← Kalika Purana

Kalika Purana — Chapter 47

KaP 47.47

।।और्व्य उवाच।। हरो यावद् जगत्यर्थे देववर्गैः प्रसादितः। तावन्महामैथुनेन हीनोऽभूदुमया सह ..१ ।। वर्तते रतिमात्रेण स्वेच्छां सम्पूरयन् सदा। यथामनोरथं देव्याः सततं पूरयन्मृडः ..२ ।। अथैकदोमया सार्धं निगूढे रतिमन्दिरे। नर्माकरोन्महादेवो मोदयुक्तो रतिप्रियः ..३ ।। यदा सा नर्मणे याता गौरी स्मरहरन्तिकम्। तदा भृङ्गिमहाकालौ द्वाःस्थौ द्वारि प्रतिष्ठितौ ..४ ।। नर्मावसाने सा देवी मुक्तधम्मिल्लबन्धना। बन्धहीनं गलद्गात्राद्वस्त्रमालम्ब्य पाणिना ..५ ।। व्यस्तहारा गन्धपुष्पैराकुलैर्नातिशोभना । विलुप्तकुङ्कुमा दष्टदशनच्छदविभ्रमा ..६ ।। निःसृतारतिसङ्केलिनिलयाज्जलजानना । ईषदाघूर्णनयना निचितास्वेदबिन्दुभिः ..७ ।। तां निःसरन्तीं सदनात् तथाभूतामनिन्दिताम्। अयोग्यां वीक्षितुञ्चन्यैर्वृषध्वजमृते पतिम् ..८ ।। ददशृतुर्महात्मानौ नातिहृष्टात्ममानसौ। भृङ्गी चापि महाकालः प्राप्तकालं चुकोपतुः ..९ ।। दृष्ट् वा तां मातरं दीनौ तथाभूतावधोमुखौ। चिन्तां च जग्मतुस्तीव्रां निशश्वसतुरुत्तमौ ..१० ।। तौ पश्यन्तौ तदा देवी ददर्श हिमवत्सुता। चुकोप च तदापर्णा वाक्यं चैतदुवाच ह ..११ ।। एवंभूतं च मां कस्मादसम्बद्धावपश्यताम्। भवन्ती तनयौ शुद्धौ ह्नीमर्यादाविवर्जितौ ..१२ ।। यष्मादिमाममर्यादां भवन्तौ निरपत्रपौ। अकुर्वतां ततो भूयाद् सवतोर्जन्म मानुषे ..१३ ।। मानुषीं योनिमासाद्य मदवेक्षवणदोषतः। भविष्यन्तौ भवन्तौ तु शाखामृगमुखौ भुवि ..१४ ।। इति तावुमया शप्तौ हरपुत्रौ महामती। भृङ्गी चैव महाकालः स्वमातुरन्तिकं तदा ..१५ ।। तौ प्रप्तदुःकौ तु तदा दुर्मस्कौ हरात्मजौ। शापं तस्या न सेहाते प्रोचतुश्चेदमद्रिजाम् ..१६ ।। अनागसौ सदैवावां भवत्या हिमवत्सुते। कथं शप्तौ त्वया मातर्हठादेवं प्रकोपया ..१७ ।। नियोजितौ यथा द्वारि महेशे न त्वया सह। तथा नियोगं कुर्वन्तो तिष्ठावो द्वारि संयतौ ..१८ ।। हठान्निः सरणं गेहात् तवैव न हि युज्यते। आगच्छन्त्या भवत्या तु दृष्टावावां सुसंयतौ ..१९ ।। तस्मान्निरर्थकः कोपः को दोषस्तत्र चावयोः। तस्मात् तत्र प्रतीकां शृणु मातरनिन्दिते ..२० ।। त्वं मानुषी क्षितौ भूया हरो भवतु मानुषः। मानुषस्य हरस्याथ जायायां हरतेजसा ..२१ ।। भवत्याश्चापि मानुष्यां भविष्यावस्तथोदरे। यदि सत्यं हरसुतावावां यदि निरागसौ ..२२ ।। तदावयोरिदं वाक्यं सत्यमस्तु गिरेः सुते। इत्यन्योन्यमथो शापं दत्त्ता दत्त्वा सुदारुणम् ..२३ ।। विनेशु विविशुर्नृ पशार्दूल गौरी हरसुतौ च तौ। अथ काले व्यतीते तु सर्वज्ञो वृषभध्वजः ..२४ ।। तद्भावि कर्म ज्ञात्वैव मानुषो ह्यभवत् स्वयम्। ब्रह्मणो दक्षिणाङ्गु ष्ठाद् दक्षो ब्रह्मसुतोऽभवत् ..२५ ।। अदितिस्तत्सुता जाता ततः पूषाह्वयोऽभवत्। पूष्णः पुत्रोऽभवत् पौष्यः सर्वशास्त्रार्थपारगः ..२६ ।। यस्य तुल्यो नृपो न भूमौ न भूतो न भविष्यति। स पुत्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः ..२७ ।। शेषे वयसि संप्राप्ते भार्याभिस्तिसभिः सह। पौष्यः परमया भक्त्या ब्रह्माणं पर्यतोषयत् ..२८ ।। ।।ब्रह्मोवाच।। तस्य प्रसन्नो भगवान् ब्रह्मा लोकपितामहः। तमुवाच च राजानं किमिच्छसि वदस्व मे ..२९ ।। प्रसन्नोऽस्मि नृपश्रेष्ठ प्रदास्यामि यथेप्सितम्। यदिष्टं तव जायानां तद्वदिष्यसि साम्प्रतम् ..३० ।। ।।पौष्य उवाच।। हिरण्यगर्भपुत्रोऽहं हिरण्यगर्भपुत्रोऽहं पुत्रार्थी त्वामुपास्महे। त्वयि प्रसन्ने पुत्रो मे मूयाल्लक्षणसंयुतः ..३१ ।। एतदर्थे सभार्योऽहं भक्त्या त्वां समुपस्थितः। यथा मे जायते पुत्रस्तथा कुरु जगत्पते ..३२ ।। पुन्नाम्नो नरकात् पुत्रस्त्रायते पितरं प्रसूम्। अतस्तस्माद् भयं ब्रह्मं स्त्वं नाशयितेमर्हसि ..३३ ।। ।। ब्रह्मोवाच।। शृणु पौष्य यथा भावी पुत्रस्तव कुलोद्वहः। तदहं ते वदाम्यद्य भार्याभिस्तत् समाचार ..३४ ।। इदं फलं गृहाण त्वं मया दत्तं नृपोत्तम्। अजीर्णं बहुले काले प्राप्तेऽपि सुरसं सदासुरसंसदि ..३५ ।। फलमेतत् समादाय तावत् संवत्सरत्रयम् द्वयम् आराधय महादेवं स प्रसन्नो भविष्यति ..३६ ।। यथा सम्भाषते भर्गः फलमेतत् तथा भवान्। करिष्यति फलं राजन् भार्याभिस्तिसृभिः सह ..३७ ।। ततस्ते लक्षणोपेतस्तनयः कुलवर्धनः। भविष्यति स्वयं शास्ता चक्रवर्ती वसुन्धराम् ..३८ ।। ।।और्व्य उवाच।। इत्युक्त्वा प्रययौ ब्रह्मा राजापि सह भीरुभिः। हरं यष्टुं समारेभे भक्त्या परमया युतः ..३९ ।। निराशीः संयताहारः कदाचित् फलभोजनः। दृषद्वतीनदीतीरे फलं संस्थाप्य चाग्रतः ..४० ।। पुष्पार्घदीपधूपैश्च वृषभध्वजमतर्पयत्। स तु वर्षत्रयेऽतीते द्वयातीते महादेवो जगत्पतिः ..४१ ।। पौष्यस्य नृपतेः सम्यक् प्रससादार्थसिद्धये। प्रसन्नः प्राह नृपतिं सहादेवो हसन्निव। उपाससे किमर्थं मां तन्मे वद ददामि ते ..४२ ।। ।।पौष्य उवाच।। अपुत्रोऽहं पुत्रकामस्तच्छुणुष्वपूजयामि मुद्रितपुस्तके अधिकः। यथाहं पुत्रवान् वै स्यां वृषध्वज तथा कुरु ..४३ ।। ।।और्व्य उवाच।। इति स न्यगदद्राजा भार्याभिः सह हर्षितः। मुद्रितपुस्तके अधिकः। प्रणम्य स्तुतिपूर्वेण भक्तिनम्रात्ममानसः ..४४ ।। ततः पूत्रार्थिनं भूपं प्रसन्नो वृषभध्वजः। मुद्रितपुस्तके अधिकः। ब्रह्मदत्तं फलं हस्ते कृत्वेदं तमुवाच ह .. ४५ ।। ।।ईश्वर उवाच।। इदं फलं ब्रह्मदत्तं विभज्य नृपते त्रिधा। भोजयेथाः स्वजायास्त्वं प्रहृष्टः सुस्थमानसः ..४६ ।। ततः प्रवृत्ते भवत एतासु ऋतुसङ्गमे। आधास्यन्ति तु गर्भास्तु भार्यास्ते युगपन्नृप ..४७ ।। कालं प्राप्ते च युगपत् प्रसवो योषितां तव। भविष्यति नृपश्रेष्ठ तत्रेत्थं त्वं करिष्यसि ..४८ ।। एकस्या जठरे शीर्षभागस्ते सम्भविष्यति। अपरस्यास्तदा कुक्षेर्मध्यभागो भविष्यति ..४९ ।। अधो नाभ्यास्तु यो भागः सोऽपरस्यां भविष्यति। तच्च खण्डत्रयं भूप यथास्थानं पृथक् पृथक् ..५० ।। योजयिष्यसि पश्चात् ते पुत्र एको भविष्यति। तस्य शीर्षे चन्द्ररेखा सहजा सम्भविष्यति ..५१ ।। तेनैव नाम्ना स ख्यातिं गमिष्यति च भूतले। ।।और्व्य उवाच।। इत्युक्त्वा स महादेवस्तासां गर्भान् स्वयं तदा ..५२ ।। संस्कर्तुं जाह्नवीतोयमात्मवासाय वै न्यधात्। ततः फले स्वयं देवः प्रविवेश वृषध्वजः ..५३ ।। तत्क्षणात् तत्फलं भूतं त्रिभागं स्वयमेव हि। पौष्यस्तत्फलमादाय मुदितः सह भार्यया ..५४ ।। प्रययौ मन्दिरं हृष्टो अनुज्ञाप्य वृषध्वजम्। ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् ..५५ ।। तत्फलं नृपशार्दूल गर्भाश्चाप्यायिताः शुभाः। सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत ..५६ ।। खण्डत्रयं पृथग्राजंस्तथा यथा भर्गेण भाषितम्। तच्च खण्त्रयं पौष्यौ यथास्थानं नियोज्य च ..५७ ।। एकपिण्डं चकाराशु तत्र पुत्रो व्यजायत। तस्य शीर्षे तदा राजन् सहजेन्दुकला शुभा ..५८ ।। विरराज यथा स्वस्था शरत्काले कला विधोः। तं सर्वलक्षणोपेतं पीनोरस्कं सुनासिकम् ..५९ ।। सिंहग्रीवं विशालाक्षं दीर्घायतभुजं तदा। दृष्ट्वा पौष्योऽथ भार्याभिस्तिसृभिः सह सम्मुदम् ..६० ।। लेभे दरिद्रः सत्कोषं प्राप्येव विपुलं ततः। तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः ..६१ ।। चन्द्रशेखर इत्येव कान्त्या चन्द्रमसः समः। ववृधे स महाभागः प्रत्यहं चन्द्रवत् सुतः ..६२ ।। कलाभिरिव तेजस्वी शरदीव निशाकरः। एवं तिसृणामम्बानां गर्भे जातो यतो हरः ..६३ ।। अतस्त्र्यम्बक नामाभूत्सुतोऽभुत् प्रथितो लोकवेदयोः। स राजपुत्रः कौमारीमवस्थां प्रापयत् तदा ..६४ ।। सर्वशास्त्रार्थतत्त्वज्ञो विष्णोस्तुल्यो बभूव ह। बले वीर्ये प्रहरणे शास्त्रे शीले च तत्समः ..६५ ।। नान्योऽभूद् नृपशार्दूल नो वा भूमौ भविष्यति। अभिषिच्याथ तं राख्ये कुमारं बलवत्तरम् ..६६ ।। दशपञ्चैकवर्षीयं सर्वराजगुणैर्युतम्। तिसृभिः सहभार्याभिर्वनं पौष्यो विवेश ह। वृद्धोचितक्रियां कर्तुं राजा परमधार्मिकः ..६७ ।। गते पितरि राजा स वनवासं महाबलः ..६८ ।। सर्वां क्षितिं वशे चक्रे सामातयैः सामात्यश्चन्द्रशेखरः। सार्वभौमो नृपो भूत्वा राजभिः परिसेवितः ..६९ ।। अमरैरिव देवेन्द्रो विजहार श्रिया युतः। एवं पौष्यसुतो भूत्वा त्र्यम्बकः पुण्यनिर्वृतः ..७० ।। ब्रह्मावर्ताह्वये रम्ये करवीराह्वये पुरे। दृषद्वतीनदीतीरे राजा भूत्वा मुमोद ह ..७१ ।। अथैकदा स पितर वनवासगतं स्वयम्। मातृश्चापि नृपश्रेष्ठ द्रष्टुकामोऽभवन्नृपः ..७२ ।। स एकस्यन्दनेनैव एकाकी चन्द्रशेखरः। विपुलं धनुरादाय समार्गणगणं तदा ..७३ ।। तपोवनं पुण्यमयं विषयान्ते व्यवस्थितम्। आससाद दिदृक्षुः स तातं वृद्धं समातृकम ..७४ ।। स गच्छन् पितुरभ्याशं नृपतिं चन्द्रशेखरः। ददर्श नमुचं नाम तपस्यन्तं महामुनिम् ..७५ ।। कृषणाजिनोत्तरीयेण संवीतं सूर्यसन्निभम्। ऊर्ध्वगाभिर्जटाभिश्च संयुतं ध्यानिनं कृशम् ..७६ ।। तपसा द्योतिततनुं निश्चलं कुशजासनम्। तं दृष्ट्वा दूरतो वीरो रथोपस्थादवातरत् ..७७ ।। उपतस्थे च विप्रेन्द्रं विनयानतकन्धरः। प्रणनाम मुनिं तं च वाक्यमेतदुदीरयनुदाहरन् ..७८ ।। पौष्यस्य तनयो ब्रह्मन् नाम्नाहं चन्द्रशेखरः। प्रणमामि महाभक्त्या भवन्तं मुनिसत्तमम् ..७९ ।। इत्युक्त्वा प्राञ्जलिस्तस्थौ मुनेस्तस्याग्रतो नृपः। नमुचस्य मुखं वीक्ष्य भक्तिनम्रात्ममानसः कन्धरः ..८० ।। पूर्वमेव यदा राजा प्राविशत् तपसे वनम्। तदैव सह भार्याभिस्तं मुनिं प्रत्यपूजयत् ..८१ ।। चिरमाराध्य नमुचं पौष्यः परमपण्डितः। प्रसादयामास मुनिं पुत्रार्थे सूनृताक्षरैः ..८२ ।। विषयान्ते तपः कुर्वन् मुनिश्रेष्ठेह तिष्ठसि। एकन्तु प्रार्थये त्वत्तो यदि मां दयसे मुने ..८३ ।। शिशुर्मे तनयो राजा चन्द्रशेखरसंज्ञकः। सहजेन्दुकलायुक्तो बालभावाच्च चञ्चलः ..८४ ।। स चेदं भवन्तमासाद्य कराचिदपराध्यति। तदा क्षमिष्यसि मुने मयैतत् प्रार्थितं त्वयि ..८५ ।। पौष्यस्य वचनं श्रुत्वा मुनिश्चाङ्गीचकार ह। दृष्ट्वा तत्तनयं विप्रः पौष्यवाक्यमथास्मरत् ..८६ ।। स्मृत्वाग्रतः स्थितं नम्रं सुचिरं चन्द्रशेखरम्। इदं प्रोवाच स मुनिर्दयावान्नमुचाह्वयः ..८७ ।। विनयेनाद्य तुष्टोऽस्मि भवतः चन्द्रशेखर। वरं वरय दास्यामि वाञ्छितं मे महत्तरम् ..८८ ।। तस्य श्रुत्वा ततो वाक्यं नृपतिश्चन्द्रशेखरः। पुनः प्रणम्य नमुचमिदमाहातिसूनृतम् ..८९ ।। कायेन मनसा वाचा यदर्थद्विजसत्तम । तत्सर्वं विषये मेऽस्ति त्वादृशा यस्य दक्षिणाः ..९० ।। मनोगतं मे दुष्प्रापं वाञ्छनीयं न विद्यते। तदेव वरणीयं मे यद् ददाति स्वयं भवान् ..९१ ।। ।।नमुच उवाच।। त्वं सप्तदशवर्षाणां प्राप्ते संवत्सरे परे। भविष्यसि नृपश्रेष्ठ वररामापतिःस्वयम् ..९२ ।। यथा गिरिसुता शम्भोर्यथा लक्ष्मीर्गदाभृतः। यथा सुरेशस्य शची तथा तेऽपि भविष्यति ..९३ ।। इत्युक्त्वा स मुनिर्भूपं नमुचस्तपसां निधिः। विसर्जयामास तदा स चापि मुदितो ययौ ..९४ ।। स गत्वा पितरं प्राप्य मातृश्च चन्द्रशेखरः। अपूजयद् यथार्हन्तु तैरप्याश्वासितः सुतः ..९५ ।। अथागतो नृपः स्वीयां करवीरपुरीं प्रति। मुदितः सचिवै, सार्द्धं रेमे देवेन्द्रसन्निभः

||aurvya uvāca|| haro yāvad jagatyarthe devavargaiḥ prasāditaḥ| tāvanmahāmaithunena hīno'bhūdumayā saha ..1 || vartate ratimātreṇa svecchāṃ sampūrayan sadā| yathāmanorathaṃ devyāḥ satataṃ pūrayanmṛḍaḥ ..2 || athaikadomayā sārdhaṃ nigūḍhe ratimandire| narmākaronmahādevo modayukto ratipriyaḥ ..3 || yadā sā narmaṇe yātā gaurī smaraharantikam| tadā bhṛṅgimahākālau dvāḥsthau dvāri pratiṣṭhitau ..4 || narmāvasāne sā devī muktadhammillabandhanā| bandhahīnaṃ galadgātrādvastramālambya pāṇinā ..5 || vyastahārā gandhapuṣpairākulairnātiśobhanā | viluptakuṅkumā daṣṭadaśanacchadavibhramā ..6 || niḥsṛtāratisaṅkelinilayājjalajānanā | īṣadāghūrṇanayanā nicitāsvedabindubhiḥ ..7 || tāṃ niḥsarantīṃ sadanāt tathābhūtāmaninditām| ayogyāṃ vīkṣituñcanyairvṛṣadhvajamṛte patim ..8 || dadaśṛturmahātmānau nātihṛṣṭātmamānasau| bhṛṅgī cāpi mahākālaḥ prāptakālaṃ cukopatuḥ ..9 || dṛṣṭ vā tāṃ mātaraṃ dīnau tathābhūtāvadhomukhau| cintāṃ ca jagmatustīvrāṃ niśaśvasaturuttamau ..10 || tau paśyantau tadā devī dadarśa himavatsutā| cukopa ca tadāparṇā vākyaṃ caitaduvāca ha ..11 || evaṃbhūtaṃ ca māṃ kasmādasambaddhāvapaśyatām| bhavantī tanayau śuddhau hnīmaryādāvivarjitau ..12 || yaṣmādimāmamaryādāṃ bhavantau nirapatrapau| akurvatāṃ tato bhūyād savatorjanma mānuṣe ..13 || mānuṣīṃ yonimāsādya madavekṣavaṇadoṣataḥ| bhaviṣyantau bhavantau tu śākhāmṛgamukhau bhuvi ..14 || iti tāvumayā śaptau haraputrau mahāmatī| bhṛṅgī caiva mahākālaḥ svamāturantikaṃ tadā ..15 || tau praptaduḥkau tu tadā durmaskau harātmajau| śāpaṃ tasyā na sehāte procatuścedamadrijām ..16 || anāgasau sadaivāvāṃ bhavatyā himavatsute| kathaṃ śaptau tvayā mātarhaṭhādevaṃ prakopayā ..17 || niyojitau yathā dvāri maheśe na tvayā saha| tathā niyogaṃ kurvanto tiṣṭhāvo dvāri saṃyatau ..18 || haṭhānniḥ saraṇaṃ gehāt tavaiva na hi yujyate| āgacchantyā bhavatyā tu dṛṣṭāvāvāṃ susaṃyatau ..19 || tasmānnirarthakaḥ kopaḥ ko doṣastatra cāvayoḥ| tasmāt tatra pratīkāṃ śṛṇu mātaranindite ..20 || tvaṃ mānuṣī kṣitau bhūyā haro bhavatu mānuṣaḥ| mānuṣasya harasyātha jāyāyāṃ haratejasā ..21 || bhavatyāścāpi mānuṣyāṃ bhaviṣyāvastathodare| yadi satyaṃ harasutāvāvāṃ yadi nirāgasau ..22 || tadāvayoridaṃ vākyaṃ satyamastu gireḥ sute| ityanyonyamatho śāpaṃ datttā dattvā sudāruṇam ..23 || vineśu viviśurnṛ paśārdūla gaurī harasutau ca tau| atha kāle vyatīte tu sarvajño vṛṣabhadhvajaḥ ..24 || tadbhāvi karma jñātvaiva mānuṣo hyabhavat svayam| brahmaṇo dakṣiṇāṅgu ṣṭhād dakṣo brahmasuto'bhavat ..25 || aditistatsutā jātā tataḥ pūṣāhvayo'bhavat| pūṣṇaḥ putro'bhavat pauṣyaḥ sarvaśāstrārthapāragaḥ ..26 || yasya tulyo nṛpo na bhūmau na bhūto na bhaviṣyati| sa putrahīno rājābhūt pauṣyo nṛpatisattamaḥ ..27 || śeṣe vayasi saṃprāpte bhāryābhistisabhiḥ saha| pauṣyaḥ paramayā bhaktyā brahmāṇaṃ paryatoṣayat ..28 || ||brahmovāca|| tasya prasanno bhagavān brahmā lokapitāmahaḥ| tamuvāca ca rājānaṃ kimicchasi vadasva me ..29 || prasanno'smi nṛpaśreṣṭha pradāsyāmi yathepsitam| yadiṣṭaṃ tava jāyānāṃ tadvadiṣyasi sāmpratam ..30 || ||pauṣya uvāca|| hiraṇyagarbhaputro'haṃ hiraṇyagarbhaputro'haṃ putrārthī tvāmupāsmahe| tvayi prasanne putro me mūyāllakṣaṇasaṃyutaḥ ..31 || etadarthe sabhāryo'haṃ bhaktyā tvāṃ samupasthitaḥ| yathā me jāyate putrastathā kuru jagatpate ..32 || punnāmno narakāt putrastrāyate pitaraṃ prasūm| atastasmād bhayaṃ brahmaṃ stvaṃ nāśayitemarhasi ..33 || || brahmovāca|| śṛṇu pauṣya yathā bhāvī putrastava kulodvahaḥ| tadahaṃ te vadāmyadya bhāryābhistat samācāra ..34 || idaṃ phalaṃ gṛhāṇa tvaṃ mayā dattaṃ nṛpottam| ajīrṇaṃ bahule kāle prāpte'pi surasaṃ sadāsurasaṃsadi ..35 || phalametat samādāya tāvat saṃvatsaratrayam dvayam ārādhaya mahādevaṃ sa prasanno bhaviṣyati ..36 || yathā sambhāṣate bhargaḥ phalametat tathā bhavān| kariṣyati phalaṃ rājan bhāryābhistisṛbhiḥ saha ..37 || tataste lakṣaṇopetastanayaḥ kulavardhanaḥ| bhaviṣyati svayaṃ śāstā cakravartī vasundharām ..38 || ||aurvya uvāca|| ityuktvā prayayau brahmā rājāpi saha bhīrubhiḥ| haraṃ yaṣṭuṃ samārebhe bhaktyā paramayā yutaḥ ..39 || nirāśīḥ saṃyatāhāraḥ kadācit phalabhojanaḥ| dṛṣadvatīnadītīre phalaṃ saṃsthāpya cāgrataḥ ..40 || puṣpārghadīpadhūpaiśca vṛṣabhadhvajamatarpayat| sa tu varṣatraye'tīte dvayātīte mahādevo jagatpatiḥ ..41 || pauṣyasya nṛpateḥ samyak prasasādārthasiddhaye| prasannaḥ prāha nṛpatiṃ sahādevo hasanniva| upāsase kimarthaṃ māṃ tanme vada dadāmi te ..42 || ||pauṣya uvāca|| aputro'haṃ putrakāmastacchuṇuṣvapūjayāmi mudritapustake adhikaḥ| yathāhaṃ putravān vai syāṃ vṛṣadhvaja tathā kuru ..43 || ||aurvya uvāca|| iti sa nyagadadrājā bhāryābhiḥ saha harṣitaḥ| mudritapustake adhikaḥ| praṇamya stutipūrveṇa bhaktinamrātmamānasaḥ ..44 || tataḥ pūtrārthinaṃ bhūpaṃ prasanno vṛṣabhadhvajaḥ| mudritapustake adhikaḥ| brahmadattaṃ phalaṃ haste kṛtvedaṃ tamuvāca ha .. 45 || ||īśvara uvāca|| idaṃ phalaṃ brahmadattaṃ vibhajya nṛpate tridhā| bhojayethāḥ svajāyāstvaṃ prahṛṣṭaḥ susthamānasaḥ ..46 || tataḥ pravṛtte bhavata etāsu ṛtusaṅgame| ādhāsyanti tu garbhāstu bhāryāste yugapannṛpa ..47 || kālaṃ prāpte ca yugapat prasavo yoṣitāṃ tava| bhaviṣyati nṛpaśreṣṭha tatretthaṃ tvaṃ kariṣyasi ..48 || ekasyā jaṭhare śīrṣabhāgaste sambhaviṣyati| aparasyāstadā kukṣermadhyabhāgo bhaviṣyati ..49 || adho nābhyāstu yo bhāgaḥ so'parasyāṃ bhaviṣyati| tacca khaṇḍatrayaṃ bhūpa yathāsthānaṃ pṛthak pṛthak ..50 || yojayiṣyasi paścāt te putra eko bhaviṣyati| tasya śīrṣe candrarekhā sahajā sambhaviṣyati ..51 || tenaiva nāmnā sa khyātiṃ gamiṣyati ca bhūtale| ||aurvya uvāca|| ityuktvā sa mahādevastāsāṃ garbhān svayaṃ tadā ..52 || saṃskartuṃ jāhnavītoyamātmavāsāya vai nyadhāt| tataḥ phale svayaṃ devaḥ praviveśa vṛṣadhvajaḥ ..53 || tatkṣaṇāt tatphalaṃ bhūtaṃ tribhāgaṃ svayameva hi| pauṣyastatphalamādāya muditaḥ saha bhāryayā ..54 || prayayau mandiraṃ hṛṣṭo anujñāpya vṛṣadhvajam| tataḥ samucite kāle prāpte tābhistu bhakṣitam ..55 || tatphalaṃ nṛpaśārdūla garbhāścāpyāyitāḥ śubhāḥ| sampūrṇe garbhakāle tu garbhebhyaḥ samajāyata ..56 || khaṇḍatrayaṃ pṛthagrājaṃstathā yathā bhargeṇa bhāṣitam| tacca khaṇtrayaṃ pauṣyau yathāsthānaṃ niyojya ca ..57 || ekapiṇḍaṃ cakārāśu tatra putro vyajāyata| tasya śīrṣe tadā rājan sahajendukalā śubhā ..58 || virarāja yathā svasthā śaratkāle kalā vidhoḥ| taṃ sarvalakṣaṇopetaṃ pīnoraskaṃ sunāsikam ..59 || siṃhagrīvaṃ viśālākṣaṃ dīrghāyatabhujaṃ tadā| dṛṣṭvā pauṣyo'tha bhāryābhistisṛbhiḥ saha sammudam ..60 || lebhe daridraḥ satkoṣaṃ prāpyeva vipulaṃ tataḥ| tasya nāmākarodrājā brāhmaṇaiḥ svaiḥ purohitaiḥ ..61 || candraśekhara ityeva kāntyā candramasaḥ samaḥ| vavṛdhe sa mahābhāgaḥ pratyahaṃ candravat sutaḥ ..62 || kalābhiriva tejasvī śaradīva niśākaraḥ| evaṃ tisṛṇāmambānāṃ garbhe jāto yato haraḥ ..63 || atastryambaka nāmābhūtsuto'bhut prathito lokavedayoḥ| sa rājaputraḥ kaumārīmavasthāṃ prāpayat tadā ..64 || sarvaśāstrārthatattvajño viṣṇostulyo babhūva ha| bale vīrye praharaṇe śāstre śīle ca tatsamaḥ ..65 || nānyo'bhūd nṛpaśārdūla no vā bhūmau bhaviṣyati| abhiṣicyātha taṃ rākhye kumāraṃ balavattaram ..66 || daśapañcaikavarṣīyaṃ sarvarājaguṇairyutam| tisṛbhiḥ sahabhāryābhirvanaṃ pauṣyo viveśa ha| vṛddhocitakriyāṃ kartuṃ rājā paramadhārmikaḥ ..67 || gate pitari rājā sa vanavāsaṃ mahābalaḥ ..68 || sarvāṃ kṣitiṃ vaśe cakre sāmātayaiḥ sāmātyaścandraśekharaḥ| sārvabhaumo nṛpo bhūtvā rājabhiḥ parisevitaḥ ..69 || amarairiva devendro vijahāra śriyā yutaḥ| evaṃ pauṣyasuto bhūtvā tryambakaḥ puṇyanirvṛtaḥ ..70 || brahmāvartāhvaye ramye karavīrāhvaye pure| dṛṣadvatīnadītīre rājā bhūtvā mumoda ha ..71 || athaikadā sa pitara vanavāsagataṃ svayam| mātṛścāpi nṛpaśreṣṭha draṣṭukāmo'bhavannṛpaḥ ..72 || sa ekasyandanenaiva ekākī candraśekharaḥ| vipulaṃ dhanurādāya samārgaṇagaṇaṃ tadā ..73 || tapovanaṃ puṇyamayaṃ viṣayānte vyavasthitam| āsasāda didṛkṣuḥ sa tātaṃ vṛddhaṃ samātṛkama ..74 || sa gacchan piturabhyāśaṃ nṛpatiṃ candraśekharaḥ| dadarśa namucaṃ nāma tapasyantaṃ mahāmunim ..75 || kṛṣaṇājinottarīyeṇa saṃvītaṃ sūryasannibham| ūrdhvagābhirjaṭābhiśca saṃyutaṃ dhyāninaṃ kṛśam ..76 || tapasā dyotitatanuṃ niścalaṃ kuśajāsanam| taṃ dṛṣṭvā dūrato vīro rathopasthādavātarat ..77 || upatasthe ca viprendraṃ vinayānatakandharaḥ| praṇanāma muniṃ taṃ ca vākyametadudīrayanudāharan ..78 || pauṣyasya tanayo brahman nāmnāhaṃ candraśekharaḥ| praṇamāmi mahābhaktyā bhavantaṃ munisattamam ..79 || ityuktvā prāñjalistasthau munestasyāgrato nṛpaḥ| namucasya mukhaṃ vīkṣya bhaktinamrātmamānasaḥ kandharaḥ ..80 || pūrvameva yadā rājā prāviśat tapase vanam| tadaiva saha bhāryābhistaṃ muniṃ pratyapūjayat ..81 || ciramārādhya namucaṃ pauṣyaḥ paramapaṇḍitaḥ| prasādayāmāsa muniṃ putrārthe sūnṛtākṣaraiḥ ..82 || viṣayānte tapaḥ kurvan muniśreṣṭheha tiṣṭhasi| ekantu prārthaye tvatto yadi māṃ dayase mune ..83 || śiśurme tanayo rājā candraśekharasaṃjñakaḥ| sahajendukalāyukto bālabhāvācca cañcalaḥ ..84 || sa cedaṃ bhavantamāsādya karācidaparādhyati| tadā kṣamiṣyasi mune mayaitat prārthitaṃ tvayi ..85 || pauṣyasya vacanaṃ śrutvā muniścāṅgīcakāra ha| dṛṣṭvā tattanayaṃ vipraḥ pauṣyavākyamathāsmarat ..86 || smṛtvāgrataḥ sthitaṃ namraṃ suciraṃ candraśekharam| idaṃ provāca sa munirdayāvānnamucāhvayaḥ ..87 || vinayenādya tuṣṭo'smi bhavataḥ candraśekhara| varaṃ varaya dāsyāmi vāñchitaṃ me mahattaram ..88 || tasya śrutvā tato vākyaṃ nṛpatiścandraśekharaḥ| punaḥ praṇamya namucamidamāhātisūnṛtam ..89 || kāyena manasā vācā yadarthadvijasattama | tatsarvaṃ viṣaye me'sti tvādṛśā yasya dakṣiṇāḥ ..90 || manogataṃ me duṣprāpaṃ vāñchanīyaṃ na vidyate| tadeva varaṇīyaṃ me yad dadāti svayaṃ bhavān ..91 || ||namuca uvāca|| tvaṃ saptadaśavarṣāṇāṃ prāpte saṃvatsare pare| bhaviṣyasi nṛpaśreṣṭha vararāmāpatiḥsvayam ..92 || yathā girisutā śambhoryathā lakṣmīrgadābhṛtaḥ| yathā sureśasya śacī tathā te'pi bhaviṣyati ..93 || ityuktvā sa munirbhūpaṃ namucastapasāṃ nidhiḥ| visarjayāmāsa tadā sa cāpi mudito yayau ..94 || sa gatvā pitaraṃ prāpya mātṛśca candraśekharaḥ| apūjayad yathārhantu tairapyāśvāsitaḥ sutaḥ ..95 || athāgato nṛpaḥ svīyāṃ karavīrapurīṃ prati| muditaḥ sacivai, sārddhaṃ reme devendrasannibhaḥ

Aurva said: (1) As long as Hara was being propitiated by the hosts of gods for the world's sake, so long was he deprived of the great intercourse with Umā. (2) He continued with mere love-play, always fulfilling his own wish; Mṛḍa constantly fulfilled the Goddess's desire as she wished. (3) Then once, together with Umā in a secluded pleasure-chamber, Mahādeva, full of delight and fond of love, engaged in dalliance. (4) When Gaurī had gone for dalliance beside the destroyer of Smara, then Bhṛṅgi and Mahākāla, the two doorkeepers, were posted at the door. (5) At the end of the dalliance the Goddess, the binding of her hair-knot loosed, holding with her hand the unfastened garment slipping from her body, (6) her necklace disarranged, not very lovely with scents and flowers in disorder, her saffron rubbed away, the charm of her lip bitten by teeth, (7) her lotus face, having come out of the house of love-play, her eyes slightly rolling, covered with drops of sweat—(8) her, coming out of the chamber in such a state, blameless, unfit to be looked at by any others than her husband the bull-bannered one, (9) the two great-souled ones saw, and were not very glad in their minds; and Bhṛṅgī and Mahākāla grew angry at what the moment had brought. (10) Seeing their mother in that state, the two, dejected, with faces cast down, fell into keen anxiety, and those excellent ones sighed. (11) The Goddess, the daughter of Himavat, then saw the two of them looking; and Aparṇā grew angry then and spoke this word: (12) 'Why did you two look at me, unfittingly, in such a state? You who are pure sons are devoid of shame and propriety. (13) Since you two shameless ones committed this impropriety, therefore let birth among humans come about for you both. (14) Reaching a human womb, through the fault of looking at me, you two shall become monkey-faced on earth.' (15) Thus those two sons of Hara, of great mind, Bhṛṅgī and Mahākāla, were cursed by Umā, there in the presence of their own mother. (16) Those sons of Hara, then stricken with grief and downcast, did not endure her curse, and said this to the mountain-born: (17) 'We two are always without offence, O daughter of Himavat; how have we been cursed by you thus by force, mother, in your anger? (18) Just as we were appointed at the door by Maheśa, and not by you, so we, carrying out that appointment, stand restrained at the door. (19) It is not fitting that you yourself should come out of the house so abruptly; as you came, we were seen by you well restrained. (20) Therefore your anger is purposeless; what fault of ours is there in this? Therefore hear our counter (curse) in this matter, O blameless mother: (21) may you be a human woman on earth, and let Hara become a man; and then in the wife of the human Hara, by Hara's power, (22) and in your human womb, we two shall come to be—if it is true that we are Hara's sons, if we are without offence. (23) Then let this word of ours be true, O daughter of the mountain.' Thus having given each other a most terrible curse, (24) Gaurī and those two sons of Hara (parted), O tiger among kings. Then when time had passed, the all-knowing bull-bannered one, (25) knowing the deed that was to come, himself became a man. From Brahmā's right thumb Dakṣa, Brahmā's son, came to be; (26) Aditi was born his daughter; then one named Pūṣan came to be; Pūṣan's son was Pauṣya, who had mastered the meaning of all the scriptures, (27) whose equal as king has neither been nor will be on earth. That Pauṣya, best of kings, was without a son. (28) When the last part of his life had come, together with his three wives Pauṣya with supreme devotion gratified Brahmā. (29) [Brahmā said:] The Lord Brahmā, grandfather of the worlds, pleased with him, said to that king: 'What do you wish? Tell me. (30) I am pleased, best of kings; I shall grant what is desired. Whatever is wished by your wives, say it now.' (31) Pauṣya said: 'I am the son of Hiraṇyagarbha's line; desiring a son I worship you; you being pleased, let a son endowed with the (auspicious) marks be mine. (32) For this purpose I with my wives have come to you with devotion; act, lord of the world, so that a son is born to me. (33) A son rescues father and mother from the hell named Put; therefore, Brahman, you ought to destroy that fear.' (34) Brahmā said: 'Hear, Pauṣya, how a son who will uphold your line is to come to be; that I tell you today—carry it out with your wives. (35) Take this fruit given by you—by me, best of kings—undecaying even when much time has passed, always sweet, (fit) for the assembly of the gods. (36) Taking this fruit, for three years and two worship Mahādeva; he will become pleased. (37) As Bharga instructs, so you shall deal with this fruit, O king, together with your three wives. (38) Then a son of yours, endowed with the marks, increaser of the line, will come to be, himself a ruler, an emperor over the earth.' (39) Aurva said: Having said this, Brahmā departed; and the king too, with his timid wives, began to worship Hara, filled with supreme devotion. (40) Free of desires, restrained in food, eating only fruit at times, on the bank of the river Dṛṣadvatī, having set the fruit before him, (41) he gratified the bull-bannered one with flowers, offerings, lamps and incense. When three years, and two, had passed, Mahādeva, the lord of the world, (42) became duly pleased with king Pauṣya for the accomplishment of his aim. Pleased, Mahādeva said to the king as though smiling: 'For what purpose do you worship me? Tell me that; I shall give it to you.' (43) Pauṣya said: 'I am sonless, I desire a son—hear that ... act, bull-bannered one, so that I may have a son.' (44) Aurva said: Thus the king spoke, gladdened, together with his wives, bowing first with praise, his mind humbled with devotion. (45) Then the bull-bannered one, pleased with the king who desired a son, taking in his hand the fruit given by Brahmā, said this to him. (46) Īśvara said: 'Dividing this fruit given by Brahmā in three, O king, you should feed it to your own wives, delighted and steady of mind. (47) Then, when their season comes at your union, your wives will conceive at the same time, O king. (48) And when the time comes, the delivery of your women will be simultaneous, best of kings; in that case you shall do thus: (49) in the belly of one the head-part will come to be; then the middle part will be in the womb of another; (50) and the part below the navel will be in the other. And you shall join that triad of pieces, O king, each separately in its own place; (51) afterwards there will be one son of yours. On his head an innate moon-streak will appear; (52) by that very name he will attain fame on earth.' Aurva said: Having said this, Mahādeva then himself, to purify their wombs, placed there the water of the Jāhnavī as his own dwelling; (53) then the god, the bull-bannered one, himself entered the fruit. (54) That instant that fruit became of itself threefold. Pauṣya, taking that fruit, delighted, with his wife, (55) went joyfully to his palace, having taken leave of the bull-bannered one. Then, when the proper time came, that fruit was eaten by them, (56) O tiger among kings, and the auspicious embryos grew. When the term of the pregnancy was complete, there was born from the wombs (57) the triad of pieces separately, O king, just as Bharga had said. And Pauṣya, joining that triad of pieces each in its place, (58) quickly made a single body; and there a son came to be. On his head then, O king, an auspicious innate digit of the moon (59) shone as the moon's digit shines when well placed in the autumn season. Seeing him endowed with all the marks, broad-chested, fine-nosed, (60) lion-necked, wide-eyed, with long extended arms, Pauṣya then, with his three wives, obtained great joy, (61) as a poor man does on obtaining a vast good treasure. Then the king, with his own brahmins, his household priests, made his name (62) 'Candraśekhara,' since in loveliness he was equal to the moon. That greatly fortunate son grew day by day like the moon, (63) radiant as with digits, like the night-maker in autumn. Thus, since Hara was born in the womb of three mothers, (64) therefore the son's name became Tryambaka, celebrated in the world and in the Veda. That prince then reached the state of youth. (65) Knowing the truth of the meaning of all scriptures, he became equal to Viṣṇu; in strength, valour, weaponry, learning and conduct his equal (66) was no other, O tiger among kings, nor will there be on earth. Then, having consecrated to kingship that most powerful prince, (67) sixteen years old and endowed with all royal qualities, Pauṣya together with his three wives entered the forest, that most righteous king, to perform the rites befitting old age. (68) When his father had gone to dwell in the forest, that mighty king, (69) Candraśekhara with his ministers, brought the whole earth under his sway; becoming universal sovereign, attended by kings, (70) as Indra by the immortals, he sported, endowed with majesty. Thus Tryambaka, having become Pauṣya's son, content in merit, (71) in the lovely region called Brahmāvarta, in the city named Karavīra, on the bank of the river Dṛṣadvatī, having become king, rejoiced. (72) Then one day the king desired to see for himself his father, gone to dwell in the forest, and his mothers as well, best of kings. (73) He, Candraśekhara, alone with a single chariot, taking a great bow with a mass of arrows, (74) approached the merit-filled penance-grove situated at the border of his realm, wishing to see his aged father together with the mothers. (75) As he was going into his father's presence, king Candraśekhara saw a great sage named Namuca practising austerity, (76) wrapped in an upper garment of black antelope-skin, sun-like, with matted locks standing upward, meditating, lean, (77) his body glowing with penance, motionless, seated on kuśa grass. Seeing him from afar, the hero descended from the chariot-seat (78) and approached that best of brahmins, his neck bowed in humility; he bowed to the sage and uttered this speech: (79) 'I am Pauṣya's son, O brahman, Candraśekhara by name; with great devotion I bow to you, best of sages.' (80) Having said this, the king stood with joined palms before that sage, gazing at Namuca's face, his mind and neck bowed with devotion. (81) Earlier, when the king had entered the forest for penance, at that very time, together with his wives, he had honoured that sage. (82) Having long served Namuca, the most learned Pauṣya propitiated the sage with truthful words for the sake of his son: (83) 'You dwell here at the border of the realm performing penance, best of sages; one thing I beg of you, if you have compassion on me, O sage: (84) my son is a child, the king named Candraśekhara, endowed with an innate moon-digit, and, being a boy, unsteady. (85) If he, coming upon you, should offend in anything, then you will forgive it, O sage—this I beg of you.' (86) Hearing Pauṣya's words, the sage consented. Seeing his son, the brahmin then remembered Pauṣya's words; (87) remembering, and seeing Candraśekhara standing humbly before him a long while, that compassionate sage named Namuca said this: (88) 'Today I am pleased with your humility, Candraśekhara; choose a boon, I shall give even what is greater than what is wished by me.' (89) Hearing his word, king Candraśekhara, bowing again to Namuca, said this most truthfully: (90) 'Whatever thing is (sought) by body, mind or speech, best of the twice-born—all that is within my realm, whose sacrificial gifts go to such as you. (91) There is nothing in my mind hard to obtain that is to be wished for; only that is to be chosen by me which you yourself give.' (92) Namuca said: 'When the next year after your seventeen years has come, you will become, best of kings, the husband of an excellent woman. (93) As the mountain's daughter is to Śambhu, as Lakṣmī to the mace-bearer, as Śacī to the lord of the gods, so shall she be to you.' (94) Having said this, the sage Namuca, treasury of austerities, dismissed the king; and he too went away delighted. (95) Candraśekhara, having gone and reached his father and his mothers, honoured them as was fitting, and the son was consoled by them as well. (96) Then the king came to his own city of Karavīra, and delighted, together with his counsellors, took his pleasure, resembling Indra.

AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain