← Kalika Purana

Kalika Purana — Chapter 51

KaP 51.51

।।और्व्व उवाच।। अथ कालक्रमेणैव प्रवृद्धास्ते महाबलाः। शस्त्रास्त्रज्ञानकुशलाः शास्त्रार्थपरिनिष्ठिताः सम्प्राप्तयौवना दीप्ता दुर्धर्षाः परिपन्थिभिः। धमार्थज्ञानकुशला ब्रह्मण्याः सत्यवादिनः सदा सहचरौ तत्र प्रीत्या वेतालभैरवौ। अलर्कौ दमनश्चैव तथोपरिचरस्त्रयः। सदा सहचरा नित्यं भ्रातरश्चान्द्रशेखराः त्रिष्वात्मजेषु नृपतेः सदोपरिचरादिषु। ममत्वमधिकं नित्यं प्रीतिस्नेहौ तथाधिकौ वेताले भैरवे चापि चन्द्रसेखरभूभृतः। नास्त्येव तादृशी प्रीतिर्यादृशी तेषु जायते न तौ दृष्ट्वा स नृपतिः कदाचिच्चन्द्रशेखरः। अत्याह्लादयतेऽजस्रं पुत्रबुद्ध्येष्यतेऽथवा तौ वीरौ धर्मकुशलौ महाबलपराक्रमौ। त्रैलोक्यविजये दक्षौ शस्त्रास्त्रग्रामपारगौ ताभ्यां बिभेति च नृपः कदा किंवा करिष्यतः। वेतालभैरवावेतौ मां सुतान् राज्यमेव वा इति चिन्तापरो राजा नित्यमेव निरीक्षते। प्रणतावपि तत्पुत्रौ सम्यग् वेतालभैरवौ अथोपरिचरं राजा यौवराज्येऽभ्यषेचयत्। ज्यायांसमौरसं पुत्रं सर्वराजगुणैर्युतम् यः पश्चात् सर्वभूपालान् योजयिष्यति नीतिभिः। राजोपरिचरो नाम सर्वशास्त्रार्थपारगः दमनाय ददौ दायं तथालर्काय भूमिभृत्। प्रभूतधनरत्नानि तथासनरथान् बहून् तावन्ति न ददौ ताभ्यां दायवित्तानि भागशः। वेतालभैरवाभ्यां तु ततस्तौ मन्युराविशत् मन्युनाभिपरीतौ तौ विचरन्तावितस्ततः। न भोगमीप्सतां वीरौ तपसे च कृतोद्यमौ। अनूढभार्यौ सततं निर्जने वसतः सदा तथाभूतौ तदा पुत्रौ देवौ वेतालभैरवौ। बुबुधे चिन्तयाक्रान्ता देवी तारावती तदा राजोपरिचराद् भीता पत्युश्च चन्द्रशेखरात्। नोवाच किञ्चित सुदतीच्छन्नं तौ बोधयत्यपि एतस्मिन्नन्तरे विद्वान् कपोतो मुनिसत्तमः। चित्राङ्गदासङ्गभोगी सन्तुष्टः सुरतोत्सवैः चित्राङ्गदां परित्यज्य सपुत्रां सहचारिणीम्। इयेष गन्तुं स प्रोचे तदा चित्राङ्गदां वचः ।।मुनिरुवाच।। चित्राङ्गदे तपस्तप्तुं गमिष्यामि तपोवनम्। किं ते प्रियं करोमीह तं मे वद मनोहरे ।।चित्राङ्गदोवाच।। तम्बुरुश्च सुवर्चाश्च तनयौ तव सुव्रत। एतयोस्त्वं मुनिश्रेष्ठ प्रियं कुरु यथोचितम् मां चापि भगिनीगेहे संस्थाप्य द्विजसत्तम्। तदा तपोवनं गच्छ यदि ते रोचतेऽनघ इति श्रुत्वा वचस्तस्याः कपोतो मुनिसत्तमः। हिरण्यार्थं समालोच्य कुबेरसदनं ययौ प्रार्थयित्वा कुबेरं तु सुवर्णानां शतानि षट्। निष्काणां तु सहस्राणि स लेभे मुनिसत्तमः शतं भारांश्च रत्नानामानीय व सवीवधैः। पुत्राभ्यां प्रददौ विप्रो भार्यायै च विशेषतः ततस्तां सहपुत्राभ्यां तैर्धनैरपि भूरिभिः। चित्राङ्गदामतेनाथ पुत्रयोरपि सम्मते सुवर्चसं तुम्बुरुं च तथा चित्राङ्गदामपि। आमन्त्र्य मुनिशार्दूलः करवीरपुरं ययौ तत्र गत्वा स कपोतो राजानं चन्द्रशेखरम्। राजोपरिचरं चैव वाक्यमेतदुवाच ह इयं ककुत्स्थजा भूप तवैव विदिता पुरा। सद्योजातौ तथैवास्यामेतौ मे तनयौ शुची एभिर्वित्तैः समं पुत्रौ मम त्वं प्रतिपालय। राजोपरिचरश्चापि पालयत्विह मे सुतौ अपुत्रस्य नृपः पुत्रो निर्धनस्य धनं नृपः। अमातुर्जननी राजा ह्यतातस्य पिता नृपः अनाथस्य नृपो नाथो ह्यभर्तुः पार्थिवः पतिः। अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा। सर्वदेवमयो राजा तस्मात् त्वामर्थये नृपः ।।और्व्व उवाच।। ततः स राजा तं प्राह मुनिमेवं द्विजोत्तमम्। करिष्ये त्वद्वचश्चाहं राजोपरिचरश्च सः अथ चित्राङ्गदा राजा जग्राह मिनिसम्मते। सुतौ च तस्य सधनौ ज्यायसे सूनवे ददौ स चोपरिचरः प्रादाद्राज्यमर्धं सुवर्चसे। तथैव सचिवाध्यक्षमकरोत्तुम्बुरुं तदा कपोत श्चापि सुप्रीतः पुत्रार्ध समवेक्ष्य च। जगामामन्त्र्य नृपतिं तपसे च तपोवनम् पथि गच्छन् स कपोतः शम्भुपुत्रौ मनोहरौ। एकाकिनौ चरन्तौ तु सूर्याचन्द्रमसाविब तयोर्ददृदर्श च तदा वदने वानराकृती। स्मृत्वा पूर्वकथां दृष्ट्वा तावपृच्छत् तपोधनः कौ युवां देवगर्भाभौ चरन्तौ विजने पथि। एकाकिनौ नरश्रेष्ठौ तन्मे वदतमीरितम् अथ तौ प्रणिपत्यैनं सम्भाष्य च समञ्जसम्। कपोताख्यं मुनिश्रेष्ठमूचतुः शङ्करात्मजौ चन्द्रशेखरपुत्रौ नौ तारावत्यां समुद्गतौ। विद्धि त्वं मुनिशार्दूल प्रणमावः पदं तव अवज्ञां वीक्ष्य नृपतेरावयोः सततं मुने। एकाकिनौ निर्जनेषु भ्रभावो मन्युना सदा किमर्थमात्मजौ पुत्रौ प्रणतौ सततं नृपः। अवज्ञाय महाभाग दायमात्रं न दित्सति तस्मादावां तपस्तप्तुमिच्छावो द्विजसत्तम। उपदेशप्रदानेन चानुगृह्णाति चेद्भवान् ततस्तयोर्वचः श्रुत्वा प्रहस्य मुनिसत्तमः। भूतभव्यभवज्ज्ञानस्ताविदं मुनिरब्रवीत् ।।मुनिरुवाच।। न युवां तनयौ तस्य चन्द्रशेखरभूपतेः। तारावत्यां समुत्पन्नौ भवन्तौ शङ्करात्मजौ सद्यौ जातौ महावीर्यौ वेतालत्वे च सम्मतौ । भृङ्गिमहाकालसंज्ञौ शापाद् धरणिमागतौ युवयोरत्र तेनैव न दायं दित्सति प्रियम्। गच्छतं शरणं तातं शङ्करं वृषभध्वजम् स एव युवयोः सर्वं कारिष्यति महेश्वरः। किं वात्युग्रेण तपसा चिरकालफलेन वै इत्युक्त्वा मुनिशार्दूलः कपोतः परमात्मधृक्। भूतभव्यभवजज्ञानन्ताभ्यां सर्वमथोचिवान् यथा भृङ्गिमहाकालौ शप्ताववनिमागतौ। यथा हरश्च गौरी च पृथिवीमागतौ नृपः तारावती यथा शप्ता तेनैव मुनिना पुरा।? यता तौ च समुत्पन्नौ तारावत्युदरे पुरा यथा वा नारदेनैव संशयच्छेदनं नृपे। तत्सर्वं कथयामास पुत्राभ्यां गिरिशस्य तु तच्छ्रुत्वा तौ महात्मानौ तदा वेतालभैरवौ। मुदा परमया युक्तौ बभूवतुरनिन्दितौ मोदपूर्णौ तदा भूत्वा सिक्त्वाविव सुधारसैः। पुनः पप्रच्छ कपोतं वेतालो भैरवोऽपि च पितावयोर्महादेवस्त्वया सत्यमितीरितम्। सोऽर्चनीयो यथावाभ्यां सिद्धये मुनिसत्तम आवाभ्यां च यथाराध्यो यत्र वाराधितो हरः। प्रसादमेष्यत्यचिरात् तन्नो वद महामते धन्यावनुगृहीतौ नौ यत् त्वया मुनिसत्तम। विज्ञापितमिदं सर्वं हृच्छल्यं चोद्धृतं च नौ पुनरावां दयस्व त्वं कृपामय मुनीश्वर। प्राप्स्यावो न चिराद् भर्गं यथा वद तथैव नौ ।।मनिरुवाच।। शृणु त्वं कथयाम्यद्य यत्र चाराधितो हरः। नचिरादेव भवतोरायास्यति समक्षताम् नित्यं यत्र महादेवो वसन् भवति तुष्टये। युवां तत् सम्प्रवंक्ष्यामि स्थानं गुह्यं प्रकाशितम् वाराणसी नाम पुरी गङ्गातीरे मनोहरे। वरणायास्तथा चासेर्मध्ये चापाकृतिः सदा स्वयं वृषध्वजस्तत्र नित्यं वसति योगिनाम्। सदा प्रीतिकरो योगी स्वयं चाप्यात्मचिन्तकः वियत्स्था सा पुरी नित्यं भर्गयोगबलाद् धृता। दिव्यज्ञानं ददात्येषा तत्र यो म्रियते नरः तस्मै स्वयं महादेवः संसारग्रन्थिमुक्तये। स भूत्वा परमो योगी मृतस्तत्र भवान्तरे सुलभेनैव निर्वाणमाप्नोति हरसम्मतः। योगयुक्तो महादेवः पार्वत्या सहितः सदा देवगन्धर्वयक्षाणां मानुषाणां च नित्यशः। ज्ञेयो हरः प्रकाशश्च क्षेत्रं तच्च प्रकाशितम् न तत्र कामदो देवो नचिराच्च प्रसीदिति। आराधितश्चिरं प्रीत्या निर्वाणाय प्रसीदति गौर्या विवजिता सा तु पुरी तत्र न गच्छति। योगस्थानं महाक्षेत्रं कदाचिदपि शाङ्करी आसन्नं युवयोः क्षेत्रमिदं वाराणसी तु यत्। कथितं नातिदूरे च वर्तते नरसत्तमौ अपरं तु प्रवक्ष्यामि गुह्यं पीठं सदार्चितम्। हरगौरीसमायुक्तं परं धर्मार्थकामदम् तपसा चाति तीव्रोण चिराद् भवति मोक्षदम्। नचिरात् कामदं पुण्यं क्षेत्रं पीठं निगद्यते चिरात् तु कामदो देवो न चिराद् यत्र ज्ञानदः। तत्क्षेत्रमिति लोकेषु गद्यते पूर्ववन्दिभिः कामरूपं महापीठं गुह्याद् गुह्यतमं परम्। सदा सन्निहितस्तत्र पार्वत्या सह शङ्करः न चिरात् पूजितो देवस्तस्मिन् पीठे प्रसीदति। पार्वती चानुगृह्णाति भर्गभक्तं तु तत्र वै ददाति नचिरात् कामं भक्ताय परमेश्वरः। तत् तु पीठं प्रवक्ष्यामि शृणुत साम्प्रतं युवाम् करतोया नदीपूर्वं यावद् दिक्करवासिनीम्। त्रिंशद्योजनविस्तीर्णं योजनैकशतायतम् त्रिकोणं कृष्णवर्णं च प्रभूताचलपूरितम्। नदीशतसमायुक्तं कामरूपं प्रकीर्तितम् शम्भुनेत्राग्निनिर्दग्धः कामः शम्भोरनुग्रहात्। तत्र रूपं यतः प्राप कामरूपं ततोऽभवत् तस्य पीठस्य वायव्यां नैर्ऋत्यां मध्यभागतः। ऐशान्यां च तथाग्नेय्यां मध्ये पार्श्वे च शङ्करः स्वमाश्रमपदं कृत्वा षट्सु स्थानेषु शोभनम्। नित्यं वसति तत्रापि पार्वत्या सह नर्मभिः मध्ये देवीगृहं तत्र तदधीनं तु शङ्करः। नीलाख्ये पर्वतश्रेष्ठे पार्वती तत्र तिष्ठति ऐशान्यां नाटके शैले शङ्करस्य महाश्रमः। नित्यं वसति तत्रेशस्तदधीना च पार्वती अपरे चाश्रमाः सन्ति हरगौर्योः सदातनाः । नैतयो सदृशः कोऽपि विद्यते शङ्कराश्रमः यत्राराध्यो महादेवो भवद्भयां नरसत्तमौ। तत्स्थानं मनसादाय प्रसादय वृषध्वजम् वेतालभैरवावूचतुः।। कामरूपं गमिष्यावौ रहस्यं नाटकाचलम्। गौरीहरौ स्थितौ यत्र नित्यं सन्निहितौ मुने आराधनीयो भूतेशो ह्यवश्यमिह चावयोः। यथैवाराधयिष्यावस्तथाचक्ष्व द्विजोत्तम येन मन्त्रेण वा देवो नचिरात् तु प्रसीदति। तत् त्वं वद महाभागानुग्रहोऽस्त्यावयोर्यदि ।।ऋषिरुवाच।। नाटकं पर्वतश्रेष्ठं गच्छतं नरसत्तमौ। तत्र नित्यं महादेवी रमतेऽपर्णया सह सन्ध्याचले तत्र मुनिराराधयति शङ्करम्। वशिष्ठो ब्रह्मणः पुत्रस्तं युवामनुगच्छतम् स च मन्त्रं सतन्त्रं च हराराधनकर्मणि। ज्ञापयिष्यति वां पृष्टः किल वेतालभैरवौ तपसे गन्तुमिच्छामि नेदानीं कालयापना। युज्यते मम तस्मान्मां त्यजतं वीरसत्तमौ एवमुक्त्वा मुनिश्रेष्ठः कपोतः प्रययौ वनम्। तौ तं मुनिं नमस्कृत्य जग्मतुर्भवनं निजम् अथ तौ समयं कृत्वा दीक्षितौ तपसे तदा। पितरावप्यनुज्ञाप्य भ्रातृनन्यांश्च बान्धवान्। प्रस्थानं कामरूपाय चक्रतुस्तौ महामती तौ गच्छन्तौ परिज्ञाय शङ्करोऽपि सहोमया। देवान् सर्वानुवाचेदं सान्त्वयन्निव सेन्द्रकान् ।।ईश्वर उवाच।। पुत्रौ मे तपसे यातः साम्प्रतं सुरसत्तमाः। ममाराधनचित्तौ तु तौ दयध्वं सुरेश्वराः संस्कृत्य तपसा चैतौ पुत्रौ वेतालभैरवौ। गाणपत्ये नियोक्ष्यामि तौ संस्कुर्वन्तु निर्जराः अनेनैव शरीरेण तौ गणेशत्वमाप्स्यतः। तपसा तु तयोः कायौ भावं त्यत्क्वा तु मानुषम् यथाप्नुतः सौरभावं विधास्यामि ह्यहं तथा। इत्युक्त्वा वामदेवोऽपि पार्वत्या सह पुत्रकौ। गच्छन्तौ वियता स्नेहात् पश्चादनुययौ शिवः शक्राद्यास्त्रिदशाः सर्वे दिक्पालाश्च तथापरे सर्वे हरं चानुजग्मुरनुगच्छन्तमात्मजौ। अथ तौ तु नदीं प्राप्य कृष्णाजिनधरौ तदा आदाय तापसं भावं गङ्गातुल्यां दृषद्वतीम्। तपस्विनौ तु देवेन त्र्यम्बकेणाथ पालितौ देवैः सह तदायातौ कामरूपाह्वयाश्रमम्। आसाद्य कामरूपं तु करतोयानदीजले उपस्पृश्य ततस्तौ तु नन्दिकुण्डं नृपोत्तम। तत्र स्नात्वाप्युपस्पृश्य नदीं गत्वा जटोद्भवाम् उपस्पृश्य च तौ नन्दिनं तपसा धृतम्। प्रणम्य जल्पिशं देवं जग्मतुर्न्नाटकाचलम् नाटकाचलमासाद्य प्रणम्य वृषभध्वजम्। आराधनोपदेशाय कपोतकवचःस्मरौ जग्मतुर्दक्षिणां काष्ठां यत्र सन्ध्याचलः स्थितः। कान्ता नाम नदी तत्र वशिष्ठेनावतारिता तस्यास्तीरे महाशैलः स्निग्धच्छायलतातरुः। सन्ध्यां वशिष्ठः कृतवांस्तत्र यस्माद् विधेः सुतः अतः सन्ध्याचलं नाम तस्य गायन्ति देवताः। तत्रासाद्य वशिष्ठं तु साक्षादिव हुताशनम् आराधयन्तं गिरिशं ध्यानसंयुक्तमानसम्। तपःश्रिया दीप्यमानं द्वितीयमिव भास्करम् प्रणम्य पुरतस्तस्य तदा वेतालभैरवौ। प्राञ्जली तस्थतुर्भूप विनयानतकन्धरौ इदं चाप्यूचतुस्तौ तु प्रणमन्तौ विधेः सुतम्। तारावत्यां समुत्पन्नौ चन्द्रशेखरभूभृतः क्षेत्रे भर्गस्य तनयावावां जानीहि मानुषौ। आराधयितुमिच्छावो हरं कार्यस्य सिद्धये वाञ्छितस्य यदि त्वं नावनुगृह्णासि सुव्रत। तयोस्तद् वचनं श्रुत्वा वशिष्ठो मुनिसत्तमः उवाचेति युवां ज्ञातौ मया सत्यं हरात्मजौ। हरस्याराधनं कार्यं युवयोर्नरसत्तमौ तत्रास्ति मम कृत्यं किं तद्भाषतमनिन्दितौ । वृषध्वजाराधनाय युवयोस्तु प्रयोजनम्। विद्यते तन्निमित्तं यत् तत् सिद्धमिति चिन्त्यताम् ।।वेतालभैरवावूचतुः।। येन मन्त्रेण नचिरात् सम्यगाराधितो हरः। प्रसादमेष्यत्यवनौ तन्नो वद महामुने यथा चाराधयिष्यावस्तन्त्रं यद् यादृशः क्रमः। तत्सर्वं मुनिशार्दूल वक्तुमर्हसि चोत्तरम् यथा त्वदुपदेशेन प्राप्स्यावो नचिराद् हरम्। वाचां मुनिश्रेष्ठ ह्यनुशाधि नतौ त्वयि ।।वसिष्ठ उवाच।। प्रसन्न एव भवतोर्वृषकेतुः सहोमया। नचिरात् स्वयमेवात्र प्रसादं च समेष्यति सर्वैर्देवगणैः सार्धं सभार्यो वृषभध्वजः। आकाशमार्गेणायातः पालयन् स्वसुतौ गृहात् किन्तु मानुषदेहौ वामधिवास्य तपोव्रतैः। स्वयन्नेष्यति कैलासं गाणपत्ये नियोज्य वाम् अहं चाप्युपदेक्ष्यामि यथा भर्गं युवां द्रुतम्। प्राप्स्यथः पार्वतीपुत्रवेकाग्रं शृणुतं तु तत् चिरात् प्रसीदति ध्यानान्नचिराद् ध्यानपूजनात्। तस्माद् ध्यानं पूजनं च कथयाम्यद्य तत्त्वतः तेजोमयः सदा शुद्धो ज्ञानामृतविवर्धितः । जगन्मयश्चिदानन्दः शौरिब्रह्मस्वरूपधृक् महादेवो महामूर्तिर्महायोगयुतः सदा। जगन्ति तस्य रूपाणि तानि को गदितु क्षमः किन्तु यैरिह रूपैस्तु विहरत्येष शङ्करः। तेषां यन्मे ज्ञानगम्यं तत्रेष्टं निगदामि वाम् प्रथमं शृणुतं मन्त्रं ततोऽनुध्यानगोचरम्। ततः क्रमं तु पूजायाः क्रमाद् वृत्तं नरर्षभौ समस्तानां स्वराणां तु दीर्घाः शेषाः सबिन्दुकाः। ऋलृशून्याः सार्धचन्द्रा उपान्तेनाभिसंहिताः एभिः पञ्चाक्षरैर्मन्त्रं पञ्चवक्त्रस्य कीर्तितम्। क्रमात् सम्मदसन्दोह नादगौरवसंज्ञकाः प्रासादस्तु भवेच्छेषः पञ्चमन्त्राः प्रकीर्तिताः। एकैकेन तथैकेकं वक्त्त्रं देवं प्रपूजयेत् एकं समुदितं कृत्वा पञ्चभिर्वा प्रपूजयेत्। प्रसादेनाथ वा पञ्चवक्त्रं देवं प्रपूजयेत् सम्मदादिषु मन्त्रेषु प्रासादस्तु प्रशस्यते। शम्भोः प्रसादनेनैष यस्माद् वृत्तस्तु मन्त्रकः तेन प्रासादसंज्ञोऽयं कथ्यते मुनिसत्तमैः । तस्मात् सर्वेषु मन्त्रेषु प्रासादः प्रीतिदः परः आमोदकारकः शम्भोर्मन्त्रः सम्मद उच्यते। मनःप्रपूरणाच्चापि सन्दोहः परिकीर्तितः आकर्षको भवेन्नादो गुरुत्वाद् गौरवाह्वयः। एतद्व्यस्तं समस्तं च मन्त्रं शम्भोः प्रकीर्तितम् पञ्चाक्षरं तु यन्मन्त्रं पञ्चवक्त्रस्य कीर्तितम्। युवां तेनैव मन्त्रेण आराधयतमीश्वरम् ध्यानं वक्ष्यामि शृणुतं सम्यग् वेतालभैरवौ। पञ्चवक्त्रं महाकायं जटाजूटविभूषितम् चारुचन्द्रकलायुक्तं मूर्ध्नि बालौघभूषितम् । बाहुभिर्दशभिर्युक्तं व्याघ्रचर्मामराम्बरम् कालकूटधरं कण्ठे नागहारोपशोभितम्। किरीटबन्धनं बाहुभूषणं च भुजङ्गमान् बिभ्रतं सर्वगात्रेषु ज्योत्स्नार्पितसुरोचिषम्। भूतिसंलिप्तसर्वाङ्गमेकैकत्र त्रिभिस्त्रिभिः नेत्रैस्तु पञ्चदशभिर्ज्योर्तिष्मद्भिर्विराजितम्। वृषभोपरि संस्थं तु गजकृत्तिपरिच्छदम् सद्योजातं वामदेवमघोरं च ततः परम्। तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्तितम् सद्योजातं भवेच्छुक्लं शुद्धस्फटिकसंनिभम्। पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् नीलवर्णमघोरं तु दंष्ट्वा भीतिविवर्धनम्। रक्तं तत्पुरुषं देवं दिव्यमूर्तिं मनोहरम् श्यामलं च तथेशानं सर्वदैव शिवात्मकम्। चिन्तयेत् पश्चिमे त्वाद्यं द्वितीयं तु तथोत्तरे अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा। ईशानं मध्यतो ज्ञेयं चिन्तयेद् भक्तितत्परः शक्तित्रिशूलखटवाङ्गवरदाभयदं शिवम्। दक्षिणेष्वथ हस्तेषु वामेष्वपि ततः शुभम् अक्षसूत्रं बीजपूरं भुजगं डमरूत्पलम्। अष्टैश्वर्यसमायुक्तं ध्यायेत् तु हृद्गतं शिवम् एवं विचिन्तयेद् ध्याने महादेवं जगत्पतिम्। चिन्तयित्वा द्वारपालान् गणेशादीन् प्रपूजयेत् विशुद्धिं पञ्चभूतानां चिन्तयित्वा ततो मुहुः। अष्टमूर्तीस्ततः पश्चात् पूजयेदष्टनामभिः आसनानि च तस्याथ पूजयेत् सकलानि तु । भावादीन्यष्टपुष्पाणि हृदैव विनियोजयेत् नाराचमुद्रया तस्य ताडनं परिकीर्तितम्। विसर्जनं धेनुमुद्रां दर्शयित्वा विधानतः निर्माल्यधारणं कुर्यात् सदा चण्डेश्वरं धिया। प्रत्येकं पञ्चभिर्मन्त्रैरङ्गादीनि प्रमार्जयेत् सम्मदादिभिरेतस्य पूर्वोक्तैर्नरसत्तमौ। बालां ज्येष्ठां तथा रौद्रीं कालीं च तदनन्तरम् कलविकरिणीं देवीं बलप्रमथिनीं तथा। दमनीं सर्वभूतानां मनोन्मथिनीं तथैव च अष्टौ ताः पूजयेद् देवीः क्रमाच्छम्भोश्च प्रीतये। एवं शिवं पूजयित्वा ध्यानतत्परमानसः जपेन्मालां समादाय मन्त्रं ध्यात्वा तथा गुरुम्। एकं पञ्चाक्षरं मन्त्रमेकं प्रासादमेव वा तत्सक्तमनसौ जप्त्वा शीघ्रं सिद्धिमवाप्स्यथः । इति वां कथितं मन्त्रं ध्यानपूजाक्रमं तथा। गच्छतं नाटकं शैलं तत्राराधयतं हरम् ।।वैतालभैरवावूचतुः।। पञ्चाक्षरस्तु मन्त्रोऽयं धृतस्त्वत्सम्मते मुने। अनेनैव हरं देवं पूजयिष्यावहे मुदा इत्युक्त्वा तन्नमस्कृत्य तदा वेतालभैरवौ। जग्मुतुर्नाटकं शैलं वशिष्ठानुमते नृप तत्रास्ति सरसी रम्या सुसम्पूर्णमनीहरा । सर्वदा स्वच्छसलिला प्रफुल्लकमलोत्पला तस्यास्तीरे तु विपुलः सुमनोज्ञो हराश्रमः। सर्वदा दानवैर्देवैः किन्नरैः प्रमथैस्तथा रक्ष्यते नृपशार्दूल नृत्यवादनतत्परैः। यस्मान्नटनि तत्रेशो नित्यं कौतुकतत्परः तस्मान्नाटकनान्नासौ शैलराजः प्रगीयते। छत्राकारं तु तं शैलं मनोज्ञं शङ्करप्रियम् आसाद्य यत्र सरसी तत्र गत्वा तु तौ तदा। न चैवापश्यतां तत्र हराश्रममनुत्तमम् गन्तुं चैवाश्रमस्थानं तौ नैवाशकतां नृप। ततो हरं प्रणम्याशु स्यैव सरसस्तटे निर्माय स्थण्डिलं चारु वशिष्ठोक्तक्रमेण तु। हरमाराद्धुमारेभे वेतालो भैरवोऽपि च आराधयन्तौ बूतेशां तौ तदा शङ्करात्मजौ। दृष्ट्वा हरो देवगणैः सार्धं तस्मिंस्तु पर्वते। अधित्यकायां न्यवसत् स्वाश्रमेऽपर्णया सह अधोभागे सरस्तीरे तपस्यन्तौ हरात्मजौ। स्थितौ दृष्ट्वा देवगणैः सहितः शङ्करः स्थितः नृत्यमर्दलशब्दो यो हरस्य सततं भवेत्। शृणुतस्तौ तदा शब्दं गन्तुं द्रष्टुं न लभ्यते हरेणाधिष्ठितः शैलः सर्वदेवगणैः सह। राजते स्म तदा भूप सुधर्मा वासवी यथा ध्यायतोस्तु तदा तत्र भगवान् वृषभध्वजः। नचिरादेव तस्याभूद् ध्यानमार्गेषु निश्चलः तौ पूजयन्तौ गच्छन्तौ स्थितौ वा चन्द्रशेखरम्। नैव तत्यजतुश्चित्तैः कदाचिदपि भूमिप पञ्चाक्षरेण मन्त्रेण पूजयन्तौ वृषध्वजम्। व्यतिचक्रमतुस्तौ तु सहस्रं परिवत्सरान् निराहारौ यताहारौ हरसंसक्तमानसौ। तपसा निन्यतुर्वर्षान् सहस्रं चैकवर्षवत् गते वर्षसहस्रे तु स्वयमेव वृषध्वजः। प्रसङ्गस्तु तयोर्भूत्वा प्रत्यक्षत्वमुपागतः तं तु प्रत्यक्षतो दृष्टवा तदा वेतालभैरवौ। वृषध्वजं तुष्टुवतुर्ध्यानगम्यं पुरःस्थितम् हररूपं यथाध्यातं हृद्गतं तेजसोज्ज्वलम्। तथा दृष्ट्वा ततस्ताभ्यां वशिष्ठस्यानुमानतः ।।वेतालभैरवावूचतुः।। प़ञ्चवक्त्रं महाकाव्यं सर्वज्ञानमयं परम्। संसारसागरत्राणं प्रणमावो वृषध्वजम् त्वं परः परमात्मा च परेशः पुरुषोत्तमः। त्वं कूटस्थो जगद्व्यापी प्रधानः परमेश्वरः रूपात्मा त्वं महातत्त्वं तत्त्वज्ञानालयः प्रभुः। सांख्ययोगालयः शुद्धो गुणत्रयविभागवित् त्वं नित यस्त्वमनित्यश्च जगत्कर्ता लयः स्मृतः। एकोऽनेकस्वरूपश्च शान्तचेष्टो जगन्मयः निर्विकारो निराधारो नित्यानन्दः सनातनः। त्वं विष्णुस्त्वं महेन्द्रस्त्वं ब्रह्मा त्वं जगतां पतिः यो रूपरूपेश्वररत्नमालः सम्भूतिभूतो निरवग्रहश्च। कांक्ष्यावतीर्णावगतप्रमाथी योगेश्वरो ज्ञानगतिस्त्वगम्यः प्रमेयरूपात्मधराधराभो भोगीन्द्रबद्धामृतभोगतन्त्रः। सूक्ष्माक्षरस्तत्त्वविदप्रमाथी त्वं देवदेवः शरणं सुराणाम् विकल्पमानापरिहीनदेहः शुद्धान्तधामानुगतैकविद्यः। वर्धिष्णुरुग्रः पुरुषः परात्मा त्वमिन्द्रियौघस्य विचारबुद्धि त्वं नाथनाथ प्रभवः परेषां गतिर्मुनीनां परयोगिगम्यः। त्वंभूधरो भागधरो ह्यनन्तो विश्वात्मनस्ते बहवः प्रपञ्चाः ज्ञानामृतस्यन्दकपूर्णचन्द्रो मोहान्धकारस्य परः प्रदीपः । भक्तात्मजानां परमः पिता त्वं कामे च पञ्चाननरूपधारी शास्ताखिलानां प्रथमो विवस्वांस्तनूनपात् त्वं तनुषे गुणैधान्। त्वं ब्रह्मरूपेण करोषि सृष्टिं विष्णुस्वरूपैः सततं स्थितिं च त्वं रुद्ररूपी कुरुषे तथान्तं त्वत्तौ न चान्यज्जगतीह वस्तु। त्वं रात्रिनाथो दिवसेश्वरश्च त्वमग्निरापः पवनो धरित्री नभस्तथा त्वं क्रतुतन्त्रहोता त्वमष्टमूर्तिर्भवतो न चान्यत्। अनन्तमूर्तिस्त्विह मुख्यभावान्निगाद्यते चाष्टमयी त्रिमूर्तिः अनन्तमूर्ते कथमन्यथा ते संख्यास्ति रूपस्य यदष्टमूर्तिः। त्वं त्र्यम्बकस्त्वं त्रिपुरान्तकश्च त्व शम्भुरीशः शमनो विधाता सहस्रबाहुश्च हिरण्यबाहुः सहस्रमूर्तिस्त्विह पञ्चवक्त्रः। प्रभूतनेत्रस्तु षडर्द्धनेत्रः प्रभूतबाहुर्दशबाहुरीशः प्रभूतभोगी मितभोगयुक्तो भोग्यानुसारो निरवग्रहश्च नित्यानित्यस्वरूपाय नित्यधामस्वरूपिणे। परतत्त्वस्वरूपाय नमस्तुभ्यं शिवात्मने नान्तं लिङ्गस्य यस्याप्तं विष्णुना ब्रह्मणा तव। तस्यावां कि विधास्यावः स्तुतिवाक्यं वृषध्वजः स्वरूपं यस्य जानन्ति न देवा नापि दानवाः। बालावावां कथन्तु त्वां स्तोष्यावः परमेश्वर भक्तिमात्रेण देवेश तवावां वृषभध्वज। कुर्वः प्रणामं गौरीश भूयस्तुभ्यं नमो नमः ।।और्व्व उवाच।। इति स्तुतो महादेवो वेतालेन महात्मना। भैरवेणापि राजेन्द्र प्रसन्नः प्राह तौ तदा ।।श्री भगवानुवाच।। तुष्टोऽस्मि युवयोः पुत्रौ वृणुतं वाञ्छितं वरम्। दास्यामि युवयोरिष्टं प्रसन्नोऽहं तपोव्रतैः स्तुतिभिस्तु दमैश्चापि तथैकान्तानुचिन्तनैः। मुहुर्मुहुः सुप्रसन्न इष्टं दास्यामि वां सुतौ ।।वेतालभैरवावूचतुः।। तुष्टोऽसि यदि सत्यं नौ सत्यमावां सुतौ यदि। वृषध्वज तवैवेह तदेष्टं देहि नौ वरम् सुतभावेन पितरं भवन्तं जगतां पतिम्। नित्यं यथावगच्छावस्तथा देहि वरं तु नौ न राज्यमभिकांक्षावो न धनं नान्यदेव वा। त्वद्भक्त्या सेवनं कर्तुं तवेच्छावो वृषध्वज त्वत्पादपङ्कजद्वन्द्वे नित्यं मधुकरात्मताम्। त्वयि प्रसन्ने नेत्राणां युगले प्राप्नुतां सदा इतोऽन्यथा त्वच्चिन्ताभिस्त्वद्ध्यानैस्त्वत्प्रपूजनैः। कल्पकोटिसहस्राणि यान्तु सम्यक्तथावयोः ।।और्व्व उवाच।। ततस्तद् वचनं श्रुत्वा महादेवो हसन्निव। सर्वैर्देवगणैः सार्धं देवत्वमकरोत्तयोः देवेन्द्रसम्मतेनैव सुधामानीय नाकतः। वेतालभैरवौ तान्तु पाययामास शङ्करः पीतेऽमृते ततस्तौ तु मर्त्यतां नरसत्तमौ। अमर्त्यतां परित्यज्य प्रापतुः शिवशक्तितः तस्मिन्काले स्वपन्तौ तु दिव्यज्ञानबलान्वितौ। दिव्यरूपोपसम्पन्नौ बभूवतुररिन्दमौ अभिन्नेनैव देहेन देवत्वं गतयोस्तयोः। प्राह शम्भुस्तदा तौ तु सुतौ परमहर्षितौ ।।भगवानुवाच।। अहं तृष्टस्तु युवयोः पार्वतीं दयितां मम। मद्दत्तं काममिच्छन्तावाराधयतमीश्वरीम् तामृते तु न शक्नोमि दातुमिष्टं सनातनम्। सेवितिं च सुतौ नित्यं शरणं व्रजतं शिवाम् अचिराद् येन भावेन प्रीतिं देवी गमिष्यति। अत्र वा तत्र वा गत्वा भावेन चार्य्यताम्

||aurvva uvāca|| atha kālakrameṇaiva pravṛddhāste mahābalāḥ| śastrāstrajñānakuśalāḥ śāstrārthapariniṣṭhitāḥ samprāptayauvanā dīptā durdharṣāḥ paripanthibhiḥ| dhamārthajñānakuśalā brahmaṇyāḥ satyavādinaḥ sadā sahacarau tatra prītyā vetālabhairavau| alarkau damanaścaiva tathoparicarastrayaḥ| sadā sahacarā nityaṃ bhrātaraścāndraśekharāḥ triṣvātmajeṣu nṛpateḥ sadoparicarādiṣu| mamatvamadhikaṃ nityaṃ prītisnehau tathādhikau vetāle bhairave cāpi candrasekharabhūbhṛtaḥ| nāstyeva tādṛśī prītiryādṛśī teṣu jāyate na tau dṛṣṭvā sa nṛpatiḥ kadāciccandraśekharaḥ| atyāhlādayate'jasraṃ putrabuddhyeṣyate'thavā tau vīrau dharmakuśalau mahābalaparākramau| trailokyavijaye dakṣau śastrāstragrāmapāragau tābhyāṃ bibheti ca nṛpaḥ kadā kiṃvā kariṣyataḥ| vetālabhairavāvetau māṃ sutān rājyameva vā iti cintāparo rājā nityameva nirīkṣate| praṇatāvapi tatputrau samyag vetālabhairavau athoparicaraṃ rājā yauvarājye'bhyaṣecayat| jyāyāṃsamaurasaṃ putraṃ sarvarājaguṇairyutam yaḥ paścāt sarvabhūpālān yojayiṣyati nītibhiḥ| rājoparicaro nāma sarvaśāstrārthapāragaḥ damanāya dadau dāyaṃ tathālarkāya bhūmibhṛt| prabhūtadhanaratnāni tathāsanarathān bahūn tāvanti na dadau tābhyāṃ dāyavittāni bhāgaśaḥ| vetālabhairavābhyāṃ tu tatastau manyurāviśat manyunābhiparītau tau vicarantāvitastataḥ| na bhogamīpsatāṃ vīrau tapase ca kṛtodyamau| anūḍhabhāryau satataṃ nirjane vasataḥ sadā tathābhūtau tadā putrau devau vetālabhairavau| bubudhe cintayākrāntā devī tārāvatī tadā rājoparicarād bhītā patyuśca candraśekharāt| novāca kiñcita sudatīcchannaṃ tau bodhayatyapi etasminnantare vidvān kapoto munisattamaḥ| citrāṅgadāsaṅgabhogī santuṣṭaḥ suratotsavaiḥ citrāṅgadāṃ parityajya saputrāṃ sahacāriṇīm| iyeṣa gantuṃ sa proce tadā citrāṅgadāṃ vacaḥ ||muniruvāca|| citrāṅgade tapastaptuṃ gamiṣyāmi tapovanam| kiṃ te priyaṃ karomīha taṃ me vada manohare ||citrāṅgadovāca|| tamburuśca suvarcāśca tanayau tava suvrata| etayostvaṃ muniśreṣṭha priyaṃ kuru yathocitam māṃ cāpi bhaginīgehe saṃsthāpya dvijasattam| tadā tapovanaṃ gaccha yadi te rocate'nagha iti śrutvā vacastasyāḥ kapoto munisattamaḥ| hiraṇyārthaṃ samālocya kuberasadanaṃ yayau prārthayitvā kuberaṃ tu suvarṇānāṃ śatāni ṣaṭ| niṣkāṇāṃ tu sahasrāṇi sa lebhe munisattamaḥ śataṃ bhārāṃśca ratnānāmānīya va savīvadhaiḥ| putrābhyāṃ pradadau vipro bhāryāyai ca viśeṣataḥ tatastāṃ sahaputrābhyāṃ tairdhanairapi bhūribhiḥ| citrāṅgadāmatenātha putrayorapi sammate suvarcasaṃ tumburuṃ ca tathā citrāṅgadāmapi| āmantrya muniśārdūlaḥ karavīrapuraṃ yayau tatra gatvā sa kapoto rājānaṃ candraśekharam| rājoparicaraṃ caiva vākyametaduvāca ha iyaṃ kakutsthajā bhūpa tavaiva viditā purā| sadyojātau tathaivāsyāmetau me tanayau śucī ebhirvittaiḥ samaṃ putrau mama tvaṃ pratipālaya| rājoparicaraścāpi pālayatviha me sutau aputrasya nṛpaḥ putro nirdhanasya dhanaṃ nṛpaḥ| amāturjananī rājā hyatātasya pitā nṛpaḥ anāthasya nṛpo nātho hyabhartuḥ pārthivaḥ patiḥ| abhṛtyasya nṛpo bhṛtyo nṛpa eva nṛṇāṃ sakhā| sarvadevamayo rājā tasmāt tvāmarthaye nṛpaḥ ||aurvva uvāca|| tataḥ sa rājā taṃ prāha munimevaṃ dvijottamam| kariṣye tvadvacaścāhaṃ rājoparicaraśca saḥ atha citrāṅgadā rājā jagrāha minisammate| sutau ca tasya sadhanau jyāyase sūnave dadau sa coparicaraḥ prādādrājyamardhaṃ suvarcase| tathaiva sacivādhyakṣamakarottumburuṃ tadā kapota ścāpi suprītaḥ putrārdha samavekṣya ca| jagāmāmantrya nṛpatiṃ tapase ca tapovanam pathi gacchan sa kapotaḥ śambhuputrau manoharau| ekākinau carantau tu sūryācandramasāviba tayordadṛdarśa ca tadā vadane vānarākṛtī| smṛtvā pūrvakathāṃ dṛṣṭvā tāvapṛcchat tapodhanaḥ kau yuvāṃ devagarbhābhau carantau vijane pathi| ekākinau naraśreṣṭhau tanme vadatamīritam atha tau praṇipatyainaṃ sambhāṣya ca samañjasam| kapotākhyaṃ muniśreṣṭhamūcatuḥ śaṅkarātmajau candraśekharaputrau nau tārāvatyāṃ samudgatau| viddhi tvaṃ muniśārdūla praṇamāvaḥ padaṃ tava avajñāṃ vīkṣya nṛpaterāvayoḥ satataṃ mune| ekākinau nirjaneṣu bhrabhāvo manyunā sadā kimarthamātmajau putrau praṇatau satataṃ nṛpaḥ| avajñāya mahābhāga dāyamātraṃ na ditsati tasmādāvāṃ tapastaptumicchāvo dvijasattama| upadeśapradānena cānugṛhṇāti cedbhavān tatastayorvacaḥ śrutvā prahasya munisattamaḥ| bhūtabhavyabhavajjñānastāvidaṃ munirabravīt ||muniruvāca|| na yuvāṃ tanayau tasya candraśekharabhūpateḥ| tārāvatyāṃ samutpannau bhavantau śaṅkarātmajau sadyau jātau mahāvīryau vetālatve ca sammatau | bhṛṅgimahākālasaṃjñau śāpād dharaṇimāgatau yuvayoratra tenaiva na dāyaṃ ditsati priyam| gacchataṃ śaraṇaṃ tātaṃ śaṅkaraṃ vṛṣabhadhvajam sa eva yuvayoḥ sarvaṃ kāriṣyati maheśvaraḥ| kiṃ vātyugreṇa tapasā cirakālaphalena vai ityuktvā muniśārdūlaḥ kapotaḥ paramātmadhṛk| bhūtabhavyabhavajajñānantābhyāṃ sarvamathocivān yathā bhṛṅgimahākālau śaptāvavanimāgatau| yathā haraśca gaurī ca pṛthivīmāgatau nṛpaḥ tārāvatī yathā śaptā tenaiva muninā purā|? yatā tau ca samutpannau tārāvatyudare purā yathā vā nāradenaiva saṃśayacchedanaṃ nṛpe| tatsarvaṃ kathayāmāsa putrābhyāṃ giriśasya tu tacchrutvā tau mahātmānau tadā vetālabhairavau| mudā paramayā yuktau babhūvaturaninditau modapūrṇau tadā bhūtvā siktvāviva sudhārasaiḥ| punaḥ papraccha kapotaṃ vetālo bhairavo'pi ca pitāvayormahādevastvayā satyamitīritam| so'rcanīyo yathāvābhyāṃ siddhaye munisattama āvābhyāṃ ca yathārādhyo yatra vārādhito haraḥ| prasādameṣyatyacirāt tanno vada mahāmate dhanyāvanugṛhītau nau yat tvayā munisattama| vijñāpitamidaṃ sarvaṃ hṛcchalyaṃ coddhṛtaṃ ca nau punarāvāṃ dayasva tvaṃ kṛpāmaya munīśvara| prāpsyāvo na cirād bhargaṃ yathā vada tathaiva nau ||maniruvāca|| śṛṇu tvaṃ kathayāmyadya yatra cārādhito haraḥ| nacirādeva bhavatorāyāsyati samakṣatām nityaṃ yatra mahādevo vasan bhavati tuṣṭaye| yuvāṃ tat sampravaṃkṣyāmi sthānaṃ guhyaṃ prakāśitam vārāṇasī nāma purī gaṅgātīre manohare| varaṇāyāstathā cāsermadhye cāpākṛtiḥ sadā svayaṃ vṛṣadhvajastatra nityaṃ vasati yoginām| sadā prītikaro yogī svayaṃ cāpyātmacintakaḥ viyatsthā sā purī nityaṃ bhargayogabalād dhṛtā| divyajñānaṃ dadātyeṣā tatra yo mriyate naraḥ tasmai svayaṃ mahādevaḥ saṃsāragranthimuktaye| sa bhūtvā paramo yogī mṛtastatra bhavāntare sulabhenaiva nirvāṇamāpnoti harasammataḥ| yogayukto mahādevaḥ pārvatyā sahitaḥ sadā devagandharvayakṣāṇāṃ mānuṣāṇāṃ ca nityaśaḥ| jñeyo haraḥ prakāśaśca kṣetraṃ tacca prakāśitam na tatra kāmado devo nacirācca prasīditi| ārādhitaściraṃ prītyā nirvāṇāya prasīdati gauryā vivajitā sā tu purī tatra na gacchati| yogasthānaṃ mahākṣetraṃ kadācidapi śāṅkarī āsannaṃ yuvayoḥ kṣetramidaṃ vārāṇasī tu yat| kathitaṃ nātidūre ca vartate narasattamau aparaṃ tu pravakṣyāmi guhyaṃ pīṭhaṃ sadārcitam| haragaurīsamāyuktaṃ paraṃ dharmārthakāmadam tapasā cāti tīvroṇa cirād bhavati mokṣadam| nacirāt kāmadaṃ puṇyaṃ kṣetraṃ pīṭhaṃ nigadyate cirāt tu kāmado devo na cirād yatra jñānadaḥ| tatkṣetramiti lokeṣu gadyate pūrvavandibhiḥ kāmarūpaṃ mahāpīṭhaṃ guhyād guhyatamaṃ param| sadā sannihitastatra pārvatyā saha śaṅkaraḥ na cirāt pūjito devastasmin pīṭhe prasīdati| pārvatī cānugṛhṇāti bhargabhaktaṃ tu tatra vai dadāti nacirāt kāmaṃ bhaktāya parameśvaraḥ| tat tu pīṭhaṃ pravakṣyāmi śṛṇuta sāmprataṃ yuvām karatoyā nadīpūrvaṃ yāvad dikkaravāsinīm| triṃśadyojanavistīrṇaṃ yojanaikaśatāyatam trikoṇaṃ kṛṣṇavarṇaṃ ca prabhūtācalapūritam| nadīśatasamāyuktaṃ kāmarūpaṃ prakīrtitam śambhunetrāgninirdagdhaḥ kāmaḥ śambhoranugrahāt| tatra rūpaṃ yataḥ prāpa kāmarūpaṃ tato'bhavat tasya pīṭhasya vāyavyāṃ nairṛtyāṃ madhyabhāgataḥ| aiśānyāṃ ca tathāgneyyāṃ madhye pārśve ca śaṅkaraḥ svamāśramapadaṃ kṛtvā ṣaṭsu sthāneṣu śobhanam| nityaṃ vasati tatrāpi pārvatyā saha narmabhiḥ madhye devīgṛhaṃ tatra tadadhīnaṃ tu śaṅkaraḥ| nīlākhye parvataśreṣṭhe pārvatī tatra tiṣṭhati aiśānyāṃ nāṭake śaile śaṅkarasya mahāśramaḥ| nityaṃ vasati tatreśastadadhīnā ca pārvatī apare cāśramāḥ santi haragauryoḥ sadātanāḥ | naitayo sadṛśaḥ ko'pi vidyate śaṅkarāśramaḥ yatrārādhyo mahādevo bhavadbhayāṃ narasattamau| tatsthānaṃ manasādāya prasādaya vṛṣadhvajam vetālabhairavāvūcatuḥ|| kāmarūpaṃ gamiṣyāvau rahasyaṃ nāṭakācalam| gaurīharau sthitau yatra nityaṃ sannihitau mune ārādhanīyo bhūteśo hyavaśyamiha cāvayoḥ| yathaivārādhayiṣyāvastathācakṣva dvijottama yena mantreṇa vā devo nacirāt tu prasīdati| tat tvaṃ vada mahābhāgānugraho'styāvayoryadi ||ṛṣiruvāca|| nāṭakaṃ parvataśreṣṭhaṃ gacchataṃ narasattamau| tatra nityaṃ mahādevī ramate'parṇayā saha sandhyācale tatra munirārādhayati śaṅkaram| vaśiṣṭho brahmaṇaḥ putrastaṃ yuvāmanugacchatam sa ca mantraṃ satantraṃ ca harārādhanakarmaṇi| jñāpayiṣyati vāṃ pṛṣṭaḥ kila vetālabhairavau tapase gantumicchāmi nedānīṃ kālayāpanā| yujyate mama tasmānmāṃ tyajataṃ vīrasattamau evamuktvā muniśreṣṭhaḥ kapotaḥ prayayau vanam| tau taṃ muniṃ namaskṛtya jagmaturbhavanaṃ nijam atha tau samayaṃ kṛtvā dīkṣitau tapase tadā| pitarāvapyanujñāpya bhrātṛnanyāṃśca bāndhavān| prasthānaṃ kāmarūpāya cakratustau mahāmatī tau gacchantau parijñāya śaṅkaro'pi sahomayā| devān sarvānuvācedaṃ sāntvayanniva sendrakān ||īśvara uvāca|| putrau me tapase yātaḥ sāmprataṃ surasattamāḥ| mamārādhanacittau tu tau dayadhvaṃ sureśvarāḥ saṃskṛtya tapasā caitau putrau vetālabhairavau| gāṇapatye niyokṣyāmi tau saṃskurvantu nirjarāḥ anenaiva śarīreṇa tau gaṇeśatvamāpsyataḥ| tapasā tu tayoḥ kāyau bhāvaṃ tyatkvā tu mānuṣam yathāpnutaḥ saurabhāvaṃ vidhāsyāmi hyahaṃ tathā| ityuktvā vāmadevo'pi pārvatyā saha putrakau| gacchantau viyatā snehāt paścādanuyayau śivaḥ śakrādyāstridaśāḥ sarve dikpālāśca tathāpare sarve haraṃ cānujagmuranugacchantamātmajau| atha tau tu nadīṃ prāpya kṛṣṇājinadharau tadā ādāya tāpasaṃ bhāvaṃ gaṅgātulyāṃ dṛṣadvatīm| tapasvinau tu devena tryambakeṇātha pālitau devaiḥ saha tadāyātau kāmarūpāhvayāśramam| āsādya kāmarūpaṃ tu karatoyānadījale upaspṛśya tatastau tu nandikuṇḍaṃ nṛpottama| tatra snātvāpyupaspṛśya nadīṃ gatvā jaṭodbhavām upaspṛśya ca tau nandinaṃ tapasā dhṛtam| praṇamya jalpiśaṃ devaṃ jagmaturnnāṭakācalam nāṭakācalamāsādya praṇamya vṛṣabhadhvajam| ārādhanopadeśāya kapotakavacaḥsmarau jagmaturdakṣiṇāṃ kāṣṭhāṃ yatra sandhyācalaḥ sthitaḥ| kāntā nāma nadī tatra vaśiṣṭhenāvatāritā tasyāstīre mahāśailaḥ snigdhacchāyalatātaruḥ| sandhyāṃ vaśiṣṭhaḥ kṛtavāṃstatra yasmād vidheḥ sutaḥ ataḥ sandhyācalaṃ nāma tasya gāyanti devatāḥ| tatrāsādya vaśiṣṭhaṃ tu sākṣādiva hutāśanam ārādhayantaṃ giriśaṃ dhyānasaṃyuktamānasam| tapaḥśriyā dīpyamānaṃ dvitīyamiva bhāskaram praṇamya puratastasya tadā vetālabhairavau| prāñjalī tasthaturbhūpa vinayānatakandharau idaṃ cāpyūcatustau tu praṇamantau vidheḥ sutam| tārāvatyāṃ samutpannau candraśekharabhūbhṛtaḥ kṣetre bhargasya tanayāvāvāṃ jānīhi mānuṣau| ārādhayitumicchāvo haraṃ kāryasya siddhaye vāñchitasya yadi tvaṃ nāvanugṛhṇāsi suvrata| tayostad vacanaṃ śrutvā vaśiṣṭho munisattamaḥ uvāceti yuvāṃ jñātau mayā satyaṃ harātmajau| harasyārādhanaṃ kāryaṃ yuvayornarasattamau tatrāsti mama kṛtyaṃ kiṃ tadbhāṣatamaninditau | vṛṣadhvajārādhanāya yuvayostu prayojanam| vidyate tannimittaṃ yat tat siddhamiti cintyatām ||vetālabhairavāvūcatuḥ|| yena mantreṇa nacirāt samyagārādhito haraḥ| prasādameṣyatyavanau tanno vada mahāmune yathā cārādhayiṣyāvastantraṃ yad yādṛśaḥ kramaḥ| tatsarvaṃ muniśārdūla vaktumarhasi cottaram yathā tvadupadeśena prāpsyāvo nacirād haram| vācāṃ muniśreṣṭha hyanuśādhi natau tvayi ||vasiṣṭha uvāca|| prasanna eva bhavatorvṛṣaketuḥ sahomayā| nacirāt svayamevātra prasādaṃ ca sameṣyati sarvairdevagaṇaiḥ sārdhaṃ sabhāryo vṛṣabhadhvajaḥ| ākāśamārgeṇāyātaḥ pālayan svasutau gṛhāt kintu mānuṣadehau vāmadhivāsya tapovrataiḥ| svayanneṣyati kailāsaṃ gāṇapatye niyojya vām ahaṃ cāpyupadekṣyāmi yathā bhargaṃ yuvāṃ drutam| prāpsyathaḥ pārvatīputravekāgraṃ śṛṇutaṃ tu tat cirāt prasīdati dhyānānnacirād dhyānapūjanāt| tasmād dhyānaṃ pūjanaṃ ca kathayāmyadya tattvataḥ tejomayaḥ sadā śuddho jñānāmṛtavivardhitaḥ | jaganmayaścidānandaḥ śauribrahmasvarūpadhṛk mahādevo mahāmūrtirmahāyogayutaḥ sadā| jaganti tasya rūpāṇi tāni ko gaditu kṣamaḥ kintu yairiha rūpaistu viharatyeṣa śaṅkaraḥ| teṣāṃ yanme jñānagamyaṃ tatreṣṭaṃ nigadāmi vām prathamaṃ śṛṇutaṃ mantraṃ tato'nudhyānagocaram| tataḥ kramaṃ tu pūjāyāḥ kramād vṛttaṃ nararṣabhau samastānāṃ svarāṇāṃ tu dīrghāḥ śeṣāḥ sabindukāḥ| ṛlṛśūnyāḥ sārdhacandrā upāntenābhisaṃhitāḥ ebhiḥ pañcākṣarairmantraṃ pañcavaktrasya kīrtitam| kramāt sammadasandoha nādagauravasaṃjñakāḥ prāsādastu bhaveccheṣaḥ pañcamantrāḥ prakīrtitāḥ| ekaikena tathaikekaṃ vakttraṃ devaṃ prapūjayet ekaṃ samuditaṃ kṛtvā pañcabhirvā prapūjayet| prasādenātha vā pañcavaktraṃ devaṃ prapūjayet sammadādiṣu mantreṣu prāsādastu praśasyate| śambhoḥ prasādanenaiṣa yasmād vṛttastu mantrakaḥ tena prāsādasaṃjño'yaṃ kathyate munisattamaiḥ | tasmāt sarveṣu mantreṣu prāsādaḥ prītidaḥ paraḥ āmodakārakaḥ śambhormantraḥ sammada ucyate| manaḥprapūraṇāccāpi sandohaḥ parikīrtitaḥ ākarṣako bhavennādo gurutvād gauravāhvayaḥ| etadvyastaṃ samastaṃ ca mantraṃ śambhoḥ prakīrtitam pañcākṣaraṃ tu yanmantraṃ pañcavaktrasya kīrtitam| yuvāṃ tenaiva mantreṇa ārādhayatamīśvaram dhyānaṃ vakṣyāmi śṛṇutaṃ samyag vetālabhairavau| pañcavaktraṃ mahākāyaṃ jaṭājūṭavibhūṣitam cārucandrakalāyuktaṃ mūrdhni bālaughabhūṣitam | bāhubhirdaśabhiryuktaṃ vyāghracarmāmarāmbaram kālakūṭadharaṃ kaṇṭhe nāgahāropaśobhitam| kirīṭabandhanaṃ bāhubhūṣaṇaṃ ca bhujaṅgamān bibhrataṃ sarvagātreṣu jyotsnārpitasurociṣam| bhūtisaṃliptasarvāṅgamekaikatra tribhistribhiḥ netraistu pañcadaśabhirjyortiṣmadbhirvirājitam| vṛṣabhopari saṃsthaṃ tu gajakṛttiparicchadam sadyojātaṃ vāmadevamaghoraṃ ca tataḥ param| tatpuruṣaṃ tatheśānaṃ pañcavaktraṃ prakīrtitam sadyojātaṃ bhavecchuklaṃ śuddhasphaṭikasaṃnibham| pītavarṇaṃ tathā saumyaṃ vāmadevaṃ manoharam nīlavarṇamaghoraṃ tu daṃṣṭvā bhītivivardhanam| raktaṃ tatpuruṣaṃ devaṃ divyamūrtiṃ manoharam śyāmalaṃ ca tatheśānaṃ sarvadaiva śivātmakam| cintayet paścime tvādyaṃ dvitīyaṃ tu tathottare aghoraṃ dakṣiṇe devaṃ pūrve tatpuruṣaṃ tathā| īśānaṃ madhyato jñeyaṃ cintayed bhaktitatparaḥ śaktitriśūlakhaṭavāṅgavaradābhayadaṃ śivam| dakṣiṇeṣvatha hasteṣu vāmeṣvapi tataḥ śubham akṣasūtraṃ bījapūraṃ bhujagaṃ ḍamarūtpalam| aṣṭaiśvaryasamāyuktaṃ dhyāyet tu hṛdgataṃ śivam evaṃ vicintayed dhyāne mahādevaṃ jagatpatim| cintayitvā dvārapālān gaṇeśādīn prapūjayet viśuddhiṃ pañcabhūtānāṃ cintayitvā tato muhuḥ| aṣṭamūrtīstataḥ paścāt pūjayedaṣṭanāmabhiḥ āsanāni ca tasyātha pūjayet sakalāni tu | bhāvādīnyaṣṭapuṣpāṇi hṛdaiva viniyojayet nārācamudrayā tasya tāḍanaṃ parikīrtitam| visarjanaṃ dhenumudrāṃ darśayitvā vidhānataḥ nirmālyadhāraṇaṃ kuryāt sadā caṇḍeśvaraṃ dhiyā| pratyekaṃ pañcabhirmantrairaṅgādīni pramārjayet sammadādibhiretasya pūrvoktairnarasattamau| bālāṃ jyeṣṭhāṃ tathā raudrīṃ kālīṃ ca tadanantaram kalavikariṇīṃ devīṃ balapramathinīṃ tathā| damanīṃ sarvabhūtānāṃ manonmathinīṃ tathaiva ca aṣṭau tāḥ pūjayed devīḥ kramācchambhośca prītaye| evaṃ śivaṃ pūjayitvā dhyānatatparamānasaḥ japenmālāṃ samādāya mantraṃ dhyātvā tathā gurum| ekaṃ pañcākṣaraṃ mantramekaṃ prāsādameva vā tatsaktamanasau japtvā śīghraṃ siddhimavāpsyathaḥ | iti vāṃ kathitaṃ mantraṃ dhyānapūjākramaṃ tathā| gacchataṃ nāṭakaṃ śailaṃ tatrārādhayataṃ haram ||vaitālabhairavāvūcatuḥ|| pañcākṣarastu mantro'yaṃ dhṛtastvatsammate mune| anenaiva haraṃ devaṃ pūjayiṣyāvahe mudā ityuktvā tannamaskṛtya tadā vetālabhairavau| jagmuturnāṭakaṃ śailaṃ vaśiṣṭhānumate nṛpa tatrāsti sarasī ramyā susampūrṇamanīharā | sarvadā svacchasalilā praphullakamalotpalā tasyāstīre tu vipulaḥ sumanojño harāśramaḥ| sarvadā dānavairdevaiḥ kinnaraiḥ pramathaistathā rakṣyate nṛpaśārdūla nṛtyavādanatatparaiḥ| yasmānnaṭani tatreśo nityaṃ kautukatatparaḥ tasmānnāṭakanānnāsau śailarājaḥ pragīyate| chatrākāraṃ tu taṃ śailaṃ manojñaṃ śaṅkarapriyam āsādya yatra sarasī tatra gatvā tu tau tadā| na caivāpaśyatāṃ tatra harāśramamanuttamam gantuṃ caivāśramasthānaṃ tau naivāśakatāṃ nṛpa| tato haraṃ praṇamyāśu syaiva sarasastaṭe nirmāya sthaṇḍilaṃ cāru vaśiṣṭhoktakrameṇa tu| haramārāddhumārebhe vetālo bhairavo'pi ca ārādhayantau būteśāṃ tau tadā śaṅkarātmajau| dṛṣṭvā haro devagaṇaiḥ sārdhaṃ tasmiṃstu parvate| adhityakāyāṃ nyavasat svāśrame'parṇayā saha adhobhāge sarastīre tapasyantau harātmajau| sthitau dṛṣṭvā devagaṇaiḥ sahitaḥ śaṅkaraḥ sthitaḥ nṛtyamardalaśabdo yo harasya satataṃ bhavet| śṛṇutastau tadā śabdaṃ gantuṃ draṣṭuṃ na labhyate hareṇādhiṣṭhitaḥ śailaḥ sarvadevagaṇaiḥ saha| rājate sma tadā bhūpa sudharmā vāsavī yathā dhyāyatostu tadā tatra bhagavān vṛṣabhadhvajaḥ| nacirādeva tasyābhūd dhyānamārgeṣu niścalaḥ tau pūjayantau gacchantau sthitau vā candraśekharam| naiva tatyajatuścittaiḥ kadācidapi bhūmipa pañcākṣareṇa mantreṇa pūjayantau vṛṣadhvajam| vyaticakramatustau tu sahasraṃ parivatsarān nirāhārau yatāhārau harasaṃsaktamānasau| tapasā ninyaturvarṣān sahasraṃ caikavarṣavat gate varṣasahasre tu svayameva vṛṣadhvajaḥ| prasaṅgastu tayorbhūtvā pratyakṣatvamupāgataḥ taṃ tu pratyakṣato dṛṣṭavā tadā vetālabhairavau| vṛṣadhvajaṃ tuṣṭuvaturdhyānagamyaṃ puraḥsthitam hararūpaṃ yathādhyātaṃ hṛdgataṃ tejasojjvalam| tathā dṛṣṭvā tatastābhyāṃ vaśiṣṭhasyānumānataḥ ||vetālabhairavāvūcatuḥ|| pa़ñcavaktraṃ mahākāvyaṃ sarvajñānamayaṃ param| saṃsārasāgaratrāṇaṃ praṇamāvo vṛṣadhvajam tvaṃ paraḥ paramātmā ca pareśaḥ puruṣottamaḥ| tvaṃ kūṭastho jagadvyāpī pradhānaḥ parameśvaraḥ rūpātmā tvaṃ mahātattvaṃ tattvajñānālayaḥ prabhuḥ| sāṃkhyayogālayaḥ śuddho guṇatrayavibhāgavit tvaṃ nita yastvamanityaśca jagatkartā layaḥ smṛtaḥ| eko'nekasvarūpaśca śāntaceṣṭo jaganmayaḥ nirvikāro nirādhāro nityānandaḥ sanātanaḥ| tvaṃ viṣṇustvaṃ mahendrastvaṃ brahmā tvaṃ jagatāṃ patiḥ yo rūparūpeśvararatnamālaḥ sambhūtibhūto niravagrahaśca| kāṃkṣyāvatīrṇāvagatapramāthī yogeśvaro jñānagatistvagamyaḥ prameyarūpātmadharādharābho bhogīndrabaddhāmṛtabhogatantraḥ| sūkṣmākṣarastattvavidapramāthī tvaṃ devadevaḥ śaraṇaṃ surāṇām vikalpamānāparihīnadehaḥ śuddhāntadhāmānugataikavidyaḥ| vardhiṣṇurugraḥ puruṣaḥ parātmā tvamindriyaughasya vicārabuddhi tvaṃ nāthanātha prabhavaḥ pareṣāṃ gatirmunīnāṃ parayogigamyaḥ| tvaṃbhūdharo bhāgadharo hyananto viśvātmanaste bahavaḥ prapañcāḥ jñānāmṛtasyandakapūrṇacandro mohāndhakārasya paraḥ pradīpaḥ | bhaktātmajānāṃ paramaḥ pitā tvaṃ kāme ca pañcānanarūpadhārī śāstākhilānāṃ prathamo vivasvāṃstanūnapāt tvaṃ tanuṣe guṇaidhān| tvaṃ brahmarūpeṇa karoṣi sṛṣṭiṃ viṣṇusvarūpaiḥ satataṃ sthitiṃ ca tvaṃ rudrarūpī kuruṣe tathāntaṃ tvattau na cānyajjagatīha vastu| tvaṃ rātrinātho divaseśvaraśca tvamagnirāpaḥ pavano dharitrī nabhastathā tvaṃ kratutantrahotā tvamaṣṭamūrtirbhavato na cānyat| anantamūrtistviha mukhyabhāvānnigādyate cāṣṭamayī trimūrtiḥ anantamūrte kathamanyathā te saṃkhyāsti rūpasya yadaṣṭamūrtiḥ| tvaṃ tryambakastvaṃ tripurāntakaśca tva śambhurīśaḥ śamano vidhātā sahasrabāhuśca hiraṇyabāhuḥ sahasramūrtistviha pañcavaktraḥ| prabhūtanetrastu ṣaḍarddhanetraḥ prabhūtabāhurdaśabāhurīśaḥ prabhūtabhogī mitabhogayukto bhogyānusāro niravagrahaśca nityānityasvarūpāya nityadhāmasvarūpiṇe| paratattvasvarūpāya namastubhyaṃ śivātmane nāntaṃ liṅgasya yasyāptaṃ viṣṇunā brahmaṇā tava| tasyāvāṃ ki vidhāsyāvaḥ stutivākyaṃ vṛṣadhvajaḥ svarūpaṃ yasya jānanti na devā nāpi dānavāḥ| bālāvāvāṃ kathantu tvāṃ stoṣyāvaḥ parameśvara bhaktimātreṇa deveśa tavāvāṃ vṛṣabhadhvaja| kurvaḥ praṇāmaṃ gaurīśa bhūyastubhyaṃ namo namaḥ ||aurvva uvāca|| iti stuto mahādevo vetālena mahātmanā| bhairaveṇāpi rājendra prasannaḥ prāha tau tadā ||śrī bhagavānuvāca|| tuṣṭo'smi yuvayoḥ putrau vṛṇutaṃ vāñchitaṃ varam| dāsyāmi yuvayoriṣṭaṃ prasanno'haṃ tapovrataiḥ stutibhistu damaiścāpi tathaikāntānucintanaiḥ| muhurmuhuḥ suprasanna iṣṭaṃ dāsyāmi vāṃ sutau ||vetālabhairavāvūcatuḥ|| tuṣṭo'si yadi satyaṃ nau satyamāvāṃ sutau yadi| vṛṣadhvaja tavaiveha tadeṣṭaṃ dehi nau varam sutabhāvena pitaraṃ bhavantaṃ jagatāṃ patim| nityaṃ yathāvagacchāvastathā dehi varaṃ tu nau na rājyamabhikāṃkṣāvo na dhanaṃ nānyadeva vā| tvadbhaktyā sevanaṃ kartuṃ tavecchāvo vṛṣadhvaja tvatpādapaṅkajadvandve nityaṃ madhukarātmatām| tvayi prasanne netrāṇāṃ yugale prāpnutāṃ sadā ito'nyathā tvaccintābhistvaddhyānaistvatprapūjanaiḥ| kalpakoṭisahasrāṇi yāntu samyaktathāvayoḥ ||aurvva uvāca|| tatastad vacanaṃ śrutvā mahādevo hasanniva| sarvairdevagaṇaiḥ sārdhaṃ devatvamakarottayoḥ devendrasammatenaiva sudhāmānīya nākataḥ| vetālabhairavau tāntu pāyayāmāsa śaṅkaraḥ pīte'mṛte tatastau tu martyatāṃ narasattamau| amartyatāṃ parityajya prāpatuḥ śivaśaktitaḥ tasminkāle svapantau tu divyajñānabalānvitau| divyarūpopasampannau babhūvaturarindamau abhinnenaiva dehena devatvaṃ gatayostayoḥ| prāha śambhustadā tau tu sutau paramaharṣitau ||bhagavānuvāca|| ahaṃ tṛṣṭastu yuvayoḥ pārvatīṃ dayitāṃ mama| maddattaṃ kāmamicchantāvārādhayatamīśvarīm tāmṛte tu na śaknomi dātumiṣṭaṃ sanātanam| sevitiṃ ca sutau nityaṃ śaraṇaṃ vrajataṃ śivām acirād yena bhāvena prītiṃ devī gamiṣyati| atra vā tatra vā gatvā bhāvena cāryyatām