Kalika Purana — Chapter 50
KaP 50.50
।।और्व्व उवाच।। अथ काले व्यतीते तु पुनस्तारावती शुभा। आर्तवं विहितं स्नानं नदीं प्राप्ता दृषद्वतीम् दासीसहस्रैः संयुक्ता नानालङ्कारमण्डिता। रम्भादिभिर्यथेन्द्राणी तथा सा प्रत्यदृश्यत सावतीर्णा जले देवी गौराङ्गी तडिदुज्ज्वला। नदीमुज्ज्वलयामास भिन्नाञ्जनसमाम्भसम् स्थलीं काचमयीं स्वच्छां काञ्चनीप्रतिमा यथा। स्वभासा ज्वलयामास प्रतिबिम्बेन सा तथा अथ तां पुनरेवाथ कपोतो मुनिसत्तमः। आनाभिमग्नां तोयौर्घैर्ददर्श सुमनोहराम् दृष्ट्वा तामथ पप्रच्छ तदा चित्राङ्गदां मुनिः। केयं जले दृषद्वत्यामवतीर्णा सखीशतैः श्रिया ज्वलन्ती श्रीतुल्या किमपर्णा गिरेः सुता। अतीव भ्राजते रूपैर्न संस्तौषि च तां किमु अथ तस्य वचः श्रुत्वा मुनेश्चित्राङ्गदा तदा। ऋषिशापभयात् साध्वी संस्तौमीति तदाऽब्रवीत् इयं तारावती नाम ककुत्स्थस्य सुता सती। चन्द्रशेखरभूपालभार्याऽतिदयिता शुभा एषा त्वया कामिता तु कामार्थं पूर्वतो मुने। स्वालङ्कारैरङ्कृत्य मां दत्त्वा ते गृहं गता सेयं पुननर्दीं स्नातुं भगिनी मे समागता। ज्येष्ठां तां तु मुने वक्तुं न ते किञ्चिच्च युज्यते त्वमत्र तिष्ठ विप्रेन्द्र ज्येष्ठां तां भगिनीं प्रियाम् । समाभाष्य समेष्ये त्वामनुजानासि चेद् गतौ इति श्रुत्वा वचस्तस्या मुनिः स्नेहेन वञ्चनाम्। तारावत्या कृतां पूर्वं मुनिस्तस्यै चुकोप ह इयं पापीयसी रामा वञ्चनामकरोन्मयि। तस्याः सङ्कालनञ्चाहं करिष्याम्यद्यनिश्चितम् इत्युक्त्वा स तया सार्धं मुनिश्चित्राङ्गदाख्यया। जगाम यत्र सा देवी स्थिता तारावती शुभा गत्वा तां तु समासाद्य कपोतो मुनिसत्तमः। इदं तारावतीं प्राह कुपितः प्रहसन्निव कामार्थं प्रार्थिता पूर्वं त्वं मया च्छद्मना त्वया। वञ्चितोऽस्मि दुराधर्षे धलं तस्य समाप्नुहि ममापि पुरतः पापे त्वं सतीति विकत्थसे। सतीत्वभ्रंशकं मां त्वं नैव कामितवत्यसि तस्माद बीभत्सवेषस्त्वां कपाली पलितो रहः। विरूपो धनहीनश्च कामयिष्यति वै हठात् सद्योजातं पुत्रयुगं सश्रीकं वानराननम्। भविष्यति च ते पापे त्वेकाब्दाभ्यन्तरेऽधुना एतच्छ्रुत्वा मुनेर्वाक्यं प्राह तारावती मुनिम्। कोपाद् भयाच्च सा देवी स्फुरदोष्ठपुटा तदा यदि सा पूजयित्वा तु चण्डिकां प्राप मां प्रसूः। यद्यहं व्रतिनी नित्यं भूपतौ चन्द्रशेखरे ककुत्स्थस्य सुता सत्यं यद्यहं द्विजसत्तम। तेन सत्येन मे देवान्नान्यो मां कामयिष्यति यदि सत्यं महादेवो नित्यमाराध्यते मया। तेन सत्येन मे देवादाराध्याच्चन्द्रशेखरात् स्वप्नेऽपि मुनिशार्दूल नान्यो मां कामयिष्यति। इत्युक्त्वा सा मुनिं नत्वा स्वामिविन्यस्तमानसा ययौ तारावती देवी स्वस्थानमिति भामिनी। तस्यां गतायां देव्यां तु चिन्तयामास तां मुनिः ममैव पुरतश्चैषा निर्भीताति प्रवल्गते । अत्रान्तर्विनिगूढं तु बीजं शुद्धं भविष्यति एवं विचिन्त्य स मुनिर्ध्यानसंयुक्तमानसः। दिव्यज्ञानपरो भूत्वा सर्ववृत्तान्तमाददे यथा भृङ्गिमहाकालौ देव्या शप्तौ सुतावुभौ। प्रतिशापं यथा तौ तु ददतुः पार्वतीं हरम् यथावतीर्णौ मानुष्ययोनौ तौ तु यदर्थतः। चित्राङ्गदा यथा जाता यदर्थं देवकन्यका दिव्यज्ञानेन तज्ज्ञात्वा मुनिः किञ्चन नाकरोत्। चित्राङ्गदामादरेण समादाय मुनिस्ततः स्वस्थानं गतवान् विप्रः पूजयामास तां मुनिः। तारावती च तत्सर्वं चन्द्रशेखर भूपतेः वृत्तान्त मुनिशापस्य कथयामास भामिनी। तत्सर्वं पौष्यजो राजा स्वगतं चिन्तया युतः आश्वास्य दयितां भार्यां माभैर्देवीति सोऽचिरात् । सततं सेवया पत्युर्धर्मार्थपरिसेवनैः वर्जनादप्रशस्तानां मुनिशापोऽपनीयते। तस्मात् त्वं देवि सुभगे चारित्रव्रतधारिणी कल्याणभागिनी नित्यं नापदं समवाप्स्यसि। एवमुक्त्वा स राजा तु करवीरपुराधिपः प्रासादं कारयामास उच्चैरभ्रंकषं बहु। उच्चैश्चतुःशतं व्यामं त्रिंशद्योजनविस्तृतम् रत्नस्फटिकभूम्यन्तःखचितं रत्नकर्बुरैः। वैदूर्यपटलैः शुभ्रैश्छादितं सुमनोहरम् स्वर्णं रत्नतुलास्तम्भं विश्वकर्मविनिर्मितम्। रक्षार्थं कारयामास तारावत्याः प्रियङ्करम् रत्नसोपानसंयुक्तं वैदूर्यवलभीयुतम्। सौवर्णनीपसम्बद्धसुधर्मा सदृशं गुणैः तस्यां समस्तभोग्यानि स्वादूनि च मृदूनि च। आप्तैरासादयामास पुरुषैश्चन्द्रशेखरः ततस्तारावतीं देवीमादाय चन्द्रशेखरः। नित्यं प्रासादपृष्ठं तमारुह्य रमते नृपः एवं संवत्सरं यावदन्यैरप्राप्यवेश्मनि। आप्तैरधिष्ठितद्वारि तां देवीं समरक्षत एकदा तु विना तेन करवीराधिपेन तु। उच्चैः प्रासादमारुह्य स्थिता तारावती सदा चिन्तयन्ती नृपं तं तु दयितं चन्द्रशेखरम्। तत्पदे न्यस्तमनसा सावित्रीव पतिव्रता आराध्य च महादेवं पार्वत्या सहितं तदा। इष्टां देवीं च सा देवी चिन्तयन्ती स्म च स्थिता तत्र सा चिन्तयन्ती तु त्र्यम्बकं चन्द्रशेखरम्। विवेद भेदं न तयोश्चन्द्रशेखरयोर्द्वयोः एवं प्रासादपृष्ठे तु स्थिता तारावती सती। सुधर्मामध्यगा देवी शक्रश्रीरिव भूषिता अथोमया समं देवो वियता चन्द्रशेखरः। आजगाम तदा गच्छन् प्रासादं प्रति तं नृप ददृशे सूत्तरन्ती सा उमायाः सदृशी गुणैः। सर्वलक्षण सम्पूर्णा माधवस्येव माधवी तां दृष्ट्वा न्यगदद् देवीं गौरीं वृषभकेतनः। स्मितप्रसन्नवदनः प्रहसन्निव भामिनीम् ।।ईश्वर उवाच।। इयं ते मानुषी मूर्तिः प्रिये तारावतीति या। भृङ्गिमहाकालयोस्ते जन्मनो विहता स्वयम् त्वत्तो ह्यनन्यकान्तोऽहं नान्यं गन्तुमिहोत्सहे। त्वमिदानीं स्वयं चास्यां मूर्त्यां प्रविश भामिनि। तत उत्पादयिष्यामि महाकालं च भृङ्गिणम् ।। देव्युवाच।। ममैव मानुषी मूर्तिरस्यां वृषभकेतन। विशामि तेऽत्र वचनादुत्पादय सुतद्वयम् मम भृङ्गिमहाकाल कपोतानां च शापतः। एवं मोक्षो भवेद् भर्ग तस्मात् त्वं कुरुमत्प्रियम् ।। और्व्व उवाच।। प्रविशेश ततो देवी स्वयं तारावतीतनौ। महादेवोऽपि तस्यां तु कामार्थं समुपस्थितः ततः सापर्णयाविष्टा देवी तारावती सती। कामयानं महादेवं स्वयमेवाभजन्मुदा तस्मिन्कालेऽभवद्गर्गः कपाली चास्थिमाल्यधृक्। बीभत्सवेशो दुर्गन्धः पलितोऽतिविरूपधृक् कामावसाने तस्यां तु सद्योजातं सुतद्वयम्। अभवन्नृपशार्दूल तथाशाखामृगाननम् तद्देहान्निःसृतापर्णा जातयोः सुतयोस्तयोः। मोहयित्वा यथात्मानं न जानाति ककुत्स्थजा।। अहं गौरी तथा भर्गभावेन मानुषेण तु अथ तारावती देवी सुतौ दृष्ट्वा क्षितिस्थितौ। पातिव्रत्यात् परिभ्रष्टा आत्मानं वीक्ष्य भामिनी तथा बीभत्सवेशं तु हरं दृष्ट्वाग्रतः स्थितम्। मुनिशापं तदा मेने प्राप्तं कालान्तकोपमम् इति शोकविमूढा च निनिन्द च सतीव्रतम्। इदं चोवाच त वीक्ष्य महादेव त्रिशूलिनम् मुनिव्रतादपि वरं नानीणां च सतीव्रतम्। इति स्म सततं धीरा व्याहरन्ति पुराविदः न तत्सत्यमहं मन्ये यत्प्रवृत्तं ममेदृशम्। इत्युक्त्वा सा तदा देवी शुशोच च मुमोह च तामाहाथ महादेवो मा कार्षिस्त्वं वरानने। शोकं सतीव्रतं चापि मा निन्द त्वं सुचेतने कपोतेन यदा शप्ता त्वं तदैव तदग्रतः। उक्तवत्यसि दीर्घाक्षि यत् तद्भूतं तवाधुना यदि सत्यं महादेवो नित्यमाराध्यते मया। तेन सत्येन मे देवादाराध्याच्चन्द्रशेखरात् स्वप्नेऽपि मुनिशार्दूल नान्यो मां कामयिष्यति। सोऽहमेव महादेव आराध्यश्चन्द्रशेखरः त्वं मया कामिता चापि मा कार्षीः शोकमङ्गने। इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत मायया मोहिता देवी तत्र तारावती सती। भूमौ मलिनवेशेन मन्युना समुपाविशत् सुतौ च पतितौ भूमौ सा देवी नासभाजयत्। भर्तुरागमनं शश्वत् काङ्क्षन्ती भर्गभाषितम् न रराज गृहे चापि मुक्तकेशी तथास्थिता। अथ क्षणान्महाभागः स राजा चन्द्रशेखर प्रासादपृष्ठमागच्छद् द्रष्टुं तारावतीं तदा। स तं प्रासादमारुह्य जायां तारावतीं तदा ददर्श पतितां भूमौ मुक्तकेशीं निरुत्सवाम्। श्यामाननां श्वसन्तीं च सत्यगर्हण तत्पराम् सुतौ च पतितौ भूमौ सूर्याचन्द्रमसौ तदा । वानरास्यौ स ददृशे पदक्षोभं वृषस्य च इति सर्वमवेक्ष्याथ सा राजा चन्द्रशेखरः। भीतश्च विस्मितश्चैव भार्यां पप्रच्छ सम्भ्रमात् किं किं तारावति तव प्रवृत्तं निर्जनेगृ हे। को वा धषितवांस्त्वां हि शिवः सिंहवधूमिव कस्य वा पृथुकावैतौ प्रोद्दीप्तौ वानराननौ। तन्मे द्रुतं समाचक्ष्व को वा त्वां कामितोऽपरः ।।और्व्य उवाच।। एवमुक्ता तु भूपेन तदा तारावती सती। वृत्तान्तं कथयामास सकलं चन्द्रशेखरे यथा समागतो भर्ग उत्तरं च यथोक्तवान्। तत्सर्वं कथयामास बाष्पकण्ठा सगद्गदा तस्यास्तद्वचनं श्रुत्वा चिन्तयंश्चन्द्रशेखरः। किं वृत्तमिति विज्ञातुं भूतले समुपाविशत् स्वगतं चिन्तयन् राजा चकारेमां विचारणाम्। अनन्यकान्तो गिरिशः स नान्यां पार्वतीमृते कामयिष्यति तस्मात् स न भर्गः परमेश्वरः। ऋषिशापो हि बलवांस्तच्छापादेव राक्षसः कोऽपि मायाबलोपेतः शङ्करच्छद्मनागतः। एषा सती प्रिया भार्या राक्षसेनापि दूषिता कथं चेयं मया ग्राह्या पूर्ववत् सर्वकर्मसु। एतौ च तनयौ तस्य सद्योजातौ च राक्षसौ अन्यथा वा कथंभूतौ शाखामृगमुखौ सुतौ । एवं चिन्तयतस्तस्य देवौघविनियोजिता सरस्वती वियत्स्था तु राजानमिति चाब्रवीत्। न त्वया संशयः कार्यस्तारावत्यां सत्यमेव महादेवो भार्यां वव समेयिवान्। एमौ च तनयौ तस्य राजंस्त्वं परिपालय योऽन्यस्ते संशयोऽत्रास्ति नारदस्तं विनेष्यति। इत्युक्त्वा विररामाशु वाग्देवी प्रियवादिनी जातसम्प्रत्ययो राजा भार्यामाश्वासयत्तदा। सुतौ तु देवदेवस्य संस्कृत्य विधिना तदा पालयामास नृपतिराकाङ्क्षान्नारदागमम्। अथाजगाम देवर्षिर्नारदस्तस्य मन्दिरम् पूजाभिर्बहुभिस्तं तु प्रत्यगृह्णात् स भूपतिः। पूजयित्वा यथान्यायं तारावत्या समं नृपः उच्चैः प्रासादमतुलं सुरेशभवनोपमम्। आरोहयामास तदा तं मुनिं चन्द्रशेखरः तत्रोपांशु तदा राजा सभार्यश्चन्द्रशेखरः। पूर्वप्रवृत्तवृत्तान्तमपृच्छच्चन्द्रशेखरः पूतोस्स्म्यनुगृहीतोऽस्मि भवता ब्रह्मसूनुना। अन्तर्बहिश्च विप्रेन्द्र तुङ्गप्रासादगामिना एकं मे संशयं ब्रह्मं श्छेत्तुमर्हसि हृद्गतम्। त्वदन्यः संशयस्यास्य च्छेत्ता नैवास्ति कुत्रचित् ऋषिशापेन भार्येयं मम तारावती सती। बीभत्सवेशाकृतिना धर्षिता कृत्तिवाससा तस्यात्मजौ समुत्पन्नौ सद्योजाता विमौ पुनः। तत्र मे संशयं शाश्वन्नित्यं चित्ते प्रवर्तते अनन्यकान्तो गिरिशो गिरिजां पार्वतीमृते। कथं सङ्गमयामास मानुषीं हीनजन्मजाम् कथमुत्पादयामास मनुष्यौ तनयौ स्वकौ। एदत्सर्वं समाचक्ष्व यदि गुह्यं न ते भवेत् ।।और्व्व उवाच।। इति पृष्टः स तु मुनिश्चन्द्रशेखरभूभृता। कथयामास तत्सर्वं नारदो मुनिसत्तमः यथा भृङ्गिमहाकालौ समुत्पन्नौ पुरातनौ। यथा शप्तौ च पार्वत्या तौ चोदाहरतां यथा यथा पौष्यसुतो जातो भर्गः स चन्द्रशेखरः। तारावती ककुत्स्थस्य गृहे गौरी यथाभवत् तत्सर्वं कथयामास नारदश्चन्द्रशेखरे। इदं च परमाख्यानं कथयामास नारदः ।।नारद उवाच।। व्याजहार यदापर्णां कालीति वृषभध्वजः। तदोमा तपसे याता वपुर्गौरत्वकाङ्क्षया अमर्षयुक्ता वचनाच्छङ्करस्य गिरेः सुता। विनीयमाना भर्गेण सानुं हिमवतो गिरेः तस्यां गतायां पार्वत्यां शङ्करो विरहार्दितः। कैलासाद्रिं परित्यज्य मेरुपृष्ठं तदा ययौ तत्रापि शर्म नो लेभे पार्वत्या च विनाकृतः। मोहितः कामदेवेन तथा वै योगनिद्रया अथैकदा मेरुपृष्ठे चरन्तीं सुमनोहराम्। सावित्रीं ददृशे शम्भुः पार्वत्याः सदृशीं गुणैः तां दृष्ट्वा मदनाविष्टः पार्वत्या विरहार्दितः। अविद्यया समाविष्टो बभूव प्राकृतो यथा अथ तां पार्वतीभ्रान्त्या चरन्तीमन्वधावत। एहि मां पार्वति शुभे भवद्विरहपीडितम् प्रहरत्येष मां कामः पर्ववैरमनुस्मरन्। मम तत्र प्रतीकारं कुरु सम्प्रति वल्लभे इत्युक्त्वा विमुखीं यान्तीं सावित्रीं वृषभध्वजः। स्कन्धे हस्तेन पस्पर्श सा चुकोप ततो भृशम् अथ सा सम्मुखी भूत्वा सावित्र्यतिपतिव्रता। इदमाह महादेवं गर्हयन्ती वृषध्वजम् किं त्वं पशुपते मूर्ख मानुषः प्राकृतो यथा। निरस्य कलहैर्भार्यामनुनेतुमिहार्हसि विमूढचेतनः कामैस्त्वं संस्तौषि परस्त्रियम्। असंस्तुत्वापि सम्प्रष्टुं मादृशीं युज्यते तव किमहं पार्वती मूढ येन मत्स्कन्धदेशतः। हस्तं ददास्यविज्ञाय सावित्रीं विद्धि मां सतीम् यस्मान्मानुषवन्मां त्वमनुजानासि बर्बर। तस्मात् त्वं मानुषीयोन्यां सुरतं संविधास्यसि गौरीमृते नान्यकान्तस्त्वमन्यां तु समीहसे। तस्यैतत्फलितं भर्ग गच्छ मां त्वं परित्यज इत्युक्त्वा सा गता देवी स्वमाश्रमपदं सती। लज्जाविस्मयसंयुक्तो हरोऽप्यायात् निजास्पदम् अतोऽयं मानुषीयोनौ सुरत शङ्करोऽकरोत्। तस्मान्निः संशयं राजन्निमां तारावतीं सतीम्। दयस्व तनयावेतौ भगंस्य प्रतिपालय ।।और्व्व उवाच।। ततः स राजा श्रुत्वैव नारदस्य मुखात् तदा। आत्मनः शम्भुरूपत्वं गौरी तारावतीति च। मनुष्ययोनावुत्पन्नावुमावृषभकेतनौ श्रुत्वातिहर्षितो राजा विस्मितो नारदं पुनः। पप्रच्छ मुनिशार्दूल विज्ञातुमिति चात्मनः शङ्करत्वं च गौरीत्व तारावत्याः समक्षतः। यथाहं तत्तु पश्यामि तं मां ज्ञापय निश्चितम् ।। नारद उवाच।। अङ्के तारावतीं कृत्वा अक्षिणी त्वं निमीलय। क्षणं तारावती चापि निमीलयतु चक्षुषी निमील्य पश्चाद्राजेन्द्र उन्मीलय ततो द्रुतम्। ततस्ते शाम्भवं ज्ञानं रूपं चापि भविष्यति इत्युक्तो नारदेनाथ स राजा चन्द्रशेखरः। वामेन पाणिना धृत्वा देवीं तारावतीं सतीम् चक्षुषी च तया सार्धं निमील्योन्मील्य तत्क्षणात्। तन्निमीलनकाले तु तस्याभूच्छम्भूरूपता गौरीरूपाऽभवद् देवी ततस्तारावती सती । अहं शम्भुरहं गौरीति विज्ञानं तयोरभूत् ततः प्रोवाच तं शम्भुं नारदः प्रहसन्निव। शम्भुः साक्षाद् भवान् गौरी देवी तारावती स्वयम् प्रत्यक्षं ते महाभाग सम्पश्यात्मानमात्मना। ततो राजा भवत्वेवमित्युक्त्वाथ स्वकां तनुम् व्याघ्रचर्मपरीधानां दशभिर्बाहुभिर्युताम् । त्रिशूलखट्वाङ्गधरां शक्त्यादिधृतहस्तकाम् वृषभोपरि संस्था तु जटाजूटविभूषिताम् । तारां च विद्युद्गौराङ्गी पद्महस्तां शुभाननाम् वीक्ष्य सम्प्रत्ययं प्राप ज्ञानेनापि तदात्मनि। ततस्तु नारदः प्राह शृणु राजन् वचो मम नृयोनौ वैष्णवी माया युवां पूर्वममोहयत्। तेन तेन शरीरेण शम्भुत्वं नेक्षितं त्वया अधुना दर्शिता देऽद्य शम्भुना शम्भुरूपता। निमील्य नयनद्वन्द्वं पुनस्त्वं याहि मर्त्यताम् आसाद्य मानुषं भावमादेहान्तं स्थिरो भव। तथा तारावती देवी तूर्णं भवतु मानुषी ।।और्व्व उवाच।। आत्मनो देवरूपत्वं ज्ञात्वा दृष्ट्वाऽथ चक्षुषा। जात सम्प्रत्ययो राजा न्यमीलयत लोचने ततस्तारावती देवी न्यमीलयत चक्षुषी। पुनस्तौ मानवौ जातौ महिषी नृपतिस्तथा उन्मील्य तौ तु नेत्राणि मानुषत्वं तदात्मनोः। दृष्ट्वा आवां तथा मर्त्याविति ज्ञानमभूत् तयोः ततो विमोहितौ तौ तु दम्पती विष्णुमायया। अहं राजा च महिषी अहमित्यभवन्मतिः तस्यां सुतौ तु जाययां देवांशाविति तन्मती । आवां स्थिता कला मूर्ध्नि अभूतां जातचिह्नितौ ततः स राजा न्यगदत् तं मुनिं नारदं मुदा। सत्यमेतत् त्वया प्रोक्तं करिष्ये वचनं तव पालयिष्ये शम्भुपुत्रौ सत्यलभ्ये सदैव हि। किन्त्वेतौ मुनिशार्दूल त्वं संस्कुरु यथाविधि ।।और्व्व उवाच।। ततस्तयोर्न्नाम चक्रे नारदो वचनान्नृप। ज्येष्ठो भैरवनामाऽभूद् गौरीपुत्रो भयङ्करः वेतालसदृशः कृष्णो वेतालोऽभूत् तथापरः। इति चक्रे तयोर्नाम देवर्षिब्रह्मणः सुतः अन्यांश्च सर्वान् संस्कारान्नारदो भुनिसत्तमः। चकार क्रमशो वाक्याच्चन्द्रशेखरभूभृतः एवं सर्वान् संशयांस्तु सञ्छिद्य मुनिसत्तमः। संस्कृत्य भर्गतनयौ विसृष्टस्तेन भूभृता ययावाकाशमार्गेण नाकपृष्ठं स नारदः। नारदे तु गते राजा मुदितश्चन्द्रशेखरः तारावत्या समं रेमे करवीराह्वये पुरे। शम्भोरंशोऽहमित्येवं गौर्यास्तारावतीति च जातश्रद्धस्तदा राजा शशास सुचिरं क्षितिम्। तन्यौ च हरस्याथ तदा वैतालभैरवौ ववृधाते महात्मानौ शरच्चन्द्राविवोद्यतौ। चन्द्रशेखरभूपस्य तारावत्यां नृपोत्तमः त्रयः पुत्रा महावीर्या रूपसम्पत्-समन्विताः। ज्येष्ठस्तत्रोपरिचरो दमनोऽलर्क एव च वैतालभैरवाम्यां तु ज्यायांसस्तेऽभवंस्त्रयः। एवमेते त्रयः पुत्राश्चन्द्रशेखरभूभृतः वेतालभैरवौ चापि सद्योजातौ हरात्मजौ। समानभोगा ववृधुश्चन्द्रशेखरभूभृतः। पालितास्तु सभार्येण समानासनवाहनाः पञ्चसुता महाबलाः पञ्चभूतसदृशाः कृता विधेः। ववृधिरे प्रथमं सकलं जगत् समतीत्य मुदा बलदर्पिताः
||aurvva uvāca|| atha kāle vyatīte tu punastārāvatī śubhā| ārtavaṃ vihitaṃ snānaṃ nadīṃ prāptā dṛṣadvatīm dāsīsahasraiḥ saṃyuktā nānālaṅkāramaṇḍitā| rambhādibhiryathendrāṇī tathā sā pratyadṛśyata sāvatīrṇā jale devī gaurāṅgī taḍidujjvalā| nadīmujjvalayāmāsa bhinnāñjanasamāmbhasam sthalīṃ kācamayīṃ svacchāṃ kāñcanīpratimā yathā| svabhāsā jvalayāmāsa pratibimbena sā tathā atha tāṃ punarevātha kapoto munisattamaḥ| ānābhimagnāṃ toyaurghairdadarśa sumanoharām dṛṣṭvā tāmatha papraccha tadā citrāṅgadāṃ muniḥ| keyaṃ jale dṛṣadvatyāmavatīrṇā sakhīśataiḥ śriyā jvalantī śrītulyā kimaparṇā gireḥ sutā| atīva bhrājate rūpairna saṃstauṣi ca tāṃ kimu atha tasya vacaḥ śrutvā muneścitrāṅgadā tadā| ṛṣiśāpabhayāt sādhvī saṃstaumīti tadā'bravīt iyaṃ tārāvatī nāma kakutsthasya sutā satī| candraśekharabhūpālabhāryā'tidayitā śubhā eṣā tvayā kāmitā tu kāmārthaṃ pūrvato mune| svālaṅkārairaṅkṛtya māṃ dattvā te gṛhaṃ gatā seyaṃ punanardīṃ snātuṃ bhaginī me samāgatā| jyeṣṭhāṃ tāṃ tu mune vaktuṃ na te kiñcicca yujyate tvamatra tiṣṭha viprendra jyeṣṭhāṃ tāṃ bhaginīṃ priyām | samābhāṣya sameṣye tvāmanujānāsi ced gatau iti śrutvā vacastasyā muniḥ snehena vañcanām| tārāvatyā kṛtāṃ pūrvaṃ munistasyai cukopa ha iyaṃ pāpīyasī rāmā vañcanāmakaronmayi| tasyāḥ saṅkālanañcāhaṃ kariṣyāmyadyaniścitam ityuktvā sa tayā sārdhaṃ muniścitrāṅgadākhyayā| jagāma yatra sā devī sthitā tārāvatī śubhā gatvā tāṃ tu samāsādya kapoto munisattamaḥ| idaṃ tārāvatīṃ prāha kupitaḥ prahasanniva kāmārthaṃ prārthitā pūrvaṃ tvaṃ mayā cchadmanā tvayā| vañcito'smi durādharṣe dhalaṃ tasya samāpnuhi mamāpi purataḥ pāpe tvaṃ satīti vikatthase| satītvabhraṃśakaṃ māṃ tvaṃ naiva kāmitavatyasi tasmāda bībhatsaveṣastvāṃ kapālī palito rahaḥ| virūpo dhanahīnaśca kāmayiṣyati vai haṭhāt sadyojātaṃ putrayugaṃ saśrīkaṃ vānarānanam| bhaviṣyati ca te pāpe tvekābdābhyantare'dhunā etacchrutvā munervākyaṃ prāha tārāvatī munim| kopād bhayācca sā devī sphuradoṣṭhapuṭā tadā yadi sā pūjayitvā tu caṇḍikāṃ prāpa māṃ prasūḥ| yadyahaṃ vratinī nityaṃ bhūpatau candraśekhare kakutsthasya sutā satyaṃ yadyahaṃ dvijasattama| tena satyena me devānnānyo māṃ kāmayiṣyati yadi satyaṃ mahādevo nityamārādhyate mayā| tena satyena me devādārādhyāccandraśekharāt svapne'pi muniśārdūla nānyo māṃ kāmayiṣyati| ityuktvā sā muniṃ natvā svāmivinyastamānasā yayau tārāvatī devī svasthānamiti bhāminī| tasyāṃ gatāyāṃ devyāṃ tu cintayāmāsa tāṃ muniḥ mamaiva purataścaiṣā nirbhītāti pravalgate | atrāntarvinigūḍhaṃ tu bījaṃ śuddhaṃ bhaviṣyati evaṃ vicintya sa munirdhyānasaṃyuktamānasaḥ| divyajñānaparo bhūtvā sarvavṛttāntamādade yathā bhṛṅgimahākālau devyā śaptau sutāvubhau| pratiśāpaṃ yathā tau tu dadatuḥ pārvatīṃ haram yathāvatīrṇau mānuṣyayonau tau tu yadarthataḥ| citrāṅgadā yathā jātā yadarthaṃ devakanyakā divyajñānena tajjñātvā muniḥ kiñcana nākarot| citrāṅgadāmādareṇa samādāya munistataḥ svasthānaṃ gatavān vipraḥ pūjayāmāsa tāṃ muniḥ| tārāvatī ca tatsarvaṃ candraśekhara bhūpateḥ vṛttānta muniśāpasya kathayāmāsa bhāminī| tatsarvaṃ pauṣyajo rājā svagataṃ cintayā yutaḥ āśvāsya dayitāṃ bhāryāṃ mābhairdevīti so'cirāt | satataṃ sevayā patyurdharmārthaparisevanaiḥ varjanādapraśastānāṃ muniśāpo'panīyate| tasmāt tvaṃ devi subhage cāritravratadhāriṇī kalyāṇabhāginī nityaṃ nāpadaṃ samavāpsyasi| evamuktvā sa rājā tu karavīrapurādhipaḥ prāsādaṃ kārayāmāsa uccairabhraṃkaṣaṃ bahu| uccaiścatuḥśataṃ vyāmaṃ triṃśadyojanavistṛtam ratnasphaṭikabhūmyantaḥkhacitaṃ ratnakarburaiḥ| vaidūryapaṭalaiḥ śubhraiśchāditaṃ sumanoharam svarṇaṃ ratnatulāstambhaṃ viśvakarmavinirmitam| rakṣārthaṃ kārayāmāsa tārāvatyāḥ priyaṅkaram ratnasopānasaṃyuktaṃ vaidūryavalabhīyutam| sauvarṇanīpasambaddhasudharmā sadṛśaṃ guṇaiḥ tasyāṃ samastabhogyāni svādūni ca mṛdūni ca| āptairāsādayāmāsa puruṣaiścandraśekharaḥ tatastārāvatīṃ devīmādāya candraśekharaḥ| nityaṃ prāsādapṛṣṭhaṃ tamāruhya ramate nṛpaḥ evaṃ saṃvatsaraṃ yāvadanyairaprāpyaveśmani| āptairadhiṣṭhitadvāri tāṃ devīṃ samarakṣata ekadā tu vinā tena karavīrādhipena tu| uccaiḥ prāsādamāruhya sthitā tārāvatī sadā cintayantī nṛpaṃ taṃ tu dayitaṃ candraśekharam| tatpade nyastamanasā sāvitrīva pativratā ārādhya ca mahādevaṃ pārvatyā sahitaṃ tadā| iṣṭāṃ devīṃ ca sā devī cintayantī sma ca sthitā tatra sā cintayantī tu tryambakaṃ candraśekharam| viveda bhedaṃ na tayoścandraśekharayordvayoḥ evaṃ prāsādapṛṣṭhe tu sthitā tārāvatī satī| sudharmāmadhyagā devī śakraśrīriva bhūṣitā athomayā samaṃ devo viyatā candraśekharaḥ| ājagāma tadā gacchan prāsādaṃ prati taṃ nṛpa dadṛśe sūttarantī sā umāyāḥ sadṛśī guṇaiḥ| sarvalakṣaṇa sampūrṇā mādhavasyeva mādhavī tāṃ dṛṣṭvā nyagadad devīṃ gaurīṃ vṛṣabhaketanaḥ| smitaprasannavadanaḥ prahasanniva bhāminīm ||īśvara uvāca|| iyaṃ te mānuṣī mūrtiḥ priye tārāvatīti yā| bhṛṅgimahākālayoste janmano vihatā svayam tvatto hyananyakānto'haṃ nānyaṃ gantumihotsahe| tvamidānīṃ svayaṃ cāsyāṃ mūrtyāṃ praviśa bhāmini| tata utpādayiṣyāmi mahākālaṃ ca bhṛṅgiṇam || devyuvāca|| mamaiva mānuṣī mūrtirasyāṃ vṛṣabhaketana| viśāmi te'tra vacanādutpādaya sutadvayam mama bhṛṅgimahākāla kapotānāṃ ca śāpataḥ| evaṃ mokṣo bhaved bharga tasmāt tvaṃ kurumatpriyam || aurvva uvāca|| praviśeśa tato devī svayaṃ tārāvatītanau| mahādevo'pi tasyāṃ tu kāmārthaṃ samupasthitaḥ tataḥ sāparṇayāviṣṭā devī tārāvatī satī| kāmayānaṃ mahādevaṃ svayamevābhajanmudā tasminkāle'bhavadgargaḥ kapālī cāsthimālyadhṛk| bībhatsaveśo durgandhaḥ palito'tivirūpadhṛk kāmāvasāne tasyāṃ tu sadyojātaṃ sutadvayam| abhavannṛpaśārdūla tathāśākhāmṛgānanam taddehānniḥsṛtāparṇā jātayoḥ sutayostayoḥ| mohayitvā yathātmānaṃ na jānāti kakutsthajā|| ahaṃ gaurī tathā bhargabhāvena mānuṣeṇa tu atha tārāvatī devī sutau dṛṣṭvā kṣitisthitau| pātivratyāt paribhraṣṭā ātmānaṃ vīkṣya bhāminī tathā bībhatsaveśaṃ tu haraṃ dṛṣṭvāgrataḥ sthitam| muniśāpaṃ tadā mene prāptaṃ kālāntakopamam iti śokavimūḍhā ca nininda ca satīvratam| idaṃ covāca ta vīkṣya mahādeva triśūlinam munivratādapi varaṃ nānīṇāṃ ca satīvratam| iti sma satataṃ dhīrā vyāharanti purāvidaḥ na tatsatyamahaṃ manye yatpravṛttaṃ mamedṛśam| ityuktvā sā tadā devī śuśoca ca mumoha ca tāmāhātha mahādevo mā kārṣistvaṃ varānane| śokaṃ satīvrataṃ cāpi mā ninda tvaṃ sucetane kapotena yadā śaptā tvaṃ tadaiva tadagrataḥ| uktavatyasi dīrghākṣi yat tadbhūtaṃ tavādhunā yadi satyaṃ mahādevo nityamārādhyate mayā| tena satyena me devādārādhyāccandraśekharāt svapne'pi muniśārdūla nānyo māṃ kāmayiṣyati| so'hameva mahādeva ārādhyaścandraśekharaḥ tvaṃ mayā kāmitā cāpi mā kārṣīḥ śokamaṅgane| ityuktvā sa mahādevastatraivāntaradhīyata māyayā mohitā devī tatra tārāvatī satī| bhūmau malinaveśena manyunā samupāviśat sutau ca patitau bhūmau sā devī nāsabhājayat| bharturāgamanaṃ śaśvat kāṅkṣantī bhargabhāṣitam na rarāja gṛhe cāpi muktakeśī tathāsthitā| atha kṣaṇānmahābhāgaḥ sa rājā candraśekhara prāsādapṛṣṭhamāgacchad draṣṭuṃ tārāvatīṃ tadā| sa taṃ prāsādamāruhya jāyāṃ tārāvatīṃ tadā dadarśa patitāṃ bhūmau muktakeśīṃ nirutsavām| śyāmānanāṃ śvasantīṃ ca satyagarhaṇa tatparām sutau ca patitau bhūmau sūryācandramasau tadā | vānarāsyau sa dadṛśe padakṣobhaṃ vṛṣasya ca iti sarvamavekṣyātha sā rājā candraśekharaḥ| bhītaśca vismitaścaiva bhāryāṃ papraccha sambhramāt kiṃ kiṃ tārāvati tava pravṛttaṃ nirjanegṛ he| ko vā dhaṣitavāṃstvāṃ hi śivaḥ siṃhavadhūmiva kasya vā pṛthukāvaitau proddīptau vānarānanau| tanme drutaṃ samācakṣva ko vā tvāṃ kāmito'paraḥ ||aurvya uvāca|| evamuktā tu bhūpena tadā tārāvatī satī| vṛttāntaṃ kathayāmāsa sakalaṃ candraśekhare yathā samāgato bharga uttaraṃ ca yathoktavān| tatsarvaṃ kathayāmāsa bāṣpakaṇṭhā sagadgadā tasyāstadvacanaṃ śrutvā cintayaṃścandraśekharaḥ| kiṃ vṛttamiti vijñātuṃ bhūtale samupāviśat svagataṃ cintayan rājā cakāremāṃ vicāraṇām| ananyakānto giriśaḥ sa nānyāṃ pārvatīmṛte kāmayiṣyati tasmāt sa na bhargaḥ parameśvaraḥ| ṛṣiśāpo hi balavāṃstacchāpādeva rākṣasaḥ ko'pi māyābalopetaḥ śaṅkaracchadmanāgataḥ| eṣā satī priyā bhāryā rākṣasenāpi dūṣitā kathaṃ ceyaṃ mayā grāhyā pūrvavat sarvakarmasu| etau ca tanayau tasya sadyojātau ca rākṣasau anyathā vā kathaṃbhūtau śākhāmṛgamukhau sutau | evaṃ cintayatastasya devaughaviniyojitā sarasvatī viyatsthā tu rājānamiti cābravīt| na tvayā saṃśayaḥ kāryastārāvatyāṃ satyameva mahādevo bhāryāṃ vava sameyivān| emau ca tanayau tasya rājaṃstvaṃ paripālaya yo'nyaste saṃśayo'trāsti nāradastaṃ vineṣyati| ityuktvā virarāmāśu vāgdevī priyavādinī jātasampratyayo rājā bhāryāmāśvāsayattadā| sutau tu devadevasya saṃskṛtya vidhinā tadā pālayāmāsa nṛpatirākāṅkṣānnāradāgamam| athājagāma devarṣirnāradastasya mandiram pūjābhirbahubhistaṃ tu pratyagṛhṇāt sa bhūpatiḥ| pūjayitvā yathānyāyaṃ tārāvatyā samaṃ nṛpaḥ uccaiḥ prāsādamatulaṃ sureśabhavanopamam| ārohayāmāsa tadā taṃ muniṃ candraśekharaḥ tatropāṃśu tadā rājā sabhāryaścandraśekharaḥ| pūrvapravṛttavṛttāntamapṛcchaccandraśekharaḥ pūtossmyanugṛhīto'smi bhavatā brahmasūnunā| antarbahiśca viprendra tuṅgaprāsādagāminā ekaṃ me saṃśayaṃ brahmaṃ śchettumarhasi hṛdgatam| tvadanyaḥ saṃśayasyāsya cchettā naivāsti kutracit ṛṣiśāpena bhāryeyaṃ mama tārāvatī satī| bībhatsaveśākṛtinā dharṣitā kṛttivāsasā tasyātmajau samutpannau sadyojātā vimau punaḥ| tatra me saṃśayaṃ śāśvannityaṃ citte pravartate ananyakānto giriśo girijāṃ pārvatīmṛte| kathaṃ saṅgamayāmāsa mānuṣīṃ hīnajanmajām kathamutpādayāmāsa manuṣyau tanayau svakau| edatsarvaṃ samācakṣva yadi guhyaṃ na te bhavet ||aurvva uvāca|| iti pṛṣṭaḥ sa tu muniścandraśekharabhūbhṛtā| kathayāmāsa tatsarvaṃ nārado munisattamaḥ yathā bhṛṅgimahākālau samutpannau purātanau| yathā śaptau ca pārvatyā tau codāharatāṃ yathā yathā pauṣyasuto jāto bhargaḥ sa candraśekharaḥ| tārāvatī kakutsthasya gṛhe gaurī yathābhavat tatsarvaṃ kathayāmāsa nāradaścandraśekhare| idaṃ ca paramākhyānaṃ kathayāmāsa nāradaḥ ||nārada uvāca|| vyājahāra yadāparṇāṃ kālīti vṛṣabhadhvajaḥ| tadomā tapase yātā vapurgauratvakāṅkṣayā amarṣayuktā vacanācchaṅkarasya gireḥ sutā| vinīyamānā bhargeṇa sānuṃ himavato gireḥ tasyāṃ gatāyāṃ pārvatyāṃ śaṅkaro virahārditaḥ| kailāsādriṃ parityajya merupṛṣṭhaṃ tadā yayau tatrāpi śarma no lebhe pārvatyā ca vinākṛtaḥ| mohitaḥ kāmadevena tathā vai yoganidrayā athaikadā merupṛṣṭhe carantīṃ sumanoharām| sāvitrīṃ dadṛśe śambhuḥ pārvatyāḥ sadṛśīṃ guṇaiḥ tāṃ dṛṣṭvā madanāviṣṭaḥ pārvatyā virahārditaḥ| avidyayā samāviṣṭo babhūva prākṛto yathā atha tāṃ pārvatībhrāntyā carantīmanvadhāvata| ehi māṃ pārvati śubhe bhavadvirahapīḍitam praharatyeṣa māṃ kāmaḥ parvavairamanusmaran| mama tatra pratīkāraṃ kuru samprati vallabhe ityuktvā vimukhīṃ yāntīṃ sāvitrīṃ vṛṣabhadhvajaḥ| skandhe hastena pasparśa sā cukopa tato bhṛśam atha sā sammukhī bhūtvā sāvitryatipativratā| idamāha mahādevaṃ garhayantī vṛṣadhvajam kiṃ tvaṃ paśupate mūrkha mānuṣaḥ prākṛto yathā| nirasya kalahairbhāryāmanunetumihārhasi vimūḍhacetanaḥ kāmaistvaṃ saṃstauṣi parastriyam| asaṃstutvāpi sampraṣṭuṃ mādṛśīṃ yujyate tava kimahaṃ pārvatī mūḍha yena matskandhadeśataḥ| hastaṃ dadāsyavijñāya sāvitrīṃ viddhi māṃ satīm yasmānmānuṣavanmāṃ tvamanujānāsi barbara| tasmāt tvaṃ mānuṣīyonyāṃ surataṃ saṃvidhāsyasi gaurīmṛte nānyakāntastvamanyāṃ tu samīhase| tasyaitatphalitaṃ bharga gaccha māṃ tvaṃ parityaja ityuktvā sā gatā devī svamāśramapadaṃ satī| lajjāvismayasaṃyukto haro'pyāyāt nijāspadam ato'yaṃ mānuṣīyonau surata śaṅkaro'karot| tasmānniḥ saṃśayaṃ rājannimāṃ tārāvatīṃ satīm| dayasva tanayāvetau bhagaṃsya pratipālaya ||aurvva uvāca|| tataḥ sa rājā śrutvaiva nāradasya mukhāt tadā| ātmanaḥ śambhurūpatvaṃ gaurī tārāvatīti ca| manuṣyayonāvutpannāvumāvṛṣabhaketanau śrutvātiharṣito rājā vismito nāradaṃ punaḥ| papraccha muniśārdūla vijñātumiti cātmanaḥ śaṅkaratvaṃ ca gaurītva tārāvatyāḥ samakṣataḥ| yathāhaṃ tattu paśyāmi taṃ māṃ jñāpaya niścitam || nārada uvāca|| aṅke tārāvatīṃ kṛtvā akṣiṇī tvaṃ nimīlaya| kṣaṇaṃ tārāvatī cāpi nimīlayatu cakṣuṣī nimīlya paścādrājendra unmīlaya tato drutam| tataste śāmbhavaṃ jñānaṃ rūpaṃ cāpi bhaviṣyati ityukto nāradenātha sa rājā candraśekharaḥ| vāmena pāṇinā dhṛtvā devīṃ tārāvatīṃ satīm cakṣuṣī ca tayā sārdhaṃ nimīlyonmīlya tatkṣaṇāt| tannimīlanakāle tu tasyābhūcchambhūrūpatā gaurīrūpā'bhavad devī tatastārāvatī satī | ahaṃ śambhurahaṃ gaurīti vijñānaṃ tayorabhūt tataḥ provāca taṃ śambhuṃ nāradaḥ prahasanniva| śambhuḥ sākṣād bhavān gaurī devī tārāvatī svayam pratyakṣaṃ te mahābhāga sampaśyātmānamātmanā| tato rājā bhavatvevamityuktvātha svakāṃ tanum vyāghracarmaparīdhānāṃ daśabhirbāhubhiryutām | triśūlakhaṭvāṅgadharāṃ śaktyādidhṛtahastakām vṛṣabhopari saṃsthā tu jaṭājūṭavibhūṣitām | tārāṃ ca vidyudgaurāṅgī padmahastāṃ śubhānanām vīkṣya sampratyayaṃ prāpa jñānenāpi tadātmani| tatastu nāradaḥ prāha śṛṇu rājan vaco mama nṛyonau vaiṣṇavī māyā yuvāṃ pūrvamamohayat| tena tena śarīreṇa śambhutvaṃ nekṣitaṃ tvayā adhunā darśitā de'dya śambhunā śambhurūpatā| nimīlya nayanadvandvaṃ punastvaṃ yāhi martyatām āsādya mānuṣaṃ bhāvamādehāntaṃ sthiro bhava| tathā tārāvatī devī tūrṇaṃ bhavatu mānuṣī ||aurvva uvāca|| ātmano devarūpatvaṃ jñātvā dṛṣṭvā'tha cakṣuṣā| jāta sampratyayo rājā nyamīlayata locane tatastārāvatī devī nyamīlayata cakṣuṣī| punastau mānavau jātau mahiṣī nṛpatistathā unmīlya tau tu netrāṇi mānuṣatvaṃ tadātmanoḥ| dṛṣṭvā āvāṃ tathā martyāviti jñānamabhūt tayoḥ tato vimohitau tau tu dampatī viṣṇumāyayā| ahaṃ rājā ca mahiṣī ahamityabhavanmatiḥ tasyāṃ sutau tu jāyayāṃ devāṃśāviti tanmatī | āvāṃ sthitā kalā mūrdhni abhūtāṃ jātacihnitau tataḥ sa rājā nyagadat taṃ muniṃ nāradaṃ mudā| satyametat tvayā proktaṃ kariṣye vacanaṃ tava pālayiṣye śambhuputrau satyalabhye sadaiva hi| kintvetau muniśārdūla tvaṃ saṃskuru yathāvidhi ||aurvva uvāca|| tatastayornnāma cakre nārado vacanānnṛpa| jyeṣṭho bhairavanāmā'bhūd gaurīputro bhayaṅkaraḥ vetālasadṛśaḥ kṛṣṇo vetālo'bhūt tathāparaḥ| iti cakre tayornāma devarṣibrahmaṇaḥ sutaḥ anyāṃśca sarvān saṃskārānnārado bhunisattamaḥ| cakāra kramaśo vākyāccandraśekharabhūbhṛtaḥ evaṃ sarvān saṃśayāṃstu sañchidya munisattamaḥ| saṃskṛtya bhargatanayau visṛṣṭastena bhūbhṛtā yayāvākāśamārgeṇa nākapṛṣṭhaṃ sa nāradaḥ| nārade tu gate rājā muditaścandraśekharaḥ tārāvatyā samaṃ reme karavīrāhvaye pure| śambhoraṃśo'hamityevaṃ gauryāstārāvatīti ca jātaśraddhastadā rājā śaśāsa suciraṃ kṣitim| tanyau ca harasyātha tadā vaitālabhairavau vavṛdhāte mahātmānau śaraccandrāvivodyatau| candraśekharabhūpasya tārāvatyāṃ nṛpottamaḥ trayaḥ putrā mahāvīryā rūpasampat-samanvitāḥ| jyeṣṭhastatroparicaro damano'larka eva ca vaitālabhairavāmyāṃ tu jyāyāṃsaste'bhavaṃstrayaḥ| evamete trayaḥ putrāścandraśekharabhūbhṛtaḥ vetālabhairavau cāpi sadyojātau harātmajau| samānabhogā vavṛdhuścandraśekharabhūbhṛtaḥ| pālitāstu sabhāryeṇa samānāsanavāhanāḥ pañcasutā mahābalāḥ pañcabhūtasadṛśāḥ kṛtā vidheḥ| vavṛdhire prathamaṃ sakalaṃ jagat samatītya mudā baladarpitāḥ