hameva mahādevo mahāmāyā ca mātṛkā| dharmārthakāmamokṣāśca tasya nityaṃ kare sthitāḥ anyasya varadaḥ so'rthairnityaṃ bhavati paṇḍitaḥ| kavitvaṃ satyavāditvaṃ satataṃ tasya jāyate vadecchlokasahasrāṇi bhavecchrutidharastathā| likhitaṃ yasya gehe tu kavacaṃ bhairava sthitam na tasya durgatiḥ kvāpi jāyate tasya dūṣaṇam| grahāśca sarve tuṣyanti vaśaṃ gacchanti bhūmipāḥ yadrājye kavacajño'sti jāyante tatra netayaḥ| seturdevaḥ śaktibījaṃ pañcamohāya te namaḥ vāyurbalena caitāyai dvitīyāṣṭākṣaraṃ tvidam| seturdevo'tha vaiṣṇavyai ṣaḍakṣaramidaṃ smṛtam etad dvayaṃ tu jihvāgre satataṃ yasya vartate| tasya devī mahāmāyā kāye tiṣṭhati vai sadā mantrāṇāṃ praṇavaḥ setustatsetuḥ praṇavaḥ smṛtaḥ| kṣaratyanoṅkṛtaḥ pūrvaṃ parastācca viśīryate namaskāro mahāmantro deva ityucyate suraiḥ| dvijātīnāmayaṃ mantraḥ śūdrāṇāṃ sarvakarmaṇi akāra cātyukāraṃ ca makāraṃ ca prajāpatiḥ| vedatrayātsamuddhṛtya praṇavaṃ nirmame purā sa udātto dvijātīnāṃ rājñāṃ syādanudāttakaḥ| pracitaścorujātānāṃ manasāpi tathā smaret caturdaśasvaro yo'sau śeṣa aukārasaṃjñakaḥ| sa cānusvāracandrābhyāṃ śūdrāṇāṃ seturucyate niḥsetu ca yathā toyaṃ kṣaṇānnimnaṃ prasarpati| mantrastathaiva niḥsetuḥ kṣaṇāt kṣarati yajvanām tasmāt sarvatra mantreṣu caturvarṇā dvijātayaḥ| pārśvayoḥ setumādāya jatakarmasamārabhet śūdrāṇāmādiseturvā dviḥseturvā yathecchataḥ| dviḥsetavaḥ samākhyātāḥ sarvadaiva dvijātayaḥ ||aurvva uvāca|| etat te sarvamākhyātaṃ kavacaṃ tryambakoditam| abhedyaṃ kavacaṃ tat tu kavacāṣṭakamuttamam mahāmāyāmantrakalpaṃ kavacaṃ mantrasaṃyutam| ṣaḍakṣarasamāyuktaṃ triṣu lokeṣu durlabham etat tvaṃ nṛpaṣārdūla nityabhaktiyutaḥ paṭhan| japan mantraṃ ca vaiṣṇavyāḥ sarvasiddhimavāpsyasi