Harivamsha — Chapter 108
HV 108.1
ततो द्वारवतीमध्ये प्राकारैर् उपशोभितम् ततो द्वारवतीमध्ये कामस्य भवनं शुभम् । तत्समीपे ऽनिरुद्धस्य भवनं सा स्म पश्यति ॥ सौवर्णवेदिकास्तम्भं रुक्मवैदूर्यतोरणम् । माल्यदामावसक्तं च पूर्णकुम्भोपशोभितम् ॥ बर्हिकण्ठानतग्रीवं प्रासादैर् एकसंचयैः । मणिप्रवालसंस्तीर्णं दिव्यगन्धर्वनादितम् । ददर्श भवनं यत्र प्राद्युम्निर् अवसत् सुखम्
tato dvāravatīmadhye prākārair upaśobhitam tato dvāravatīmadhye kāmasya bhavanaṃ śubham | tatsamīpe 'niruddhasya bhavanaṃ sā sma paśyati || sauvarṇavedikāstambhaṃ rukmavaidūryatoraṇam | mālyadāmāvasaktaṃ ca pūrṇakumbhopaśobhitam || barhikaṇṭhānatagrīvaṃ prāsādair ekasaṃcayaiḥ | maṇipravālasaṃstīrṇaṃ divyagandharvanāditam | dadarśa bhavanaṃ yatra prādyumnir avasat sukham
Then in the midst of Dvāravatī, beautified with ramparts — then in the midst of Dvāravatī, the fair mansion of Kāma; near it she saw Aniruddha's mansion, with golden altar-platforms and pillars, with archways of gold and beryl, hung with garlands and wreaths, adorned with full jars, with necks bent like a peacock's throat, with palaces in a single mass, strewn with gems and coral, resounding with divine Gandharva music — she saw the mansion where Pradyumna's son dwelt in comfort.
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain
HV 108.2
ततः प्रविश्य सहसा भवनं तस्य तन् महत् तत्रानिरुद्धं सापश्यच् चित्रलेखा वराप्सराः । ददर्श मध्ये नारीणां तारापतिम् इवोदितम्
tataḥ praviśya sahasā bhavanaṃ tasya tan mahat tatrāniruddhaṃ sāpaśyac citralekhā varāpsarāḥ | dadarśa madhye nārīṇāṃ tārāpatim ivoditam
Then, entering at once that great mansion of his, Citralekhā, the finest of Apsarases, saw Aniruddha there; she saw him in the midst of women, like the risen lord of the stars.
AI translation rendered from the Sanskrit, not a published edition
HV 108.4
क्रीडाविहारे नारीभिः सेव्यमानम् इतस् ततः पिबन्तं मधु माध्वीकं श्रिया परमया युतम् वरासनगतं तत्र यथैवैलविलं तथा ॥ ह्व्_१०८।३ वाद्यते समतालं च गीयते मधुरं तथा । न च तस्य मनस् तत्र तम् एवार्थम् अचिन्तयत् ॥ स्त्रियः सर्वगुणोपेता नृत्यन्ते तत्र तत्र वै । न चास्य मनसस् तुष्टिं चित्रलेखा प्रपश्यति । न चाभिरमते भोगैर् न चापि मधु सेवते । व्यक्तम् अस्य हि तत् स्वप्नं हृदये परिवर्तते । इति तत्रैव बुद्ध्या च निश्चिता गतसाध्वसा । सा दृष्ट्वा परमस्त्रीणां मध्ये शक्रध्वजोपमम् । प्रियासु गीयमानासु नृत्यमानासु सर्वशः । चिन्तयाविष्टदेहा सा चित्रलेखा मनस्विनी कथं कार्यम् इदं कार्यं कथं स्वस्ति भवेन् मम
krīḍāvihāre nārībhiḥ sevyamānam itas tataḥ pibantaṃ madhu mādhvīkaṃ śriyā paramayā yutam varāsanagataṃ tatra yathaivailavilaṃ tathā // HV_108.3 vādyate samatālaṃ ca gīyate madhuraṃ tathā | na ca tasya manas tatra tam evārtham acintayat || striyaḥ sarvaguṇopetā nṛtyante tatra tatra vai | na cāsya manasas tuṣṭiṃ citralekhā prapaśyati | na cābhiramate bhogair na cāpi madhu sevate | vyaktam asya hi tat svapnaṃ hṛdaye parivartate | iti tatraiva buddhyā ca niścitā gatasādhvasā | sā dṛṣṭvā paramastrīṇāṃ madhye śakradhvajopamam | priyāsu gīyamānāsu nṛtyamānāsu sarvaśaḥ | cintayāviṣṭadehā sā citralekhā manasvinī kathaṃ kāryam idaṃ kāryaṃ kathaṃ svasti bhaven mama
(She saw him) at his play and pleasure, attended here and there by women, drinking sweet mādhvīka wine, endowed with supreme splendour, seated there on an excellent throne like Ailavila (Kubera) himself. Music is played in time and sweet singing goes on, yet his mind was not there — he was thinking of that one matter only. Women endowed with every excellence dance here and there, yet Citralekhā sees no contentment in his mind: he does not delight in pleasures, nor does he partake of the wine. "Clearly that dream of his is turning over in his heart" — thus she concluded there with her intelligence, her fear gone, having seen him in the midst of the finest women, like Indra's banner. While the dear women were singing and dancing all around, Citralekhā, the thoughtful one, her body possessed by anxious thought (wondered): "How is this task to be done? How may it go well for me?"
AI translation rendered from the Sanskrit, not a published edition
HV 108.5
सान्तर्हिता चिन्तयित्वा चित्रलेखा यशस्विनी तामस्या छादयाम् आस विद्यया शुभलोचना
sāntarhitā cintayitvā citralekhā yaśasvinī tāmasyā chādayām āsa vidyayā śubhalocanā
Having reflected, the illustrious Citralekhā made herself invisible, and she of fair eyes concealed him by (Uṣā's) magic science.
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain
HV 108.6
हर्म्ये स्त्रीगणमध्यस्थं कृत्वा चान्तर्हितं तदा उत्पपात गृहीत्वा सा प्राद्युम्निं युद्धदुर्मदम्
harmye strīgaṇamadhyasthaṃ kṛtvā cāntarhitaṃ tadā utpapāta gṛhītvā sā prādyumniṃ yuddhadurmadam
Then, having made him invisible in the palace, standing in the midst of the throng of women, she seized Pradyumna's son, arrogant in battle, and flew up.
AI translation rendered from the Sanskrit, not a published edition
HV 108.9
सा तम् अध्वानम् आगम्य सिद्धचारणसेवितम् सहसा शोणितपुरं प्रविवेश मनोजवा ॥ ह्व्_१०८।७ अदर्शनं तम् आनीय मायया कामरूपिणी । अनिरुद्धं महाभागा यत्रोषा तत्र गच्छति ॥ उषायादर्शयच् चैनं चित्राभरणभूषितम् ॥ चित्राम्बरधरं वीरं कन्दर्पसमरूपिणम् । तृतीये तु मुहूर्ते सा प्राप्ता बाणपुरं तदा । उषां तां दर्शयाम् आस पश्यैनं यद्य् असौ भवेत् ॥ एवम् उक्ता तदा कन्या बाणस्य दुहिता ततः । तत्रोषा विस्मिता दृष्ट्वा हर्म्यस्था सखिसंनिधौ प्रवेशयाम् आस तदा संप्राप्तं स्वगृहं ततः ॥ ह्व्_१०८।८ प्रवेशिते ऽनिरुद्धे तु प्रहृष्टा सहिता तया । सखीजनसमायुक्ता लज्जमाना शुचिस्मिता । प्रहर्षोत्फुल्लनयना प्रियं दृष्ट्वार्थकोविदा सा हर्म्यस्था तम् अर्घ्येण यादवं समपूजयत् । चित्रलेखां परिष्वज्य प्रियाख्यानैर् अयोजयत् । त्वरिता कामिनी प्राह चित्रलेखां भयातुरा
sā tam adhvānam āgamya siddhacāraṇasevitam sahasā śoṇitapuraṃ praviveśa manojavā // HV_108.7 adarśanaṃ tam ānīya māyayā kāmarūpiṇī | aniruddhaṃ mahābhāgā yatroṣā tatra gacchati || uṣāyādarśayac cainaṃ citrābharaṇabhūṣitam || citrāmbaradharaṃ vīraṃ kandarpasamarūpiṇam | tṛtīye tu muhūrte sā prāptā bāṇapuraṃ tadā | uṣāṃ tāṃ darśayām āsa paśyainaṃ yady asau bhavet || evam uktā tadā kanyā bāṇasya duhitā tataḥ | tatroṣā vismitā dṛṣṭvā harmyasthā sakhisaṃnidhau praveśayām āsa tadā saṃprāptaṃ svagṛhaṃ tataḥ // HV_108.8 praveśite 'niruddhe tu prahṛṣṭā sahitā tayā | sakhījanasamāyuktā lajjamānā śucismitā | praharṣotphullanayanā priyaṃ dṛṣṭvārthakovidā sā harmyasthā tam arghyeṇa yādavaṃ samapūjayat | citralekhāṃ pariṣvajya priyākhyānair ayojayat | tvaritā kāminī prāha citralekhāṃ bhayāturā
Travelling that road frequented by Siddhas and Cāraṇas, she, swift as thought, at once entered Śoṇitapura. Having brought him unseen by her magic, that greatly blessed one who could take any form at will, she goes with Aniruddha to where Uṣā was. She showed him to Uṣā, adorned with brilliant ornaments, the hero clad in bright garments, in form the equal of Kandarpa. In the third watch she had reached Bāṇa's city then. She showed him to Uṣā: "Look at him — is this the one?" So addressed, the maiden, Bāṇa's daughter, standing amazed in the palace beside her companion at the sight of him, then had him who had come brought into her own quarters. When Aniruddha had been brought in she was delighted, together with her; surrounded by her companions, shy, of bright smile, her eyes wide with joy, seeing her beloved, knowing what to do, she honoured that Yādava in the palace with a guest-offering; and embracing Citralekhā she engaged her in loving talk. Quickly the enamoured girl, distressed with fear, said to Citralekhā:
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain
HV 108.13
सखीदं वै कथं गुह्यं कार्यं कार्यविशारदे गुह्ये कृते भवेत् स्वस्ति प्रकाशे जीवितक्षयः ॥ ह्व्_१०८।१० चित्रलेखाब्रवीद् वाक्यं शृणु त्वं निश्चयं सखि । कृतं पुरुषकारं हि दैवं नाशयते सखि ॥ न वै देव्याः प्रसादस् ते अनुकूलो भविष्यति । अप्रमादात् कृतं गुह्यं न कश्चिज् ज्ञास्यते नरः ॥ सख्या वै एवम् उक्ता सा पर्यवस्थितचेतना । एवम् एतद् इति प्राह सानिरुद्धम् इदं वचः ॥ दिष्ट्या स्वप्नगतश् चोरो दृश्यते सुभगो जनः । यत्कृते तु वयं खिन्ना दुर्लभप्रियकाङ्क्षया ॥ कच्चित् तव महाबाहो कुशलं सर्वतोगतम् । हृदयं हि मृदु स्त्रीणां तेन पृच्छाम्य् अहं तव ॥ तस्यास् तद् वचनं श्रुत्वा उषायाः श्लक्ष्णम् अर्थवत् । सो ऽप्य् आह यदुशार्दूलः शुभाक्षरतरं वचः ॥ हर्षविप्लुतनेत्रायाः पाणिनाश्रु प्रमृज्य च । प्रहस्य सस्मितं प्राह हृदयग्राहकं वचः ॥ कुशलं मे वरारोहे सर्वत्र मितभाषिणि । त्वत्प्रसादेन मे देवि प्रियम् आवेदयामि ते ॥ अदृष्टपूर्वश् च मया देशो ऽयं शुभदर्शने । निशि स्वप्ने मया दृष्टं सकृत् कन्यापुरं महत् ॥ एवम् एवम् अहं भीरु त्वत्प्रसादाद् इहागतः । न च तद् रुद्रपत्न्या वै मिथ्या वाक्यं भविष्यति ॥ देव्यास् तु प्रीतिम् आज्ञाय त्वत्प्रियार्थं च भाविनि । अनुप्राप्तो ऽस्मि चाद्यैव प्रसीद शरणं गतः । इत्य् उक्त्वा रमयाम् आस सो ऽनिरुद्धो महायशाः । इत्य् उक्त्वा त्वरमाणा सा गुह्यदेशे स्वलंकृता कान्तेन सह संयुक्ता स्थिता वै भीतभीतवत् ततश् चोद्वाहधर्मेण गान्धर्वेण समीयतुः । अन्योन्यं रेमतुस् तौ तु चक्रवाकौ यथा दिवा ॥ पतिना सानिरुद्धेन मुमुदे तु वराङ्गना । कान्तेन सह संयुक्ता दिव्यस्रगनुलेपना । एकदेशे गृहस्यास्य प्रच्छन्नो चैव भामिनी । करेणुर् द्विरदेनेव वरयाम् आस संगता ॥ पपौ तस्य मुखं साध्वी समालिङ्ग्य यथाक्रमम् । नेत्रे चुचुम्ब सा देवी बाणस्य दुहिता यदुम् ॥ भूयो भूयः समाश्लिष्य यथेष्टं मदमोहिता । न तृप्तिम् आययौ सा तु समालिङ्ग्य यदूत्तमम् ॥ तामस्या विद्यया युक्तः प्राद्युम्निर् अथ तत्क्षणात् । चिन्तयाम् आस तं दृष्ट्वा गृहे स्त्रीजनम् अद्भुतम् ॥ को ऽयं विधिर् मम महान् न जाने त्व् अस्य कारणम् । स्वप्नो ऽयं किं मया दृष्ट उताहो विभ्रमो मम ॥ जागर्म्य् अहं न मे स्वप्नो न च म विभ्रमो महान् । केयम् अग्रे स्थिता सुभ्रूर् लतेव च सुपुष्पिता ॥ उद्भ्रान्तहरिणापङ्गी भ्रूलताभङ्गभाषिणी । पीनस्तनोरुजघना ताम्रपादकराधरा ॥ नीलकुञ्चितकेशाढ्या मधुरस्मितभाषिणी । मम नेत्रपथाक्रान्ता चन्द्रलेखेव शारदी । किम् इदं नात्र जानामि केनेदं प्रतिपादितम् ॥ दृष्ट्वास्य ववृधे कामस् ताम् उषां मदमोहिताम् । सा च तत्पुरतः साक्षात् पानं कर्तुं समुद्यता ॥ अथ ताम् इङ्गितैर् ज्ञात्वा श्रुत्वा चैव यथार्थतः । रमयाम् आस रमणीं कामतस् तां मनोरमाम् ॥ सा चापि तं समासाद्य हर्षभीताकुलेक्षणा । कामतो रमयाम् आस रोमाञ्चोद्गतकर्कशा ॥ लीलासंलापललितैर् ललना तं समाचरत् । करेणुर् इव मातङ्गं वाशिता गिरिगह्वरे । अनिरुद्धं महाबाहुं निद्रापरवशं गतं । ततो निरुद्धः स्वप्ने तु स्वपुराच् चित्रलेखया । नीतो बाणपुरं सद्यः संगतश् चोषया सह ॥ दृष्ट्वैवं स्वप्नसंसर्गं उषया स्वस्य चाद्भुतम् । वचनेन विमोहिताम् ॥ स ततश् चित्रलेखां ताम् अवेक्ष्योवाच यादवः । द्वारकानगराच् छीग्रम् आनीतश् चित्रलेखया ॥ बाणस्य नगरं प्राप्य संगतो ऽस्म्य् उषया रहः । एवं स्वप्नो मया दृष्टो विचित्रो ऽदृष्टपूर्वकः ॥ को ऽयं विधिर् ममायातः का त्वं कैषा च भामिनी । केयं पुरी गृहं कस्य तत् त्वम् आख्यातुम् अर्हसि ॥ इति ब्रुवन्तं तं दृष्ट्वा चित्रलेखा वचो ऽब्रवीत् । अपि ते कुशलं वीर सर्वत्र यदुनन्दन । रममाणानिरुद्धेन अविज्ञाता तु सा तदा ॥ ह्व्_१०८।११ पपौ चास्या मुखं कामी समालिङ्ग्य दृढं यदुः । परस्परं समाश्लिष्य परस्परमुखं पपुः ॥ तयोद्यतां ततो माध्वीं पपौ शिष्टाम् अपाययत् । तयोर् एवं तदा कामो ववृधे जनसंसदि ॥ चित्रलेखा ततः साध्वी भूषयाम् आस भूषणैः । वस्त्रैर् आभरणैश् चित्रैर् माल्यैश् च बहुगन्धिभिः ॥ रराज यदुवीरस् तु रोहिण्या चन्द्रमा यथा । सौधमार्गे ततस् तौ तु दंपती रेमतुश् चिरम् । तां तथा रमयाम् आस यथेष्टं यदुनन्दनः । परस्परस्य वदनं पपतुस् तौ परस्परम् । अलंकृतस् तया तत्र संगतश् चोषया रहः । पपौ तस्य मुखं साध्वी समालिङ्ग्य यथाक्रमम् । नेत्रे च चुम्बितो देवी बाणस्य दुहिता सखी । तस्मिन्न् एव क्षणे प्राप्ते यदूनाम् ऋषभो हि सः दिव्रमाल्याम्बरधरो दिव्यस्रगनुलेपनः उषया सह संयुक्तो विज्ञातो बाणरक्षिभिः ॥ ह्व्_१०८।१२ दमयन्त्या नलो यथा ।विजहार यथाकामं रमयंस् ताम् उषां शुभाम् ॥ अथ तस्याम् अवस्थायां स्थविरा वेत्रपाणयः । आमुक्तकञ्चुका राजन् कञ्चुकीयाः समन्ततः ॥ अनिरुद्धं ततो ज्ञात्वा सार्धं कन्यापुरे स्थितम् । उषया बाणसुतया रमयन्तं यथेष्टतः ॥ रक्षिणः सहसा गत्वा भीता बाणान्तिकं तदा ॥ अथ दीप्तायुधोदग्रा नित्यं सुपरिरक्षकाः । ते भीताः कथयाम् आसुर् अनिरुद्धस्य चेष्टितम् ॥ एष कश्चिन् महाराज उषया सह संगतः । स्थितः कन्यापुरे राजन् कश् चासौ कुत इत्य् अपि ॥ आयातः सहसा राजन् न विद्मो ऽस्य गतिं विभो ॥ श्रुत्वैतद् रोषयुक्तस् तु बलं बाणो निरीक्ष्य तत् । ततस् तैश् चारपुरुषैर् बाणस्यावेदितं तदा यथादृष्टम् अशेषेण कन्यायास् तद्व्यतिक्रमम्
sakhīdaṃ vai kathaṃ guhyaṃ kāryaṃ kāryaviśārade guhye kṛte bhavet svasti prakāśe jīvitakṣayaḥ // HV_108.10 citralekhābravīd vākyaṃ śṛṇu tvaṃ niścayaṃ sakhi | kṛtaṃ puruṣakāraṃ hi daivaṃ nāśayate sakhi || na vai devyāḥ prasādas te anukūlo bhaviṣyati | apramādāt kṛtaṃ guhyaṃ na kaścij jñāsyate naraḥ || sakhyā vai evam uktā sā paryavasthitacetanā | evam etad iti prāha sāniruddham idaṃ vacaḥ || diṣṭyā svapnagataś coro dṛśyate subhago janaḥ | yatkṛte tu vayaṃ khinnā durlabhapriyakāṅkṣayā || kaccit tava mahābāho kuśalaṃ sarvatogatam | hṛdayaṃ hi mṛdu strīṇāṃ tena pṛcchāmy ahaṃ tava || tasyās tad vacanaṃ śrutvā uṣāyāḥ ślakṣṇam arthavat | so 'py āha yaduśārdūlaḥ śubhākṣarataraṃ vacaḥ || harṣaviplutanetrāyāḥ pāṇināśru pramṛjya ca | prahasya sasmitaṃ prāha hṛdayagrāhakaṃ vacaḥ || kuśalaṃ me varārohe sarvatra mitabhāṣiṇi | tvatprasādena me devi priyam āvedayāmi te || adṛṣṭapūrvaś ca mayā deśo 'yaṃ śubhadarśane | niśi svapne mayā dṛṣṭaṃ sakṛt kanyāpuraṃ mahat || evam evam ahaṃ bhīru tvatprasādād ihāgataḥ | na ca tad rudrapatnyā vai mithyā vākyaṃ bhaviṣyati || devyās tu prītim ājñāya tvatpriyārthaṃ ca bhāvini | anuprāpto 'smi cādyaiva prasīda śaraṇaṃ gataḥ | ity uktvā ramayām āsa so 'niruddho mahāyaśāḥ | ity uktvā tvaramāṇā sā guhyadeśe svalaṃkṛtā kāntena saha saṃyuktā sthitā vai bhītabhītavat tataś codvāhadharmeṇa gāndharveṇa samīyatuḥ | anyonyaṃ rematus tau tu cakravākau yathā divā || patinā sāniruddhena mumude tu varāṅganā | kāntena saha saṃyuktā divyasraganulepanā | ekadeśe gṛhasyāsya pracchanno caiva bhāminī | kareṇur dviradeneva varayām āsa saṃgatā || papau tasya mukhaṃ sādhvī samāliṅgya yathākramam | netre cucumba sā devī bāṇasya duhitā yadum || bhūyo bhūyaḥ samāśliṣya yatheṣṭaṃ madamohitā | na tṛptim āyayau sā tu samāliṅgya yadūttamam || tāmasyā vidyayā yuktaḥ prādyumnir atha tatkṣaṇāt | cintayām āsa taṃ dṛṣṭvā gṛhe strījanam adbhutam || ko 'yaṃ vidhir mama mahān na jāne tv asya kāraṇam | svapno 'yaṃ kiṃ mayā dṛṣṭa utāho vibhramo mama || jāgarmy ahaṃ na me svapno na ca ma vibhramo mahān | keyam agre sthitā subhrūr lateva ca supuṣpitā || udbhrāntahariṇāpaṅgī bhrūlatābhaṅgabhāṣiṇī | pīnastanorujaghanā tāmrapādakarādharā || nīlakuñcitakeśāḍhyā madhurasmitabhāṣiṇī | mama netrapathākrāntā candralekheva śāradī | kim idaṃ nātra jānāmi kenedaṃ pratipāditam || dṛṣṭvāsya vavṛdhe kāmas tām uṣāṃ madamohitām | sā ca tatpurataḥ sākṣāt pānaṃ kartuṃ samudyatā || atha tām iṅgitair jñātvā śrutvā caiva yathārthataḥ | ramayām āsa ramaṇīṃ kāmatas tāṃ manoramām || sā cāpi taṃ samāsādya harṣabhītākulekṣaṇā | kāmato ramayām āsa romāñcodgatakarkaśā || līlāsaṃlāpalalitair lalanā taṃ samācarat | kareṇur iva mātaṅgaṃ vāśitā girigahvare | aniruddhaṃ mahābāhuṃ nidrāparavaśaṃ gataṃ | tato niruddhaḥ svapne tu svapurāc citralekhayā | nīto bāṇapuraṃ sadyaḥ saṃgataś coṣayā saha || dṛṣṭvaivaṃ svapnasaṃsargaṃ uṣayā svasya cādbhutam | vacanena vimohitām || sa tataś citralekhāṃ tām avekṣyovāca yādavaḥ | dvārakānagarāc chīgram ānītaś citralekhayā || bāṇasya nagaraṃ prāpya saṃgato 'smy uṣayā rahaḥ | evaṃ svapno mayā dṛṣṭo vicitro 'dṛṣṭapūrvakaḥ || ko 'yaṃ vidhir mamāyātaḥ kā tvaṃ kaiṣā ca bhāminī | keyaṃ purī gṛhaṃ kasya tat tvam ākhyātum arhasi || iti bruvantaṃ taṃ dṛṣṭvā citralekhā vaco 'bravīt | api te kuśalaṃ vīra sarvatra yadunandana | ramamāṇāniruddhena avijñātā tu sā tadā // HV_108.11 papau cāsyā mukhaṃ kāmī samāliṅgya dṛḍhaṃ yaduḥ | parasparaṃ samāśliṣya parasparamukhaṃ papuḥ || tayodyatāṃ tato mādhvīṃ papau śiṣṭām apāyayat | tayor evaṃ tadā kāmo vavṛdhe janasaṃsadi || citralekhā tataḥ sādhvī bhūṣayām āsa bhūṣaṇaiḥ | vastrair ābharaṇaiś citrair mālyaiś ca bahugandhibhiḥ || rarāja yaduvīras tu rohiṇyā candramā yathā | saudhamārge tatas tau tu daṃpatī rematuś ciram | tāṃ tathā ramayām āsa yatheṣṭaṃ yadunandanaḥ | parasparasya vadanaṃ papatus tau parasparam | alaṃkṛtas tayā tatra saṃgataś coṣayā rahaḥ | papau tasya mukhaṃ sādhvī samāliṅgya yathākramam | netre ca cumbito devī bāṇasya duhitā sakhī | tasminn eva kṣaṇe prāpte yadūnām ṛṣabho hi saḥ divramālyāmbaradharo divyasraganulepanaḥ uṣayā saha saṃyukto vijñāto bāṇarakṣibhiḥ // HV_108.12 damayantyā nalo yathā |vijahāra yathākāmaṃ ramayaṃs tām uṣāṃ śubhām || atha tasyām avasthāyāṃ sthavirā vetrapāṇayaḥ | āmuktakañcukā rājan kañcukīyāḥ samantataḥ || aniruddhaṃ tato jñātvā sārdhaṃ kanyāpure sthitam | uṣayā bāṇasutayā ramayantaṃ yatheṣṭataḥ || rakṣiṇaḥ sahasā gatvā bhītā bāṇāntikaṃ tadā || atha dīptāyudhodagrā nityaṃ suparirakṣakāḥ | te bhītāḥ kathayām āsur aniruddhasya ceṣṭitam || eṣa kaścin mahārāja uṣayā saha saṃgataḥ | sthitaḥ kanyāpure rājan kaś cāsau kuta ity api || āyātaḥ sahasā rājan na vidmo 'sya gatiṃ vibho || śrutvaitad roṣayuktas tu balaṃ bāṇo nirīkṣya tat | tatas taiś cārapuruṣair bāṇasyāveditaṃ tadā yathādṛṣṭam aśeṣeṇa kanyāyās tadvyatikramam
"Friend, how is this matter to be kept secret, O you skilled in affairs? If it is kept secret all will be well; if it becomes known, the loss of life." Citralekhā spoke these words: "Hear my conclusion, friend. Fate destroys the human effort that has been made, friend; (but) the Goddess's grace will surely not be unfavourable to you. A secret kept without carelessness — no man will know it." Thus addressed by her friend, her mind steadied, she said "So be it," and spoke this word to Aniruddha: "Happily the thief who came in my dream is seen — a handsome man, for whose sake we were distressed, longing for a beloved hard to obtain. Is all well with you in every way, great-armed one? Women's hearts are tender, and so I ask you." Hearing that smooth and meaningful speech of hers, of Uṣā, he too, the tiger of the Yadus, spoke words of most auspicious syllables. Wiping with his hand the tears of her whose eyes were flooded with joy, laughing, he spoke with a smile words that captured the heart: "It is well with me everywhere, fair-hipped one who speaks measuredly. By your grace, O queen, I tell you what is dear (to me): this region was never seen by me before, O you of auspicious appearance; at night in a dream I once saw a great maidens' palace. Just so, timid one, I have come here by your grace; nor will that word of Rudra's wife prove false. Knowing the Goddess's favour and for your pleasure, O loving one, I have arrived this very day; be gracious — I have come for refuge." Having said this, that greatly renowned Aniruddha gave her pleasure. Having said this she, hastening, well adorned, in a hidden place, joined with her lover, stood as if full of fear. Then the two were united by the marriage rite of the Gandharvas, and they took delight in each other like two cakravāka birds by day. The fair-limbed one rejoiced with her husband Aniruddha, joined with her lover, wearing divine garlands and unguents. In one part of the house, concealed, the fair lady, coming together (with him) like a she-elephant with a tusker, chose (him). The good woman drank his mouth, embracing him in turn; she, the lady, Bāṇa's daughter, kissed the Yadu's eyes. Again and again embracing him at will, intoxicated with passion, she did not reach satiety, embracing the best of the Yadus. Joined then to that science of hers, Pradyumna's son at that very moment, seeing the wondrous company of women in the house, fell to thinking: "What is this great ordinance of mine? I do not know its cause. Is this a dream I have seen, or is it a delusion of mine? I am awake; this is no dream of mine, nor is it a great delusion of mine. Who is this fair-browed woman standing before me, like a vine in full flower, with sidelong glances like a startled doe, speaking with the play of her vine-like brows, full-breasted, full-thighed and full-hipped, with coppery feet, hands and lips, rich in dark curling hair, speaking with sweet smiles, who has invaded the path of my eyes like the autumn crescent moon? What is this? I do not understand it here — by whom has this been brought about?" Seeing her, his desire for that Uṣā, intoxicated with passion, grew; and she stood ready before him to hold the drinking. Then, knowing her by her signs and hearing (her) truly, he pleasured that charming woman as desire prompted. And she too, coming to him, her eyes troubled with joy and fear, pleasured him as desire prompted, roughened by risen gooseflesh. With playful, graceful talk the lovely woman attended him, like a she-elephant in heat with a tusker in a mountain cave — great-armed Aniruddha, who had fallen under sleep's control. Then Aniruddha, in a dream, was brought from his own city by Citralekhā at once to Bāṇa's city and united with Uṣā. Seeing thus the dream-union of Uṣā and of himself, wondrous, ... deluded by her word. Then the Yādava, looking at Citralekhā, said: "I have been brought swiftly from the city of Dvārakā by Citralekhā, and reaching Bāṇa's city I have united with Uṣā in secret. Such a dream I have seen, strange, never seen before. What is this ordinance that has come upon me? Who are you, and who is this lady? What is this city, and whose is this house? You should tell me that." Seeing him speaking thus, Citralekhā spoke these words: "Is it well with you everywhere, hero, delight of the Yadus?" And she, unrecognised, was then (there) while Aniruddha took his pleasure. And the enamoured Yadu, embracing her tightly, drank her mouth; embracing each other, they drank each other's mouths. Then he drank the mādhvī wine she offered and made her drink the rest; thus their desire grew then before the company. Then the good Citralekhā adorned (her) with ornaments, with garments, with brilliant jewels and with many fragrant garlands. The Yadu hero shone like the moon with Rohiṇī. Then on the terraced walk the two, husband and wife, took their pleasure long. Thus the delight of the Yadus pleasured her at will; the two fell upon each other's faces. Adorned by her there, he united with Uṣā in secret. The good woman drank his mouth, embracing him in turn; and the lady, Bāṇa's daughter, the companion, was kissed upon her eyes. At that very moment, that bull of the Yadus, wearing divine garlands and garments, anointed and wreathed with heavenly flowers, joined with Uṣā, was discovered by Bāṇa's guards. As Nala with Damayantī, he sported at will, pleasuring the lovely Uṣā. Now while she was in that state, aged men with staves in hand, wearing tunics, O king, chamberlains, were all around. Then, learning that Aniruddha was staying in the maidens' quarters together with Uṣā, Bāṇa's daughter, pleasuring her at will, the guards went at once, terrified, into Bāṇa's presence. Then those constant good guardians, tall with blazing weapons, terrified, reported Aniruddha's doing: "Some man, great king, has united with Uṣā and is staying in the maidens' quarters, O king — and who he is, and whence, and how he came so suddenly, we do not know his course, O lord." Hearing this, Bāṇa was filled with rage, surveying that force. Then it was reported to Bāṇa by those spies, entirely as they had seen it, that transgression of the maiden.
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain
HV 108.14
ततः किंकरसैन्यं तु व्यादिष्टं भीमकर्मणा बलेः पुत्रेण बाणेन वीरेणामित्रघातिना
tataḥ kiṃkarasainyaṃ tu vyādiṣṭaṃ bhīmakarmaṇā baleḥ putreṇa bāṇena vīreṇāmitraghātinā
Then the army of Kiṃkaras was commanded by Bali's son Bāṇa, the hero of terrible deeds, slayer of foes:
AI translation rendered from the Sanskrit, not a published edition
HV 108.15
गच्छध्वं सहिताः सर्वे हन्यताम् एष दुर्मतिः येन नः कुलचारित्रं दूषितं दूषितात्मना
gacchadhvaṃ sahitāḥ sarve hanyatām eṣa durmatiḥ yena naḥ kulacāritraṃ dūṣitaṃ dūṣitātmanā
"Go, all of you together; let this evil-minded one be killed, by whom, foul in soul, the honour of our family has been defiled.
AI translation rendered from the Sanskrit, not a published edition
HV 108.16
उषायां धर्षितायां हि कुलं नो धर्षितं महत् असंप्रदानाद्यो ऽस्माभिः स्वयंग्राहम् अधर्षयत्
uṣāyāṃ dharṣitāyāṃ hi kulaṃ no dharṣitaṃ mahat asaṃpradānādyo 'smābhiḥ svayaṃgrāham adharṣayat
For with Uṣā violated, our great family has been violated — he who, without her being given by us, violated (her) by seizing her himself.
AI translation rendered from the Sanskrit, not a published edition
HV 108.21
अहो वीर्यमहो धैर्यम् अहो धार्ष्ट्यं च दुर्मतेः यः पुरं भवनं चेदं प्रविष्टो नः सुबालिशः ॥ ह्व्_१०८।१७ एवम् उक्त्वा पुनस् तांस् तु किंकरांश् चोदयद् भृशम् ॥ ते तस्याज्ञाम् अथो गृह्य सुसंनद्धा विनिर्ययुः । यत्रानिरुद्धो ह्य् अभवत् तत्रागच्छन् महाबलाः । नानाशस्त्रोद्यतकरा नानारूपधरास् तु ते दानवाः समभिक्रुद्धाः प्राद्युम्निवधकाङ्क्षिणः ॥ ह्व्_१०८।१८ रुदते तद्बलं दृष्ट्वा बाष्पेणावृतलोचना । प्राद्युम्निवधभीता सा बाणपुत्री यशस्विनी ॥ ततस् तु रुदतीं दृष्ट्वा ताम् उषां मृगलोचनाम् । हा हा कान्तेति वेपन्तीम् अनिरुद्धो ऽभ्यभाषत ॥ अभयं ते ऽस्तु सश्रोणि मा भैस् त्वं हि मयि स्थिते । संप्राप्तो हर्षकालस् ते न ते ऽस्ति भयकारणम् ॥ कृत्स्नो ऽयं यदि बाणस्य भृट्यवर्गो यशस्विनि । आगच्छेत न मे चिन्ता भीरु पश्याद्य विक्रमम् ॥ तस्य सैन्यस्य निनदं श्रुत्वाभ्यागच्छतस् ततः । सहसैवोत्थितः श्रीमान् प्राद्युम्निः किम् इति ब्रुवन् ॥ अथास्यापश्यत बलं नानाप्रहरणोद्यतम् । स्थितं समन्ततस् तत्र परिवार्य गृहं महत् ॥ ततो ऽभ्यगच्छत् त्वरितो यत्र तद् वेष्टितं बलम् । क्रुद्धः स्वबलम् आस्थाय संदश्य दशनच्छदम् ॥ ततो युद्धम् अपोढानां बाणेयानां निशम्य तु । सा चित्रलेखा सस्मार नारदं देवदर्शनम् ॥ ततो निमेषमात्रेण संप्राप्तो मुनिपुंगवः । स्मृतो ऽथ चित्रलेखायाः पुरं शोणितसाह्वयम् ॥ अन्तरिक्षे स्थितस् तत्र सो ऽनिरुद्धम् अथाब्रवीत् । मा भयं स्वस्ति ते वीर प्राप्तो ऽस्म्य् अभिमतस् तव ॥ ततश् च नारदं दृष्ट्वा सो ऽभिवाद्य महाबलः । प्रहृष्टः सुमना भूत्वा युद्धार्थम् अभ्यवर्तत । वध्यतां वध्यताम् एष गृह्यतां गृह्यताम् अयम् । हन्यतां हन्यतां क्षिप्रम् इत्य् ऊचुर् दानवास् तद । ततस् तेषां स्वनं श्रुत्वा सर्वेषाम् एव गर्जताम् सहसैवोत्थितः शूरस् तोत्रार्दित इव द्विपः ॥ ह्व्_१०८।१९ निरुद्धो ऽपि तया तत्र बहुशो युद्धदुर्मदः । भीतया भीत एवासौ धावति स्म तथासुरान् । तम् आपतन्तं दृष्ट्वैव संदष्टौष्ठं महाभुजम् प्रासादाच् चावरोहन्तं भयार्ता विप्रदुद्रुवुः ॥ ह्व्_१०८।२० नदन्तं सिंहवत् तदा ।तस्य नादेन वै राजन् । अन्तःपुरद्वारगतं परिघं गृह्य चातुलम् वधाय तेषां चिक्षेप नानायुधविशारदः
aho vīryamaho dhairyam aho dhārṣṭyaṃ ca durmateḥ yaḥ puraṃ bhavanaṃ cedaṃ praviṣṭo naḥ subāliśaḥ // HV_108.17 evam uktvā punas tāṃs tu kiṃkarāṃś codayad bhṛśam || te tasyājñām atho gṛhya susaṃnaddhā viniryayuḥ | yatrāniruddho hy abhavat tatrāgacchan mahābalāḥ | nānāśastrodyatakarā nānārūpadharās tu te dānavāḥ samabhikruddhāḥ prādyumnivadhakāṅkṣiṇaḥ // HV_108.18 rudate tadbalaṃ dṛṣṭvā bāṣpeṇāvṛtalocanā | prādyumnivadhabhītā sā bāṇaputrī yaśasvinī || tatas tu rudatīṃ dṛṣṭvā tām uṣāṃ mṛgalocanām | hā hā kānteti vepantīm aniruddho 'bhyabhāṣata || abhayaṃ te 'stu saśroṇi mā bhais tvaṃ hi mayi sthite | saṃprāpto harṣakālas te na te 'sti bhayakāraṇam || kṛtsno 'yaṃ yadi bāṇasya bhṛṭyavargo yaśasvini | āgaccheta na me cintā bhīru paśyādya vikramam || tasya sainyasya ninadaṃ śrutvābhyāgacchatas tataḥ | sahasaivotthitaḥ śrīmān prādyumniḥ kim iti bruvan || athāsyāpaśyata balaṃ nānāpraharaṇodyatam | sthitaṃ samantatas tatra parivārya gṛhaṃ mahat || tato 'bhyagacchat tvarito yatra tad veṣṭitaṃ balam | kruddhaḥ svabalam āsthāya saṃdaśya daśanacchadam || tato yuddham apoḍhānāṃ bāṇeyānāṃ niśamya tu | sā citralekhā sasmāra nāradaṃ devadarśanam || tato nimeṣamātreṇa saṃprāpto munipuṃgavaḥ | smṛto 'tha citralekhāyāḥ puraṃ śoṇitasāhvayam || antarikṣe sthitas tatra so 'niruddham athābravīt | mā bhayaṃ svasti te vīra prāpto 'smy abhimatas tava || tataś ca nāradaṃ dṛṣṭvā so 'bhivādya mahābalaḥ | prahṛṣṭaḥ sumanā bhūtvā yuddhārtham abhyavartata | vadhyatāṃ vadhyatām eṣa gṛhyatāṃ gṛhyatām ayam | hanyatāṃ hanyatāṃ kṣipram ity ūcur dānavās tada | tatas teṣāṃ svanaṃ śrutvā sarveṣām eva garjatām sahasaivotthitaḥ śūras totrārdita iva dvipaḥ // HV_108.19 niruddho 'pi tayā tatra bahuśo yuddhadurmadaḥ | bhītayā bhīta evāsau dhāvati sma tathāsurān | tam āpatantaṃ dṛṣṭvaiva saṃdaṣṭauṣṭhaṃ mahābhujam prāsādāc cāvarohantaṃ bhayārtā vipradudruvuḥ // HV_108.20 nadantaṃ siṃhavat tadā |tasya nādena vai rājan | antaḥpuradvāragataṃ parighaṃ gṛhya cātulam vadhāya teṣāṃ cikṣepa nānāyudhaviśāradaḥ
"Ah, the valour, ah, the boldness, ah, the effrontery of the fool, who, utter simpleton, has entered our city and this mansion!" Having spoken thus, he urged those Kiṃkaras on again vehemently. Then, taking his command, they went forth well armed; those mighty ones came to where Aniruddha was — those Dānavas with various weapons raised in their hands, wearing various forms, in full fury, eager to slay Pradyumna's son. Seeing that army, the illustrious daughter of Bāṇa wept, her eyes covered with tears, fearing the slaying of Pradyumna's son. Then, seeing that doe-eyed Uṣā weeping and trembling, crying "Alas, alas, beloved!", Aniruddha spoke to her: "Let there be no fear for you, fair-hipped one; do not be afraid while I stand here. Your time of joy has come; you have no cause for fear. Even if this whole host of Bāṇa's servants should come, illustrious one, I have no anxiety, timid one: behold my prowess today." Hearing the noise of that army coming on, the glorious son of Pradyumna sprang up at once, saying "What is this?" Then he saw the force with various weapons raised, standing all around, having surrounded the great house. Then he went quickly to where that encircling force was, enraged, relying on his own strength, biting his lip. Then, learning of the battle with the men of Bāṇa who were pressing on, that Citralekhā called to mind Nārada, who has the sight of the gods. Then in the mere blink of an eye that bull of sages, remembered by Citralekhā, reached the city called Śoṇita. Standing there in the sky he then said to Aniruddha: "No fear! May it be well with you, hero. I have come, as you would wish." And then, seeing Nārada, that mighty one saluted him and, becoming glad and cheerful in mind, turned to battle. "Kill him, kill him! Seize him, seize him! Strike him down, strike him down quickly!" — so said the Dānavas then. Then, hearing the noise of all of them roaring, the hero sprang up at once like an elephant goaded by the hook. Aniruddha too, arrogant in battle, there again and again — frightened only by her fright, he ran thus at the Asuras. Seeing him rushing on, biting his lip, great-armed, descending from the palace, they fled in terror, stricken with fear, as he roared like a lion; and, O king, at his roar — taking hold of a matchless iron bar that stood at the gate of the inner apartments, skilled in many weapons, he hurled it for their destruction.
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain
HV 108.22
ते सर्वे बाणवर्षैश् च गदाभिस् तोमरैस् तथा असिभिः शक्तिभिः शूलैर् निजघ्नू रणगोचरम्
te sarve bāṇavarṣaiś ca gadābhis tomarais tathā asibhiḥ śaktibhiḥ śūlair nijaghnū raṇagocaram
All of them struck at him, who was now within reach of battle, with showers of arrows, with maces and lances, with swords, spears and pikes.
AI translation rendered from the Sanskrit, not a published edition
HV 108.23
स हन्यमानो नाराचैः परिघैश् च समन्ततः दानवैः समभिक्रुद्धैः प्राद्युम्निः शस्त्रकोविदैः । नाक्षुभ्यत् सर्वभूतात्मा नदन् मेघ इवोष्णगे
sa hanyamāno nārācaiḥ parighaiś ca samantataḥ dānavaiḥ samabhikruddhaiḥ prādyumniḥ śastrakovidaiḥ | nākṣubhyat sarvabhūtātmā nadan megha ivoṣṇage
Though struck on every side with iron arrows and iron bars by the utterly enraged Dānavas, skilled in weapons, Pradyumna's son — whose self is all beings — was not shaken, roaring like a cloud in the hot season.
AI translation rendered from the Sanskrit, not a published edition
HV 108.26
आविध्य परिघं घोरं तेषां मध्ये व्यवस्थितः सूर्यो दिविचरन्मध्ये मेघानाम् इव सर्वतः ॥ ह्व्_१०८।२४ दण्डकाष्ठाजिनधरो नारदो ह्रष्टचेतनः । साधु साध्व् इति वै तत्र सो ऽनिरुद्धम् अभाषत । ते हन्यमाना रौद्रेण परिघेणामितौजसा प्राद्रवन्त भयात् सर्वे मेघो वातेरिता यथा ॥ ह्व्_१०८।२५ विद्राव्य दानवान् वीरः परिघेणाशुविक्रमः । अनिरुद्धो नदन् हृष्टः सिंहनादं व्यरोचत घर्मान्ते तोयदो व्योम्नि नदन्न् इव महास्वनः
āvidhya parighaṃ ghoraṃ teṣāṃ madhye vyavasthitaḥ sūryo divicaranmadhye meghānām iva sarvataḥ // HV_108.24 daṇḍakāṣṭhājinadharo nārado hraṣṭacetanaḥ | sādhu sādhv iti vai tatra so 'niruddham abhāṣata | te hanyamānā raudreṇa parigheṇāmitaujasā prādravanta bhayāt sarve megho vāteritā yathā // HV_108.25 vidrāvya dānavān vīraḥ parigheṇāśuvikramaḥ | aniruddho nadan hṛṣṭaḥ siṃhanādaṃ vyarocata gharmānte toyado vyomni nadann iva mahāsvanaḥ
Whirling the terrible iron bar, he stood in their midst, like the sun moving in the sky amid clouds on all sides. // (108.24) Nārada, bearing staff, wooden (bowl) and deerskin, delighted in mind, said there to Aniruddha, "Well done, well done!" Struck by that dreadful bar of immeasurable force, they all fled in fear, as clouds driven by the wind. // (108.25) Having routed the Dānavas with the bar, the hero of swift valour, Aniruddha, roaring and exultant, shone with his lion's roar, like a rain-cloud in the sky at the end of the hot season, thundering with a great sound.
AI translation rendered from the Sanskrit, not a published edition
HV 108.27
तिष्ठध्वम् इति चुक्रोश दानवान् युद्धदुर्मदान् प्राद्युम्निर् व्यहनच् चापि सर्वशत्रुनिबर्हणः
tiṣṭhadhvam iti cukrośa dānavān yuddhadurmadān prādyumnir vyahanac cāpi sarvaśatrunibarhaṇaḥ
"Stand!" he cried out to the Dānavas who were drunk with battle, and Pradyumna's son, the crusher of all foes, struck them down.
AI translation rendered from the Sanskrit, not a published edition
HV 108.28
तेन ते समरे सर्वे हन्यमाना महात्मना यतो बाणस् ततो भीता ययुर् युद्धपराङ्मुखाः
tena te samare sarve hanyamānā mahātmanā yato bāṇas tato bhītā yayur yuddhaparāṅmukhāḥ
Being struck by that great-souled one in the battle, they all, terrified, turned away from the fight and went to where Bāṇa was.
AI translation rendered from the Sanskrit, not a published edition
HV 108.29
ततो बाणसमीपस्थाः श्वसन्तो रुधिरोक्षिताः न शर्म लेभिरे दैत्या भयविक्लवलोचनाः
tato bāṇasamīpasthāḥ śvasanto rudhirokṣitāḥ na śarma lebhire daityā bhayaviklavalocanāḥ
Then the Daityas, standing near Bāṇa, panting, drenched with blood, their eyes distraught with fear, found no refuge.
AI translation rendered from the Sanskrit, not a published edition
HV 108.31
मा भैष्ट मा भैष्ट इति राज्ञा ते तेन चोदिताः त्रासं विसृज्य चैकस्था युध्यध्वं दानवर्षभाः ॥ ह्व्_१०८।३० तान् उवाच पुनर् बाणो भयवित्रस्तलोचनान् । किम् इदं लोकविख्यातं यश उत्सृज्य दूरतः भवन्तो यान्ति वैक्लव्यं क्लीबा इव विचेतसः
mā bhaiṣṭa mā bhaiṣṭa iti rājñā te tena coditāḥ trāsaṃ visṛjya caikasthā yudhyadhvaṃ dānavarṣabhāḥ // HV_108.30 tān uvāca punar bāṇo bhayavitrastalocanān | kim idaṃ lokavikhyātaṃ yaśa utsṛjya dūrataḥ bhavanto yānti vaiklavyaṃ klībā iva vicetasaḥ
"Do not fear, do not fear!" — thus urged on by that king: "Casting off your terror and standing together, fight, O bulls among Dānavas!" // (108.30) Bāṇa spoke again to them, whose eyes were trembling with fear: "What is this? Flinging your world-famed glory far away, you are giving way to dismay like eunuchs bereft of sense!"
AI translation rendered from the Sanskrit, not a published edition
HV 108.32
को ऽयं यस्य भयत्रस्ता भवन्तो यान्त्य् अनेकशः कुलापदेशिनः सर्वे नानायुद्धविशारदाः
ko 'yaṃ yasya bhayatrastā bhavanto yānty anekaśaḥ kulāpadeśinaḥ sarve nānāyuddhaviśāradāḥ
"Who is this, from terror of whom you go off in numbers, you who all claim (noble) lineage and are skilled in every kind of warfare?"
AI translation rendered from the Sanskrit, not a published edition
HV 108.33
भवद्भिर् न हि मे युद्धे कार्यं साहाय्यम् अद्य वै अब्रवीद् ध्वंसतेत्य् एवं मत्समीपाच् च नश्यत
bhavadbhir na hi me yuddhe kāryaṃ sāhāyyam adya vai abravīd dhvaṃsatety evaṃ matsamīpāc ca naśyata
"I have no need at all of your assistance in the fight today" — he said, "Be gone!" — "and vanish from my presence."
AI translation rendered from the Sanskrit, not a published edition
HV 108.34
अथ तान् वाग्भिर् उग्राभिस् त्रासयन् बहुधा बली व्यादिदेश रणे शूरान् सर्वान् अयुतशः पुनः
atha tān vāgbhir ugrābhis trāsayan bahudhā balī vyādideśa raṇe śūrān sarvān ayutaśaḥ punaḥ
Then the mighty one, terrifying them in many ways with harsh words, again gave orders in the battle to all the heroes, by tens of thousands.
AI translation rendered from the Sanskrit, not a published edition
HV 108.35
प्रमाथगणभूयिष्ठं व्यादिष्टं तस्य निग्रहे अनीकं सुमहद्रात्रौ नानाप्रहरणोद्यतम्
pramāthagaṇabhūyiṣṭhaṃ vyādiṣṭaṃ tasya nigrahe anīkaṃ sumahadrātrau nānāpraharaṇodyatam
A very great army, consisting mostly of the Pramātha hosts, raised with weapons of many kinds, was in the night directed to his capture.
AI translation rendered from the Sanskrit, not a published edition
HV 108.36
तत्रान्तरिक्षं बहुधा विद्युद्वद्भिर् इवाम्बुदैः बाणानीकैः समभवद् व्याप्तं संदीप्तलोचनैः
tatrāntarikṣaṃ bahudhā vidyudvadbhir ivāmbudaiḥ bāṇānīkaiḥ samabhavad vyāptaṃ saṃdīptalocanaiḥ
There the sky became covered in many places by Bāṇa's troops with blazing eyes, as if by rain-clouds with lightning.
AI translation rendered from the Sanskrit, not a published edition
HV 108.37
केचित् क्षितिस्थाः प्राक्रोशन् गजा इव समन्ततः अथान्तरिक्षे व्यनदन् घर्मान्तेष्व् इव तोयदाः
kecit kṣitisthāḥ prākrośan gajā iva samantataḥ athāntarikṣe vyanadan gharmānteṣv iva toyadāḥ
Some, standing on the ground, cried out on all sides like elephants; others roared in the sky like rain-clouds at the end of the hot season.
AI translation rendered from the Sanskrit, not a published edition
HV 108.39
ततस् तत् सुमहद् युद्धं समेतम् अभवत् पुनः तिष्ठ तिष्ठेति च तदा वाचो ऽश्रूयन्त सर्वशः ॥ ह्व्_१०८।३८ अनिरुद्धो रणे वीरः स च तान् अभ्यवर्तत । तद् आश्चर्यं समभवद् यद् एकस् तैः समागतः अयुध्यत महावीर्यैर् दानवैः सह संयुगे
tatas tat sumahad yuddhaṃ sametam abhavat punaḥ tiṣṭha tiṣṭheti ca tadā vāco 'śrūyanta sarvaśaḥ // HV_108.38 aniruddho raṇe vīraḥ sa ca tān abhyavartata | tad āścaryaṃ samabhavad yad ekas taiḥ samāgataḥ ayudhyata mahāvīryair dānavaiḥ saha saṃyuge
Then that very great battle was joined again, and cries of "Stand! Stand!" were heard on every side. // (108.38) And the hero Aniruddha advanced against them in the fight. It was a marvel, that he alone, having met them, fought in combat with the Dānavas of great might.
AI translation rendered from the Sanskrit, not a published edition
HV 108.42
तेषाम् एव च जग्राह परिघांस् तोमरान् अपि तैर् एव च महायुद्धे निजघान महाबलः ॥ ह्व्_१०८।४० परिगृह्य च तान् एव चायुधैर् अहनद् रणे । पुनः स परिघं घोरं प्रगृह्य रणमूर्धनि स दैत्यसंघान् समरे निजघान महाबलान् ॥ ह्व्_१०८।४१ अष्टौ त्रीणि सहस्राणि किंकराणां तरस्विनाम् । जघान समरे चैकः साक्षात् पौत्रस् तु शार्ङ्गिणः । ननाद विविधं नादं रोदसी च स कम्पयन् । निस्त्रिंशं चर्म चोत्सृष्टं जग्राह रणमूर्धनि स तेन व्यचरन् मार्गान् एकः शत्रुनिबर्हणः
teṣām eva ca jagrāha parighāṃs tomarān api tair eva ca mahāyuddhe nijaghāna mahābalaḥ // HV_108.40 parigṛhya ca tān eva cāyudhair ahanad raṇe | punaḥ sa parighaṃ ghoraṃ pragṛhya raṇamūrdhani sa daityasaṃghān samare nijaghāna mahābalān // HV_108.41 aṣṭau trīṇi sahasrāṇi kiṃkarāṇāṃ tarasvinām | jaghāna samare caikaḥ sākṣāt pautras tu śārṅgiṇaḥ | nanāda vividhaṃ nādaṃ rodasī ca sa kampayan | nistriṃśaṃ carma cotsṛṣṭaṃ jagrāha raṇamūrdhani sa tena vyacaran mārgān ekaḥ śatrunibarhaṇaḥ
And he seized their very own iron bars and lances, and with those very (weapons) the mighty one struck (them) down in the great battle. // (108.40) Taking those very weapons, he slew (them) in the fight. Again, grasping the terrible bar at the head of the battle, he struck down the very mighty hosts of Daityas in the combat. // (108.41) Eight (and) three thousand swift Kiṃkaras did the grandson of the Śārṅga-bearer himself slay, alone, in the battle. He roared roars of many kinds, making heaven and earth tremble; and he took up a sword and shield that had been cast aside at the head of the battle, and with it he, alone, the crusher of foes, moved through the (sword-)paths.
AI translation rendered from the Sanskrit, not a published edition
HV 108.43
भ्रान्तम् उद्भ्रान्तम् आविद्धम् आप्लुतं विप्लुतं प्लुतम् इति प्रकारान् द्वात्रिंशद् विचरन्न् अभ्यदृश्यत
bhrāntam udbhrāntam āviddham āplutaṃ viplutaṃ plutam iti prakārān dvātriṃśad vicarann abhyadṛśyata
Wheeling, springing up, whirling, leaping forward, leaping aside, leaping — thus he was seen moving through the thirty-two modes (of sword-play).
AI translation rendered from the Sanskrit, not a published edition
HV 108.44
एकं सहस्रशस् तत्र ददृशू रणमूर्धनि क्रीडन्तं बहुधा युद्धे व्यादितास्यम् इवान्तकम्
ekaṃ sahasraśas tatra dadṛśū raṇamūrdhani krīḍantaṃ bahudhā yuddhe vyāditāsyam ivāntakam
There at the head of the battle they saw him, though one, as a thousand, sporting in many ways in the fight like Death with jaws agape.
AI translation rendered from the Sanskrit, not a published edition
HV 108.45
ततस् तेनाभिसंतप्ता रुधिरौघपरिप्लुताः पुनर् भग्नाः प्राद्रवन्त यत्र बाणः स्थितो रणे
tatas tenābhisaṃtaptā rudhiraughapariplutāḥ punar bhagnāḥ prādravanta yatra bāṇaḥ sthito raṇe
Then, scorched by him and flooded with streams of blood, broken once more, they fled to where Bāṇa stood in the battle.
AI translation rendered from the Sanskrit, not a published edition
HV 108.47
गजवाजिरथौघैस् ते उह्यमानाः समन्ततः कृत्वा चार्तस्वरं घोरं दिशो जग्मुर् हतौजसः ॥ ह्व्_१०८।४६ एवं भयम् अभूत् तेषां दानवानां महारणे । एकैकस्योपरि तदा ते ऽन्योन्यं भयपीडिताः वमन्तः शोणितं जग्मुर् विषादाद् विमुखा रणे
gajavājirathaughais te uhyamānāḥ samantataḥ kṛtvā cārtasvaraṃ ghoraṃ diśo jagmur hataujasaḥ // HV_108.46 evaṃ bhayam abhūt teṣāṃ dānavānāṃ mahāraṇe | ekaikasyopari tadā te 'nyonyaṃ bhayapīḍitāḥ vamantaḥ śoṇitaṃ jagmur viṣādād vimukhā raṇe
Carried along on all sides by masses of elephants, horses and chariots, they uttered a terrible cry of distress and fled to the (four) quarters, their vigour destroyed. // (108.46) Such was the fear of those Dānavas in the great battle: tormented by fear of one another, (falling) one upon another, vomiting blood, they went off in despair, turned away from the fight.
AI translation rendered from the Sanskrit, not a published edition
HV 108.50
न बभूव भयं तादृग् गानवानां पुरा रणे यादृशं युध्यमानानाम् अनिरुद्धेन संयुगे ॥ ह्व्_१०८।४८ युध्यताम् अनिरुद्धेन यथावर्तत दारुणम् । तादृशं न भयं तेषाम् अभवद् देवसंयुगे । केचिद् वमन्तो रुधिरम् अपतन् वसुधातले दानवा गिरिशृङ्गाभा गदाशूलासिपाणयः ॥ ह्व्_१०८।४९ केचिन् मथितमस्तिष्काः केचिद् भिन्नगलान्तराः । ते बाणम् उत्सृज्य रणे जग्मुर् भयसमाकुलाः विशालम् आकाशतलं दानवा निर्जितास् तदा
na babhūva bhayaṃ tādṛg gānavānāṃ purā raṇe yādṛśaṃ yudhyamānānām aniruddhena saṃyuge // HV_108.48 yudhyatām aniruddhena yathāvartata dāruṇam | tādṛśaṃ na bhayaṃ teṣām abhavad devasaṃyuge | kecid vamanto rudhiram apatan vasudhātale dānavā giriśṛṅgābhā gadāśūlāsipāṇayaḥ // HV_108.49 kecin mathitamastiṣkāḥ kecid bhinnagalāntarāḥ | te bāṇam utsṛjya raṇe jagmur bhayasamākulāḥ viśālam ākāśatalaṃ dānavā nirjitās tadā
Never before in battle had the Dānavas such fear as (they had) fighting with Aniruddha in the combat. // (108.48) The dreadful thing that befell those who fought with Aniruddha — such fear they had not had even in the war with the gods. Some Dānavas, vomiting blood, fell to the surface of the earth, looking like mountain peaks, with maces, spears and swords in their hands. // (108.49) Some with brains crushed, some with throats split open; abandoning Bāṇa in the battle, the Dānavas, then defeated and overwhelmed with fear, went off into the wide expanse of the sky.
AI translation rendered from the Sanskrit, not a published edition
HV 108.52
निःसङ्गभग्नां महतीं दृष्ट्वा तां वाहिनीं तदा बाणः क्रोधात् प्रजज्वाल समिद्धो ऽग्निर् इवाध्वरे ॥ ह्व्_१०८।५१ अन्तरिक्षचरो भूत्वा साधुवादी समन्ततः । नारदो नृत्यति प्रीतो ह्य् अनिरुद्धस्य संयुगे ॥ एतस्मिन्न् अन्तरे चैव बाणः परमकोपन । कुम्भाण्डसंगृहीतं तु रथम् आस्थाय वीर्यवान् ययौ यत्रानिरुद्धो वै सो ऽसिम् उद्यम्य दारुणम्
niḥsaṅgabhagnāṃ mahatīṃ dṛṣṭvā tāṃ vāhinīṃ tadā bāṇaḥ krodhāt prajajvāla samiddho 'gnir ivādhvare // HV_108.51 antarikṣacaro bhūtvā sādhuvādī samantataḥ | nārado nṛtyati prīto hy aniruddhasya saṃyuge || etasminn antare caiva bāṇaḥ paramakopana | kumbhāṇḍasaṃgṛhītaṃ tu ratham āsthāya vīryavān yayau yatrāniruddho vai so 'sim udyamya dāruṇam
Then, seeing that great army broken and scattered without cohesion, Bāṇa blazed up with anger, like a fire kindled at a sacrifice. // (108.51) Nārada, moving through the air, uttering "well done!" on every side, danced, delighted, at Aniruddha's fight. Meanwhile Bāṇa, exceedingly wrathful and valorous, mounting the chariot held (reined) by Kumbhāṇḍa, went to where Aniruddha was, raising his dreadful sword.
AI translation rendered from the Sanskrit, not a published edition
HV 108.53
पट्टिसासिगदाशूलान् उद्यम्य च परश्वधान् बभौ बाहुसहस्रेण शक्रध्वजशतैर् इव
paṭṭisāsigadāśūlān udyamya ca paraśvadhān babhau bāhusahasreṇa śakradhvajaśatair iva
Raising up spears, swords, maces, and lances, and battle-axes, he shone with his thousand arms as if with a hundred banners of Indra.
AI translation rendered from the Sanskrit, not a published edition
HV 108.54
बद्धगोधाङ्गुलित्रैश् च बाहुभिः स महाभुजः नानाप्रहरणोपेतः शुशुभे दानवोत्तमः
baddhagodhāṅgulitraiś ca bāhubhiḥ sa mahābhujaḥ nānāpraharaṇopetaḥ śuśubhe dānavottamaḥ
With his arms fitted with bound leather guards and finger-protectors, that great-armed one, that best of Dānavas, equipped with weapons of many kinds, shone forth.
AI translation rendered from the Sanskrit, not a published edition
HV 108.55
सिंहनादं नदन् क्रुद्धो विस्फारितमहाधनुः विसृजञ् शतशो बाणान् दानवो ऽथ महाबलः । अभ्यद्रवच् च वेगेन प्राद्युम्निर् यत्र संस्थितः । अब्रवीत् तिष्ठ तिष्ठेति क्रोधसंरक्तलोचनः
siṃhanādaṃ nadan kruddho visphāritamahādhanuḥ visṛjañ śataśo bāṇān dānavo 'tha mahābalaḥ | abhyadravac ca vegena prādyumnir yatra saṃsthitaḥ | abravīt tiṣṭha tiṣṭheti krodhasaṃraktalocanaḥ
Then the mighty Dānava, roaring a lion's roar in anger, his great bow drawn wide, loosing arrows by the hundreds, rushed swiftly to where the son of Pradyumna stood; and, his eyes red with rage, he said, "Stand! Stand!"
AI translation rendered from the Sanskrit, not a published edition
HV 108.59
वचनं तस्य संश्रुत्य प्राद्युम्निर् अपराजितः बाणस्य वदतः संख्ये उदैक्षत ततो ऽहसत् ॥ ह्व्_१०८।५६ उषा च पितरं दृष्ट्वा भयविह्वललोचना । प्रासादमध्ये संलीना भर्तारं समुदैक्षत ॥ कर्तव्यमूढा संभ्रान्ता चित्रलेखा वराप्सराः । बभूव विमना भूत्वा मृतास्मीति व्यचिन्तयत् । किंकिणीशतनिर्घोषं रक्तध्वजपताकिनम् ऋक्षचर्मावनद्धाङ्गं दशनल्वं महारथम् ॥ ह्व्_१०८।५७ आरुह्य स्यन्दनं वीरो बभौ बाहुसहस्रवान् । तस्य वाजिसहस्रं तु रथे युक्तं महात्मना पुरा देवासुरे युद्धे हिरण्यकशिपोर् इव ॥ तम् आपतन्तं ददृशे दानवं यदुपुंगवः । संप्रहृष्टस् ततो युद्धे तेजसा चाप्य् अपूर्यत ॥ असिचर्मधरो वीरः स्वस्थः संग्रामलालसः । नरसिंहो यथा पूर्वम् आदिदैत्यवधोद्यतः । आपतन्तं ददर्शाथ खड्गचर्मधरं तदा ॥ ह्व्_१०८।५८ रागिणं चिह्नितं राजन् प्रियानखपदैस् तथा । खड्गचर्मधरं तं तु दृष्ट्वा बाणः पदातिनम् प्रहर्षम् अतुलं लेभे प्राद्युम्निवधकाङ्क्षया
vacanaṃ tasya saṃśrutya prādyumnir aparājitaḥ bāṇasya vadataḥ saṃkhye udaikṣata tato 'hasat // HV_108.56 uṣā ca pitaraṃ dṛṣṭvā bhayavihvalalocanā | prāsādamadhye saṃlīnā bhartāraṃ samudaikṣata || kartavyamūḍhā saṃbhrāntā citralekhā varāpsarāḥ | babhūva vimanā bhūtvā mṛtāsmīti vyacintayat | kiṃkiṇīśatanirghoṣaṃ raktadhvajapatākinam ṛkṣacarmāvanaddhāṅgaṃ daśanalvaṃ mahāratham // HV_108.57 āruhya syandanaṃ vīro babhau bāhusahasravān | tasya vājisahasraṃ tu rathe yuktaṃ mahātmanā purā devāsure yuddhe hiraṇyakaśipor iva || tam āpatantaṃ dadṛśe dānavaṃ yadupuṃgavaḥ | saṃprahṛṣṭas tato yuddhe tejasā cāpy apūryata || asicarmadharo vīraḥ svasthaḥ saṃgrāmalālasaḥ | narasiṃho yathā pūrvam ādidaityavadhodyataḥ | āpatantaṃ dadarśātha khaḍgacarmadharaṃ tadā // HV_108.58 rāgiṇaṃ cihnitaṃ rājan priyānakhapadais tathā | khaḍgacarmadharaṃ taṃ tu dṛṣṭvā bāṇaḥ padātinam praharṣam atulaṃ lebhe prādyumnivadhakāṅkṣayā
Hearing that speech of Bāṇa as he spoke on the battlefield, the unconquered son of Pradyumna looked at him and then laughed. And Uṣā, seeing her father, her eyes overwhelmed with fear, hid within the palace and gazed at her husband. Citralekhā, the finest of Apsarases, bewildered as to what should be done and agitated, became dejected and thought, "I am as good as dead." Mounting a great chariot resounding with a hundred little bells, flying red banners and pennants, its body covered over with bear-skin, ten nalvas in size — mounting that car the hero of the thousand arms shone forth. A thousand horses were yoked to his chariot by that great one, as once in the war of gods and Asuras to the chariot of Hiraṇyakaśipu. The bull of the Yadus saw that Dānava rushing on, and then, thrilled, he was filled with fiery energy for the fight. The hero, bearing sword and shield, self-possessed, eager for battle, like the Man-Lion of old who rose up to kill the first of the Daityas — he then saw (Bāṇa) rushing on, while he himself held sword and shield, passionate, and marked, O king, with the nail-prints of his beloved. But Bāṇa, seeing him on foot, bearing sword and shield, felt unequalled delight in the hope of killing Pradyumna's son.
AI translation rendered from the Sanskrit, not a published edition
HV 108.61
तनुत्रेण विहीनश् च खड्गपाणिश् च यादवः अजेयश् चेति मत्वा तं युद्धायाभिमुखे स्थितम् ॥ ह्व्_१०८।६० अनिरुद्धं रणे बाणो जितकाशी महाबलः । वाचं चोवाच संक्रुद्धो गृह्यतां हन्यताम् इति ॥ वाचं च ब्रुवतस् तस्य श्रुत्वा प्राद्युम्निर् आहवे । बाणस्य ब्रुवतः क्रोधाद् धसमानो ऽभ्युदैक्षत ॥ उषा भयपरित्रस्ता रुदती तत्र भामिनी । अनिरुद्धः प्रहस्याथ समाश्वास्य च तां स्थिताम् ॥ अथ बाणः शरौघाणि क्षुद्रकाणां समन्ततः । चिक्षेप समरे क्रुद्धो ह्य् अनिरुद्धवधेप्सया ॥ अनिरुद्धस् तु चिच्छेद काङ्क्षंस् तस्य पराजयम् । ववर्ष शरजालानि क्षुद्रकाणां समन्ततः बाणोऽनिरुद्धशिरसि काङ्क्षंस् तस्य रणे वधम्
tanutreṇa vihīnaś ca khaḍgapāṇiś ca yādavaḥ ajeyaś ceti matvā taṃ yuddhāyābhimukhe sthitam // HV_108.60 aniruddhaṃ raṇe bāṇo jitakāśī mahābalaḥ | vācaṃ covāca saṃkruddho gṛhyatāṃ hanyatām iti || vācaṃ ca bruvatas tasya śrutvā prādyumnir āhave | bāṇasya bruvataḥ krodhād dhasamāno 'bhyudaikṣata || uṣā bhayaparitrastā rudatī tatra bhāminī | aniruddhaḥ prahasyātha samāśvāsya ca tāṃ sthitām || atha bāṇaḥ śaraughāṇi kṣudrakāṇāṃ samantataḥ | cikṣepa samare kruddho hy aniruddhavadhepsayā || aniruddhas tu ciccheda kāṅkṣaṃs tasya parājayam | vavarṣa śarajālāni kṣudrakāṇāṃ samantataḥ bāṇo'niruddhaśirasi kāṅkṣaṃs tasya raṇe vadham
And thinking, "This Yādava is without armour and has only a sword in his hand, yet he is unconquerable" — as he stood facing him for battle: Bāṇa, mighty and with the look of a victor, greatly enraged, spoke these words about Aniruddha in the fight: "Let him be seized, let him be slain!" And hearing that speech of Bāṇa as he spoke in anger in the battle, the son of Pradyumna looked up at him, laughing. Uṣā, that lovely woman, terrified with fear, wept there; and Aniruddha, laughing, comforted her as she stood. Then Bāṇa, enraged, in his desire to kill Aniruddha, hurled in the battle floods of small arrows on every side. But Aniruddha cut them down, wanting his defeat; and Bāṇa rained nets of small arrows on every side at Aniruddha's head, wanting his death in the fight.
AI translation rendered from the Sanskrit, not a published edition
HV 108.62
तानि बाणसहस्राणि चर्मणा व्यवधूय सः बभौ प्रमुखतस् तस्य स्थितः सूर्य इवोदये
tāni bāṇasahasrāṇi carmaṇā vyavadhūya saḥ babhau pramukhatas tasya sthitaḥ sūrya ivodaye
Warding off those thousands of arrows with his shield, he stood before him and shone like the sun at its rising.
AI translation rendered from the Sanskrit, not a published edition
HV 108.63
सो ऽभिभूय रणे बाणम् आस्थितो यदुनन्दनः सिंहः प्रमुखतो दृष्ट्वा गजम् एकं यथा वने
so 'bhibhūya raṇe bāṇam āsthito yadunandanaḥ siṃhaḥ pramukhato dṛṣṭvā gajam ekaṃ yathā vane
Having overwhelmed Bāṇa in the battle, that delight of the Yadus stood firm, like a lion in the forest that has seen a single elephant before it.
AI translation rendered from the Sanskrit, not a published edition
HV 108.65
ततो बाणसहस्रौघैर् मर्मभेदिभिर् आशुगैः विव्याध निशितैस् तीक्ष्णैः प्राद्युम्निम् अपराजितम् ॥ ह्व्_१०८।६४ ततो विव्याध निशितैर् बाणैः प्राद्युम्निम् आस्थितः । समाहतस् ततो बाणैः खड्गचर्मधरो नृप । तम् आपतन्तं निशितैर् अभ्यघ्नन् सायकैस् तदा । सो ऽतिविद्धो महाबाहुर् बाणैः संनतपर्वभिः क्रोधेनाभिप्रजज्वाल चिकीर्षुः कर्म दुष्करम्
tato bāṇasahasraughair marmabhedibhir āśugaiḥ vivyādha niśitais tīkṣṇaiḥ prādyumnim aparājitam // HV_108.64 tato vivyādha niśitair bāṇaiḥ prādyumnim āsthitaḥ | samāhatas tato bāṇaiḥ khaḍgacarmadharo nṛpa | tam āpatantaṃ niśitair abhyaghnan sāyakais tadā | so 'tividdho mahābāhur bāṇaiḥ saṃnataparvabhiḥ krodhenābhiprajajvāla cikīrṣuḥ karma duṣkaram
Then with floods of thousands of swift arrows that pierce the vital parts, sharp and keen, he pierced the unconquered son of Pradyumna. Then, standing firm, he pierced Pradyumna's son with keen arrows; and, O king, he who bore sword and shield was struck by those arrows. As he rushed on, they struck him then with keen shafts. Deeply pierced by those smooth-jointed arrows, the great-armed one blazed up with anger, wishing to do a deed hard to do.
AI translation rendered from the Sanskrit, not a published edition
HV 108.66
रुधिरौघप्लुतैर् गात्रैर् बाणवर्षैः समाहतः अभिभूतः सुसंक्रुद्धो ययौ बाणरथं प्रति
rudhiraughaplutair gātrair bāṇavarṣaiḥ samāhataḥ abhibhūtaḥ susaṃkruddho yayau bāṇarathaṃ prati
His limbs bathed in streams of blood, struck by showers of arrows, overwhelmed and greatly enraged, he went towards Bāṇa's chariot.
AI translation rendered from the Sanskrit, not a published edition
HV 108.67
असिभिर् मुसलैः शूलैः पट्टिसैस् तोमरैस् तथा सो ऽतिविद्धः शरौघैस् तु प्राद्युम्निर् नाभ्यकम्पत
asibhir musalaiḥ śūlaiḥ paṭṭisais tomarais tathā so 'tividdhaḥ śaraughais tu prādyumnir nābhyakampata
Though deeply pierced by swords, clubs, lances, spears and javelins, and by floods of arrows, the son of Pradyumna did not waver.
AI translation rendered from the Sanskrit, not a published edition
HV 108.68
आप्लुत्य सहसा क्रुद्धो रथेषां तस्य सो ऽच्छिनत् जघानाश्वांश् च खड्गेन बाणस्य रथमूर्धनि
āplutya sahasā kruddho ratheṣāṃ tasya so 'cchinat jaghānāśvāṃś ca khaḍgena bāṇasya rathamūrdhani
Leaping up suddenly in anger, he cut off the chariot-pole of that one, and with his sword he slew the horses at the front of Bāṇa's chariot.
AI translation rendered from the Sanskrit, not a published edition
HV 108.69
तं पुनः शरवर्षेण तोमरैः पट्टिसैस् तथा चकारान्तर्हितं बाणो युद्धमार्गविशारदः
taṃ punaḥ śaravarṣeṇa tomaraiḥ paṭṭisais tathā cakārāntarhitaṃ bāṇo yuddhamārgaviśāradaḥ
Then again Bāṇa, skilled in the ways of war, made him disappear (from view) with a shower of arrows, with javelins and with spears.
AI translation rendered from the Sanskrit, not a published edition
HV 108.70
हतो ऽयम् इति विज्ञाय प्राणदन् नैरृता गणाः ततो ऽवप्लुत्य सहसा रथपार्श्वे व्यवस्थितः
hato 'yam iti vijñāya prāṇadan nairṛtā gaṇāḥ tato 'vaplutya sahasā rathapārśve vyavasthitaḥ
Thinking "He is slain," the hosts of the Nairṛtas roared; but then, leaping down suddenly, he took his stand at the side of the chariot.
AI translation rendered from the Sanskrit, not a published edition
HV 108.71
शक्तिं बाणस् ततः क्रुद्धो घोररूपां भयावहाम् जग्राह ज्वलितां दीप्तां घण्टामालाकुलां रणे
śaktiṃ bāṇas tataḥ kruddho ghorarūpāṃ bhayāvahām jagrāha jvalitāṃ dīptāṃ ghaṇṭāmālākulāṃ raṇe
Then Bāṇa in his anger took up in the battle a spear of terrible form, bringing fear, flaming and blazing, thick with rows of bells.
AI translation rendered from the Sanskrit, not a published edition
HV 108.72
ज्वलनादित्यसंकाशां यमदण्डोपमां शुभाम् वारयन्तीं दुराधर्षां चामीकरविभूषिताम् । गुर्वीं भारसहस्रेण विश्वकर्मकृतां तदा । प्राहिणोत् ताम् असङ्गेन महोल्कां ज्वलिताम् इव
jvalanādityasaṃkāśāṃ yamadaṇḍopamāṃ śubhām vārayantīṃ durādharṣāṃ cāmīkaravibhūṣitām | gurvīṃ bhārasahasreṇa viśvakarmakṛtāṃ tadā | prāhiṇot tām asaṅgena maholkāṃ jvalitām iva
Bright as the blazing sun, like the rod of Yama, shining, obstructing (all), hard to withstand, adorned with gold, heavy with a thousand weights, fashioned then by Viśvakarman — that (spear) he hurled unerringly, like a great flaming meteor.
AI translation rendered from the Sanskrit, not a published edition
HV 108.73
ताम् आपतन्तीं संप्रेक्ष्य जीवितान्तकरीं तदा ताम् एव प्राहिणोच् छक्तिं सर्वशत्रुभयंकरीम् । सो ऽभिप्लुत्य तदा शक्तिं जग्राह पुरुषोत्तमः
tām āpatantīṃ saṃprekṣya jīvitāntakarīṃ tadā tām eva prāhiṇoc chaktiṃ sarvaśatrubhayaṃkarīm | so 'bhiplutya tadā śaktiṃ jagrāha puruṣottamaḥ
Seeing it coming on, life-ending, he then hurled back that very spear, the terror of all foes; leaping up, that best of men seized the spear.
AI translation rendered from the Sanskrit, not a published edition
HV 108.75
निर्बिभेद ततो बाणं स्वशक्त्यैव महाबलः सा भित्त्वा तस्य देहं तु जगाम वसुधातलम् ॥ ह्व्_१०८।७४ ततो मूर्छां समापेदे बलिपुत्रः प्रतापवान् । रुधिराप्लुतगात्रस् तु स्वशक्या पीडितो भृशम् । स गाढविद्धो व्यथितो ध्वजयष्टिं समाश्रितः । ततो मूर्छाभिभूतं तं कुम्भाण्डो वाक्यम् अब्रवीत् उपेक्षसे दानवेन्द्र किम् एवं शत्रुम् उद्यतम्
nirbibheda tato bāṇaṃ svaśaktyaiva mahābalaḥ sā bhittvā tasya dehaṃ tu jagāma vasudhātalam // HV_108.74 tato mūrchāṃ samāpede baliputraḥ pratāpavān | rudhirāplutagātras tu svaśakyā pīḍito bhṛśam | sa gāḍhaviddho vyathito dhvajayaṣṭiṃ samāśritaḥ | tato mūrchābhibhūtaṃ taṃ kumbhāṇḍo vākyam abravīt upekṣase dānavendra kim evaṃ śatrum udyatam
Then the mighty one pierced Bāṇa through with his own spear; and it, splitting his body, went into the surface of the earth. Then the glorious son of Bali fell into a faint, his limbs bathed in blood, sorely afflicted by his own spear. Deeply wounded and in pain, he leaned upon his flagstaff; and to him, overcome by the swoon, Kumbhāṇḍa spoke these words: "Lord of the Dānavas, why do you thus disregard the enemy who has risen up (against you)?"
AI translation rendered from the Sanskrit, not a published edition
HV 108.76
लब्धलक्ष्यो ह्य् अयं वीरो निर्विकारो ऽद्य दृश्यते मायाम् आश्रित्य युध्यस्व नायं वध्यो ऽन्यथा भवेत्
labdhalakṣyo hy ayaṃ vīro nirvikāro 'dya dṛśyate māyām āśritya yudhyasva nāyaṃ vadhyo 'nyathā bhavet
"For this hero has hit his mark, and today he is seen unaltered (by wounds). Fight, having recourse to magic; otherwise he cannot be slain."
AI translation rendered from the Sanskrit, not a published edition
HV 108.78
आत्मानं मां च रक्षस्व प्रमादात् किम् उपेक्षसे वध्यताम् अयम् अद्यैव न नः सर्वान् विनाशयेत् ॥ ह्व्_१०८।७७ अन्यांश् च शतशो हत्वा उषां नीत्वा व्रजिष्यति । कुम्भाण्डवचनैर् एवं दानवेन्द्रः प्रचोदितः वाचं रूक्षाम् अभिक्रुद्धः प्रोवाच वदतां वरः
ātmānaṃ māṃ ca rakṣasva pramādāt kim upekṣase vadhyatām ayam adyaiva na naḥ sarvān vināśayet // HV_108.77 anyāṃś ca śataśo hatvā uṣāṃ nītvā vrajiṣyati | kumbhāṇḍavacanair evaṃ dānavendraḥ pracoditaḥ vācaṃ rūkṣām abhikruddhaḥ provāca vadatāṃ varaḥ
"Protect yourself and me; why do you neglect this out of carelessness? Let him be killed this very day, lest he destroy us all — and having killed hundreds of others, he will carry off Uṣā and go." Urged on thus by Kumbhāṇḍa's words, the lord of the Dānavas, greatly enraged, that best of speakers, spoke harsh words:
AI translation rendered from the Sanskrit, not a published edition
HV 108.79
एषो ऽहम् अस्य विदधे मृत्युं प्राणहरं रणे आदास्याम्य् अहम् एनं वै गरुत्मान् इव पन्नगम्
eṣo 'ham asya vidadhe mṛtyuṃ prāṇaharaṃ raṇe ādāsyāmy aham enaṃ vai garutmān iva pannagam
"Here am I: I shall deal out to him a death that takes his life in the battle; I shall snatch him up as Garutmān does a snake."
AI translation rendered from the Sanskrit, not a published edition
HV 108.80
इत्य् एवम् उक्त्वा सरथः साश्वः सध्वजसारथिः गन्धर्वनगराकारस् तत्रैवान्तरधीयत
ity evam uktvā sarathaḥ sāśvaḥ sadhvajasārathiḥ gandharvanagarākāras tatraivāntaradhīyata
Having spoken thus, together with his chariot, his horses, his banner and his charioteer, taking on the form of a city of the Gandharvas, he vanished on that very spot.
AI translation rendered from the Sanskrit, not a published edition
HV 108.81
विज्ञायान्तर्हितं बाणं प्राद्युम्निर् अपराजितः पौरुषेण समायुक्तः स प्रैक्षत दिशो दश
vijñāyāntarhitaṃ bāṇaṃ prādyumnir aparājitaḥ pauruṣeṇa samāyuktaḥ sa praikṣata diśo daśa
Understanding that Bāṇa had vanished, the unconquered son of Pradyumna, endowed with manly courage, looked to the ten directions.
AI translation rendered from the Sanskrit, not a published edition
HV 108.82
आस्थाय तामसीं विद्यां तदा क्रुद्धो बलेः सुतः मुमोच विशिखांस् तीक्ष्णांश् छन्नो मायाधरो बली
āsthāya tāmasīṃ vidyāṃ tadā kruddho baleḥ sutaḥ mumoca viśikhāṃs tīkṣṇāṃś channo māyādharo balī
Then the son of Bali, enraged, resorting to the dark science (tāmasī vidyā), concealed, the mighty wielder of illusion, loosed sharp arrows.
AI translation rendered from the Sanskrit, not a published edition
HV 108.84
प्राद्युम्निर् विशिखैर् बद्धः सर्पभूतैः समन्ततः वेष्टितो बहुधा तस्य देहः पन्नगराशिभिः ॥ ह्व्_१०८।८३ देहः संवेष्टितस् तस्य बहुधा शरराशिभिः । स तु वेष्टितसर्वाङ्गो बद्धः प्राद्युम्निर् आहवे निष्प्रयत्नः स्थितः स्वस्थो मैनाक इव पर्वतः
prādyumnir viśikhair baddhaḥ sarpabhūtaiḥ samantataḥ veṣṭito bahudhā tasya dehaḥ pannagarāśibhiḥ // HV_108.83 dehaḥ saṃveṣṭitas tasya bahudhā śararāśibhiḥ | sa tu veṣṭitasarvāṅgo baddhaḥ prādyumnir āhave niṣprayatnaḥ sthitaḥ svastho maināka iva parvataḥ
Pradyumna's son was bound on every side by arrows that had become serpents; his body was wrapped many times over by masses of snakes. His body was wrapped many times over by masses of arrows. And he, Pradyumna's son, all his limbs enveloped, bound in the battle, stood making no effort, at ease, like Mount Maināka.
AI translation rendered from the Sanskrit, not a published edition
HV 108.85
ज्वालावलीढवदनैः सर्पभोगैर् विवेष्टितः अभीतः पर्वताकारः प्राद्युम्निर् अभवद् रणे
jvālāvalīḍhavadanaiḥ sarpabhogair viveṣṭitaḥ abhītaḥ parvatākāraḥ prādyumnir abhavad raṇe
Wrapped about by serpent-coils whose mouths were licked by flames, Pradyumna's son, mountain-shaped, remained unafraid in the battle.
AI translation rendered from the Sanskrit, not a published edition
HV 108.86
निष्प्रयत्नः स्थितश् चापि सर्पभोगमयैः शरैः न विव्यथे स भूतात्मा सर्वतः परिवेष्टितः
niṣprayatnaḥ sthitaś cāpi sarpabhogamayaiḥ śaraiḥ na vivyathe sa bhūtātmā sarvataḥ pariveṣṭitaḥ
And although he stood making no effort, wrapped on all sides by arrows made of serpent-coils, that embodied being was not shaken.
AI translation rendered from the Sanskrit, not a published edition
HV 108.87
ततस् तं वाग्भिर् उग्राभिः संरब्धः समतर्जयत् बाणो ध्वजं समाश्रित्य प्रोवाचामर्षितो वचः
tatas taṃ vāgbhir ugrābhiḥ saṃrabdhaḥ samatarjayat bāṇo dhvajaṃ samāśritya provācāmarṣito vacaḥ
Then, in a fury, (Bāṇa) threatened him with harsh words; Bāṇa, leaning upon his banner-staff, spoke these words in indignation.
AI translation rendered from the Sanskrit, not a published edition
HV 108.88
कुम्भाण्ड वध्यतां शीघ्रम् अयं वै कुलपांसनः चारित्रं येन मे लोके दूषितं दूषितात्मना
kumbhāṇḍa vadhyatāṃ śīghram ayaṃ vai kulapāṃsanaḥ cāritraṃ yena me loke dūṣitaṃ dūṣitātmanā
"Kumbhāṇḍa, let this defiler of his family be killed at once — he by whom, foul-souled, my good name in the world has been sullied."
AI translation rendered from the Sanskrit, not a published edition
HV 108.89
इत्य् एवम् उक्ते वचने कुम्भाण्डो वाक्यम् अब्रवीत् राजन् वक्ष्याम्य् अहं किंचित् तन् मे शृणु यदीच्छसि
ity evam ukte vacane kumbhāṇḍo vākyam abravīt rājan vakṣyāmy ahaṃ kiṃcit tan me śṛṇu yadīcchasi
When this had been said, Kumbhāṇḍa spoke these words: "King, I shall say something; hear it from me, if you wish.
AI translation rendered from the Sanskrit, not a published edition
HV 108.90
अयं विज्ञायतां कस्य कुतो वायम् इहागतः केन वायम् इहानीतः शक्रतुल्यपराक्रमः
ayaṃ vijñāyatāṃ kasya kuto vāyam ihāgataḥ kena vāyam ihānītaḥ śakratulyaparākramaḥ
Let it be found out whose this (man) is, and from where he has come here, and by whom he was brought here — he whose valour equals Śakra's.
AI translation rendered from the Sanskrit, not a published edition
HV 108.93
मयायं बहुशो युद्धे दृष्टो राजन् महारणे क्रीडन्न् इव च युद्धेषु दृश्यते देवसूनुवत् ॥ ह्व्_१०८।९१ कुलशीलतपोवीर्यैः सर्वैर् एव समन्वितः । सर्वयुद्धे ऽप्य् असंहार्यो भवेद् वीर्याधिकस् तव । बलवान् सत्त्वसंपन्नः सर्वशास्त्रविशारदः नायं वधकृतं दोषम् अर्हते दैत्यसत्तम विज्ञाय च वधं वास्य पूजां वापि करिष्यसि ॥ ह्व्_१०८।९२ गान्धर्वेण विवाहेन कन्येयं तव संगता । अदेया ह्य् अप्रतिग्राह्या अतश् चिन्त्य वधं कुरु । वधे ह्य् अस्य महान् दोषो रक्षणे सुमहान् गुणः अयं हि पुरुषोत्कर्षः सर्वथा मानम् अर्हति
mayāyaṃ bahuśo yuddhe dṛṣṭo rājan mahāraṇe krīḍann iva ca yuddheṣu dṛśyate devasūnuvat // HV_108.91 kulaśīlatapovīryaiḥ sarvair eva samanvitaḥ | sarvayuddhe 'py asaṃhāryo bhaved vīryādhikas tava | balavān sattvasaṃpannaḥ sarvaśāstraviśāradaḥ nāyaṃ vadhakṛtaṃ doṣam arhate daityasattama vijñāya ca vadhaṃ vāsya pūjāṃ vāpi kariṣyasi // HV_108.92 gāndharveṇa vivāhena kanyeyaṃ tava saṃgatā | adeyā hy apratigrāhyā ataś cintya vadhaṃ kuru | vadhe hy asya mahān doṣo rakṣaṇe sumahān guṇaḥ ayaṃ hi puruṣotkarṣaḥ sarvathā mānam arhati
Many times, O king, have I seen him in the fighting, in the great battle; he appears in the combats like a son of the gods, as though at play. He is endowed with all things — family, character, austerity and valour; he would be irresistible in every fight, and superior to you in valour: strong, full of courage, skilled in all the sciences. He does not deserve the fault of being put to death, O best of Daityas; only after finding out (who he is) will you inflict death on him, or else do him honour. This girl has been united with him by a gandharva marriage; she can neither be given away nor taken back — so consider, and then kill him. In killing him there is a great fault, in protecting him a very great merit; for he is a man of surpassing excellence and deserves honour in every way.
AI translation rendered from the Sanskrit, not a published edition
HV 108.95
सर्वतो वेष्टिततनुर् न व्यथत्य् एष भोगिभिः कुलशौण्डीर्यवीर्यैश् च सत्त्वेन च समन्वितः । पश्य राजन् यशोवीर्यैर् अन्वितं पुरुषोत्तमम् न नो गणयते सर्वान् वधं प्राप्तो ऽप्य् अयं बली ॥ ह्व्_१०८।९४ यदि मायाप्रभावेन नात्र बद्धो भवेद् अयम् । सर्वासुरगणान् संख्ये योधयेन् नात्र संशयः ॥ सर्वयुद्धेषु मार्गज्ञो भवेद् वीर्याधिकस् तव । शोणितौघप्लुतैर् गात्रैर् नागभोगैश् च वेष्टितः त्रिशिखां भ्रुकुटीं कृत्वा न चिन्तयति नः स्थितान्
sarvato veṣṭitatanur na vyathaty eṣa bhogibhiḥ kulaśauṇḍīryavīryaiś ca sattvena ca samanvitaḥ | paśya rājan yaśovīryair anvitaṃ puruṣottamam na no gaṇayate sarvān vadhaṃ prāpto 'py ayaṃ balī // HV_108.94 yadi māyāprabhāvena nātra baddho bhaved ayam | sarvāsuragaṇān saṃkhye yodhayen nātra saṃśayaḥ || sarvayuddheṣu mārgajño bhaved vīryādhikas tava | śoṇitaughaplutair gātrair nāgabhogaiś ca veṣṭitaḥ triśikhāṃ bhrukuṭīṃ kṛtvā na cintayati naḥ sthitān
With his body wrapped on all sides he is not distressed by the serpents; he is endowed with the pride and valour of (good) family and with courage. Look, O king, at this best of men, endowed with fame and valour: this strong one does not count us all as anything, even though he has come to his death. If he were not here bound by the power of illusion, he would fight all the hosts of Asuras in battle — of that there is no doubt. Knowing the way in all forms of combat, he would be superior to you in valour. With his limbs bathed in floods of blood and wrapped in serpent-coils, making a three-fold frown on his brow, he pays no heed to us standing here.
AI translation rendered from the Sanskrit, not a published edition
HV 108.96
इमाम् अवस्थां नीतो ऽपि स्वबाहुबलम् आश्रितः न चिन्तयति राजंस् त्वां वीर्यवान् को ऽप्य् असौ युवा
imām avasthāṃ nīto 'pi svabāhubalam āśritaḥ na cintayati rājaṃs tvāṃ vīryavān ko 'py asau yuvā
Even brought to this condition, relying on the strength of his own arms, he pays you no heed, O king; who is this valorous youth?
AI translation rendered from the Sanskrit, not a published edition