Ganesha Purana — Kridakhanda — Chapter 91
GnP 2 91.3
अध्याय ९२ प्रारंभ :- क उवाच । ततः कदाचिद्गिरिजा प्रातः स्नात्वा त्वरान्विता। सुप्ते बाले चतुर्वर्षे लिंगपूजां चकार सा १ वामहस्ते निधायैव पार्थिवीं मूर्तिमुत्तमाम् । स उत्थाय रुदन्स्तन्यं ययाचे हठतत्परः २ क्षणं तिष्ठ क्षणं तिष्ठेत्येवं माता न्यषेधयत् । स रुषाऽपातयन्मूर्तिं तद्धस्ताद्धस्तघाततः
adhyāya 92 prāraṃbha :- ka uvāca | tataḥ kadācidgirijā prātaḥ snātvā tvarānvitā| supte bāle caturvarṣe liṃgapūjāṃ cakāra sā 1 vāmahaste nidhāyaiva pārthivīṃ mūrtimuttamām | sa utthāya rudanstanyaṃ yayāce haṭhatatparaḥ 2 kṣaṇaṃ tiṣṭha kṣaṇaṃ tiṣṭhetyevaṃ mātā nyaṣedhayat | sa ruṣā'pātayanmūrtiṃ taddhastāddhastaghātataḥ
Chapter 92 begins. Kaḥ said: Then once Girijā, having bathed at dawn, in haste, while the child in his fourth year was asleep, performed the worship of the liṅga, placing the excellent earthen image in her left hand. He got up and, crying, insistently demanded the breast. "Wait a moment, wait a moment" — thus the mother put him off. In anger he struck the image from her hand with a blow of his hand and made it fall.
AI translation rendered from the Sanskrit, not a published edition
GnP 2 91.13
अध्याय ९४ प्रारंभ :- क उवाच । ततो मुनिसुता याताः प्रतीक्षन्तः स्थिताश्च ये। तेषां जयरवैर्व्योम गर्जितं च दिगन्तरम् १ चिक्रीडुस्ते पुनस्तत्र नानानृत्यैश्च गायनैः । एवं रमत्सु बालेषु सार्द्धयामे दिवाकरे २ पितरौ तानदृष्ट्वैव ग्राममध्ये क्वचिद्गृहे। प्रत्येकं यष्टिमादाय ययुः सर्वे शिशून्प्रति ३ रमन्तो विविधाः क्रीडा मध्ये कृत्वा गुणेश्वरम् । नृत्यन्तं नर्तयन्तंच तं च ते निरभर्त्सयन् ४ पितर ऊचुः । त्वया विना नो बालाश्च नाचरन्स्नानभोजने । आचाराध्ययने चापि ब्राह्मण्यं विनयं तथा५ ततः परस्परं प्राहुर्गतक्रोधा निरीक्ष्य तम् । एतस्य ताडने बुद्धिर्गतैनं वीक्ष्य नः कुतः ६ कथयामो यदि शिवौ तावस्य किं करिष्यतः । अनेके निहता दैत्या बालेनैव महाबलाः ७ वयं देशान्तरं यामो भीत्या तव गुणेश्वर । क उवाच । एवं वदत्सु लोकेषु पिदधे स गुणेश्वरः । आविरासीद्दूरदेशे ततो बाला व्यलोकयन् ८ धावयित्वा पितॄंस्त्यक्त्वा गुणेशं ते ययुः पुनः । क्रीडन्तस्ते ययुः शीघ्रं गौतमाश्रममुत्तमम् ९ ध्यानस्थं तं मुनिं वीक्ष्य पचन्तीं तस्त्रियं च ते । गुणेशोऽगान्मध्यदेशं जग्राहौदनपात्रकम् २.९४.१० ददौ तेभ्यो विभज्यान्नं प्रार्थयामास सादरम् ११ मत्संगेन चिरं कालं यूयं सर्वे बुभुक्षिताः । सावकाशं प्रभुंजध्वं ततः क्रीडामहे पुनः १२ अहल्या तं चुकोपाशु ममान्नं स्पृष्टवान्कथम् । न कृतो वैश्वदेवो वा नैवेद्यश्चपलार्भकाः
adhyāya 94 prāraṃbha :- ka uvāca | tato munisutā yātāḥ pratīkṣantaḥ sthitāśca ye| teṣāṃ jayaravairvyoma garjitaṃ ca digantaram 1 cikrīḍuste punastatra nānānṛtyaiśca gāyanaiḥ | evaṃ ramatsu bāleṣu sārddhayāme divākare 2 pitarau tānadṛṣṭvaiva grāmamadhye kvacidgṛhe| pratyekaṃ yaṣṭimādāya yayuḥ sarve śiśūnprati 3 ramanto vividhāḥ krīḍā madhye kṛtvā guṇeśvaram | nṛtyantaṃ nartayantaṃca taṃ ca te nirabhartsayan 4 pitara ūcuḥ | tvayā vinā no bālāśca nācaransnānabhojane | ācārādhyayane cāpi brāhmaṇyaṃ vinayaṃ tathā5 tataḥ parasparaṃ prāhurgatakrodhā nirīkṣya tam | etasya tāḍane buddhirgatainaṃ vīkṣya naḥ kutaḥ 6 kathayāmo yadi śivau tāvasya kiṃ kariṣyataḥ | aneke nihatā daityā bālenaiva mahābalāḥ 7 vayaṃ deśāntaraṃ yāmo bhītyā tava guṇeśvara | ka uvāca | evaṃ vadatsu lokeṣu pidadhe sa guṇeśvaraḥ | āvirāsīddūradeśe tato bālā vyalokayan 8 dhāvayitvā pitṝṃstyaktvā guṇeśaṃ te yayuḥ punaḥ | krīḍantaste yayuḥ śīghraṃ gautamāśramamuttamam 9 dhyānasthaṃ taṃ muniṃ vīkṣya pacantīṃ tastriyaṃ ca te | guṇeśo'gānmadhyadeśaṃ jagrāhaudanapātrakam 2.94.10 dadau tebhyo vibhajyānnaṃ prārthayāmāsa sādaram 11 matsaṃgena ciraṃ kālaṃ yūyaṃ sarve bubhukṣitāḥ | sāvakāśaṃ prabhuṃjadhvaṃ tataḥ krīḍāmahe punaḥ 12 ahalyā taṃ cukopāśu mamānnaṃ spṛṣṭavānkatham | na kṛto vaiśvadevo vā naivedyaścapalārbhakāḥ
GnP 2 91.36
विसृज्य ध्यानं किं कुर्याद्गौतमो मुनिसत्तमः। उत्थापयामास तदा ध्यानस्थं मुनिसत्तमम् १४ स उत्थाय ददर्शाथ गौतमः सकलार्भकान् । जक्षतोऽन्नं क्षुधायुक्तान्बभाषे च गुणेश्वरम् १५ गौतम उवाच । महतोः पुत्रतां प्राप्य कथमन्यायकृद्भवान् । अत्यद्भुतानि कर्माणि श्रुत्वा ते त्वां वयं पुरा १६ परात्परतरं देवं परब्रह्मस्वरूपिणम् । मन्यामहे बालभावं कुरुषे त्वं गुणेश्वर १७ क उवाच । धृत्वा करं स च मुनिः पार्वत्या गृहमागमत् । करे धृत्वाऽन्नसहितं तत्पात्रं निजमन्दिरात १८ उवाच मातस्ते बालो नित्यमन्यायकृन्मम । अद्य त्वां कथितुं यातः किं कार्यं गौर्यतः परम् १९ इतो वा गमनं दूरे मन्यसे यदि तद्वद । क उवाच । ततो रुषो समायुक्ता श्रुत्वा वाक्यं मुनीरितम् २.९४.२० ताडयामास यष्ट्या तं वमन्ती नेत्रतोऽनलम् । उवाच च मुनिं गौरी प्रणता क्रोधसंयुता २१ ममापि च मुने त्रासो जायतो जन्मतोऽस्य ह । द्रष्टव्या राक्षसकृतां कियन्तो विघ्नसंचयाः २२ स्त्रियः प्रवक्तुं कुत्रापि नायान्ति मुनिपुंगवाः । अयं तु सर्वतो दुष्टो मुनिपुत्राविभेदकः २३ ममात्मज इति जनो नैनं शापं प्रयच्छति । बद्ध्वैनं हस्तपादेषु तत्समक्षं शिवा सुतम् २४ गृहमध्ये तु संस्थाप्य तद्गृहं पिदधे दृढम् । मैवं मैवं वदन्यातो गौतमः स्वाश्रमं प्रति २५ ततस्ते बालकाः सर्वे शोचस्तन्तं गुणेश्वरम् । कथं नो दर्शनं चास्य भविष्यति कदा न वा २६ द्वारं दत्त्वा दृढं मध्ये स्थापितो गिरिकन्यया । एवं तेषु वदत्सेव तन्मध्ये स ययै क्षणात् २७ जनन्याः कटिदेशेऽपि दृश्यते तद्गृहेऽपि च । ऊचुस्तां गौरि पुत्रस्ते निःसृतो गृहमध्यतः २८ पश्यति स्म गेहमध्ये बद्धमेव गुणेश्वरम् । बहिस्तन्मुनिपुत्रान्सा तत्स्वरूपानपश्यत २९ यं कंचित्स्तनपानाय जुहाव विह्वला शिवा । निषिद्धा सा सुतैस्तैस्तु गृहमध्ये शिवे स्थितः २.९४.३० उद्घाटय द्वारं सा बालं मुक्त्वा स्तन्यं ददौ मुदा । गौतमः स्वाश्रमं यातो देवतार्चनमारभत् ३१ गुणेशरूपान्सोऽपश्यत्तृप्तान्देवांस्तथाऽखिलान् । पुरः प्रकीर्णमन्नं च ततो विस्मितमानसः ३२ चिन्तयामास मनसि दुर्बुद्धिस्तु कृता मया। उमायै कथितं सर्वमन्नपात्रं प्रदर्शितम् ३३ तया स ताडितो बद्धोऽव्यक्तो व्यक्तस्य कारणम् । परात्परतरो देवो यस्मिंस्तृप्ते महाफलम् ३४ आगत्य बुभुजे बालैः सार्द्धं तु मुनिसंभवैः । मोहितो मायया चास्य पूर्वमज्ञासिषं न तम् ३५ क उवाच । अहल्यापि पुनः पाक चकाराद्भुतमानसा । सोऽपि ध्यानस्थितो भूत्वा नित्यकर्म समापयत्
visṛjya dhyānaṃ kiṃ kuryādgautamo munisattamaḥ| utthāpayāmāsa tadā dhyānasthaṃ munisattamam 14 sa utthāya dadarśātha gautamaḥ sakalārbhakān | jakṣato'nnaṃ kṣudhāyuktānbabhāṣe ca guṇeśvaram 15 gautama uvāca | mahatoḥ putratāṃ prāpya kathamanyāyakṛdbhavān | atyadbhutāni karmāṇi śrutvā te tvāṃ vayaṃ purā 16 parātparataraṃ devaṃ parabrahmasvarūpiṇam | manyāmahe bālabhāvaṃ kuruṣe tvaṃ guṇeśvara 17 ka uvāca | dhṛtvā karaṃ sa ca muniḥ pārvatyā gṛhamāgamat | kare dhṛtvā'nnasahitaṃ tatpātraṃ nijamandirāta 18 uvāca mātaste bālo nityamanyāyakṛnmama | adya tvāṃ kathituṃ yātaḥ kiṃ kāryaṃ gauryataḥ param 19 ito vā gamanaṃ dūre manyase yadi tadvada | ka uvāca | tato ruṣo samāyuktā śrutvā vākyaṃ munīritam 2.94.20 tāḍayāmāsa yaṣṭyā taṃ vamantī netrato'nalam | uvāca ca muniṃ gaurī praṇatā krodhasaṃyutā 21 mamāpi ca mune trāso jāyato janmato'sya ha | draṣṭavyā rākṣasakṛtāṃ kiyanto vighnasaṃcayāḥ 22 striyaḥ pravaktuṃ kutrāpi nāyānti munipuṃgavāḥ | ayaṃ tu sarvato duṣṭo muniputrāvibhedakaḥ 23 mamātmaja iti jano nainaṃ śāpaṃ prayacchati | baddhvainaṃ hastapādeṣu tatsamakṣaṃ śivā sutam 24 gṛhamadhye tu saṃsthāpya tadgṛhaṃ pidadhe dṛḍham | maivaṃ maivaṃ vadanyāto gautamaḥ svāśramaṃ prati 25 tataste bālakāḥ sarve śocastantaṃ guṇeśvaram | kathaṃ no darśanaṃ cāsya bhaviṣyati kadā na vā 26 dvāraṃ dattvā dṛḍhaṃ madhye sthāpito girikanyayā | evaṃ teṣu vadatseva tanmadhye sa yayai kṣaṇāt 27 jananyāḥ kaṭideśe'pi dṛśyate tadgṛhe'pi ca | ūcustāṃ gauri putraste niḥsṛto gṛhamadhyataḥ 28 paśyati sma gehamadhye baddhameva guṇeśvaram | bahistanmuniputrānsā tatsvarūpānapaśyata 29 yaṃ kaṃcitstanapānāya juhāva vihvalā śivā | niṣiddhā sā sutaistaistu gṛhamadhye śive sthitaḥ 2.94.30 udghāṭaya dvāraṃ sā bālaṃ muktvā stanyaṃ dadau mudā | gautamaḥ svāśramaṃ yāto devatārcanamārabhat 31 guṇeśarūpānso'paśyattṛptāndevāṃstathā'khilān | puraḥ prakīrṇamannaṃ ca tato vismitamānasaḥ 32 cintayāmāsa manasi durbuddhistu kṛtā mayā| umāyai kathitaṃ sarvamannapātraṃ pradarśitam 33 tayā sa tāḍito baddho'vyakto vyaktasya kāraṇam | parātparataro devo yasmiṃstṛpte mahāphalam 34 āgatya bubhuje bālaiḥ sārddhaṃ tu munisaṃbhavaiḥ | mohito māyayā cāsya pūrvamajñāsiṣaṃ na tam 35 ka uvāca | ahalyāpi punaḥ pāka cakārādbhutamānasā | so'pi dhyānasthito bhūtvā nityakarma samāpayat
GnP 2 91.91
अध्याय ९१ प्रारंभ :- क उवाच । ततो द्वितीये वर्षे स बालो बालैरसंख्यकैः । चिक्रीड वाटिकामध्ये नानाद्रुमलताकुले १ फलानि भक्षयामास खर्जूरीपनसानि च । ददौ तेभ्योऽतिबलात्स पातयित्वा बहून्यपि २ कूटो नाम महादैत्यः कूटमायाकरः खलः । तत्तृषाकालमाज्ञाय वापिकायां विषाणि सः ३ लोडयामास दुर्बुद्धिः सर्वेषां हि जिघांसया । येषां तु स्पर्शमात्रेण म्रियन्ते प्राणिनः क्षणात् ४ यदुत्थवायुना स्पृष्टा निपतन्ति खगा भुवि । ततः कूटो गतस्तत्र तस्थौ नाशदिदृक्षया ५ ततस्ते बालकाः पातुमज्ञानात्तु जलं ययुः । पपुः सर्वे स्वचुलकैरञ्जलीभिश्च केचन ६ मृतान्मत्स्यान्समादाय बहिर्याता मृतास्तदा । रक्षको ग्राममध्ये तु घोषयामास तन्मृतिम् ७ ततो महारवं कृत्वा तत्रायुः सर्वनागराः । घ्नन्तः पाणितलैर्वक्षः पाषाणैरपरे शिरः ८ हाहाकारो महानासीत्पंवधूयोषितामपि । तेषामाक्रन्दनं श्रुत्वा शिवाया अपि बालकः ९ अजीवयद्दृष्टिपातैः सर्वांस्तान्पुरबालकान् । क्रूरदृष्ट्या कूटदैत्यं मृतं भूमौ न्यपतयत् २.९१.१० पंचयोजनविस्तीर्णा चूर्णितां तेन वाटिकाम् । ददृशुर्नागराः सर्वे कतिचिच्च पलायिताः ११ सोऽजीवयज्जलचरान्निर्विषां वापिकां व्यधात्। स्वं स्वं बालं समादाय सर्वे ते स्वालयं ययुः १२ प्रशशंसुः शिवा बालं निनिन्दुर्नास्तिकाः खलाः । अस्य संगादरिष्टानि नश्यन्तीति परेऽब्रुवन् १३ ततस्तृतीयवर्षे तु प्रातःकालेऽद्रिजासुतः । वंचयित्वा बहिर्यातो मुनिबालास्तमन्वयुः १४ अहोरात्रवियोगेन परस्परमथाश्लिषन् । त ऊचुर्निशि देव त्वा स्वप्ने पश्याम सर्वदा १५ रात्रिर्युगसमा देव जायते त्वामपश्यताम् । इदानीं त्वां निरीक्ष्यैव प्रसन्नाः स्मोऽखिला वयम् १६ क्रीडामोऽद्य महासत्त्वं द्वन्द्वीभूय यथासुखम् । ततोऽर्धं एकतो भूत्वा परेऽर्धे परतोऽपि च १७ अभ्यघ्नन्पंकगोलेन नादयन्तोऽथ रोदसी। आह्लादेनाथ युध्यन्तो विकर्षन्तः परस्परम् १८ रमन्तस्ते ययुर्दूरमाश्रमं कस्यचिन्मुनेः । सरोवरे तत्र रेमुर्योजनायतविस्तरे १९ सिच्चन्तोऽञ्जलिभिर्वारि द्वन्द्वीभूता यथा पुरा । निमज्य स्कन्धमारुह्य मज्जयन्तो बलात्परम् २.९१.२० ततो दैत्यो मत्स्यरूपी तेषु क्रीडारतोऽभवत् । आस्फालयन्कराघातैस्तज्जलं तेषु पुच्छतः २१ कलुषात्तज्जलाद्भंगाज्जग्मुस्तीरं मुहुर्मुहुः । तीरे दृष्ट्वाऽद्रिजापुत्रं मत्स्यस्तन्निकटं ययौ २२ व्यादाय वदनं दध्रे तदंघ्री विचकर्ष च । निनाय धाव धावेति कोशयन्तं महाजले २३ निमज्ज्य स जले तेन चिरकालं महासुरः । अरोदिषुर्मुनिसुता मग्नं वीक्ष्याद्रिजासुतम् २४ हाहाकारं प्रकुर्वन्तः करपृष्ठोष्ठसंयुतम् । केचिद्गत्वा सरो रम्यं पश्यन्तो ददृशुर्न तम् २५ भवानीताडनाद्भीताः केचिद्बालाः पलायिताः । केचित्ते बालका गत्वाऽशंसन्मग्नं शिशुं च तम् २६ सर्वान्नः क्रीडतो हित्वा नीतो मत्स्येन बालकः । क उवाच । श्रुत्वा तद्वचनं गौरी मूर्च्छिता पतिता भुवि २७ मुहूर्ताच्चेतनां लब्ध्वा रोदमाना ययौ बहिः।। मुंचंन्ती नेत्रजं वारि मस्तकात्पतितांचला २८ स्खलन्ती निःश्वसन्ती च पतन्ती धरणीतले । सख्यस्तामन्वयुः काश्चिद्धित्वा कार्याणि सत्वराः २९ सरस्तीरं शीघ्रतरमागता सखिभिः सह। मुनयस्तमुदन्तं च श्रुत्वा याताः सरः प्रति २.९१.३० अगाधेऽम्भसि ते केचिन्मग्ना नापुरुमासुतम् । तामूचुर्जननीं केचिन्मग्ना नो बालका जले ३१ तैः पुनर्न च दृष्टश्च मत्स्योदरगतः सुतः । रोदनं पुनरारेभे गौरी श्रुत्वा तु तद्वचः ३२ उमोवाच । मम प्राणा गमिष्यन्ति विना तं सर्वसुन्दरम् । अतिक्लेशेन संलब्धमतिपौरुषमीश्वरम् ३३ चराचरगुरुं मायातीतं मायाविनं परम् । अनन्तकोटिब्रह्माण्डनायकं विश्वसंभवम् ३४ ललाटं निजघानोरो वारंवारं करेण सा । रुरुदुर्मुनयो वीक्ष्य रुदतीं तां तथाविधाम् ३५ ततः कारुणिको देवो निशम्य करुणं वचः । स्वयमण्डजरूपोऽभूद्युयुधाते परस्परम् ३६ तदाघातेन जलजा मृतास्तीरे निपेतिरे। दंष्ट्राभ्यां दंशतः स्मोभौ घ्नतः स्म पुच्छघाततः ३७ उदरं स्वोदरेणैव पृष्ठं पृष्ठेन जघ्नतुः । एवं चिरतरं युद्धं कृत्वा दारुणमोजसा ३८ मत्स्यरूपं गुणेशोऽथ बलाज्जघ्ने मुखे मुखम् । भग्नास्यो भग्नदर्पोऽसौ भग्ननेत्रोऽभवच्च सः ३९ पपाल जलमध्ये स पृष्ठेऽगात्स उमासुतः । यत्र यत्र ययौ सोऽथ तत्र तत्राप्यसौ ययौ २.९१.४० क्वचिल्लीनं तु तं दृष्ट्वा पुच्छाघातैरताडयत् । तत्पुच्छं तु मुखे धृत्वा गुणेशो बहिरानयत् ४१ चुचूर्ण निजभारेण गतासुं विससर्ज सः । त्यजन्तं रुधिरं वक्त्रान्नदन्तं बलवत्तरम् ४२ तेन शब्देन महता चकम्पे भुवनत्रयम् । निर्ययौ जलमध्यात्स लिलिंगं पार्वतीं तदा ४३ आनन्दमग्ना गौरी तं स्तनपानं मुदा ददौ । मामपृष्ट्वाथ कुत्र त्वं गतोऽसि बालकैः सह ४४ यद्यदायाति विघ्नं ते तत्तद्दैवाद्विनश्यति । मरीचे रक्षणाच्छम्भोः कृपया जगदीशितुः ४५ कुरुषे किं चपलतां रक्षितव्यः कथं मया । त्वद्वियोगान्मम प्राणा गमिष्यन्ति प्रियार्भक ४६ क उवाच । ततो मुनिगणाः प्रोचुस्त्वां विना दुःखिता वयम । इदानीं पुनरानन्दं प्राप्तास्त्वद्दर्शनाद्विभो ४७ पूपूजुर्मुनयो नानाद्रव्यैः सख्यः स्त्रियोऽपि च । नमस्कृत्य गुणेशं तं प्रार्थयन्सर्व एव तम् ४८ वयं त्वदीया देवेश न नस्त्यक्तुं त्वमर्हसि । ततोमा बालमादाय ययौ स्वस्थानमुत्तमम् ४९ अनन्तरं गणाः सख्यो मुनयो हर्षनिर्भराः । मार्गमध्ये परः शैलनामा दैत्यो महाबलः २.९१.५० सर्वशत्रुहरो नक्रदृढांगो ऽशनिनाशनः । गिरीणां यस्य शब्देन दारणं जायते क्षणात् ५१ मार्गं निरुध्य सहसा संस्थिरो रोदसी स्पृशत् । द्वियोजनमस्तकोऽसावधो द्वादशयोजनः ५२ सरस्तडागा वृक्षाश्च लता यत्र विभान्ति च । क्रीडन्ति सिंहशार्दूला वारणा यक्षराक्षसाः ५३ सर्वे ते विह्वलाः प्रोचुः किमिदं विघ्नमुत्थितम् । तदन्तिके स्थिता गौरी तेऽपि सर्वे स्थितास्तदा ५४ ततस्ते मुनयः प्रोचुः कदा द्रक्ष्याम योषितः । अपत्यानि गुणेशस्य कदा स्यादत्र विक्रमः ५५ गमिष्यति वथा होमकालोऽयं नः स्वधाक्रियाः । गौरी जगाद तान्सर्वन्मिा खेदं कर्तुमहंथ ५६ ममापि चिन्ता संप्राप्ता शंकरस्य हि जायते । क उवाच । श्रुत्वा वाक्यानि तान्याशु गुणेशो बुद्धिमत्तरः ५७ प्रगृह्य तु विराड्रूपं श्वासमात्रानिराकरोत् । ददृशुर्न च तद्रूपं मोहिता मुनयोऽपि ते५८ तच्छ्वासयोगात्स गिरिर्बभ्राम गगने तदा । आश्चर्य परमं प्राप्ताः सर्वे ते तं प्रशंसिरे ५९ वात्यागतं यथा पत्रं ततोऽसौ पनितो भुवि । सहस्रधाऽभवच्छैलः पुनर्वृक्षानचूर्णयत् २.९१.६० ततस्ते मुनयः प्रोचुः साधु साधु गुणेश्वर । दूरिकृतमरिष्टं नः स्वाश्रमस्था वयं सुखम् ६१ वसामस्त्वत्प्रसादेन स्वस्वकर्मरता भृशम् । क उवाच । एवमुक्त्वा च नत्वा च पृष्ट्वा संपूज्य तं ययुः ६२ पार्वती च तमादाय विवेश निजमन्दिरम् । सख्यश्च मुनिपत्न्यश्च पृष्ट्वा तां स्वगृहं ययुः ६३ इदं यः शृणुयान्मर्त्यः सर्वत्र सुखमाप्नुयात् । आयुरारोग्यमैश्वर्यं सर्वत्र विजयं तथा ६४ (४०७८)
adhyāya 91 prāraṃbha :- ka uvāca | tato dvitīye varṣe sa bālo bālairasaṃkhyakaiḥ | cikrīḍa vāṭikāmadhye nānādrumalatākule 1 phalāni bhakṣayāmāsa kharjūrīpanasāni ca | dadau tebhyo'tibalātsa pātayitvā bahūnyapi 2 kūṭo nāma mahādaityaḥ kūṭamāyākaraḥ khalaḥ | tattṛṣākālamājñāya vāpikāyāṃ viṣāṇi saḥ 3 loḍayāmāsa durbuddhiḥ sarveṣāṃ hi jighāṃsayā | yeṣāṃ tu sparśamātreṇa mriyante prāṇinaḥ kṣaṇāt 4 yadutthavāyunā spṛṣṭā nipatanti khagā bhuvi | tataḥ kūṭo gatastatra tasthau nāśadidṛkṣayā 5 tataste bālakāḥ pātumajñānāttu jalaṃ yayuḥ | papuḥ sarve svaculakairañjalībhiśca kecana 6 mṛtānmatsyānsamādāya bahiryātā mṛtāstadā | rakṣako grāmamadhye tu ghoṣayāmāsa tanmṛtim 7 tato mahāravaṃ kṛtvā tatrāyuḥ sarvanāgarāḥ | ghnantaḥ pāṇitalairvakṣaḥ pāṣāṇairapare śiraḥ 8 hāhākāro mahānāsītpaṃvadhūyoṣitāmapi | teṣāmākrandanaṃ śrutvā śivāyā api bālakaḥ 9 ajīvayaddṛṣṭipātaiḥ sarvāṃstānpurabālakān | krūradṛṣṭyā kūṭadaityaṃ mṛtaṃ bhūmau nyapatayat 2.91.10 paṃcayojanavistīrṇā cūrṇitāṃ tena vāṭikām | dadṛśurnāgarāḥ sarve katicicca palāyitāḥ 11 so'jīvayajjalacarānnirviṣāṃ vāpikāṃ vyadhāt| svaṃ svaṃ bālaṃ samādāya sarve te svālayaṃ yayuḥ 12 praśaśaṃsuḥ śivā bālaṃ ninindurnāstikāḥ khalāḥ | asya saṃgādariṣṭāni naśyantīti pare'bruvan 13 tatastṛtīyavarṣe tu prātaḥkāle'drijāsutaḥ | vaṃcayitvā bahiryāto munibālāstamanvayuḥ 14 ahorātraviyogena parasparamathāśliṣan | ta ūcurniśi deva tvā svapne paśyāma sarvadā 15 rātriryugasamā deva jāyate tvāmapaśyatām | idānīṃ tvāṃ nirīkṣyaiva prasannāḥ smo'khilā vayam 16 krīḍāmo'dya mahāsattvaṃ dvandvībhūya yathāsukham | tato'rdhaṃ ekato bhūtvā pare'rdhe parato'pi ca 17 abhyaghnanpaṃkagolena nādayanto'tha rodasī| āhlādenātha yudhyanto vikarṣantaḥ parasparam 18 ramantaste yayurdūramāśramaṃ kasyacinmuneḥ | sarovare tatra remuryojanāyatavistare 19 siccanto'ñjalibhirvāri dvandvībhūtā yathā purā | nimajya skandhamāruhya majjayanto balātparam 2.91.20 tato daityo matsyarūpī teṣu krīḍārato'bhavat | āsphālayankarāghātaistajjalaṃ teṣu pucchataḥ 21 kaluṣāttajjalādbhaṃgājjagmustīraṃ muhurmuhuḥ | tīre dṛṣṭvā'drijāputraṃ matsyastannikaṭaṃ yayau 22 vyādāya vadanaṃ dadhre tadaṃghrī vicakarṣa ca | nināya dhāva dhāveti kośayantaṃ mahājale 23 nimajjya sa jale tena cirakālaṃ mahāsuraḥ | arodiṣurmunisutā magnaṃ vīkṣyādrijāsutam 24 hāhākāraṃ prakurvantaḥ karapṛṣṭhoṣṭhasaṃyutam | kecidgatvā saro ramyaṃ paśyanto dadṛśurna tam 25 bhavānītāḍanādbhītāḥ kecidbālāḥ palāyitāḥ | kecitte bālakā gatvā'śaṃsanmagnaṃ śiśuṃ ca tam 26 sarvānnaḥ krīḍato hitvā nīto matsyena bālakaḥ | ka uvāca | śrutvā tadvacanaṃ gaurī mūrcchitā patitā bhuvi 27 muhūrtāccetanāṃ labdhvā rodamānā yayau bahiḥ|| muṃcaṃntī netrajaṃ vāri mastakātpatitāṃcalā 28 skhalantī niḥśvasantī ca patantī dharaṇītale | sakhyastāmanvayuḥ kāściddhitvā kāryāṇi satvarāḥ 29 sarastīraṃ śīghrataramāgatā sakhibhiḥ saha| munayastamudantaṃ ca śrutvā yātāḥ saraḥ prati 2.91.30 agādhe'mbhasi te kecinmagnā nāpurumāsutam | tāmūcurjananīṃ kecinmagnā no bālakā jale 31 taiḥ punarna ca dṛṣṭaśca matsyodaragataḥ sutaḥ | rodanaṃ punarārebhe gaurī śrutvā tu tadvacaḥ 32 umovāca | mama prāṇā gamiṣyanti vinā taṃ sarvasundaram | atikleśena saṃlabdhamatipauruṣamīśvaram 33 carācaraguruṃ māyātītaṃ māyāvinaṃ param | anantakoṭibrahmāṇḍanāyakaṃ viśvasaṃbhavam 34 lalāṭaṃ nijaghānoro vāraṃvāraṃ kareṇa sā | rurudurmunayo vīkṣya rudatīṃ tāṃ tathāvidhām 35 tataḥ kāruṇiko devo niśamya karuṇaṃ vacaḥ | svayamaṇḍajarūpo'bhūdyuyudhāte parasparam 36 tadāghātena jalajā mṛtāstīre nipetire| daṃṣṭrābhyāṃ daṃśataḥ smobhau ghnataḥ sma pucchaghātataḥ 37 udaraṃ svodareṇaiva pṛṣṭhaṃ pṛṣṭhena jaghnatuḥ | evaṃ cirataraṃ yuddhaṃ kṛtvā dāruṇamojasā 38 matsyarūpaṃ guṇeśo'tha balājjaghne mukhe mukham | bhagnāsyo bhagnadarpo'sau bhagnanetro'bhavacca saḥ 39 papāla jalamadhye sa pṛṣṭhe'gātsa umāsutaḥ | yatra yatra yayau so'tha tatra tatrāpyasau yayau 2.91.40 kvacillīnaṃ tu taṃ dṛṣṭvā pucchāghātairatāḍayat | tatpucchaṃ tu mukhe dhṛtvā guṇeśo bahirānayat 41 cucūrṇa nijabhāreṇa gatāsuṃ visasarja saḥ | tyajantaṃ rudhiraṃ vaktrānnadantaṃ balavattaram 42 tena śabdena mahatā cakampe bhuvanatrayam | niryayau jalamadhyātsa liliṃgaṃ pārvatīṃ tadā 43 ānandamagnā gaurī taṃ stanapānaṃ mudā dadau | māmapṛṣṭvātha kutra tvaṃ gato'si bālakaiḥ saha 44 yadyadāyāti vighnaṃ te tattaddaivādvinaśyati | marīce rakṣaṇācchambhoḥ kṛpayā jagadīśituḥ 45 kuruṣe kiṃ capalatāṃ rakṣitavyaḥ kathaṃ mayā | tvadviyogānmama prāṇā gamiṣyanti priyārbhaka 46 ka uvāca | tato munigaṇāḥ procustvāṃ vinā duḥkhitā vayama | idānīṃ punarānandaṃ prāptāstvaddarśanādvibho 47 pūpūjurmunayo nānādravyaiḥ sakhyaḥ striyo'pi ca | namaskṛtya guṇeśaṃ taṃ prārthayansarva eva tam 48 vayaṃ tvadīyā deveśa na nastyaktuṃ tvamarhasi | tatomā bālamādāya yayau svasthānamuttamam 49 anantaraṃ gaṇāḥ sakhyo munayo harṣanirbharāḥ | mārgamadhye paraḥ śailanāmā daityo mahābalaḥ 2.91.50 sarvaśatruharo nakradṛḍhāṃgo 'śanināśanaḥ | girīṇāṃ yasya śabdena dāraṇaṃ jāyate kṣaṇāt 51 mārgaṃ nirudhya sahasā saṃsthiro rodasī spṛśat | dviyojanamastako'sāvadho dvādaśayojanaḥ 52 sarastaḍāgā vṛkṣāśca latā yatra vibhānti ca | krīḍanti siṃhaśārdūlā vāraṇā yakṣarākṣasāḥ 53 sarve te vihvalāḥ procuḥ kimidaṃ vighnamutthitam | tadantike sthitā gaurī te'pi sarve sthitāstadā 54 tataste munayaḥ procuḥ kadā drakṣyāma yoṣitaḥ | apatyāni guṇeśasya kadā syādatra vikramaḥ 55 gamiṣyati vathā homakālo'yaṃ naḥ svadhākriyāḥ | gaurī jagāda tānsarvanmiā khedaṃ kartumahaṃtha 56 mamāpi cintā saṃprāptā śaṃkarasya hi jāyate | ka uvāca | śrutvā vākyāni tānyāśu guṇeśo buddhimattaraḥ 57 pragṛhya tu virāḍrūpaṃ śvāsamātrānirākarot | dadṛśurna ca tadrūpaṃ mohitā munayo'pi te58 tacchvāsayogātsa girirbabhrāma gagane tadā | āścarya paramaṃ prāptāḥ sarve te taṃ praśaṃsire 59 vātyāgataṃ yathā patraṃ tato'sau panito bhuvi | sahasradhā'bhavacchailaḥ punarvṛkṣānacūrṇayat 2.91.60 tataste munayaḥ procuḥ sādhu sādhu guṇeśvara | dūrikṛtamariṣṭaṃ naḥ svāśramasthā vayaṃ sukham 61 vasāmastvatprasādena svasvakarmaratā bhṛśam | ka uvāca | evamuktvā ca natvā ca pṛṣṭvā saṃpūjya taṃ yayuḥ 62 pārvatī ca tamādāya viveśa nijamandiram | sakhyaśca munipatnyaśca pṛṣṭvā tāṃ svagṛhaṃ yayuḥ 63 idaṃ yaḥ śṛṇuyānmartyaḥ sarvatra sukhamāpnuyāt | āyurārogyamaiśvaryaṃ sarvatra vijayaṃ tathā 64 (4078)
GnP 2 91.92
तं च सा हस्तघातेन जघान दृढ रोषतः । स रुषा पुनरागत्य ददंशांगुलिमुल्बणम् ४ मुंच मुंच मम प्राणा गमिष्यन्तीति साऽब्रवीत् । दष्ठामंगुलिमुत्सृज्य पपाल दूरतोऽर्भकः ५ अस्रवद्रुधिरं तस्या अंगुलेर्बहुलं भुवि । यथा क्षीरकर्मवृक्षादृढाघातेन पीडितात् ६ ततो यष्टिं समादाय ताडितुं सा सुतं ययौ । धावयित्वा दधारैनं ददर्श शिवरूपिणम् ७ पंचवक्त्रं दशभुजं त्रिनेत्रं शेषशोभितम् । त्रिशूलं डमरुं भस्मरुण्डमालां च बिभ्रतम् ८ वसानं चर्मणी हस्तिव्याघ्रयोः शशिशेखरम् । दृष्ट्वेत्थं लज्जिता यष्टिं तत्याजाधोमुखी शिवा ९ पुरो वा मन्दिरं वापि गन्तुं सा नाशकत्तदा । तच्चिन्तां स परिज्ञाय बभूवार्भकरूपवान् २.९२.१० क्रीडते मुनिपुत्रेषु मुनिबालस्वरूपवान् । अन्वयाद्गिरिजा बालं नापश्यत्तेषु तं सुतम ११ पप्रच्छ तान्मुनिसुतान्मम बालः कुतो गतः । दष्ट्वांगुलीं मदियां तु पपाल चपलोऽर्भकः १२ त ऊचुर्मुनिपुत्रास्तामितो यातोऽर्भकस्तव । ततो जगाम गिरिजा पुरतः पुरतोऽपि च १३ विशीर्णकबरीभारा श्रमघर्मसमन्विता । इतस्ततो धावमाना स्रस्तवस्त्रांचला शिवा । तस्याः श्रमं स विज्ञाय ययौ पूर्वस्वरूपवान् १४ तदन्तिकं दधारैनं हस्ताभ्यां गिरिजा दृढम् । स्वीयांचलेन त बद्ध्वा ययौ हृष्टा स्वमन्दिरम १५ उवाच रोषात्सम्यक्त्वं मम हस्ते समागतः । अपस्मारातिचपल मारयिष्येऽधुना भृशम् १६ शम्भवे वा निवेदिष्ये स त्वां वा ताडयिष्यति । श्रुत्वेत्थं वचनं मातुर्लुलुण्ठ धरणीतले १७ निःसृतं बन्धनं ज्ञात्वा पपाल त्वरया पुनः । पुनर्धावति सा पृष्ठे दुःखिता भृशविह्वला १८ एतस्मिन्नन्तरे दुष्टो दानवः कर्दमासुरः। द्विजरूपधरो मालां दधानो दक्षिणे करे १९ कमण्डलुं वारिपूर्णं भस्मोद्धूलितविग्रहः । अरुणार्कनिभे वस्त्रे वसानो मायिको भृशम् २.९२.२० स ऊचे वचनं बालं किमर्थं त्वं पलायसे । त्वद्भीतेर्वारणं सद्यः करिष्येऽहं न संशयः २१ नेष्ये त्वां यत्र ते माता न जानीयात्कथंचन । न च कालभयं तत्र न चान्यद्भयमण्वपि २२ क उवाच । तमुवाचार्भको भीतस्तथा कुरु यथा मम । न पश्येज्जननी तातः शरणं त्वामुपागतः २३ एवं वदति यावत्तु ययौ बालस्वभावतः । गिगील तावदेवासौ तं दुष्टः कर्दमासुरः २४ रम्भाफलस्य पक्वस्य खण्डं कोमलमर्भकम् । तत्पादपद्मचिह्नानि भमौ दृष्ट्वा ययौ शिवा २५ द्विजं ददर्श पुरतोऽपृच्छत्तं च ततोऽर्भकम् । स्वामिंस्त्वया मम सुत इतो गच्छन्निरीक्षितः २६ इमानि पदपद्मानि चिह्नयुक्तानि पश्य भोः । इदानीं धावमानः स कुत्र गुप्तोऽभ वद्द्विज २७ ततस्तामब्रवीद्विप्रो दुखितां तद्धियोगतः। द्विज उवाच । किं नः प्रयोजनं मातस्तनयेन तवानघे २८ उदासीनतया मातस्तिष्ठतामीशचेतसाम् । तथापि नैव दृष्टस्ते तनयः क्वापि शैलजे २९ तनयः किं त्वया देवि मदधीनः कृतोऽभवत्। क उवाच । एवं वदति तस्मिंस्तु दुःखितां वीक्ष्य शैलजाम् २.९२.३० आविरासीन्निर्विकारस्तन्मुखात् स गुणेश्वरः । सा प्राह तनयं दृष्ट्वा कथं मिथ्या ब्रवीषि रे ३१ तवैव निकटे पुत्रो दृष्टोऽयं गोपितस्त्वया। सन्तः प्राणात्यये प्राप्ते न भाषन्तेऽनृतं क्वचित ३२ क उवाच । इति तस्या वचः श्रुत्वा स दैत्यो दीर्घदेहवान् । व्योमस्पृङमस्तको बालमादाय निर्ययौ ततः ३३ ततः सा पृष्ठतो लग्ना क्रन्दन्ती तनयं शिवा । गुणेशोऽपि ततो दध्रे तस्माद्दीर्घंतरं वपुः ३४ दृष्ट्वा दुःखं जनन्यास्तु प्रशोचन्त्या मुहुर्मुहुः । तद्देहं शतधा कृत्वा चुचूर्णाङ्घ्रिविघाततः ३५ पतमानोऽपि तद्देहश्चूर्णयामास शाखिनः । जनन्या अग्रतस्तस्थौ संहृत्यैवं तु दानवम् ३६ गुणेशो मुनयो देवास्तत्पन्योऽथ समागताः। ऊचुस्तां पार्वतीं विध्नाः कियन्तोऽस्य भवन्ति हि ३७ त एव नाशमायान्ति तव पुण्यात्सुरेश्वरि । सर्वैस्तैः पूजितं बालं गृहीत्वा स्वकटौ शिवा ३८ गृहं जगाम तैस्ताभिर्हर्षनिर्भरमानसा । पुरामरगणांज्जित्वा गरुत्मानमृतं यथा ३९ उत्ततार शिवा बालं स्वांगणे कटिदेशतः । स तु मूर्छागतो लुंठन्धरण्यां च पुनः पुनः २.९२.४० वारं वारं ददौ जृम्भां प्रसार्य मुखपंकजम् । किं जातमधुनैवास्य धावयित्वा ययौ शिवा ४१ मुखमध्ये ददर्शास्य विश्वं विश्वस्वरूपिणः । सप्तद्वीपां वसुमतीं पुरग्रामवनाकरान् ४२ ब्रह्माणं भास्करं शेषं विष्णुं पर्वतसागरान् । गन्धर्वान्यक्षरक्षांसि मुनिपक्षिगणानपि । नदीवापीतडागानि मनूनष्टौ वसूनपि ४३ शशिसूर्यानलोडूनि सचेतनमचेतनम् । पातालान्यपि सप्तानि स्वर्गानप्येकविंशतीन् ४४ एवं त्रिभुवनं दृष्ट्वा मुमूर्छ गिरिजा तदा । निमील्य नयने भ्रान्ता मुहूर्तद्वयमास्थिता ४५ शिवं सस्मार मनसा सावधाना ततोऽभवत । यथा पूर्वस्थितं बालं पश्यति स्म पुरःस्थितम् ४६ ततस्तं परितुष्टाव तत्प्रसादप्रसन्नधीः । पार्वत्युवाच । परमात्मा त्वमेवासि चराचरगुरुर्भवान् ४७ चिदानन्दघनो नित्यो नित्यानित्यस्वरूपवान् । त्वत्कुक्षौ परिदुष्टानि भुवनानि चतुर्दश ४८ देवा यक्षाश्च रक्षांसि सरितो वृक्षसंचयाः । सर्वं चराचरं दृष्टं मया वक्तुं न शक्यते ४९ भ्रान्ताऽहं पतितं भूमौ सावधाना शिवस्मृतेः । जाताऽहं बालरूपेणापश्यं त्वां प्राकृतं शिशुम २.९२.५० क उवाच । एवं स्तुवत्यां तस्यां तु मायामाविश्चकार सः । लालयित्वा कटौ गृह्य स्तनपानं ददौ शिवा ५१ गृहं प्रविष्टा गिरिजा गृहकार्यरताऽभवत् । मुनयो मुनिपत्न्यश्च ययुः स्वं स्वं निवेशनम् ५२ इदमाख्यानकं श्रुत्वा सर्वपापैः प्रपुच्यते ५३ (४१३१)
taṃ ca sā hastaghātena jaghāna dṛḍha roṣataḥ | sa ruṣā punarāgatya dadaṃśāṃgulimulbaṇam 4 muṃca muṃca mama prāṇā gamiṣyantīti sā'bravīt | daṣṭhāmaṃgulimutsṛjya papāla dūrato'rbhakaḥ 5 asravadrudhiraṃ tasyā aṃgulerbahulaṃ bhuvi | yathā kṣīrakarmavṛkṣādṛḍhāghātena pīḍitāt 6 tato yaṣṭiṃ samādāya tāḍituṃ sā sutaṃ yayau | dhāvayitvā dadhārainaṃ dadarśa śivarūpiṇam 7 paṃcavaktraṃ daśabhujaṃ trinetraṃ śeṣaśobhitam | triśūlaṃ ḍamaruṃ bhasmaruṇḍamālāṃ ca bibhratam 8 vasānaṃ carmaṇī hastivyāghrayoḥ śaśiśekharam | dṛṣṭvetthaṃ lajjitā yaṣṭiṃ tatyājādhomukhī śivā 9 puro vā mandiraṃ vāpi gantuṃ sā nāśakattadā | taccintāṃ sa parijñāya babhūvārbhakarūpavān 2.92.10 krīḍate muniputreṣu munibālasvarūpavān | anvayādgirijā bālaṃ nāpaśyatteṣu taṃ sutama 11 papraccha tānmunisutānmama bālaḥ kuto gataḥ | daṣṭvāṃgulīṃ madiyāṃ tu papāla capalo'rbhakaḥ 12 ta ūcurmuniputrāstāmito yāto'rbhakastava | tato jagāma girijā purataḥ purato'pi ca 13 viśīrṇakabarībhārā śramagharmasamanvitā | itastato dhāvamānā srastavastrāṃcalā śivā | tasyāḥ śramaṃ sa vijñāya yayau pūrvasvarūpavān 14 tadantikaṃ dadhārainaṃ hastābhyāṃ girijā dṛḍham | svīyāṃcalena ta baddhvā yayau hṛṣṭā svamandirama 15 uvāca roṣātsamyaktvaṃ mama haste samāgataḥ | apasmārāticapala mārayiṣye'dhunā bhṛśam 16 śambhave vā nivediṣye sa tvāṃ vā tāḍayiṣyati | śrutvetthaṃ vacanaṃ māturluluṇṭha dharaṇītale 17 niḥsṛtaṃ bandhanaṃ jñātvā papāla tvarayā punaḥ | punardhāvati sā pṛṣṭhe duḥkhitā bhṛśavihvalā 18 etasminnantare duṣṭo dānavaḥ kardamāsuraḥ| dvijarūpadharo mālāṃ dadhāno dakṣiṇe kare 19 kamaṇḍaluṃ vāripūrṇaṃ bhasmoddhūlitavigrahaḥ | aruṇārkanibhe vastre vasāno māyiko bhṛśam 2.92.20 sa ūce vacanaṃ bālaṃ kimarthaṃ tvaṃ palāyase | tvadbhītervāraṇaṃ sadyaḥ kariṣye'haṃ na saṃśayaḥ 21 neṣye tvāṃ yatra te mātā na jānīyātkathaṃcana | na ca kālabhayaṃ tatra na cānyadbhayamaṇvapi 22 ka uvāca | tamuvācārbhako bhītastathā kuru yathā mama | na paśyejjananī tātaḥ śaraṇaṃ tvāmupāgataḥ 23 evaṃ vadati yāvattu yayau bālasvabhāvataḥ | gigīla tāvadevāsau taṃ duṣṭaḥ kardamāsuraḥ 24 rambhāphalasya pakvasya khaṇḍaṃ komalamarbhakam | tatpādapadmacihnāni bhamau dṛṣṭvā yayau śivā 25 dvijaṃ dadarśa purato'pṛcchattaṃ ca tato'rbhakam | svāmiṃstvayā mama suta ito gacchannirīkṣitaḥ 26 imāni padapadmāni cihnayuktāni paśya bhoḥ | idānīṃ dhāvamānaḥ sa kutra gupto'bha vaddvija 27 tatastāmabravīdvipro dukhitāṃ taddhiyogataḥ| dvija uvāca | kiṃ naḥ prayojanaṃ mātastanayena tavānaghe 28 udāsīnatayā mātastiṣṭhatāmīśacetasām | tathāpi naiva dṛṣṭaste tanayaḥ kvāpi śailaje 29 tanayaḥ kiṃ tvayā devi madadhīnaḥ kṛto'bhavat| ka uvāca | evaṃ vadati tasmiṃstu duḥkhitāṃ vīkṣya śailajām 2.92.30 āvirāsīnnirvikārastanmukhāt sa guṇeśvaraḥ | sā prāha tanayaṃ dṛṣṭvā kathaṃ mithyā bravīṣi re 31 tavaiva nikaṭe putro dṛṣṭo'yaṃ gopitastvayā| santaḥ prāṇātyaye prāpte na bhāṣante'nṛtaṃ kvacita 32 ka uvāca | iti tasyā vacaḥ śrutvā sa daityo dīrghadehavān | vyomaspṛṅamastako bālamādāya niryayau tataḥ 33 tataḥ sā pṛṣṭhato lagnā krandantī tanayaṃ śivā | guṇeśo'pi tato dadhre tasmāddīrghaṃtaraṃ vapuḥ 34 dṛṣṭvā duḥkhaṃ jananyāstu praśocantyā muhurmuhuḥ | taddehaṃ śatadhā kṛtvā cucūrṇāṅghrivighātataḥ 35 patamāno'pi taddehaścūrṇayāmāsa śākhinaḥ | jananyā agratastasthau saṃhṛtyaivaṃ tu dānavam 36 guṇeśo munayo devāstatpanyo'tha samāgatāḥ| ūcustāṃ pārvatīṃ vidhnāḥ kiyanto'sya bhavanti hi 37 ta eva nāśamāyānti tava puṇyātsureśvari | sarvaistaiḥ pūjitaṃ bālaṃ gṛhītvā svakaṭau śivā 38 gṛhaṃ jagāma taistābhirharṣanirbharamānasā | purāmaragaṇāṃjjitvā garutmānamṛtaṃ yathā 39 uttatāra śivā bālaṃ svāṃgaṇe kaṭideśataḥ | sa tu mūrchāgato luṃṭhandharaṇyāṃ ca punaḥ punaḥ 2.92.40 vāraṃ vāraṃ dadau jṛmbhāṃ prasārya mukhapaṃkajam | kiṃ jātamadhunaivāsya dhāvayitvā yayau śivā 41 mukhamadhye dadarśāsya viśvaṃ viśvasvarūpiṇaḥ | saptadvīpāṃ vasumatīṃ puragrāmavanākarān 42 brahmāṇaṃ bhāskaraṃ śeṣaṃ viṣṇuṃ parvatasāgarān | gandharvānyakṣarakṣāṃsi munipakṣigaṇānapi | nadīvāpītaḍāgāni manūnaṣṭau vasūnapi 43 śaśisūryānaloḍūni sacetanamacetanam | pātālānyapi saptāni svargānapyekaviṃśatīn 44 evaṃ tribhuvanaṃ dṛṣṭvā mumūrcha girijā tadā | nimīlya nayane bhrāntā muhūrtadvayamāsthitā 45 śivaṃ sasmāra manasā sāvadhānā tato'bhavata | yathā pūrvasthitaṃ bālaṃ paśyati sma puraḥsthitam 46 tatastaṃ parituṣṭāva tatprasādaprasannadhīḥ | pārvatyuvāca | paramātmā tvamevāsi carācaragururbhavān 47 cidānandaghano nityo nityānityasvarūpavān | tvatkukṣau pariduṣṭāni bhuvanāni caturdaśa 48 devā yakṣāśca rakṣāṃsi sarito vṛkṣasaṃcayāḥ | sarvaṃ carācaraṃ dṛṣṭaṃ mayā vaktuṃ na śakyate 49 bhrāntā'haṃ patitaṃ bhūmau sāvadhānā śivasmṛteḥ | jātā'haṃ bālarūpeṇāpaśyaṃ tvāṃ prākṛtaṃ śiśuma 2.92.50 ka uvāca | evaṃ stuvatyāṃ tasyāṃ tu māyāmāviścakāra saḥ | lālayitvā kaṭau gṛhya stanapānaṃ dadau śivā 51 gṛhaṃ praviṣṭā girijā gṛhakāryaratā'bhavat | munayo munipatnyaśca yayuḥ svaṃ svaṃ niveśanam 52 idamākhyānakaṃ śrutvā sarvapāpaiḥ prapucyate 53 (4131)
GnP 2 91.93
अध्याय ९३ प्रारंभ :- क उवाच । ततस्तु पंचमे वर्षे प्रवृत्ते मुनिबालकाः । उषःकाले गुणेशस्य समागम्य गृहं प्रति १ प्रातःकाले कथं शेषे प्रोत्तिष्ठोत्तिष्ठ हे सखे । उत्थापय निजं बालमित्यूचुस्ते शिवामपि २ तानुवाच शिवा वाक्यं निद्रा वो न समागता । क्रीडायामेव सक्तानां चपलानां दिवानिशम् ३ कथं याहीत्यनुदिते निर्लज्जा मूढभावत । त ऊचुः । मातर्न तव वाक्येन कोपो नो जायते क्वचित् ४ वयं ते बालकाः किं न त्वं वा नो जननी न किम् । अस्मिंस्तव शिशौ सक्तं सर्वेषां मानसं सदा ५ एनं पश्याम पुरतो दिवानक्तं निरन्तरम् । विनैनं च समाधानं न नश्चेतसि जायते ६ श्रुत्वा वाक्यानि तेषां तु प्रोदतिष्ठत्तदा शिशुः । लिलिंग बहिरागत्य गुणेशस्तैः परस्परम् ७ ययुर्बहिर्मुदा युक्ता धृत्वा हस्तान्परस्परम् । द्विभागीभूय चिक्रीडुर्नानायुद्धविचेष्टितैः ८ मस्तकं मस्तकेनैव वक्षसा वक्ष एव च । बाहुभ्यां चैव बाहू च निजघ्नुस्ते परस्परम् ९ जलेन रजसा चैव कन्दुकैर्मुष्टिभिस्तथा। कर्दमैर्गोमयैः केचिदान्दोलनविकर्षणैः २.९३.१० कोलाहलं प्रकुर्वन्तः शृंगवंशरवानपि । दैत्यभूता जयं प्रापुर्देवभूताः पराजयम् ११ एवं युध्यत्सु तेष्वेवं खड्गनामा महासुरः । आययावुष्टरूपेण विशालेन नभस्पृशा १२ पुच्छवातेन महता पतिता वृक्षसंचयाः । शूलदन्तो ललज्जिह्वः पादेनामर्दयन्दिशः १३ स महान्तं रवं कृत्वा तमधावद्गुणेश्वरम् । प्रतिशब्देन सहसा नादयन्विदिशो दिशः १४ तं दृष्ट्वा विद्रुताः सर्वे मुनिपुत्रा भयातुराः । धाव धावेति तं बालं चुक्रुशुः केचिदर्भकाः १५ तेषामाक्रन्दितं श्रुत्वा सहसा स गुणेश्वरः । कृत्वा महत्तरं रूपमुड्डीय तं जघान ह १६ मुष्टिघातेन शिरसि वज्रेणेव महाचलम् । स भिन्नहृदयो दुष्टो वमन्रक्तं मुखाद्बहु १७ कृत्वा घोरं महाशब्दं पतितो धरणीतले । विचाल्य चरणग्रीवामाक्रन्द्य च पुनः पुनः १८ स्वीयं देहं समास्थाय तत्याज जीवितं क्षणात् । दशाष्टयोजनायामः पातयन्वृक्षसंचयान् १९ उदुद्धूल रजो भौमं गगनं प्रावृतं क्षणात् । तद्देहपातात्पतिता जन्तवोऽथ पतत्रिणः २.९३.२० तं तथा पतितं दृष्ट्वा सर्व एव कुमारकाः । साघु साधु शिवापुत्र महादैत्यो निपातितः २१ दृष्ट्वा महान्तं तं दैत्यं वयं भीत्या पलायिताः । कथं त्वया महादैत्यः पौरुषेण कनीयसा २२ हतोऽयं विस्मिताः सर्वे पुनस्ते समुपागताः । इत्युक्त्वा ते पुनः क्रीडां चक्रुः सर्वे यथा पुरा २३ कषंयन्तोऽङघ्रिकमले धृत्वा केचित्परस्परम् । ततस्तस्य सखा प्रायान्मृतप्रतिकृतीच्छया २४ छायारूपं समास्थाय महाबलपराक्रमः । पादाघातेन तस्याशु चकम्पे शेषविग्रहः २५ व्योमस्पृङ्मस्तको दुष्टो गुणेशपृष्ठतो ययौ । छायां तदीयामाविश्य पातयामास तं तदा २६ इतरेषामदृश्योऽसौ मायावी बलवत्तरः । यथा यथा नृत्यते स तथा दैत्योऽपि नृत्यति २७ तं पतन्तं गुणेशं ते निरीक्ष्य मुनिबालकाः । ऊचुस्तं धाविताः केचित्केचिच्च दुःखिता भृशम् २८ कथं वा पतसे नाथ क्व सामर्थ्यं गतं तव। वारंवारं स्खलसि किं प्रियेषु च सखिष्वपि २९ ततो बालो ददर्शाशु दशदिक्षु समन्ततः : सामर्थ्यादग्रतो यातुमियेष नाशकच्च सः २.९३.३० पुनश्च प्रणिधानेन समन्तादवलोकयन् । छायाप्रविष्टं तं दैत्यं ज्ञातवान्स गुणेश्वरः ३१ गण्डशैलं समादाय प्राक्षिपच्चोदरेऽस्य ह । उपरिष्टान्ननर्तासौ स मृतश्चूर्णतां गतः ३२ अन्तकाले महद्रूपं समास्थाय निजं खलः । चूर्णयामास वृक्षान्सपर्वतान्प्राणिसंचयान् ३३ तन्मेदसा च रक्तेन धरणी च गुणेश्वरः । रक्ततां समनुप्राप्तौ वसन्ते किंशुकाविव ३४ एवं तं विनिहत्त्याशु गुणेशो लीलयाऽरमत् । तत एको वृषस्कन्धः सूकरास्यो गजोदरः ३५ गण्डशैला रज इव श्वासादस्य चलन्ति च । चंचलाख्यो महादैत्यो बालरूपधरोऽविशत् ३६ तेषु नानाविधाः क्रीडा दर्शयामास लाघवात् । महाबलो महामायः पोधयामास कांश्चन ३७ चरणं कस्यचिद्धृत्वा चकर्ष मुनिबालकम् । उभौ करौ विधृत्वैव कस्यचिन्मस्तकेऽहनत् ३८ यस्य नृत्ये धरा सर्वा कम्पते स्म सपर्वता । ते धर्मे मृत्तिकां सर्वे चर्चयन्ति स्वविग्रहे ३९ सोऽपि चर्चयते स्वांगं चन्दनेनेव भाग्यवान् । ततस्ते कन्दुकं कृत्वा तेन क्रीडामथारभन् २.९३.४० कन्दुको व्योममार्गस्यो बालत्यक्तोऽस्पृशत्करम् । कृत्वा श्ववच्च तं बालमारोहेत्स स कन्दुकः ४१ आरोहको बलाद्भूमौ निक्षिपेत्तं च कन्दकम् । अपरो धास्येदूर्ध्वमागतं सोऽपि वा पुनः ४२ यद्धस्ते कन्दुक: सोऽथ बालमारुह्य तं त्यजेत् । भूमौ निपतितं बालमादाय तेन ताडयेत् ४३ तेषु मध्ये पलायत्सु यस्य लग्नः स कन्दुकः । तेनापि व्योममार्गस्थः कार्यो यस्य करं स्पृशेत् ४४ हस्ते नायाति चेत्सोऽपि व्योमगं तं तु कारयेत् । येन हस्ते धृतः सोऽमुमारुहय पूर्ववत्क्षिपेत् ४५ कदाचित्कन्दुकः क्षिप्तो गुणेशेन च व्योमनि । चंचलेन धृतो हस्ते तमारूढस्तदाऽसुरा ४६ भारेणाक्रम्य तं देवमुवाच दुष्टदानवः । सहस्व भारं मे दुष्ट वल्गसेऽर्भकसंचये ४७ त्यक्तं त्यक्तं कन्दुकं स गृह्णाति स्वकरे पुनः । मुहुर्तद्वयमेवं हि चिक्रीडे दुष्टदानवः४८ प्राहसन्मुनिबालास्ते गुणेशं तं तथागतम् । ततो गुणेशो दैत्यं तमारूढो दृढविक्रमः ४९ चंचलश्चंचलो जातो नेतुं दूरे मुदान्वितः। व्योममार्गेण सहसा बाला भूमिगता ययुः२.९३.५० विमानवत्पक्षिवच्च स जगाम त्वरान्वितः। ततो निवृत्तास्ते बालाः शोचमाना ययुर्ग़ृहान् ५१ स्थितास्तत्रैव केचिच्च प्रतीक्षन्तो गुणेश्वरम् । ततो गुणेशस्तं ज्ञात्वा मनसा दुष्टदानवम् ५२ हिमवत्सदृशं भारं चकार सहसा विभुः । भारेण पतितो दैत्यः प्रावदत्तं गुणेश्वरम् ५३ उत्तरस्व महाभारं गमिष्यन्ति ममासवः । दयां कुरुश्व दीने त्वं प्रपन्ने शरणं तव ५४ एवं वदन्मुमूर्च्छासौ ततो बालो दधार तम् । भ्रामयामास बहुशो गरुडो भुजगं यथा ५५ तत्याज दूरदेशे तं चंचलं दुष्टदानवम् ५६ (४१८७)
adhyāya 93 prāraṃbha :- ka uvāca | tatastu paṃcame varṣe pravṛtte munibālakāḥ | uṣaḥkāle guṇeśasya samāgamya gṛhaṃ prati 1 prātaḥkāle kathaṃ śeṣe prottiṣṭhottiṣṭha he sakhe | utthāpaya nijaṃ bālamityūcuste śivāmapi 2 tānuvāca śivā vākyaṃ nidrā vo na samāgatā | krīḍāyāmeva saktānāṃ capalānāṃ divāniśam 3 kathaṃ yāhītyanudite nirlajjā mūḍhabhāvata | ta ūcuḥ | mātarna tava vākyena kopo no jāyate kvacit 4 vayaṃ te bālakāḥ kiṃ na tvaṃ vā no jananī na kim | asmiṃstava śiśau saktaṃ sarveṣāṃ mānasaṃ sadā 5 enaṃ paśyāma purato divānaktaṃ nirantaram | vinainaṃ ca samādhānaṃ na naścetasi jāyate 6 śrutvā vākyāni teṣāṃ tu prodatiṣṭhattadā śiśuḥ | liliṃga bahirāgatya guṇeśastaiḥ parasparam 7 yayurbahirmudā yuktā dhṛtvā hastānparasparam | dvibhāgībhūya cikrīḍurnānāyuddhaviceṣṭitaiḥ 8 mastakaṃ mastakenaiva vakṣasā vakṣa eva ca | bāhubhyāṃ caiva bāhū ca nijaghnuste parasparam 9 jalena rajasā caiva kandukairmuṣṭibhistathā| kardamairgomayaiḥ kecidāndolanavikarṣaṇaiḥ 2.93.10 kolāhalaṃ prakurvantaḥ śṛṃgavaṃśaravānapi | daityabhūtā jayaṃ prāpurdevabhūtāḥ parājayam 11 evaṃ yudhyatsu teṣvevaṃ khaḍganāmā mahāsuraḥ | āyayāvuṣṭarūpeṇa viśālena nabhaspṛśā 12 pucchavātena mahatā patitā vṛkṣasaṃcayāḥ | śūladanto lalajjihvaḥ pādenāmardayandiśaḥ 13 sa mahāntaṃ ravaṃ kṛtvā tamadhāvadguṇeśvaram | pratiśabdena sahasā nādayanvidiśo diśaḥ 14 taṃ dṛṣṭvā vidrutāḥ sarve muniputrā bhayāturāḥ | dhāva dhāveti taṃ bālaṃ cukruśuḥ kecidarbhakāḥ 15 teṣāmākranditaṃ śrutvā sahasā sa guṇeśvaraḥ | kṛtvā mahattaraṃ rūpamuḍḍīya taṃ jaghāna ha 16 muṣṭighātena śirasi vajreṇeva mahācalam | sa bhinnahṛdayo duṣṭo vamanraktaṃ mukhādbahu 17 kṛtvā ghoraṃ mahāśabdaṃ patito dharaṇītale | vicālya caraṇagrīvāmākrandya ca punaḥ punaḥ 18 svīyaṃ dehaṃ samāsthāya tatyāja jīvitaṃ kṣaṇāt | daśāṣṭayojanāyāmaḥ pātayanvṛkṣasaṃcayān 19 ududdhūla rajo bhaumaṃ gaganaṃ prāvṛtaṃ kṣaṇāt | taddehapātātpatitā jantavo'tha patatriṇaḥ 2.93.20 taṃ tathā patitaṃ dṛṣṭvā sarva eva kumārakāḥ | sāghu sādhu śivāputra mahādaityo nipātitaḥ 21 dṛṣṭvā mahāntaṃ taṃ daityaṃ vayaṃ bhītyā palāyitāḥ | kathaṃ tvayā mahādaityaḥ pauruṣeṇa kanīyasā 22 hato'yaṃ vismitāḥ sarve punaste samupāgatāḥ | ityuktvā te punaḥ krīḍāṃ cakruḥ sarve yathā purā 23 kaṣaṃyanto'ṅaghrikamale dhṛtvā kecitparasparam | tatastasya sakhā prāyānmṛtapratikṛtīcchayā 24 chāyārūpaṃ samāsthāya mahābalaparākramaḥ | pādāghātena tasyāśu cakampe śeṣavigrahaḥ 25 vyomaspṛṅmastako duṣṭo guṇeśapṛṣṭhato yayau | chāyāṃ tadīyāmāviśya pātayāmāsa taṃ tadā 26 itareṣāmadṛśyo'sau māyāvī balavattaraḥ | yathā yathā nṛtyate sa tathā daityo'pi nṛtyati 27 taṃ patantaṃ guṇeśaṃ te nirīkṣya munibālakāḥ | ūcustaṃ dhāvitāḥ kecitkecicca duḥkhitā bhṛśam 28 kathaṃ vā patase nātha kva sāmarthyaṃ gataṃ tava| vāraṃvāraṃ skhalasi kiṃ priyeṣu ca sakhiṣvapi 29 tato bālo dadarśāśu daśadikṣu samantataḥ : sāmarthyādagrato yātumiyeṣa nāśakacca saḥ 2.93.30 punaśca praṇidhānena samantādavalokayan | chāyāpraviṣṭaṃ taṃ daityaṃ jñātavānsa guṇeśvaraḥ 31 gaṇḍaśailaṃ samādāya prākṣipaccodare'sya ha | upariṣṭānnanartāsau sa mṛtaścūrṇatāṃ gataḥ 32 antakāle mahadrūpaṃ samāsthāya nijaṃ khalaḥ | cūrṇayāmāsa vṛkṣānsaparvatānprāṇisaṃcayān 33 tanmedasā ca raktena dharaṇī ca guṇeśvaraḥ | raktatāṃ samanuprāptau vasante kiṃśukāviva 34 evaṃ taṃ vinihattyāśu guṇeśo līlayā'ramat | tata eko vṛṣaskandhaḥ sūkarāsyo gajodaraḥ 35 gaṇḍaśailā raja iva śvāsādasya calanti ca | caṃcalākhyo mahādaityo bālarūpadharo'viśat 36 teṣu nānāvidhāḥ krīḍā darśayāmāsa lāghavāt | mahābalo mahāmāyaḥ podhayāmāsa kāṃścana 37 caraṇaṃ kasyaciddhṛtvā cakarṣa munibālakam | ubhau karau vidhṛtvaiva kasyacinmastake'hanat 38 yasya nṛtye dharā sarvā kampate sma saparvatā | te dharme mṛttikāṃ sarve carcayanti svavigrahe 39 so'pi carcayate svāṃgaṃ candaneneva bhāgyavān | tataste kandukaṃ kṛtvā tena krīḍāmathārabhan 2.93.40 kanduko vyomamārgasyo bālatyakto'spṛśatkaram | kṛtvā śvavacca taṃ bālamārohetsa sa kandukaḥ 41 ārohako balādbhūmau nikṣipettaṃ ca kandakam | aparo dhāsyedūrdhvamāgataṃ so'pi vā punaḥ 42 yaddhaste kanduka: so'tha bālamāruhya taṃ tyajet | bhūmau nipatitaṃ bālamādāya tena tāḍayet 43 teṣu madhye palāyatsu yasya lagnaḥ sa kandukaḥ | tenāpi vyomamārgasthaḥ kāryo yasya karaṃ spṛśet 44 haste nāyāti cetso'pi vyomagaṃ taṃ tu kārayet | yena haste dhṛtaḥ so'mumāruhaya pūrvavatkṣipet 45 kadācitkandukaḥ kṣipto guṇeśena ca vyomani | caṃcalena dhṛto haste tamārūḍhastadā'surā 46 bhāreṇākramya taṃ devamuvāca duṣṭadānavaḥ | sahasva bhāraṃ me duṣṭa valgase'rbhakasaṃcaye 47 tyaktaṃ tyaktaṃ kandukaṃ sa gṛhṇāti svakare punaḥ | muhurtadvayamevaṃ hi cikrīḍe duṣṭadānavaḥ48 prāhasanmunibālāste guṇeśaṃ taṃ tathāgatam | tato guṇeśo daityaṃ tamārūḍho dṛḍhavikramaḥ 49 caṃcalaścaṃcalo jāto netuṃ dūre mudānvitaḥ| vyomamārgeṇa sahasā bālā bhūmigatā yayuḥ2.93.50 vimānavatpakṣivacca sa jagāma tvarānvitaḥ| tato nivṛttāste bālāḥ śocamānā yayurga़ṛhān 51 sthitāstatraiva kecicca pratīkṣanto guṇeśvaram | tato guṇeśastaṃ jñātvā manasā duṣṭadānavam 52 himavatsadṛśaṃ bhāraṃ cakāra sahasā vibhuḥ | bhāreṇa patito daityaḥ prāvadattaṃ guṇeśvaram 53 uttarasva mahābhāraṃ gamiṣyanti mamāsavaḥ | dayāṃ kuruśva dīne tvaṃ prapanne śaraṇaṃ tava 54 evaṃ vadanmumūrcchāsau tato bālo dadhāra tam | bhrāmayāmāsa bahuśo garuḍo bhujagaṃ yathā 55 tatyāja dūradeśe taṃ caṃcalaṃ duṣṭadānavam 56 (4187)
GnP 2 91.95
अध्याय ९५ प्रारंभ :- क उवाच । षष्ठे वर्षे प्रवृत्ते तु क्वचिद्यातो बहिः शिशुः । उमाया बालकैः सार्द्धं चिक्रीडानेकधा पुनः १ तं दिदृक्षुर्विश्वकर्मा ययावन्तर्गृहं प्रति । पार्वती बहिरागत्य मानयामास तं बहु २ चित्रासने समावेश्य पूजयामास सादरम् । प्रक्षाल्य चरणौ प्रादाद्गन्धं ताम्बूलमेव च ३ ततस्तदादरं दृष्ट्वा विश्वकर्मा तुतोष ह । तुष्टाव परया भक्त्या प्रणिपत्य शिवां मुदा ४ विश्वकर्मोवाच । ननामि विश्वेश्वरि विश्वरूपे ब्रह्मेन्द्ररुद्रार्यमविष्णुरूपे । त्वया ततं विश्वमनन्तशक्ते ब्रह्मादिदेवैरभिनन्द्यरूपे ५ त्वमेव विश्वं रजसा विधत्से सत्त्वेन मातः परि पासि तच्च । त्वमेव सर्वं तमसाथ हंसि त्रैगुण्यमेतत्तव नित्यरूपम् ६ त्वया हता दैत्यगणा विमुक्तिं ब्रह्मर्षयो ज्ञानबलात्प्रपन्नाः। त्वमेव विष्णोरतुलाऽसि शक्तिः सर्वस्य हेतुः परमाऽसि माया ७ सतोऽसतो यापि परासि शक्तिश्चराचरं त्वं विदधासि विश्वम्। संमोह्य लोकान्सकलान्सुरेशान्काष्ठाकलाभिश्च ददासि भोगम् ८ ये त्वां प्रपन्ना न भयं तु तेषां मृत्योस्तथा दैत्यकृतं कदाचित ९ त्वमेव लक्ष्मीः सुकृतामलक्ष्मीर्दुष्टात्मनां त्वं प्रमदास्वरूपा। विद्यास्वरूपासि जगत्त्रये त्वं प्रभास्वरूपा शशिसूर्ययोत्स्वम् २.९५.१० य आश्रितास्ते जगदास्र्वयास्ते विपत्तिलेशो न च तेषु मातः । त्वमेव विश्वेश्वरि विश्वमेत्तद्धरस्यथाप्यायसि वारिरूपा ११ अनादिमध्यानिधनाप्यगम्या हरीशलोकेशसुरेश्वराणाम् । तेऽनुग्रहात्त्वा प्रभजन्ति भक्ता आनन्दरूपा निवसन्ति नाके १२ अभक्तिकामान्विनिहंसि रुष्टा त्वामेव मातः शरणं प्रपन्नः । धन्ये ममैते नयनेऽथ विद्या जनुश्च माता पितृवंश एव १३ कुलं च धन्यं चरणौ त्वदीयौ दृष्टौ यतस्ते जगदम्बिके मया । क उवाच । एवं स्तुता जगन्माता वरमस्मै न्यवेदयत् १४ सं वव्रे परमा भक्तिं सा तथेति तमब्रवीत् । इदं स्तोत्रं पठेद्यस्तु सर्वान्कामाँल्लभेच्च सः १५ सर्वत्र विजयं पुष्टिं विद्यामायुः सुखं शिवम् । शिवोवाच । विश्वकर्मन्महाबुद्धे ज्ञानवानसि सर्वत: १६ यच्छ तं शिववाक्येन दृष्टं तत्सकलं त्वयि । सिन्धुना पीडिता देवाः सर्वे कारागृहे स्थिताः १७ शिवश्चात्र समायातः कैलासे तु हृते सति । दण्डकारण्यदेशेऽत्र कोऽप्याप्तो न हि दृश्यते १८ त्वं तु सम्यक् समायातो बहुकालेन दर्शनम् । विश्वकर्मोवाच । किमाश्चर्यं जगन्मातर्बालो मातरमाव्रजेत् १९ द्रष्टुं देवं महाभक्तो विद्याकामो गुरुं शिवे । पुत्रस्य ते श्रुतो मातर्महिमा परमाद्भुतः २.९५.२० तमहं द्रष्टुमायातो युवयोर्दर्शनोत्सुकः । क उवाच । एवं तयोस्तु वदतोरागतोऽसौ विनायकः २१ असंख्यशशिसंकाशो रजसाऽरुणविग्रहः । प्रसन्नवदनो बालसमूहपरिवारितः २२ तन्मध्य शोभते स्मासौ मरुन्मध्ये यथा हरिः । तं दृष्ट्वा प्रणिपत्यासौ कृतांजलिपुटः स्थितः २३ तुष्टाव परमात्मानं ज्ञात्वा तं गिरिजासुतम् । विश्वकर्मोवाच । नमामि परमात्मानं सच्चिदानन्दविग्रहम २४ चराचरगुरुं सर्वकारणानां च कारणम् । गुणेशं च गुणातीतं सृष्टिस्थित्यन्तकारिणम् २५ सर्वव्यापिनमीशानं व्यक्ताव्यक्तस्वरूपिणम । अगम्यं सर्वदेवानां मुनिहृत्पद्मवासिनम् २६ सिद्धिबुद्धिपतिं नानाभक्तसिद्धिप्रदं विभुम् । अभक्तकामदहनं सहस्ररविसन्निभम् २७ अनेकशक्तिसंयुक्तं दैत्यदानवमर्दनम् । अनादिमव्ययं शान्तं जरामरणवर्जितम् २८ त्रितनुं च त्रयीमूलं ब्रह्मविष्णुशिवात्मकम् । क उवाच । एवं स्तुतिं समाकर्ण्य सन्तुष्ट: स गुणेश्वरः २९ स्वासने तमुपाविश्य पूजयामास सादरम् । प्रक्षाल्य चरणौ गन्धमक्षतान्पुष्पमेव च २.९५.३० धूपं दीपं च नैवेद्यं निवेद्य तमथाब्रवीत् । गुणेश उवाच । विश्वकर्मन्नागतोऽसि मम दर्शनकांक्षया ३१ किमानीतं मम मुदे हयुपायनमनुत्तमम्। विश्वकर्मोवाच । निजस्वानन्दपूर्णानां परवांछाविधायिनाम् ३२ निस्पृहाणां सर्वकृतां सर्वशक्तिमतामपि । समलोष्टाश्महेम्नां च कल्पवृक्षाधरीकृताम् । कर्तुमकर्तुं शक्तानामन्यथाकर्तुमेव च ३३ स्वाधीनानां च तुष्टानां स्वसत्तावर्तिनामपि । पराधीनैरशक्तैश्चाकिंचनैर्मर्त्यधर्मभिः ३४ किं देयं परितोषाय स्वशक्त्या किंचिदाहृतम् । क उवाच । एवमुक्त्वा विश्वकर्माऽस्थापयत्पुरतः सृणिम् ३५ पद्मं च परशुं पाशं सहस्रादित्यसन्निभम् । सर्वशत्रुहरं तीक्ष्णं दधार स गुणेश्वरः ३६ उवाच विश्वकर्माणं कुत एतानि विश्वकृत्। आनीतानि मम प्रीत्यै तद्वदस्वाधुनाऽनघ ३७ विश्वकर्मोवाच । संज्ञा नामेति नाम्ना मे कन्या चारुस्वरूपिणी ३८ लज्जितो यन्मुखं वीक्ष्य सहसा शशलांछनः । रमा शची च सावित्री शारदाऽरुन्धती रतिः ३९ त्रिलोक्यां न समा कापि परा यस्या गुणेश्वर । सा मया त्वये दत्ता त्रिवेदाय त्रिरूपिणे २.९५.४० आगतेषु त्रिलोकेषु सांगोपांगेषु सर्वशः । महोत्सवो महानासीद्दिनाष्टकमहर्निशम् ४१ यां दृष्ट्वा स्खलिता देवा लज्जयाऽधोमुखा गताः। सविता तामथादाय ययौ स्वस्थानमुत्तमम् ४२ तेजसा तस्य तप्ता मे कन्यका कृशतामगात् । सा ततो निर्ममे छायां संज्ञा तु स्वप्रभावतः ४३ सर्वं तस्यै निवेद्यैव सद्यो मम गृहं गता । गते कियति काले सा छाया ज्ञाता तु भानुना ४४ नेयं संज्ञेति स प्रायाद्गृहं सद्यो ममार्यमा । ततो भीता पुनः संज्ञा मामुवाच न मां पितः ४५ निवेदय रवेर्हस्ते तेजोऽहं न क्षमेऽस्य च ततः। पित्रा धिक्कृता सा बहिरेव ययौ किल ४६ अश्विनीरूपमास्थाय गुप्तरूपा वनेऽवसत् । ततस्तु विश्वकर्मा तामनवेक्ष्य क्वचिद्गृहे ४७ प्रोवाचार्यमणं सोऽथ तेजस्ते सोढुमक्षमा । क्व गता न च जाने तामुपायं ते ब्रवीमि च ४८ यदि ते तेजसो भागो न्यूनः किंचिद्भविष्यति । तदा सा प्रकटीभूयाद्विहरस्व ततस्तया ४९ रविरुवाच । यथा तव भवेच्चेतस्तथा कर्तुं त्वमर्हसि । क उवाच । विश्वकर्मा ततश्चैनं यन्त्रे स्थाप्योल्लिलेख ह २.९५.५० तेजीण्ह्रासं चकाराशु किंचित्सौम्योऽभवच्च सः । यत्र गुप्ताऽभवत्संज्ञा तत्र यातोऽर्यमा विभुः ५१ अश्वो भूत्वा तया रेमे सा नासत्यावसूत च । तामादायार्यमा लोकं निजं हर्षयुतोऽगमत् ५२ विश्वकर्मोवाच । तेजःशेषेण तस्याथ प्रबलेन गुणेश्वर । निर्मितान्यायुधान्याशु त्वदर्थे जगदीश्वर ५३ अतितीक्ष्णानि कालस्य सदा जयकराण्यपि । चत्वारि ते प्रदत्तानि दत्ते चक्रगदे हरेः ५४ त्रिशूलः शम्भवे दत्तः सर्वशत्रुनिबहर्णः । गुणेश उवाच । सम्यक्कृतं विश्वकर्मन्नायुधानि शुभानि मे ५५ दत्तानि दैत्यनाशाय परोपकृतये सताम् । क उवाच । एवमुक्त्वायुधान्याशु दधार च दुधाव च ५६ तदा चकम्पे पृथिवी पर्वताश्च वनानि च । शुशुभे सोऽपि तैः शस्त्रैः कोटिसूर्यनिभैर्विभुः ५७ विश्वकर्मा नमस्कृत्य ययौ स्वस्थानमाज्ञया । उमात्मजोऽपि चिक्रीड मुनिबालैर्वृतः पुनः ५८ तत्राययौ वृको नाम महान्दुष्टतमोऽसुरः । भयंकराननो मत्तो ग्रसन्निव महाबली ५९ पुच्छाघातेन च भुवं कम्पयन्हलदन्तवान् । दृष्ट्वा भयंकरं दैत्यं मुनिपुत्राः पलायिताः २.९५.६० स आयुधानि गृह्याशु तं वृकं समताडयत् । अङकुशा घातमात्रेण पतितो भुवि सोऽसुरः ६१ वमन्रक्तं निजं रूपमास्थितश्चूर्णयन्द्रुमान् । संहरं जीवसंघातान्दशयोजनविस्ततः ६२ स ततोऽस्तमिते सूर्ये ययौ बालयुतो गृहम् । बालाः प्राहुरुमायै तेऽनेनाद्य निहतोऽसुरः ६३ वृको नामांकुशाघाताद्दशयोजनमायतः । तानुवाचाद्रिजा रोषाद्र्यजन्तु निजमन्दिरम् ६४ ततस्तद्वाक्यमाकर्ण्य ते बालाः स्वालयान्ययुः ६५ (४१८८)
adhyāya 95 prāraṃbha :- ka uvāca | ṣaṣṭhe varṣe pravṛtte tu kvacidyāto bahiḥ śiśuḥ | umāyā bālakaiḥ sārddhaṃ cikrīḍānekadhā punaḥ 1 taṃ didṛkṣurviśvakarmā yayāvantargṛhaṃ prati | pārvatī bahirāgatya mānayāmāsa taṃ bahu 2 citrāsane samāveśya pūjayāmāsa sādaram | prakṣālya caraṇau prādādgandhaṃ tāmbūlameva ca 3 tatastadādaraṃ dṛṣṭvā viśvakarmā tutoṣa ha | tuṣṭāva parayā bhaktyā praṇipatya śivāṃ mudā 4 viśvakarmovāca | nanāmi viśveśvari viśvarūpe brahmendrarudrāryamaviṣṇurūpe | tvayā tataṃ viśvamanantaśakte brahmādidevairabhinandyarūpe 5 tvameva viśvaṃ rajasā vidhatse sattvena mātaḥ pari pāsi tacca | tvameva sarvaṃ tamasātha haṃsi traiguṇyametattava nityarūpam 6 tvayā hatā daityagaṇā vimuktiṃ brahmarṣayo jñānabalātprapannāḥ| tvameva viṣṇoratulā'si śaktiḥ sarvasya hetuḥ paramā'si māyā 7 sato'sato yāpi parāsi śaktiścarācaraṃ tvaṃ vidadhāsi viśvam| saṃmohya lokānsakalānsureśānkāṣṭhākalābhiśca dadāsi bhogam 8 ye tvāṃ prapannā na bhayaṃ tu teṣāṃ mṛtyostathā daityakṛtaṃ kadācita 9 tvameva lakṣmīḥ sukṛtāmalakṣmīrduṣṭātmanāṃ tvaṃ pramadāsvarūpā| vidyāsvarūpāsi jagattraye tvaṃ prabhāsvarūpā śaśisūryayotsvam 2.95.10 ya āśritāste jagadāsrvayāste vipattileśo na ca teṣu mātaḥ | tvameva viśveśvari viśvamettaddharasyathāpyāyasi vārirūpā 11 anādimadhyānidhanāpyagamyā harīśalokeśasureśvarāṇām | te'nugrahāttvā prabhajanti bhaktā ānandarūpā nivasanti nāke 12 abhaktikāmānvinihaṃsi ruṣṭā tvāmeva mātaḥ śaraṇaṃ prapannaḥ | dhanye mamaite nayane'tha vidyā januśca mātā pitṛvaṃśa eva 13 kulaṃ ca dhanyaṃ caraṇau tvadīyau dṛṣṭau yataste jagadambike mayā | ka uvāca | evaṃ stutā jaganmātā varamasmai nyavedayat 14 saṃ vavre paramā bhaktiṃ sā tatheti tamabravīt | idaṃ stotraṃ paṭhedyastu sarvānkāmā~llabhecca saḥ 15 sarvatra vijayaṃ puṣṭiṃ vidyāmāyuḥ sukhaṃ śivam | śivovāca | viśvakarmanmahābuddhe jñānavānasi sarvata: 16 yaccha taṃ śivavākyena dṛṣṭaṃ tatsakalaṃ tvayi | sindhunā pīḍitā devāḥ sarve kārāgṛhe sthitāḥ 17 śivaścātra samāyātaḥ kailāse tu hṛte sati | daṇḍakāraṇyadeśe'tra ko'pyāpto na hi dṛśyate 18 tvaṃ tu samyak samāyāto bahukālena darśanam | viśvakarmovāca | kimāścaryaṃ jaganmātarbālo mātaramāvrajet 19 draṣṭuṃ devaṃ mahābhakto vidyākāmo guruṃ śive | putrasya te śruto mātarmahimā paramādbhutaḥ 2.95.20 tamahaṃ draṣṭumāyāto yuvayordarśanotsukaḥ | ka uvāca | evaṃ tayostu vadatorāgato'sau vināyakaḥ 21 asaṃkhyaśaśisaṃkāśo rajasā'ruṇavigrahaḥ | prasannavadano bālasamūhaparivāritaḥ 22 tanmadhya śobhate smāsau marunmadhye yathā hariḥ | taṃ dṛṣṭvā praṇipatyāsau kṛtāṃjalipuṭaḥ sthitaḥ 23 tuṣṭāva paramātmānaṃ jñātvā taṃ girijāsutam | viśvakarmovāca | namāmi paramātmānaṃ saccidānandavigrahama 24 carācaraguruṃ sarvakāraṇānāṃ ca kāraṇam | guṇeśaṃ ca guṇātītaṃ sṛṣṭisthityantakāriṇam 25 sarvavyāpinamīśānaṃ vyaktāvyaktasvarūpiṇama | agamyaṃ sarvadevānāṃ munihṛtpadmavāsinam 26 siddhibuddhipatiṃ nānābhaktasiddhipradaṃ vibhum | abhaktakāmadahanaṃ sahasraravisannibham 27 anekaśaktisaṃyuktaṃ daityadānavamardanam | anādimavyayaṃ śāntaṃ jarāmaraṇavarjitam 28 tritanuṃ ca trayīmūlaṃ brahmaviṣṇuśivātmakam | ka uvāca | evaṃ stutiṃ samākarṇya santuṣṭa: sa guṇeśvaraḥ 29 svāsane tamupāviśya pūjayāmāsa sādaram | prakṣālya caraṇau gandhamakṣatānpuṣpameva ca 2.95.30 dhūpaṃ dīpaṃ ca naivedyaṃ nivedya tamathābravīt | guṇeśa uvāca | viśvakarmannāgato'si mama darśanakāṃkṣayā 31 kimānītaṃ mama mude hayupāyanamanuttamam| viśvakarmovāca | nijasvānandapūrṇānāṃ paravāṃchāvidhāyinām 32 nispṛhāṇāṃ sarvakṛtāṃ sarvaśaktimatāmapi | samaloṣṭāśmahemnāṃ ca kalpavṛkṣādharīkṛtām | kartumakartuṃ śaktānāmanyathākartumeva ca 33 svādhīnānāṃ ca tuṣṭānāṃ svasattāvartināmapi | parādhīnairaśaktaiścākiṃcanairmartyadharmabhiḥ 34 kiṃ deyaṃ paritoṣāya svaśaktyā kiṃcidāhṛtam | ka uvāca | evamuktvā viśvakarmā'sthāpayatpurataḥ sṛṇim 35 padmaṃ ca paraśuṃ pāśaṃ sahasrādityasannibham | sarvaśatruharaṃ tīkṣṇaṃ dadhāra sa guṇeśvaraḥ 36 uvāca viśvakarmāṇaṃ kuta etāni viśvakṛt| ānītāni mama prītyai tadvadasvādhunā'nagha 37 viśvakarmovāca | saṃjñā nāmeti nāmnā me kanyā cārusvarūpiṇī 38 lajjito yanmukhaṃ vīkṣya sahasā śaśalāṃchanaḥ | ramā śacī ca sāvitrī śāradā'rundhatī ratiḥ 39 trilokyāṃ na samā kāpi parā yasyā guṇeśvara | sā mayā tvaye dattā trivedāya trirūpiṇe 2.95.40 āgateṣu trilokeṣu sāṃgopāṃgeṣu sarvaśaḥ | mahotsavo mahānāsīddināṣṭakamaharniśam 41 yāṃ dṛṣṭvā skhalitā devā lajjayā'dhomukhā gatāḥ| savitā tāmathādāya yayau svasthānamuttamam 42 tejasā tasya taptā me kanyakā kṛśatāmagāt | sā tato nirmame chāyāṃ saṃjñā tu svaprabhāvataḥ 43 sarvaṃ tasyai nivedyaiva sadyo mama gṛhaṃ gatā | gate kiyati kāle sā chāyā jñātā tu bhānunā 44 neyaṃ saṃjñeti sa prāyādgṛhaṃ sadyo mamāryamā | tato bhītā punaḥ saṃjñā māmuvāca na māṃ pitaḥ 45 nivedaya raverhaste tejo'haṃ na kṣame'sya ca tataḥ| pitrā dhikkṛtā sā bahireva yayau kila 46 aśvinīrūpamāsthāya guptarūpā vane'vasat | tatastu viśvakarmā tāmanavekṣya kvacidgṛhe 47 provācāryamaṇaṃ so'tha tejaste soḍhumakṣamā | kva gatā na ca jāne tāmupāyaṃ te bravīmi ca 48 yadi te tejaso bhāgo nyūnaḥ kiṃcidbhaviṣyati | tadā sā prakaṭībhūyādviharasva tatastayā 49 raviruvāca | yathā tava bhaveccetastathā kartuṃ tvamarhasi | ka uvāca | viśvakarmā tataścainaṃ yantre sthāpyollilekha ha 2.95.50 tejīṇhrāsaṃ cakārāśu kiṃcitsaumyo'bhavacca saḥ | yatra guptā'bhavatsaṃjñā tatra yāto'ryamā vibhuḥ 51 aśvo bhūtvā tayā reme sā nāsatyāvasūta ca | tāmādāyāryamā lokaṃ nijaṃ harṣayuto'gamat 52 viśvakarmovāca | tejaḥśeṣeṇa tasyātha prabalena guṇeśvara | nirmitānyāyudhānyāśu tvadarthe jagadīśvara 53 atitīkṣṇāni kālasya sadā jayakarāṇyapi | catvāri te pradattāni datte cakragade hareḥ 54 triśūlaḥ śambhave dattaḥ sarvaśatrunibaharṇaḥ | guṇeśa uvāca | samyakkṛtaṃ viśvakarmannāyudhāni śubhāni me 55 dattāni daityanāśāya paropakṛtaye satām | ka uvāca | evamuktvāyudhānyāśu dadhāra ca dudhāva ca 56 tadā cakampe pṛthivī parvatāśca vanāni ca | śuśubhe so'pi taiḥ śastraiḥ koṭisūryanibhairvibhuḥ 57 viśvakarmā namaskṛtya yayau svasthānamājñayā | umātmajo'pi cikrīḍa munibālairvṛtaḥ punaḥ 58 tatrāyayau vṛko nāma mahānduṣṭatamo'suraḥ | bhayaṃkarānano matto grasanniva mahābalī 59 pucchāghātena ca bhuvaṃ kampayanhaladantavān | dṛṣṭvā bhayaṃkaraṃ daityaṃ muniputrāḥ palāyitāḥ 2.95.60 sa āyudhāni gṛhyāśu taṃ vṛkaṃ samatāḍayat | aṅakuśā ghātamātreṇa patito bhuvi so'suraḥ 61 vamanraktaṃ nijaṃ rūpamāsthitaścūrṇayandrumān | saṃharaṃ jīvasaṃghātāndaśayojanavistataḥ 62 sa tato'stamite sūrye yayau bālayuto gṛham | bālāḥ prāhurumāyai te'nenādya nihato'suraḥ 63 vṛko nāmāṃkuśāghātāddaśayojanamāyataḥ | tānuvācādrijā roṣādryajantu nijamandiram 64 tatastadvākyamākarṇya te bālāḥ svālayānyayuḥ 65 (4188)