Kalika Purana — Chapter 55
KaP 55.55
।।श्रीभगवानुवाच।। बलिदानं ततः पश्चात् कुर्याद् देव्याः प्रमोदकम् । मोदकैर्गजवक्त्रं च हविषा तोषयेद्रविम् तौर्यत्रिकैश्च नियमैः शङ्करं तोषयेद्धरिम् । चण्डिकां बलिदानेन तोषयेत् साधकः सदा पक्षिणः कच्छपा ग्राहाश्छागलाश्च वराहकाः। महिषो गोधिकाशोषा तता नवविधा मृगाः चामरः कृष्णसारश्च शशः पञ्चाननस्तथा। मत्स्याः स्वगात्ररुधिरैश्चाष्टधा बलयो मताः अभावे च तथैवैषां कदाचिद्धयहस्तिनौ। छागलाः शरभाश्चैव नरश्चैव यथाक्रमात् बलिर्महाबलिरिति बलयः परिकीर्तितताः। स्नापयित्वा बलिं तत्र पुष्पचन्दनधूपकैः पूजयेत् साधको देवीं बलिमन्त्रैर्मुहुर्म्मुहुः। उत्तराभिमुखो भूत्वा बलिं पूर्वमुखं तथा निरीक्ष्य साधकः पश्चादिमं मन्त्रमुदीरयेत्। वरस्त्वं बलिरूपेण मम भाग्यादुपस्थितः प्रणमामि ततः सर्वरूपिणं बलिरूपिणम्। चण्डिका प्रीतिदानेन दातुरापद्विनाशनः वैष्णवीबलिरूपाय बले तुभ्यं नमो नमः । यज्ञार्थे पशवः सृष्टाः स्वयमेव स्वयम्भुवा अतस्त्वां घातयाम्यद्य तस्माद् यज्ञे वधोऽवधः। ऐं ह्रीं श्रीं इति मन्त्रेण तं बलिं कामरूपिणम् चिन्तयित्वा न्यसेत् पुष्पं मूर्ध्नि तस्य च भैरव। ततो देवीं समुद्दिश्य काममुद्दिश्य चात्मनः अभिषिच्च बलिं पश्चात् करवालं प्रपूज्येत्। रसना त्वं चण्डिकायाः सुरलोकप्रसाधक ऐं ह्रीं श्रीमिति मन्त्रेण ध्यात्वा खड्गं प्रपूजयेत्। कृष्णं पिनाकपाणिं च कालरात्रिस्वरूपिणम् उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम्। रक्ताम्बरधरं चैकं पाशहस्तं कुटुम्बिनम् पीयमानं च रुधिरं भुञ्जानं क्रव्यसंहतिम् । असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः श्रीगर्वो विजयश्चैव धर्मपाल नमोऽस्तु ते। पूजयित्वा ततः खड्गं ॐ आं ह्रीं फडितिमन्त्रकैः गृहीत्वा विमलं कड्गं छेदयेद् बलिमुत्तमम्। ततो बलीनां रुधिरं तोयसैन्धवसत्फलैः मधुभिर्गन्धपुष्पैश्च अधिवास्य प्रयत्नतः। ॐ ऐं ह्रीं श्रीं कौशिकीति रुधिरं दापयामि ते स्थाने नियोजयेद्रक्तं शिरश्च सप्रदीपकम्। एवं दत्त्वा बलिं पूर्णं फलं प्राप्नोति साधकः हीनं स्याद्धीनतामूलं निष्फलं स्याद् विपर्ययात्। बलिदाने तु दुर्गाया अन्यत्रापि विधिः सदा अयमेव प्रयोक्तव्यः सद्भिर्वेतालभैरवौ। जपं समारभेत् पश्चात् पूर्ववद्ध्यानमानमास्थितः हस्तेन स्रजमादाय चिन्तयेन्मनसा शिवाम्। चिन्तयित्वा गुरुं मूर्ध्नि यथा वर्णादिकं भवेत् मन्त्रं च कण्ठतो ध्यात्वा सितवर्णं हिरण्मयम्। महामायां च हृदये आत्मानं गुरुपादयोः आचक्षेत ततः पश्चाद् गुरोर्मन्त्रस्य चात्मनः। देव्याश्चाप्येकतां ध्यात्वा सुषुम्नावर्त्मना ततः तत्त्वस्वरूपमेकं तु षट्चक्रं प्रति लम्बयेत्। षट्चक्रेऽपि महामायां क्षणं ध्यात्वा प्रयत्नतः लम्बयेन्मूलमात्रेण वादिषोडशचक्रकम्। आदिषोडशचक्रस्थां साधकानन्दकारिणीम् चिन्तयन् साधको देवीं जपकर्म समारभेत्। भ्रवोरुपरि नाडीनां त्रयाणां प्रान्त उच्यते तत्प्रान्तं त्रिपथस्थानं षट्कोणं चतुरङ्गुलम्। रक्तवर्णं तु योगज्ञैराज्ञाचक्रमितीर्यते कण्ठे त्रयाणां नाडीनां वेष्ठनं विद्यते नृणाम्। सुषुम्नेडापिङ्गलानां षट्कोणं तत्षडङ्गुलम् तत् षट्चक्रमिति प्रोक्तं शुक्लं कण्ठस्य मद्यगम् । त्रयाणामथ नीडीनां हृदये चैकता भवेत् तत्स्थानं षोडशारं स्यात् सप्ताङ्गुलप्रमाणतः। तत्प्रयुक्तं तु योगज्ञैरादिषोडशचक्रकम् ध्यानानामथ मन्त्राणां चिन्तनस्य जपस्य च। यस्मादाद्यं तु हृदयं तस्मादादीति गद्यते जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः। निधाय मण्डलस्यान्तः सव्यहस्तगतां च वा ॐ माले माले महामाये सर्वशक्तिस्वरूपिणि। चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव पूजयित्वा ततो मालां गृह्णीयाद् दक्षिणे करे। मध्यमाया मध्यभागे वर्जयित्वाथ तर्जनीम् अनामिकाकनिष्ठाभ्यां युताया नम्रभागतः। स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् प्रत्येकं बीजमादाय जप्यादर्धेन भैरव। प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं च चालयेत् मालाबीजं तु जप्तव्यं स्पृशेन्नहि परस्परम्। पूर्वजापप्रयुक्तेन नैवाङ्गुष्ठेन भैरव पूर्वबीजं जपन् यस्तु परबीजं च संस्पृशेत्। अङ्गुष्ठेन भवेत् तस्य निष्फलस्तस्य तज्जपः मालां स्वहृदयासन्ने धृत्वा दक्षिणपाणिना। देवीं विचिन्तयन् जप्यं कुर्याद् वामेन न स्पृशेत् स्फटिकेन्द्राक्षरुद्राक्षैः पुत्रञ्जीवसमुद्भवैः। सुवर्णमणिभिः सम्यक् प्रवालैरथवाब्जजैः अक्षमाला तु कर्तव्या देवीप्रीतिकरी परा। जपेदुपांशु सततं कुशग्रन्थ्याथ पाणिना मालाबीजेषु सर्वेषु रुद्राक्षो मत्प्रियाप्रियः। रुद्रप्रीतिकरी यस्मात् तेन रुद्राक्षरोचनी प्रवालैरथवा कुर्यादष्टाविंशतिबीजकैः। पञ्चपञ्चाशता वापि न न्यूनैरधिकैश्च वा रुद्राक्षर्यदि जप्येत इन्द्राक्षैः स्फटिकैस्तथा। नान्यं मध्ये प्रयोक्तव्यं पुत्रञ्जीवादिकं च यत् यद्यन्यत् तु प्रयुज्येत मालायां जपकर्मणि। तस्य कामं च मोक्षं च ददाति न प्रियङ्करी मिश्रीभावं ततो याति चाण्डालैः पापकर्मभिः। जन्मान्तरे जायते स वेदवेदाङ्गपारगः एको मेरुस्तत्र देयः सर्वेभ्यः स्थूलसम्भवः। आद्यं स्थूलं ततस्तस्माद् न्यूनं न्यूनतरं तथा विन्यसेत् क्रमतस्तस्मात् सर्पाकारा हि सा यतः। ब्रह्मग्रन्थियुतं कुर्यात् प्रतिबीजं यथास्थितम् अथवा ग्रन्थिरहितं दृढरज्जुसमन्वितम्। द्विरावृत्याथ मध्येन चार्धवृत्यान्तदेशतः ग्रन्थिः प्रदक्षिणावर्तः स ब्रह्मग्रन्थिसंज्ञकः। आत्मना योजयेन्मालां नामन्त्रो योजयेन्नरः दृढं सूत्रं नियुञ्जीत जपे त्रुट्यति नो यथा। यथा हस्तान्न च्यवेत जपतः स्रक् तमाचरेत् हस्तच्युतायां विघ्नं स्याच्छिन्नायां मरणं भवेत्। एवं यः कुरुते मालां जपं च जपकोविदः स प्राप्नोतीप्सितं कामं हीने स्यात् तु विपर्ययः। अन्यत्रापि जपेन्मालां जप्यं देवमनोहरम् तादृशः साधकः कुर्यान्नान्यथा तु कदाचन। यथाशक्ति जपं कुर्यात् सङ्ख्ययैव प्रयत्नतः असङ्ख्यातं च यज्जप्तं तस्य तन्निष्फलं भवेत्। जप्त्वा मालां शिरोदेशे प्रांशुस्थानेऽथ वा न्यसेत् स्तुतिपाठं ततः कुर्यादिष्टं कामं निवेद्य च। स्ततिश्चापि महामन्त्रं साधनं सर्वकर्मणाम् वक्ष्ये युवां महाभागौ सर्वसिद्धिप्रदायकम्। सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते। सप्तदावर्तनं कृत्वा स्तुतिमेनां च साधकः पञ्चप्रणामान् कृत्वाथ ऐं ह्रीं श्रीमितिमन्त्रकैः। अन्येषां पुरतश्चैव अधिकं वा यथेच्छया योनिमुद्रां ततः पश्चाद् दर्शयित्वा विसर्जयेत्। द्वौ पाणि प्रसृतीकृत्य कृत्वा चोत्तान्जलिम् अङ्गुष्ठाग्रद्वंय न्यस्य कनिष्ठाग्रद्वयोस्ततः। अनामिकायां वामस्य तत्कनिष्ठां पुरो न्यसेत् दक्षिणस्यानामिकायां कनिष्ठां दक्षिणस्य च। अनामिकायाः पृष्ठे तु मध्यमे द्वे निवेशयेत् द्वे तर्जन्यौ कनिष्ठाग्रे तदग्रेणैव योजयेत्। योनिमुद्रा समाख्याता देव्याः प्रीतिकरी मता त्रिवारं दर्शयेत् तां तु मूलमन्त्रेण साधकः। तां मुद्रां शिरसि न्यस्य मण्डलं विन्यसेत् ततः ऐशान्यामग्रहस्तेन द्वारपद्मविवर्जितम्। तत्र नत्वा रक्तचण्डां ह्रीं श्रीं मन्त्रेण साधकः रक्तचण्डायै नम इति निर्माल्यं तत्र निक्षिपेत् । उदके तरुमूले वा निर्माल्यं तत्र संत्यजेत् एवं यः पूजयेद् देवीं विधानेन शिवां नरः। सोऽचिरेण लभेत्कामान् सर्वानेव मनोगतान् अर्धलक्षजपं जप्त्वा प्रथमं चैव साधकः । पुरश्चरेद् विशेषेण नानानैवेद्यवेदनैः कुण्डं मण्डलवत् कृत्वा चाष्टम्यां समुपोषितः। नवम्यां शुक्लपक्षस्य रजोभिः पञ्चभिर्नरः पूर्ववन्मण्डलं कृत्वा गुरुपित्रोश्च सन्निधौ। अनेनैव विधानेन पूजयित्वा तु चण्डिकाम् सहितैर्बिल्वपत्रैश्च अष्टोत्तरशतत्रयम्। तिलैर्होमं चरेत् तस्यां सहस्रत्रितयं जपेत् नैवेद्यं गन्धपुष्पे च वस्त्रं दद्याच्छ यत्प्रियम्। पूर्वोक्तं चान्यदप्यस्यै प्रदद्यात् पायसं तथा पूजावसाने देयं स्यात् तज्जातीयं बलित्रयम्। सिन्दूरं स्वर्णरत्नानि स्त्रीणां विभूषणम् निवेदयेद् यथाशक्त्या पुष्पमाल्यं च भूरिशः। महाशक्तुं सशाल्यन्नं गव्यव्यञ्जनसंयुतम् देव्यै नवम्यां सम्पूर्णं बलिं दद्याद् घृतादिभिः। दक्षिणां गुरवे दद्यात् सुवर्णं गां तथा तिलम् अभिशप्तमपुत्रं च सावद्यं कितवं तथा। क्रियाहीनमकल्पज्ञं वामनं गुरुनिन्दकम् सदा मत्सरसंयुक्तं गुरुं मन्त्रेषु वर्जयेत्। गुरुर्मन्त्रस्य मूलं स्यान्मूलशुद्धौ तदुद्गतम् सफलं जायते यस्मान्मन्त्रं यत्नात्परीक्षयेत्। शाठ्यात् क्रोधात्तु मोहाद्वा नासन्मत्या गुरोर्मुखात् कल्पेषु दृष्ट्वा वा मन्त्रं गृह्णीयाच्छद्मनाऽथ वा। स मन्त्रस्तेय पापेन तामिस्रे नरके नरः मन्वन्तरत्रयं स्थित्वा पापयोनिषु जायते। शठे क्रूरे च मूर्खे च छद्मकारिण्यभक्तिके मन्त्रं न दूषिते दद्यात् सुबीजं विपिने तथा । लक्षेण साधयेत् कामं पुरश्चरणपूर्वकम् पापक्षयो भवेद् यस्मात् पुरश्चरणकर्मणा। लक्षद्वयेन मन्त्रस्य जपेन नरसत्तमौ त्रिसन्ध्यासुत प्रतिदिनं बीजसंघातकेन च। कविर्वाग्मी पण्डितश्च यशस्वी च प्रजायते साधकः साधकश्रेष्ठ पूजास्थानं ततः शृणु। यत्र यत्र नरः पूजां निर्जने कुरुते च यः तस्यादत्ते स्वयं देवी पत्रं पुष्पं फलं जलम्। शिला प्रशस्ता पूजायां स्थण्डिलं निर्जनं तथा जपश्चोपांशु सर्वेषामुत्तमः परिकीर्तितः। अशुचिर्न महामायां पूजयेत् तु कदाचन अवश्यं तु स्मरेन्मन्त्रं योऽतिभक्तियुतो नरः। दन्तरक्ते समुत्पन्ने स्मरणं च न विद्यते सर्वेषामेव मन्त्राणां स्मरणन्नरकं व्रजेत्। जानूर्ध्वे क्षतजे जाते नित्यं कर्म न चाचरेत् नैमित्तिकं च तदधः स्रवद्रक्तो न चाचरेत्। सूतके च समुत्पन्ने क्षुरकर्मणि मैथुने धूमोद्गारे तता वान्ते नित्यकर्माणि संत्यजेत्। द्रव्ये भुक्ते त्वजीर्णे च न वै भुक्त्वा च किञ्चन कर्म कुर्यान्नरो नित्यं सूतके मृतके तथा। पत्रं पुष्पं च ताम्बूलं भेषजत्वेन कल्पितम् कणादिपिप्पल्यन्तं च फलं भुक्त्वा न चाचरेत्। जलस्यापि नरश्रेष्ठ भोजनाद् भेषजादृते नित्यक्रिया निवर्तेत सह नैमित्तिकैः सदा। जलौकां गूढ़पादं च कृमिगण्डूपदादिकम् कामाद्धस्तेन संस्पृश्य नित्यकर्माणि संत्यजेत्। विशेषतः शिवापूजां प्रमीतपितृको नरः यावद् वत्सरपर्यन्तं मनसापि न चाचरेत्। महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् आर्त्विज्यं ब्रह्मयज्ञं च श्राद्धं देवयजं च यत्। गुरुमाक्षिप्य विप्रं च प्रहृत्यैव च पाणिना न कुर्यान्नित्यकर्माणि रेतःपाते च भैरव। आसनं चार्ध्यपात्रं च भग्नमासादयेन्नतु ऊषरे कृमिसंयुक्ते स्थाने मृष्टेऽपि नार्चयेत्। नीचैरासनमासाद्य शुचिः प्रयतमानसः अर्चयेच्चण्डिकां देवीं देवमन्यं च भैरव। दिग्विभागे तु कौबेरी दिक् छिवा प्रतिदायिनी तस्मात् तन्मुख आसीनः पूजयेच्चण्डिकां सदा। पुष्पं च कृमिसंमिश्रं विशीर्णं भग्नमृद्गते सकेश मूषिकोद्धूतं यत्नेन परिवर्जयेत्। याचितं परकीयं च तथा पर्युषितं च यत्। अन्त्यसृष्टं पदा स्पृष्टं यत्नेन परिवर्जयेत् इदं शिवायाः परमं मनोहरं करोति योऽनेन तदीयपूजनम्। स वाञ्छितार्थं समवाप्य चण्डिकागृहं प्रयाता नचिरेण भैरव
||śrībhagavānuvāca|| balidānaṃ tataḥ paścāt kuryād devyāḥ pramodakam | modakairgajavaktraṃ ca haviṣā toṣayedravim tauryatrikaiśca niyamaiḥ śaṅkaraṃ toṣayeddharim | caṇḍikāṃ balidānena toṣayet sādhakaḥ sadā pakṣiṇaḥ kacchapā grāhāśchāgalāśca varāhakāḥ| mahiṣo godhikāśoṣā tatā navavidhā mṛgāḥ cāmaraḥ kṛṣṇasāraśca śaśaḥ pañcānanastathā| matsyāḥ svagātrarudhiraiścāṣṭadhā balayo matāḥ abhāve ca tathaivaiṣāṃ kadāciddhayahastinau| chāgalāḥ śarabhāścaiva naraścaiva yathākramāt balirmahābaliriti balayaḥ parikīrtitatāḥ| snāpayitvā baliṃ tatra puṣpacandanadhūpakaiḥ pūjayet sādhako devīṃ balimantrairmuhurmmuhuḥ| uttarābhimukho bhūtvā baliṃ pūrvamukhaṃ tathā nirīkṣya sādhakaḥ paścādimaṃ mantramudīrayet| varastvaṃ balirūpeṇa mama bhāgyādupasthitaḥ praṇamāmi tataḥ sarvarūpiṇaṃ balirūpiṇam| caṇḍikā prītidānena dāturāpadvināśanaḥ vaiṣṇavībalirūpāya bale tubhyaṃ namo namaḥ | yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā atastvāṃ ghātayāmyadya tasmād yajñe vadho'vadhaḥ| aiṃ hrīṃ śrīṃ iti mantreṇa taṃ baliṃ kāmarūpiṇam cintayitvā nyaset puṣpaṃ mūrdhni tasya ca bhairava| tato devīṃ samuddiśya kāmamuddiśya cātmanaḥ abhiṣicca baliṃ paścāt karavālaṃ prapūjyet| rasanā tvaṃ caṇḍikāyāḥ suralokaprasādhaka aiṃ hrīṃ śrīmiti mantreṇa dhyātvā khaḍgaṃ prapūjayet| kṛṣṇaṃ pinākapāṇiṃ ca kālarātrisvarūpiṇam ugraṃ raktāsyanayanaṃ raktamālyānulepanam| raktāmbaradharaṃ caikaṃ pāśahastaṃ kuṭumbinam pīyamānaṃ ca rudhiraṃ bhuñjānaṃ kravyasaṃhatim | asirviśasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ śrīgarvo vijayaścaiva dharmapāla namo'stu te| pūjayitvā tataḥ khaḍgaṃ oṃ āṃ hrīṃ phaḍitimantrakaiḥ gṛhītvā vimalaṃ kaḍgaṃ chedayed balimuttamam| tato balīnāṃ rudhiraṃ toyasaindhavasatphalaiḥ madhubhirgandhapuṣpaiśca adhivāsya prayatnataḥ| oṃ aiṃ hrīṃ śrīṃ kauśikīti rudhiraṃ dāpayāmi te sthāne niyojayedraktaṃ śiraśca sapradīpakam| evaṃ dattvā baliṃ pūrṇaṃ phalaṃ prāpnoti sādhakaḥ hīnaṃ syāddhīnatāmūlaṃ niṣphalaṃ syād viparyayāt| balidāne tu durgāyā anyatrāpi vidhiḥ sadā ayameva prayoktavyaḥ sadbhirvetālabhairavau| japaṃ samārabhet paścāt pūrvavaddhyānamānamāsthitaḥ hastena srajamādāya cintayenmanasā śivām| cintayitvā guruṃ mūrdhni yathā varṇādikaṃ bhavet mantraṃ ca kaṇṭhato dhyātvā sitavarṇaṃ hiraṇmayam| mahāmāyāṃ ca hṛdaye ātmānaṃ gurupādayoḥ ācakṣeta tataḥ paścād gurormantrasya cātmanaḥ| devyāścāpyekatāṃ dhyātvā suṣumnāvartmanā tataḥ tattvasvarūpamekaṃ tu ṣaṭcakraṃ prati lambayet| ṣaṭcakre'pi mahāmāyāṃ kṣaṇaṃ dhyātvā prayatnataḥ lambayenmūlamātreṇa vādiṣoḍaśacakrakam| ādiṣoḍaśacakrasthāṃ sādhakānandakāriṇīm cintayan sādhako devīṃ japakarma samārabhet| bhravorupari nāḍīnāṃ trayāṇāṃ prānta ucyate tatprāntaṃ tripathasthānaṃ ṣaṭkoṇaṃ caturaṅgulam| raktavarṇaṃ tu yogajñairājñācakramitīryate kaṇṭhe trayāṇāṃ nāḍīnāṃ veṣṭhanaṃ vidyate nṛṇām| suṣumneḍāpiṅgalānāṃ ṣaṭkoṇaṃ tatṣaḍaṅgulam tat ṣaṭcakramiti proktaṃ śuklaṃ kaṇṭhasya madyagam | trayāṇāmatha nīḍīnāṃ hṛdaye caikatā bhavet tatsthānaṃ ṣoḍaśāraṃ syāt saptāṅgulapramāṇataḥ| tatprayuktaṃ tu yogajñairādiṣoḍaśacakrakam dhyānānāmatha mantrāṇāṃ cintanasya japasya ca| yasmādādyaṃ tu hṛdayaṃ tasmādādīti gadyate japādau pūjayenmālāṃ toyairabhyukṣya yatnataḥ| nidhāya maṇḍalasyāntaḥ savyahastagatāṃ ca vā oṃ māle māle mahāmāye sarvaśaktisvarūpiṇi| caturvargastvayi nyastastasmānme siddhidā bhava pūjayitvā tato mālāṃ gṛhṇīyād dakṣiṇe kare| madhyamāyā madhyabhāge varjayitvātha tarjanīm anāmikākaniṣṭhābhyāṃ yutāyā namrabhāgataḥ| sthāpayitvā tatra mālāmaṅguṣṭhāgreṇa tadgatam pratyekaṃ bījamādāya japyādardhena bhairava| prativāraṃ paṭhenmantraṃ śanairoṣṭhaṃ ca cālayet mālābījaṃ tu japtavyaṃ spṛśennahi parasparam| pūrvajāpaprayuktena naivāṅguṣṭhena bhairava pūrvabījaṃ japan yastu parabījaṃ ca saṃspṛśet| aṅguṣṭhena bhavet tasya niṣphalastasya tajjapaḥ mālāṃ svahṛdayāsanne dhṛtvā dakṣiṇapāṇinā| devīṃ vicintayan japyaṃ kuryād vāmena na spṛśet sphaṭikendrākṣarudrākṣaiḥ putrañjīvasamudbhavaiḥ| suvarṇamaṇibhiḥ samyak pravālairathavābjajaiḥ akṣamālā tu kartavyā devīprītikarī parā| japedupāṃśu satataṃ kuśagranthyātha pāṇinā mālābījeṣu sarveṣu rudrākṣo matpriyāpriyaḥ| rudraprītikarī yasmāt tena rudrākṣarocanī pravālairathavā kuryādaṣṭāviṃśatibījakaiḥ| pañcapañcāśatā vāpi na nyūnairadhikaiśca vā rudrākṣaryadi japyeta indrākṣaiḥ sphaṭikaistathā| nānyaṃ madhye prayoktavyaṃ putrañjīvādikaṃ ca yat yadyanyat tu prayujyeta mālāyāṃ japakarmaṇi| tasya kāmaṃ ca mokṣaṃ ca dadāti na priyaṅkarī miśrībhāvaṃ tato yāti cāṇḍālaiḥ pāpakarmabhiḥ| janmāntare jāyate sa vedavedāṅgapāragaḥ eko merustatra deyaḥ sarvebhyaḥ sthūlasambhavaḥ| ādyaṃ sthūlaṃ tatastasmād nyūnaṃ nyūnataraṃ tathā vinyaset kramatastasmāt sarpākārā hi sā yataḥ| brahmagranthiyutaṃ kuryāt pratibījaṃ yathāsthitam athavā granthirahitaṃ dṛḍharajjusamanvitam| dvirāvṛtyātha madhyena cārdhavṛtyāntadeśataḥ granthiḥ pradakṣiṇāvartaḥ sa brahmagranthisaṃjñakaḥ| ātmanā yojayenmālāṃ nāmantro yojayennaraḥ dṛḍhaṃ sūtraṃ niyuñjīta jape truṭyati no yathā| yathā hastānna cyaveta japataḥ srak tamācaret hastacyutāyāṃ vighnaṃ syācchinnāyāṃ maraṇaṃ bhavet| evaṃ yaḥ kurute mālāṃ japaṃ ca japakovidaḥ sa prāpnotīpsitaṃ kāmaṃ hīne syāt tu viparyayaḥ| anyatrāpi japenmālāṃ japyaṃ devamanoharam tādṛśaḥ sādhakaḥ kuryānnānyathā tu kadācana| yathāśakti japaṃ kuryāt saṅkhyayaiva prayatnataḥ asaṅkhyātaṃ ca yajjaptaṃ tasya tanniṣphalaṃ bhavet| japtvā mālāṃ śirodeśe prāṃśusthāne'tha vā nyaset stutipāṭhaṃ tataḥ kuryādiṣṭaṃ kāmaṃ nivedya ca| statiścāpi mahāmantraṃ sādhanaṃ sarvakarmaṇām vakṣye yuvāṃ mahābhāgau sarvasiddhipradāyakam| sarvamaṅgalamaṅgalye śive sarvārthasādhike śaraṇye tryambake gauri nārāyaṇi namo'stu te| saptadāvartanaṃ kṛtvā stutimenāṃ ca sādhakaḥ pañcapraṇāmān kṛtvātha aiṃ hrīṃ śrīmitimantrakaiḥ| anyeṣāṃ purataścaiva adhikaṃ vā yathecchayā yonimudrāṃ tataḥ paścād darśayitvā visarjayet| dvau pāṇi prasṛtīkṛtya kṛtvā cottānjalim aṅguṣṭhāgradvaṃya nyasya kaniṣṭhāgradvayostataḥ| anāmikāyāṃ vāmasya tatkaniṣṭhāṃ puro nyaset dakṣiṇasyānāmikāyāṃ kaniṣṭhāṃ dakṣiṇasya ca| anāmikāyāḥ pṛṣṭhe tu madhyame dve niveśayet dve tarjanyau kaniṣṭhāgre tadagreṇaiva yojayet| yonimudrā samākhyātā devyāḥ prītikarī matā trivāraṃ darśayet tāṃ tu mūlamantreṇa sādhakaḥ| tāṃ mudrāṃ śirasi nyasya maṇḍalaṃ vinyaset tataḥ aiśānyāmagrahastena dvārapadmavivarjitam| tatra natvā raktacaṇḍāṃ hrīṃ śrīṃ mantreṇa sādhakaḥ raktacaṇḍāyai nama iti nirmālyaṃ tatra nikṣipet | udake tarumūle vā nirmālyaṃ tatra saṃtyajet evaṃ yaḥ pūjayed devīṃ vidhānena śivāṃ naraḥ| so'cireṇa labhetkāmān sarvāneva manogatān ardhalakṣajapaṃ japtvā prathamaṃ caiva sādhakaḥ | puraścared viśeṣeṇa nānānaivedyavedanaiḥ kuṇḍaṃ maṇḍalavat kṛtvā cāṣṭamyāṃ samupoṣitaḥ| navamyāṃ śuklapakṣasya rajobhiḥ pañcabhirnaraḥ pūrvavanmaṇḍalaṃ kṛtvā gurupitrośca sannidhau| anenaiva vidhānena pūjayitvā tu caṇḍikām sahitairbilvapatraiśca aṣṭottaraśatatrayam| tilairhomaṃ caret tasyāṃ sahasratritayaṃ japet naivedyaṃ gandhapuṣpe ca vastraṃ dadyāccha yatpriyam| pūrvoktaṃ cānyadapyasyai pradadyāt pāyasaṃ tathā pūjāvasāne deyaṃ syāt tajjātīyaṃ balitrayam| sindūraṃ svarṇaratnāni strīṇāṃ vibhūṣaṇam nivedayed yathāśaktyā puṣpamālyaṃ ca bhūriśaḥ| mahāśaktuṃ saśālyannaṃ gavyavyañjanasaṃyutam devyai navamyāṃ sampūrṇaṃ baliṃ dadyād ghṛtādibhiḥ| dakṣiṇāṃ gurave dadyāt suvarṇaṃ gāṃ tathā tilam abhiśaptamaputraṃ ca sāvadyaṃ kitavaṃ tathā| kriyāhīnamakalpajñaṃ vāmanaṃ gurunindakam sadā matsarasaṃyuktaṃ guruṃ mantreṣu varjayet| gururmantrasya mūlaṃ syānmūlaśuddhau tadudgatam saphalaṃ jāyate yasmānmantraṃ yatnātparīkṣayet| śāṭhyāt krodhāttu mohādvā nāsanmatyā gurormukhāt kalpeṣu dṛṣṭvā vā mantraṃ gṛhṇīyācchadmanā'tha vā| sa mantrasteya pāpena tāmisre narake naraḥ manvantaratrayaṃ sthitvā pāpayoniṣu jāyate| śaṭhe krūre ca mūrkhe ca chadmakāriṇyabhaktike mantraṃ na dūṣite dadyāt subījaṃ vipine tathā | lakṣeṇa sādhayet kāmaṃ puraścaraṇapūrvakam pāpakṣayo bhaved yasmāt puraścaraṇakarmaṇā| lakṣadvayena mantrasya japena narasattamau trisandhyāsuta pratidinaṃ bījasaṃghātakena ca| kavirvāgmī paṇḍitaśca yaśasvī ca prajāyate sādhakaḥ sādhakaśreṣṭha pūjāsthānaṃ tataḥ śṛṇu| yatra yatra naraḥ pūjāṃ nirjane kurute ca yaḥ tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam| śilā praśastā pūjāyāṃ sthaṇḍilaṃ nirjanaṃ tathā japaścopāṃśu sarveṣāmuttamaḥ parikīrtitaḥ| aśucirna mahāmāyāṃ pūjayet tu kadācana avaśyaṃ tu smarenmantraṃ yo'tibhaktiyuto naraḥ| dantarakte samutpanne smaraṇaṃ ca na vidyate sarveṣāmeva mantrāṇāṃ smaraṇannarakaṃ vrajet| jānūrdhve kṣataje jāte nityaṃ karma na cācaret naimittikaṃ ca tadadhaḥ sravadrakto na cācaret| sūtake ca samutpanne kṣurakarmaṇi maithune dhūmodgāre tatā vānte nityakarmāṇi saṃtyajet| dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiñcana karma kuryānnaro nityaṃ sūtake mṛtake tathā| patraṃ puṣpaṃ ca tāmbūlaṃ bheṣajatvena kalpitam kaṇādipippalyantaṃ ca phalaṃ bhuktvā na cācaret| jalasyāpi naraśreṣṭha bhojanād bheṣajādṛte nityakriyā nivarteta saha naimittikaiḥ sadā| jalaukāṃ gūḍha़pādaṃ ca kṛmigaṇḍūpadādikam kāmāddhastena saṃspṛśya nityakarmāṇi saṃtyajet| viśeṣataḥ śivāpūjāṃ pramītapitṛko naraḥ yāvad vatsaraparyantaṃ manasāpi na cācaret| mahāgurunipāte tu kāmyaṃ kiñcinna cācaret ārtvijyaṃ brahmayajñaṃ ca śrāddhaṃ devayajaṃ ca yat| gurumākṣipya vipraṃ ca prahṛtyaiva ca pāṇinā na kuryānnityakarmāṇi retaḥpāte ca bhairava| āsanaṃ cārdhyapātraṃ ca bhagnamāsādayennatu ūṣare kṛmisaṃyukte sthāne mṛṣṭe'pi nārcayet| nīcairāsanamāsādya śuciḥ prayatamānasaḥ arcayeccaṇḍikāṃ devīṃ devamanyaṃ ca bhairava| digvibhāge tu kauberī dik chivā pratidāyinī tasmāt tanmukha āsīnaḥ pūjayeccaṇḍikāṃ sadā| puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate sakeśa mūṣikoddhūtaṃ yatnena parivarjayet| yācitaṃ parakīyaṃ ca tathā paryuṣitaṃ ca yat| antyasṛṣṭaṃ padā spṛṣṭaṃ yatnena parivarjayet idaṃ śivāyāḥ paramaṃ manoharaṃ karoti yo'nena tadīyapūjanam| sa vāñchitārthaṃ samavāpya caṇḍikāgṛhaṃ prayātā nacireṇa bhairava