← Ganesha Purana — Kridakhanda

Ganesha Purana — Kridakhanda — Chapter 86

GnP 2 86.2

अध्याय ८७ प्रारंभ :- क उवाच । व्योमासुरस्य भगिनी तस्य दुःखेन दुःखिता। निशामुखे दर्शदिने समुत्पन्ना क्षुधातुरा १ भक्षयामास महिषाञ्शतसंख्यान्महाबलान् । करालकेशी लम्बोष्ठी तालनासा दरीमुखा

adhyāya 87 prāraṃbha :- ka uvāca | vyomāsurasya bhaginī tasya duḥkhena duḥkhitā| niśāmukhe darśadine samutpannā kṣudhāturā 1 bhakṣayāmāsa mahiṣāñśatasaṃkhyānmahābalān | karālakeśī lamboṣṭhī tālanāsā darīmukhā

Chapter 87 begins. Kaḥ said: The sister of Vyomāsura, grieved with grief for him, appeared at nightfall on the new-moon day, tormented by hunger. She devoured buffaloes by the hundred, mighty ones — she of terrible hair, pendulous lip, nose like a palm tree, mouth like a cavern.

AI translation rendered from the Sanskrit, not a published edition

GnP 2 86.86

अध्याय ८६ प्रारंभ :- क उवाच । ततोऽस्यांकात्सुतं गौरी नमस्कृत्य समाददे । आज्ञां गृहीत्वा प्रायात्स्वं मन्दिरं भृशहर्षिता १ सोऽप्यनुज्ञां ततो गृह्य शिवं नत्वाश्रमं ययौ । ततो गौरी चकारास्य सुमुहुर्ते शुभे दिने २ गौतमादीन्समाहूय ब्राह्मणानुपवेश्य च। द्विजेभ्यो नमया चक्रे सा प्रणम्य स्वयं च तान् ३ सर्वे देवगणास्तत्र नानोपायनप्राणयः । आययुस्तं गणाश्चापि गन्धर्वाप्सरसस्तथा ४ उवाच गौरी तान्विप्रानुपवेशनमस्य ह । विचार्यं सर्वमुनिभिः कुर्वन्तु द्विजपुंगवाः ५ त ऊचुर्मुनयः सर्वे गुरुवारस्त्रयोदशी। पौष्णं नक्षत्रमद्यास्ति तस्मात्कार्यो महोत्सवः ६ ततो गृत्समदः शीघ्रं नानारत्नचयं भुवि । निधाय च चकाराशु चतुष्कं रत्ननिर्मितम् ७ गणेशपूजनं कृत्वा पुण्याहवाचनं तथा। दिव्यवस्त्रावृते तस्मिन्नुपवेश्य शिवा सुतम् ८ नीराजयामास च तं पतिवत्स्त्रीभिरादरात् । रत्नप्रभाजालगतं नानालंकारदीपितम् ९ उपायनानि ते सर्वे शिवाभ्यां तत्सुताय च । वाद्यत्सु दिव्यवाद्येषु प्रददुर्भक्तितत्पराः २.८६.१० साऽपूजयत्ततो विप्रान्रत्नवस्त्रादिकांचनैः । आशीर्वादाक्षतांस्तस्मिंश्चिक्षेप सकलार्पितान् ११ भवानि पूजयामास मुनिपत्नीः सकन्यकाः । ता ऊचुर्गिरिजे धन्या त्वदन्या नास्ति कुत्रचित १२ एतादृशः सुतो वापि सर्वलक्षणमण्डितः । क उवाच । एवं वदत्सु सर्वेषु स्त्रीजनेषु महाखलः १३ व्योमासुरो व्योमकर्णो नानामायाविशारदः । न बले सदृशस्तस्य कोऽपि त्रिभुवनेऽभवत् १४ स तु द्वारिस्थितं चूतं नानाशाखासमन्वितम् । अभेद्यं वारणशतैः कल्पान्तमारुतैरपि १५ प्रविवेश तदा व्योमो मायया स तदन्तरम् । यथा दृष्टिवशाद्भूतं विशते दुष्टचेष्टिते १६ दोलयामास तं वृक्षं कल्पान्ते मारुतो यथा । द्रुमपातभयात्सर्वे मुनयश्च समागताः १७ भीताः प्रोचुर्विना वायुं कम्पते किं महाद्रुमः । तावत्कटकटाशब्दं शुश्रुवुर्वृक्षसंभवम् १८ स्त्रियो गणाश्च सर्वे ते चक्रिरे तु पलायनम् । विस्मृत्य बालकं भ्रान्ता गिरिजापि पलायिता १९ एतस्मिन्नन्तरे वृक्षो निपपातार्भके तदा । हस्ताभ्यां निहतस्तेन शतचूर्णोऽपतद्भुवि २.८६.२० यथा घननिपातेन क्रमुकं दृषदि स्थितम् । भ्रमन्ति स्म तदा व्योम्नि तच्छाखाः पल्लवान्विताः २१ ऋषीणामाश्रमाः केचिद्भग्नाः शाखानिपाततः । पलायिते जने पेतुः काश्चिच्छाखाः सपल्लवाः २२ ततो व्योमासुरो दुष्टो गतासुर्निपपात ह । व्यादायास्यं वमन्रक्तं शतधा तेन सोऽभवत् २३ आययुस्ते ततः सर्वे स्त्रियस्य बालकं तदा । ददृशुस्ते यथापूर्वमुपविष्टं निराकुलम २४ सुमेरूनिश्चलं स्वस्थं ततः सर्वे विसिस्मिरे । पंचमासेन बालेन महाबलपराक्रमः २५ लीलया हस्ततो दैत्यः स वृक्षः शतधा कृतः । हाहाकाररवा गौरो धावति स्म निजं सुतम २६ मुनयस्तामथोचुस्ते हतदैत्यः सुतस्तवः । सा ददर्श ततो बालं हिमवत्पर्वतोपपम २७ उत्थाय कटिदेशे तं धृत्वा स्तन्यं ददौ मुदा । मरीचिवाक्यं सस्मार प्रशशंस महेश्वरम् २८ यमीश्वरोऽवति सदा तं हन्तुं यः समीहते । स एव विलयं याति पतंग इव दीपगः २९ मुनयो योषितः सर्वा ययुः स्वं स्वं निवेशनम् । ततो गणा ययुः केचिदक्षतं वीक्ष्य तत्सुतम् २.८६.३० ऊचुर्धन्यतरा माता रक्षितस्ते सुतोऽसुरात् । दुष्टा एव लयं यान्ति साधुर्न क्वापि सीदति ३१ ततः सा शर्करां तेभ्यो दत्त्वाज्ञां प्रददौ शिवा । सर्वाभ्यश्च ततो याता दृष्टा तेन निजं गृहम् ३२ य इदं शणुयात्पुण्यमाख्यानं भक्तिमान्नरः । न स बाधां लभेत्क्वापि सर्वत्रनिर्भयो भवेत् ३३ (३८३०)

adhyāya 86 prāraṃbha :- ka uvāca | tato'syāṃkātsutaṃ gaurī namaskṛtya samādade | ājñāṃ gṛhītvā prāyātsvaṃ mandiraṃ bhṛśaharṣitā 1 so'pyanujñāṃ tato gṛhya śivaṃ natvāśramaṃ yayau | tato gaurī cakārāsya sumuhurte śubhe dine 2 gautamādīnsamāhūya brāhmaṇānupaveśya ca| dvijebhyo namayā cakre sā praṇamya svayaṃ ca tān 3 sarve devagaṇāstatra nānopāyanaprāṇayaḥ | āyayustaṃ gaṇāścāpi gandharvāpsarasastathā 4 uvāca gaurī tānviprānupaveśanamasya ha | vicāryaṃ sarvamunibhiḥ kurvantu dvijapuṃgavāḥ 5 ta ūcurmunayaḥ sarve guruvārastrayodaśī| pauṣṇaṃ nakṣatramadyāsti tasmātkāryo mahotsavaḥ 6 tato gṛtsamadaḥ śīghraṃ nānāratnacayaṃ bhuvi | nidhāya ca cakārāśu catuṣkaṃ ratnanirmitam 7 gaṇeśapūjanaṃ kṛtvā puṇyāhavācanaṃ tathā| divyavastrāvṛte tasminnupaveśya śivā sutam 8 nīrājayāmāsa ca taṃ pativatstrībhirādarāt | ratnaprabhājālagataṃ nānālaṃkāradīpitam 9 upāyanāni te sarve śivābhyāṃ tatsutāya ca | vādyatsu divyavādyeṣu pradadurbhaktitatparāḥ 2.86.10 sā'pūjayattato viprānratnavastrādikāṃcanaiḥ | āśīrvādākṣatāṃstasmiṃścikṣepa sakalārpitān 11 bhavāni pūjayāmāsa munipatnīḥ sakanyakāḥ | tā ūcurgirije dhanyā tvadanyā nāsti kutracita 12 etādṛśaḥ suto vāpi sarvalakṣaṇamaṇḍitaḥ | ka uvāca | evaṃ vadatsu sarveṣu strījaneṣu mahākhalaḥ 13 vyomāsuro vyomakarṇo nānāmāyāviśāradaḥ | na bale sadṛśastasya ko'pi tribhuvane'bhavat 14 sa tu dvāristhitaṃ cūtaṃ nānāśākhāsamanvitam | abhedyaṃ vāraṇaśataiḥ kalpāntamārutairapi 15 praviveśa tadā vyomo māyayā sa tadantaram | yathā dṛṣṭivaśādbhūtaṃ viśate duṣṭaceṣṭite 16 dolayāmāsa taṃ vṛkṣaṃ kalpānte māruto yathā | drumapātabhayātsarve munayaśca samāgatāḥ 17 bhītāḥ procurvinā vāyuṃ kampate kiṃ mahādrumaḥ | tāvatkaṭakaṭāśabdaṃ śuśruvurvṛkṣasaṃbhavam 18 striyo gaṇāśca sarve te cakrire tu palāyanam | vismṛtya bālakaṃ bhrāntā girijāpi palāyitā 19 etasminnantare vṛkṣo nipapātārbhake tadā | hastābhyāṃ nihatastena śatacūrṇo'patadbhuvi 2.86.20 yathā ghananipātena kramukaṃ dṛṣadi sthitam | bhramanti sma tadā vyomni tacchākhāḥ pallavānvitāḥ 21 ṛṣīṇāmāśramāḥ kecidbhagnāḥ śākhānipātataḥ | palāyite jane petuḥ kāścicchākhāḥ sapallavāḥ 22 tato vyomāsuro duṣṭo gatāsurnipapāta ha | vyādāyāsyaṃ vamanraktaṃ śatadhā tena so'bhavat 23 āyayuste tataḥ sarve striyasya bālakaṃ tadā | dadṛśuste yathāpūrvamupaviṣṭaṃ nirākulama 24 sumerūniścalaṃ svasthaṃ tataḥ sarve visismire | paṃcamāsena bālena mahābalaparākramaḥ 25 līlayā hastato daityaḥ sa vṛkṣaḥ śatadhā kṛtaḥ | hāhākāraravā gauro dhāvati sma nijaṃ sutama 26 munayastāmathocuste hatadaityaḥ sutastavaḥ | sā dadarśa tato bālaṃ himavatparvatopapama 27 utthāya kaṭideśe taṃ dhṛtvā stanyaṃ dadau mudā | marīcivākyaṃ sasmāra praśaśaṃsa maheśvaram 28 yamīśvaro'vati sadā taṃ hantuṃ yaḥ samīhate | sa eva vilayaṃ yāti pataṃga iva dīpagaḥ 29 munayo yoṣitaḥ sarvā yayuḥ svaṃ svaṃ niveśanam | tato gaṇā yayuḥ kecidakṣataṃ vīkṣya tatsutam 2.86.30 ūcurdhanyatarā mātā rakṣitaste suto'surāt | duṣṭā eva layaṃ yānti sādhurna kvāpi sīdati 31 tataḥ sā śarkarāṃ tebhyo dattvājñāṃ pradadau śivā | sarvābhyaśca tato yātā dṛṣṭā tena nijaṃ gṛham 32 ya idaṃ śaṇuyātpuṇyamākhyānaṃ bhaktimānnaraḥ | na sa bādhāṃ labhetkvāpi sarvatranirbhayo bhavet 33 (3830)

GnP 2 86.87

हलदन्ता कूपनेत्रा श्रोतावरणसंयुता । दीर्घस्तनी महाघोरा भूमिस्पृक्वचका खला ३ दीर्घबाहुर्निम्ननाभिर्गोधेव कर्कशा त्वचि । नाम चक्रुस्तदा लोकाः शतमाहिष भक्षणात् ४ अन्वर्थं भावदुष्टायाः स्फुटं तु शतमाहिषा। सा ययौ बन्धुहन्तारं हन्तुं बन्धुप्रियंकरी ५ कमनीयतरा भूत्वा सर्वावयवसुन्दरा । नानालंकारसंयुक्ता गौरा षोडशवार्षिकी ६ कृत्वा षोडशशृंगारान्मोहयन्ती कटाक्षतः । सा ययौ दुष्टभावेन गिरिजालयमुत्तमम् ७ प्रणनाम शिवां चादौ प्रोवाच परमादरात्। धन्याऽहं कृतकृत्याऽहं प्राप्ताऽहमीप्सितं फलम् ८ यतस्त्वं सर्वजननी सर्वदेवमयी शुभा । सर्वध्येया सर्वसिद्धिः सर्वकारणकारणम् ९ जगन्मोहनदक्षा त्वं पुण्येन दृष्टिमागता । क उवाच । श्रुत्वा वाचं तदीयां सा प्रोवाच गिरिजा तु ताम् २.८७.१० उत्तिष्ठोत्तिष्ठ भद्रं ते संतुष्टाऽहं तवेक्षणात् । कस्यासि कुत आयासि किमर्थं च वरांगने ११ कामं ते पूरयिष्यामि वद सत्यं ममाग्रतः । सोवाच । अहं चिरं वियोगार्ता शरणं त्वामुपागता १२ श्रुतं स्यादमरावत्या नायकोऽसुरवर्जितः । स लीनः क्वापि गिरिजे सर्वे देवगणा अपि १३ त्वं तु भाग्यवती देवि न वियोगो हरस्य ते । सह्यं भवेत्सर्वदुःखमसह्यं तु वियोगजम् १४ पार्वत्युवाच । बालोऽयं मम सुभगे हनिष्यति खलान्बलात् । मोचयिष्यति देवान्स कालः कश्चित्प्रतीक्ष्यताम् १५ एतदर्थं गुणेशेन धृतो देहो ममालये । भूभारोत्तारणार्थाय मुनीनां पालनाय च १६ क उवाच । इत्युक्त्वा पूजयामास पादक्षालनपूर्वकम् । सखीभिः कुंकुमाद्यैश्च भोजयामास सादरम् १७ सापि भुक्त्वा शिवातल्पे सुष्वापोवाच तत्सखीः । गिरिजाबालकं सख्य आनयन्तु ममान्तिकम् १८ विश्वस्ताः सर्वसख्यास्ता ददुर्बालं तु तत्करे। लालयामास सा स्नेहान्मुखचुम्बनवल्गनैः १९ तज्जिघांसां स विज्ञाय सर्वज्ञः स शिवात्मजः । राक्षसीमिति निश्चित्य हस्ताभ्यां श्रोत्रयोरधात् २.८७.२० नासिकां च ततो भारं महापर्वतसन्निभम् । तदंगं पातयामास सा च श्वासनिरोधतः २१ विह्वला परिचिक्षेप पादाघाताशिशौ भृशम् । मुंच मुंचेति भाषन्ती कौतुकं द्रष्टुमागताम् २२ कथं हंसि स्त्रियं दुष्ट त्वनागस्कां शिवासमाम् । क उवाच । तदाक्रंदनमाकर्ण्य सखीभिः सह पार्वती २३ आगता मोचितुं पुत्रं नाशकत्तमुवाच सा । न मारयाशु मुंचैनां शक्रस्य महिषीं प्रियाम् २४ श्रुत्वा मातृवचो बालो दूरे चिक्षेप तां तदा। पपातोपरि व्याजेन क्षणात्सोऽभ्युदतिष्ठत २५ तत्कर्णनासिकाहस्तो दृष्टः सासृकस्रवोऽपि च । तदंघ्रिघातात्सा प्राणांस्तत्याज क्षणमात्रतः २६ गतासुं तां शुशोचाथ पार्वती स्नेहनिर्भरा। उवाच चपलो बालो दुर्यशो जितवानहम् २७ श्रुत्वा शची हतामिन्द्रः किं वागत्य करिष्यति । ददर्श पुरतो गत्वा राक्षसीं तां शिवाऽशिवाम् २८ दशयोजनविस्तीर्णां क्षतभूभूरुहां तदा । तत्याज शोकं जहृषे प्रशशंस निजं सुतम् २९ आदाय सुतमव्यंगं पार्वती मन्दिरं ययौ । विस्मापयत्यसौ बाला शंकिता बालपौरुषम् २.८७.३० विस्मयं पौरुषे तस्य समपद्यत पार्वती । तत्सख्याच्च्छिन्नकर्णां तां छिन्ननासां व्यलोकयन् ३१ कथामस्या लाघवं च कथमस्य बलं शिशो: । अहसन्प्रावदन्नित्यं दत्त्वा तालं परस्परम् ३२ ततस्तां राक्षसीं दूराच्चिक्षिपुः प्रमथास्तदा । अरिष्टे विहते गौरी ददौ दानानि भक्तितः ३३ ततस्तु सप्तमे मासे प्रवृत्ते निद्रिते जने । तमसा सर्वतो व्याप्ते दशदिग्मण्डलेऽखिले ३४ निशीथेऽरण्यपशुषु रुवत्सु दर्दुरेषु च । पर्यंके परिसुप्तायां पार्वत्यां दिव्यसंस्तरे ३५ सखीजने निद्रिते च सेवकानां गणे तथा । एतस्मिन्नन्तरे दुष्टो नाम्ना यः कमठासुरः ३६ आच्छादयत्स्वदेहेन शिवा प्रांगणमद्भुतम् । यस्य स्पर्शेन सहसा शीर्यंते वज्रसंहति ३७ अतिशीतलगात्रः स पार्वणश्चन्द्रमा इव । उदिते तु दिवानाथे तत्पृष्ठे विचरंजनाः ३८ केचित्स्नात्वा स्थिता जप्तुं केचिन्निद्रां प्रचक्रिरे । स्खलित्वा पतिताः केचिदतिकोमलदेहतः ३९ सिषिचुर्बालिका वारि गोमयैरंगमालिकाः । चक्रुस्ततो बहिर्याता सबाला गिरिजा तदा २.८७.४० आस्वापयत्सुतं गौरी महार्हास्तरणेऽत्र सा । सखीस्तत्र च संस्थाप्य ययौ सा सेवितुं शिवम् ४१ एवं ज्ञात्वाऽसौ कमठः स्वस्य पृष्ठमचालयत् । भूमिकम्पः कथमिह किं वारिष्टं भविष्यति ४२ इत्यब्रुवन्स्थितास्तत्र गणाश्चकितमानसाः । निद्रिताः प्रतिबुद्धास्ते कि जातमिति चाब्रुवन् ४३ तदैव तेन बालेन सर्वज्ञेन विवर्त्तिता। उदरं तस्य पृष्ठे तु न्यधायि धर्षता भृशम् ४४ चतुर्दशभुवनजं भारं निदधताऽत्र च । निरुद्धश्वासवायुः सोऽगांनि स्वानि व्यचालयत् ४५ अस्रवद्रक्तमतुलमस्य देहात्तथाविधात् । उड्डानं कर्तुमारेभे नाशकत्कमठस्ततः ४६ ततो गणा ययुः सर्वे ये तत्रासन्सुखोषिताः। किमरिष्टं समुत्पन्नं मुहुर्भूश्चलते नु किम् ४७ सख्यश्च बालिकाः सर्वाः पार्वतीं सेवितुं ययुः । उत्तिष्ठ मातर्बालस्ते नीतः स्याद्वा मृतोऽपि वा ४८ त्वरया पार्वती याता धावमाना बहिः सुतम् । ददर्श निश्चलं गौरी सोत्थापयितुमुद्यता ४९ भूगोलभारसदृशं मत्वा तस्थौ विमानसा । ततो ममर्द सहसा बालस्तं स ममार च २.८७.५० ततः सा ददृशे दैत्यं दशयोजनमायतम् । प्रसारितमुखं कूर्मं वमन्तं रुधिरं बहु ५१ चूर्णयामास सहसाऽऽश्रमान्नानाविधान्दुमान् । ततः सा बालमादाय स्तनपानं ददौ मुदा ५२ न ज्ञायतेऽसुराणां हि नानामायां प्रकुर्वताम् । त्रिलोचनप्रसादेन पुनर्लब्धः तुतो मया ५३ यतः कृतान्ताद्बलवान्निहतः कमठासुरः । सख्यश्च तद्गणाः प्रापुः पप्रच्छुः क्षेममर्भके ५४ क्षेममित्येव तान्गौरी निजगाद मुदान्विता । ततो गणाः खण्डशस्तं कृत्वा दूरतरं जहुः ५५ ववर्षुः पुष्पवर्षाणि तस्मिन्देवगणास्तदा । य इदं परमाख्यानं शृणुयाच्छ्रावयेत्तथा ५६ सर्वारिष्टविनिर्मुक्तः सर्वान्कामानवाप्नुयात् ५७ (३८८७)

haladantā kūpanetrā śrotāvaraṇasaṃyutā | dīrghastanī mahāghorā bhūmispṛkvacakā khalā 3 dīrghabāhurnimnanābhirgodheva karkaśā tvaci | nāma cakrustadā lokāḥ śatamāhiṣa bhakṣaṇāt 4 anvarthaṃ bhāvaduṣṭāyāḥ sphuṭaṃ tu śatamāhiṣā| sā yayau bandhuhantāraṃ hantuṃ bandhupriyaṃkarī 5 kamanīyatarā bhūtvā sarvāvayavasundarā | nānālaṃkārasaṃyuktā gaurā ṣoḍaśavārṣikī 6 kṛtvā ṣoḍaśaśṛṃgārānmohayantī kaṭākṣataḥ | sā yayau duṣṭabhāvena girijālayamuttamam 7 praṇanāma śivāṃ cādau provāca paramādarāt| dhanyā'haṃ kṛtakṛtyā'haṃ prāptā'hamīpsitaṃ phalam 8 yatastvaṃ sarvajananī sarvadevamayī śubhā | sarvadhyeyā sarvasiddhiḥ sarvakāraṇakāraṇam 9 jaganmohanadakṣā tvaṃ puṇyena dṛṣṭimāgatā | ka uvāca | śrutvā vācaṃ tadīyāṃ sā provāca girijā tu tām 2.87.10 uttiṣṭhottiṣṭha bhadraṃ te saṃtuṣṭā'haṃ tavekṣaṇāt | kasyāsi kuta āyāsi kimarthaṃ ca varāṃgane 11 kāmaṃ te pūrayiṣyāmi vada satyaṃ mamāgrataḥ | sovāca | ahaṃ ciraṃ viyogārtā śaraṇaṃ tvāmupāgatā 12 śrutaṃ syādamarāvatyā nāyako'suravarjitaḥ | sa līnaḥ kvāpi girije sarve devagaṇā api 13 tvaṃ tu bhāgyavatī devi na viyogo harasya te | sahyaṃ bhavetsarvaduḥkhamasahyaṃ tu viyogajam 14 pārvatyuvāca | bālo'yaṃ mama subhage haniṣyati khalānbalāt | mocayiṣyati devānsa kālaḥ kaścitpratīkṣyatām 15 etadarthaṃ guṇeśena dhṛto deho mamālaye | bhūbhārottāraṇārthāya munīnāṃ pālanāya ca 16 ka uvāca | ityuktvā pūjayāmāsa pādakṣālanapūrvakam | sakhībhiḥ kuṃkumādyaiśca bhojayāmāsa sādaram 17 sāpi bhuktvā śivātalpe suṣvāpovāca tatsakhīḥ | girijābālakaṃ sakhya ānayantu mamāntikam 18 viśvastāḥ sarvasakhyāstā dadurbālaṃ tu tatkare| lālayāmāsa sā snehānmukhacumbanavalganaiḥ 19 tajjighāṃsāṃ sa vijñāya sarvajñaḥ sa śivātmajaḥ | rākṣasīmiti niścitya hastābhyāṃ śrotrayoradhāt 2.87.20 nāsikāṃ ca tato bhāraṃ mahāparvatasannibham | tadaṃgaṃ pātayāmāsa sā ca śvāsanirodhataḥ 21 vihvalā paricikṣepa pādāghātāśiśau bhṛśam | muṃca muṃceti bhāṣantī kautukaṃ draṣṭumāgatām 22 kathaṃ haṃsi striyaṃ duṣṭa tvanāgaskāṃ śivāsamām | ka uvāca | tadākraṃdanamākarṇya sakhībhiḥ saha pārvatī 23 āgatā mocituṃ putraṃ nāśakattamuvāca sā | na mārayāśu muṃcaināṃ śakrasya mahiṣīṃ priyām 24 śrutvā mātṛvaco bālo dūre cikṣepa tāṃ tadā| papātopari vyājena kṣaṇātso'bhyudatiṣṭhata 25 tatkarṇanāsikāhasto dṛṣṭaḥ sāsṛkasravo'pi ca | tadaṃghrighātātsā prāṇāṃstatyāja kṣaṇamātrataḥ 26 gatāsuṃ tāṃ śuśocātha pārvatī snehanirbharā| uvāca capalo bālo duryaśo jitavānaham 27 śrutvā śacī hatāmindraḥ kiṃ vāgatya kariṣyati | dadarśa purato gatvā rākṣasīṃ tāṃ śivā'śivām 28 daśayojanavistīrṇāṃ kṣatabhūbhūruhāṃ tadā | tatyāja śokaṃ jahṛṣe praśaśaṃsa nijaṃ sutam 29 ādāya sutamavyaṃgaṃ pārvatī mandiraṃ yayau | vismāpayatyasau bālā śaṃkitā bālapauruṣam 2.87.30 vismayaṃ pauruṣe tasya samapadyata pārvatī | tatsakhyāccchinnakarṇāṃ tāṃ chinnanāsāṃ vyalokayan 31 kathāmasyā lāghavaṃ ca kathamasya balaṃ śiśo: | ahasanprāvadannityaṃ dattvā tālaṃ parasparam 32 tatastāṃ rākṣasīṃ dūrāccikṣipuḥ pramathāstadā | ariṣṭe vihate gaurī dadau dānāni bhaktitaḥ 33 tatastu saptame māse pravṛtte nidrite jane | tamasā sarvato vyāpte daśadigmaṇḍale'khile 34 niśīthe'raṇyapaśuṣu ruvatsu dardureṣu ca | paryaṃke parisuptāyāṃ pārvatyāṃ divyasaṃstare 35 sakhījane nidrite ca sevakānāṃ gaṇe tathā | etasminnantare duṣṭo nāmnā yaḥ kamaṭhāsuraḥ 36 ācchādayatsvadehena śivā prāṃgaṇamadbhutam | yasya sparśena sahasā śīryaṃte vajrasaṃhati 37 atiśītalagātraḥ sa pārvaṇaścandramā iva | udite tu divānāthe tatpṛṣṭhe vicaraṃjanāḥ 38 kecitsnātvā sthitā japtuṃ kecinnidrāṃ pracakrire | skhalitvā patitāḥ kecidatikomaladehataḥ 39 siṣicurbālikā vāri gomayairaṃgamālikāḥ | cakrustato bahiryātā sabālā girijā tadā 2.87.40 āsvāpayatsutaṃ gaurī mahārhāstaraṇe'tra sā | sakhīstatra ca saṃsthāpya yayau sā sevituṃ śivam 41 evaṃ jñātvā'sau kamaṭhaḥ svasya pṛṣṭhamacālayat | bhūmikampaḥ kathamiha kiṃ vāriṣṭaṃ bhaviṣyati 42 ityabruvansthitāstatra gaṇāścakitamānasāḥ | nidritāḥ pratibuddhāste ki jātamiti cābruvan 43 tadaiva tena bālena sarvajñena vivarttitā| udaraṃ tasya pṛṣṭhe tu nyadhāyi dharṣatā bhṛśam 44 caturdaśabhuvanajaṃ bhāraṃ nidadhatā'tra ca | niruddhaśvāsavāyuḥ so'gāṃni svāni vyacālayat 45 asravadraktamatulamasya dehāttathāvidhāt | uḍḍānaṃ kartumārebhe nāśakatkamaṭhastataḥ 46 tato gaṇā yayuḥ sarve ye tatrāsansukhoṣitāḥ| kimariṣṭaṃ samutpannaṃ muhurbhūścalate nu kim 47 sakhyaśca bālikāḥ sarvāḥ pārvatīṃ sevituṃ yayuḥ | uttiṣṭha mātarbālaste nītaḥ syādvā mṛto'pi vā 48 tvarayā pārvatī yātā dhāvamānā bahiḥ sutam | dadarśa niścalaṃ gaurī sotthāpayitumudyatā 49 bhūgolabhārasadṛśaṃ matvā tasthau vimānasā | tato mamarda sahasā bālastaṃ sa mamāra ca 2.87.50 tataḥ sā dadṛśe daityaṃ daśayojanamāyatam | prasāritamukhaṃ kūrmaṃ vamantaṃ rudhiraṃ bahu 51 cūrṇayāmāsa sahasā''śramānnānāvidhāndumān | tataḥ sā bālamādāya stanapānaṃ dadau mudā 52 na jñāyate'surāṇāṃ hi nānāmāyāṃ prakurvatām | trilocanaprasādena punarlabdhaḥ tuto mayā 53 yataḥ kṛtāntādbalavānnihataḥ kamaṭhāsuraḥ | sakhyaśca tadgaṇāḥ prāpuḥ papracchuḥ kṣemamarbhake 54 kṣemamityeva tāngaurī nijagāda mudānvitā | tato gaṇāḥ khaṇḍaśastaṃ kṛtvā dūrataraṃ jahuḥ 55 vavarṣuḥ puṣpavarṣāṇi tasmindevagaṇāstadā | ya idaṃ paramākhyānaṃ śṛṇuyācchrāvayettathā 56 sarvāriṣṭavinirmuktaḥ sarvānkāmānavāpnuyāt 57 (3887)

GnP 2 86.88

अध्याय ८८ प्रारंभ :- व्यास उवाच । अद्भुतानि चरित्राणि श्रुतानि त्वन्मुखाम्बुजात् । ब्रह्मन्नघौघहारीणि गुणेशेन कृतानि वै १ तथापि श्रोतुमिच्छा नो नापैति सर्ववित्तम । अतो बालस्य चरितं पुनर्मे ब्रूहि सादरम् २ ब्रह्मोवाच । शृणुष्वावहितो ब्रह्मन्गुणेशस्य कथां पुनः । स्रुतिरस्य च पापानां संहर्त्री धर्ममोक्षदाम् ३ अष्टमे मासि मध्याह्नं ग्रीष्मर्तौ गिरिजा किल । ऊष्मणा पीडितां गेहे सा ययौ पुष्पवाटिकाम् ४ अशोकाश्चन्दना यत्र पनसास्रबिभीतकाः । मालतीचम्पकाजातीचिंचिणीपिचुमन्दकाः ५ पारिजातकवृक्षाश्च घनच्छायासमन्विताः । रम्यं शीतजलं चारु सरः कमलमण्डितम् ६ तत्र मंचकवर्ये सा सख्यानीते शुभास्तरे । सुष्वाप गिरिजा बालयुक्ता निःशंकचेतसा ७ सखीभ्यां वीजिता बालव्यंजनेनाश्ममुष्टिना । सुषुप्तिमगमद्यावत्तावद्दैत्यो महाबलः ८ तल्पासुर इतिख्यातो वायुरूपोऽविशत्ततः। मंचकान्तर्गतः सोऽथ तेज साकं ययौ दिवम् ९ तस्य शब्देन संत्रस्ते ते सख्यौ पतिते भुवि । आक्रन्दं परमं चक्रे पर्यंकस्था तदा शिवा २.८८.१० व्योमस्था पर्यदेवत्सा धाव धावेति शंकर । किं मया विकृतं देव किमर्थं मामुपेक्षसे ११ अयं दैत्योऽतिबलवान्व्योमाक्रम्य प्रधावति । परहस्तगतां कान्तां शक्तः कथमुपेक्षसे १२ अस्य पुत्रस्य योगेन नानादुःखमभून्मम । अस्माद्दैत्यान्मृतिर्मे किं सपुत्राया विनिर्मिता १३ अयमेव न जातश्चेत्कथं बन्धनमाप्नुयाम् । क उवाच । एवामाक्रन्दनं श्रुत्वा उमाबालो महामनाः १४ तदा मुहुर्जगर्जासौ घनवद्गर्जयन्दिशः । चकम्पे धरणी तेन ससमुद्रवनाकरा १५ तामद्रष्ट्र्वा तु शोचत्सु गणेषु प्रमथादिषु। पादाघातेन बालोऽथ मंचकं समताडयत् १६ बिभ्युर्भूतानि सहसा शतधेवाभवन्नभः । मंचकः खण्डशस्तेन भूत्वा निपतितो भुवि १७ ततस्तल्पासुरो दृश्यो जातो बालो दधार तम् । हस्तेनैकेन जननीं दधारासौ स्वलीलया १८ घनमुक्तं तोयबिन्दुं चञ्च्वेव चातकः क्षणात् । स्कन्धारूढां तु तां कृत्वा शिखां वामेन तस्य च १९ ततस्तत्याज भूदेशे तं बालः सहसा बलात् । पद्मासनं दैत्यदेहे कृत्वा योगीव तस्थिवान् २.८८.२० स भूमौ पतितो दूरान्मर्दितो बलवत्तरम् । प्राणांस्तत्याज दैत्योऽथ वमन्नास्यादसृग्मुहुः २१ स तु दृष्टो जनैर्दैत्य एकविंशतियोजनः । चूर्णयन्वृक्षपाषाणानाश्रमां शरणान्यपि २२ ततो दृष्टो बालकोऽसौ गणः सखिजनैरपि । ऊचुस्ते गौरि बालोऽयं रमते कुशली बली २३ सा तु भ्रांत्यैव नाजानाद्गगनं धरणीं शिशुम् । मुनयस्तामथोचुस्ते सावधानमना सति २४ भव दैत्यो हतस्तेन धृत्वा रूपं महत्तरम् । उन्मील्य नयने पश्य पुनर्बालं शिवं शुभम् २५ क उवाच । तद्वाक्यात्प्रतिबुद्धा साऽपश्यद्दैत्यं च बालकम् । गौर्युवाच । विपरीतं मया दृष्टं मूढो बालेन वा कथम् २६ हतोऽनेन महादैत्य एकविंशतियोजनः । मातॄणामृणमुत्तीर्णो बालो मे जीवितप्रदः २७ इत्युक्त्वा बालमादाय कारयामास शान्तिकम् । दत्त्वा दानानि च ददौ स्तनपानं शिशोरपि २८ दृष्ट्वा ते कौतुकं तस्य प्रशशंसुर्मुदान्वितः । एतस्मिन्नन्तरे घोरं चक्रे शब्दं महासुरः २९ दुन्दुभेः सदृशं सोऽपि ख्यातो दुन्दुभिनामतः । यस्य पाणितलाघाताद्धरा चूर्णत्वमागता २.८८.३० आच्छादितो दिनमणिर्देहेन गगनस्पृशा । गणबालस्वरूपेण गौरीबालं जुहाव सः ३१ इत एहि रमावोऽद्य सोऽपि यातस्तदेव तम् । स्वांकं कृत्वा तु तं बालं हालाहलफलं ददौ ३२ अद्ध्यद्धीति फलं बालं शीघ्रमित्यब्रवीच्च सः । दूरदेशात्समानीतं जन्ममृत्युजरापहम् ३३ स तु जानन्दुष्टभावं फलं तज्जगृहे ततः । अभक्षयदयाचत्स फलान्तरमभीः पुनः ३४ क उवाच । अमृतं विषतां याति विषं तत्तां शिवेच्छया। धृत्वा वक्षः स्थलं तस्य तत्क्षणादुदतिष्ठत ३५ तज्जानुनोर्न्यस्य पादौ कराभ्यां जगृहे शिखाम् । पराभ्यां श्मश्रुणी गृह्य दोलयामास लीलया ३६ ननर्त जानुभागेऽस्य भूमण्डलभरान्वितः । स पीडित उवाचाथ जानुभागादवातर ३७ तव भारेण नृत्येन मम देहोऽतिपीडितः। मुंच मुंच गमिष्यामि स्वालयं गिरिजासुत ३८ क उवाच । एवं संप्रार्थितस्तेन न मोचयति बालकः । उदतिष्ठद्बलाद्दैत्यो भग्नदेहस्तु पूर्वतः ३९ बलाच्चकर्ष बालोऽपि मूर्धानमस्य तत्क्षणात् । कण्ठनालात्तच्छिरोऽपि बालहस्तगतं बभौ २.८८.४० रुधिराक्ता मही सर्वा तत्क्षणं समपद्यत । शिरःकमलहस्तोऽसौ खेलते गिरिजासुतः ४१ शोणितेन विलिप्तांगे गणा मात्रे न्यवेदयन । सा गत्वा पश्यति स्माथ पुत्रं दृष्टवा तथाविधम् ४२ तच्छिरो दूरतः क्षिप्त्वा वस्त्रेण च ममार्ज तम् । स्नापयित्वा स्वयं स्नात्वा ददौ स्तन्यं तदा मुदा ४३ ततः सख्यो गणाश्चापुः पप्रच्छुः क्षममभकम् । सोवाच परमं क्षेम बालके शिवभक्तित:४४ मरीचिरक्षणाच्चापि कुशलं मम बालके । ततस्ते तं निरासुर्वै दूरतो दुष्टदानवम् ४५ ततो हर्षयुता जग्मुर्गणाः सख्यो निजं गृहम् । पार्वती हर्षसंयुक्ता सबाला प्राविशद्गृहम ४६ (३९३३)

adhyāya 88 prāraṃbha :- vyāsa uvāca | adbhutāni caritrāṇi śrutāni tvanmukhāmbujāt | brahmannaghaughahārīṇi guṇeśena kṛtāni vai 1 tathāpi śrotumicchā no nāpaiti sarvavittama | ato bālasya caritaṃ punarme brūhi sādaram 2 brahmovāca | śṛṇuṣvāvahito brahmanguṇeśasya kathāṃ punaḥ | srutirasya ca pāpānāṃ saṃhartrī dharmamokṣadām 3 aṣṭame māsi madhyāhnaṃ grīṣmartau girijā kila | ūṣmaṇā pīḍitāṃ gehe sā yayau puṣpavāṭikām 4 aśokāścandanā yatra panasāsrabibhītakāḥ | mālatīcampakājātīciṃciṇīpicumandakāḥ 5 pārijātakavṛkṣāśca ghanacchāyāsamanvitāḥ | ramyaṃ śītajalaṃ cāru saraḥ kamalamaṇḍitam 6 tatra maṃcakavarye sā sakhyānīte śubhāstare | suṣvāpa girijā bālayuktā niḥśaṃkacetasā 7 sakhībhyāṃ vījitā bālavyaṃjanenāśmamuṣṭinā | suṣuptimagamadyāvattāvaddaityo mahābalaḥ 8 talpāsura itikhyāto vāyurūpo'viśattataḥ| maṃcakāntargataḥ so'tha teja sākaṃ yayau divam 9 tasya śabdena saṃtraste te sakhyau patite bhuvi | ākrandaṃ paramaṃ cakre paryaṃkasthā tadā śivā 2.88.10 vyomasthā paryadevatsā dhāva dhāveti śaṃkara | kiṃ mayā vikṛtaṃ deva kimarthaṃ māmupekṣase 11 ayaṃ daityo'tibalavānvyomākramya pradhāvati | parahastagatāṃ kāntāṃ śaktaḥ kathamupekṣase 12 asya putrasya yogena nānāduḥkhamabhūnmama | asmāddaityānmṛtirme kiṃ saputrāyā vinirmitā 13 ayameva na jātaścetkathaṃ bandhanamāpnuyām | ka uvāca | evāmākrandanaṃ śrutvā umābālo mahāmanāḥ 14 tadā muhurjagarjāsau ghanavadgarjayandiśaḥ | cakampe dharaṇī tena sasamudravanākarā 15 tāmadraṣṭrvā tu śocatsu gaṇeṣu pramathādiṣu| pādāghātena bālo'tha maṃcakaṃ samatāḍayat 16 bibhyurbhūtāni sahasā śatadhevābhavannabhaḥ | maṃcakaḥ khaṇḍaśastena bhūtvā nipatito bhuvi 17 tatastalpāsuro dṛśyo jāto bālo dadhāra tam | hastenaikena jananīṃ dadhārāsau svalīlayā 18 ghanamuktaṃ toyabinduṃ cañcveva cātakaḥ kṣaṇāt | skandhārūḍhāṃ tu tāṃ kṛtvā śikhāṃ vāmena tasya ca 19 tatastatyāja bhūdeśe taṃ bālaḥ sahasā balāt | padmāsanaṃ daityadehe kṛtvā yogīva tasthivān 2.88.20 sa bhūmau patito dūrānmardito balavattaram | prāṇāṃstatyāja daityo'tha vamannāsyādasṛgmuhuḥ 21 sa tu dṛṣṭo janairdaitya ekaviṃśatiyojanaḥ | cūrṇayanvṛkṣapāṣāṇānāśramāṃ śaraṇānyapi 22 tato dṛṣṭo bālako'sau gaṇaḥ sakhijanairapi | ūcuste gauri bālo'yaṃ ramate kuśalī balī 23 sā tu bhrāṃtyaiva nājānādgaganaṃ dharaṇīṃ śiśum | munayastāmathocuste sāvadhānamanā sati 24 bhava daityo hatastena dhṛtvā rūpaṃ mahattaram | unmīlya nayane paśya punarbālaṃ śivaṃ śubham 25 ka uvāca | tadvākyātpratibuddhā sā'paśyaddaityaṃ ca bālakam | gauryuvāca | viparītaṃ mayā dṛṣṭaṃ mūḍho bālena vā katham 26 hato'nena mahādaitya ekaviṃśatiyojanaḥ | mātṝṇāmṛṇamuttīrṇo bālo me jīvitapradaḥ 27 ityuktvā bālamādāya kārayāmāsa śāntikam | dattvā dānāni ca dadau stanapānaṃ śiśorapi 28 dṛṣṭvā te kautukaṃ tasya praśaśaṃsurmudānvitaḥ | etasminnantare ghoraṃ cakre śabdaṃ mahāsuraḥ 29 dundubheḥ sadṛśaṃ so'pi khyāto dundubhināmataḥ | yasya pāṇitalāghātāddharā cūrṇatvamāgatā 2.88.30 ācchādito dinamaṇirdehena gaganaspṛśā | gaṇabālasvarūpeṇa gaurībālaṃ juhāva saḥ 31 ita ehi ramāvo'dya so'pi yātastadeva tam | svāṃkaṃ kṛtvā tu taṃ bālaṃ hālāhalaphalaṃ dadau 32 addhyaddhīti phalaṃ bālaṃ śīghramityabravīcca saḥ | dūradeśātsamānītaṃ janmamṛtyujarāpaham 33 sa tu jānanduṣṭabhāvaṃ phalaṃ tajjagṛhe tataḥ | abhakṣayadayācatsa phalāntaramabhīḥ punaḥ 34 ka uvāca | amṛtaṃ viṣatāṃ yāti viṣaṃ tattāṃ śivecchayā| dhṛtvā vakṣaḥ sthalaṃ tasya tatkṣaṇādudatiṣṭhata 35 tajjānunornyasya pādau karābhyāṃ jagṛhe śikhām | parābhyāṃ śmaśruṇī gṛhya dolayāmāsa līlayā 36 nanarta jānubhāge'sya bhūmaṇḍalabharānvitaḥ | sa pīḍita uvācātha jānubhāgādavātara 37 tava bhāreṇa nṛtyena mama deho'tipīḍitaḥ| muṃca muṃca gamiṣyāmi svālayaṃ girijāsuta 38 ka uvāca | evaṃ saṃprārthitastena na mocayati bālakaḥ | udatiṣṭhadbalāddaityo bhagnadehastu pūrvataḥ 39 balāccakarṣa bālo'pi mūrdhānamasya tatkṣaṇāt | kaṇṭhanālāttacchiro'pi bālahastagataṃ babhau 2.88.40 rudhirāktā mahī sarvā tatkṣaṇaṃ samapadyata | śiraḥkamalahasto'sau khelate girijāsutaḥ 41 śoṇitena viliptāṃge gaṇā mātre nyavedayana | sā gatvā paśyati smātha putraṃ dṛṣṭavā tathāvidham 42 tacchiro dūrataḥ kṣiptvā vastreṇa ca mamārja tam | snāpayitvā svayaṃ snātvā dadau stanyaṃ tadā mudā 43 tataḥ sakhyo gaṇāścāpuḥ papracchuḥ kṣamamabhakam | sovāca paramaṃ kṣema bālake śivabhaktita:44 marīcirakṣaṇāccāpi kuśalaṃ mama bālake | tataste taṃ nirāsurvai dūrato duṣṭadānavam 45 tato harṣayutā jagmurgaṇāḥ sakhyo nijaṃ gṛham | pārvatī harṣasaṃyuktā sabālā prāviśadgṛhama 46 (3933)

GnP 2 86.89

अध्याय ८९ प्रारंभ :- क उवाच । ततस्तु दशमे मासे त्रिमुहूर्तागते रवौ । किंचिच्च रिंगमाणोऽसौ रमते च शिवासुतः १ पादाभ्यां चालयन्क्वापि गूढं गूढं च भाषते । लुण्ठते नर्तते चापि रोदनं कुरुते च ताम २ दृष्ट्वा शिवां च सहसा पृष्ठलग्नो व्रजत्यपि । दृष्ट्वा तथाविधं बालं जहृषे पार्वती तदा ३ एतस्मिन्नन्तरे दृष्टो दैत्य आजगराभिधः । वमदग्निकणान्दृष्ट्या वज्रासारतनुर्दृढः ४ ललज्जिह्वो दीर्घदेहो ग्रसन्निव महागिरिम् । उपविष्टो द्रुमतले द्वे जिह्वे लालयन्मुहुः ५ तं बालो बालभावेन रिंगीत्वा विदधार ह । स निनाय च शीघ्रमास्यान्तः सह तेन च ६ अन्तःप्रविष्टे ओष्ठौ स न्यमीलयत वायुभुक् । नापश्यदंगणे बालं गौरी विह्वलमानसा ७ अत्र कीडन्स्थितो बालः केन नीतो हतो नु वा । शुशोच परमार्तासौ तताड मस्तकं निजम् ८ तावद्गणैर्निषिद्धा सा मा मातर्विमना भव । बालप्रभावो विज्ञातः शतशो बलतत्तरः ९ बालस्तदुदरगतो ववृधे च निरुध्य च । श्वासं तस्य तु दैत्यस्य पुच्छान्त सोप्यचालयत् २.८९.१० प्राणवायुस्तु नेत्राभ्यां रुधिरेण विनिर्ययौ । विदार्य देहमस्यासौ बहिर्यातोऽम्बिकासुतः ११ चिक्रीड रुधिरार्द्रांगः किं नु पुष्पितकिंशुकः । ततो गणास्तं निरीक्ष्य लिहन्तं स्वांगुलिं शिशुम् १२ उच्चैरूचुर्गिरिसुतामयं बालो विनिर्गतः । अस्यास्यान्मारयित्वा तं दैत्यमाजगरं खलम् १३ क उवाच । तद्वधानन्नरं बालमादाय सत्वरं शिवा । स्नापयामास सहसा लालयित्वा स्तनं ददौ १४ क्व गतोऽसि क्षणो बाल त्वां विनाब्दत्वमागतः । ततो ददर्शाजगरं विस्तीर्णं शतयोजनम् १५ भयानकमुखं दुष्टं वमन्तं रुधिरं बहु । पतितं वृक्षजालानि पातयित्वा गृहाणि च १६ गौर्युवाच । अस्मिन्स्थले कियन्तो नु भवेयुर्दैत्यराक्षसाः । कियन्तो निधनं प्राप्ता अस्य बालस्य विक्रमात् १७ ततस्तं चिक्षिपुः सर्वे गणा दूरे महासुरम् । ततस्त्वेकादशे मासे द्वारदेशे शिवा ययौ १८ सखीभिः पश्यती बालकौतुकानि बहून्यपि । कस्यचिद्वदनं बालश्चुम्बते चुम्बयत्यपि १९ आच्छादते चक्षुषी च कस्यचित्पृष्ठगः स्वयम् । पिबते मातुरन्यस्याः स्तन्यं गत्वा बलादसौ २.८९.२० मुखमाच्छाद्य वस्त्रेण बिभीषयति चापरान् । मुखं केशान्नासिकां च कर्षते भूषणान्यपि २१ वदते स्खलितां वाणीं परंदृष्ट्वा स्वकान्यपि । एतस्मिन्नन्तरे दुष्टो दानवः शलभासुरः २२ ब्रह्मादीनामगम्योऽसौ पर्वतस्कन्धमण्डलः । व्योमस्फोटिमहामूर्धा नीलवर्णो यथा घनः २३ जपाकुसुमनयनो मेघस्पृक्शृंगमण्डलः । बालान्तिकमुपायातो ग्रसन्निव जगत्त्रयम् २४ तं धर्तुं बालको याति यत्र यत्र स गच्छति । एवं तौ सुचिरं कालं भ्रमतः स्म महाजवौ २५ ततः श्रान्तोऽभवद्बालो रुषाऽधावत्तदन्तिकम् । दधार सहसा दैत्यं शलभं बलवत्तरम २६ सपक्षौ स्फालयामास श्येनो हस्तगतो यथा । बाधते चरणाघातैस्तं बालं शलभासुरः २७ प्रसार्य नयने क्रूरे पश्यती स्म तदा शिशुम । मुमुचे तं तदा बालो दधार च पुनःपुनः २८ दर्शयामास जननीं धरापृष्ठे व्यपोथयत् । शिवोवाच दयाविष्टा तं बालं क्रूरमानसम् २९ जीवघातो न कर्तव्यो मुंचैनं प्राणिनं शिशो। बलात्पुनः शिलापृष्ठे हठाच्चिक्षेप बालकः २.८९.३० स तदा शतधा जातो निपपात च भूतले । गर्जयन्गगनं वृक्षान्पातयन्गृहतोरणान ३१ वमन्रक्तं बहु मुखाद्दशयोजनविस्तृतः । चूर्णयन्नाश्रमान्वृक्षांस्ततो माता निनाय तम् ३२ बालं संस्थापयामास प्रादात्स्तन्यं च भोजनम् । सख्यो निरीक्ष्य तं बालं मृतं दैत्यं तथाविधम् ३३ साधु साध्विति ताः प्रोचुस्तां च पर्वतकन्यकाम् । गृहं विवेश गिरिजा ताश्च सख्यो मुदान्विताः ३४ चिक्षिपुर्दूरतो दैत्यं तदाज्ञावशगा गणाः । मुमुचुः पुष्पवर्षाणि बालं देवगणास्तदा ३५ (३९६८)

adhyāya 89 prāraṃbha :- ka uvāca | tatastu daśame māse trimuhūrtāgate ravau | kiṃcicca riṃgamāṇo'sau ramate ca śivāsutaḥ 1 pādābhyāṃ cālayankvāpi gūḍhaṃ gūḍhaṃ ca bhāṣate | luṇṭhate nartate cāpi rodanaṃ kurute ca tāma 2 dṛṣṭvā śivāṃ ca sahasā pṛṣṭhalagno vrajatyapi | dṛṣṭvā tathāvidhaṃ bālaṃ jahṛṣe pārvatī tadā 3 etasminnantare dṛṣṭo daitya ājagarābhidhaḥ | vamadagnikaṇāndṛṣṭyā vajrāsāratanurdṛḍhaḥ 4 lalajjihvo dīrghadeho grasanniva mahāgirim | upaviṣṭo drumatale dve jihve lālayanmuhuḥ 5 taṃ bālo bālabhāvena riṃgītvā vidadhāra ha | sa nināya ca śīghramāsyāntaḥ saha tena ca 6 antaḥpraviṣṭe oṣṭhau sa nyamīlayata vāyubhuk | nāpaśyadaṃgaṇe bālaṃ gaurī vihvalamānasā 7 atra kīḍansthito bālaḥ kena nīto hato nu vā | śuśoca paramārtāsau tatāḍa mastakaṃ nijam 8 tāvadgaṇairniṣiddhā sā mā mātarvimanā bhava | bālaprabhāvo vijñātaḥ śataśo balatattaraḥ 9 bālastadudaragato vavṛdhe ca nirudhya ca | śvāsaṃ tasya tu daityasya pucchānta sopyacālayat 2.89.10 prāṇavāyustu netrābhyāṃ rudhireṇa viniryayau | vidārya dehamasyāsau bahiryāto'mbikāsutaḥ 11 cikrīḍa rudhirārdrāṃgaḥ kiṃ nu puṣpitakiṃśukaḥ | tato gaṇāstaṃ nirīkṣya lihantaṃ svāṃguliṃ śiśum 12 uccairūcurgirisutāmayaṃ bālo vinirgataḥ | asyāsyānmārayitvā taṃ daityamājagaraṃ khalam 13 ka uvāca | tadvadhānannaraṃ bālamādāya satvaraṃ śivā | snāpayāmāsa sahasā lālayitvā stanaṃ dadau 14 kva gato'si kṣaṇo bāla tvāṃ vinābdatvamāgataḥ | tato dadarśājagaraṃ vistīrṇaṃ śatayojanam 15 bhayānakamukhaṃ duṣṭaṃ vamantaṃ rudhiraṃ bahu | patitaṃ vṛkṣajālāni pātayitvā gṛhāṇi ca 16 gauryuvāca | asminsthale kiyanto nu bhaveyurdaityarākṣasāḥ | kiyanto nidhanaṃ prāptā asya bālasya vikramāt 17 tatastaṃ cikṣipuḥ sarve gaṇā dūre mahāsuram | tatastvekādaśe māse dvāradeśe śivā yayau 18 sakhībhiḥ paśyatī bālakautukāni bahūnyapi | kasyacidvadanaṃ bālaścumbate cumbayatyapi 19 ācchādate cakṣuṣī ca kasyacitpṛṣṭhagaḥ svayam | pibate māturanyasyāḥ stanyaṃ gatvā balādasau 2.89.20 mukhamācchādya vastreṇa bibhīṣayati cāparān | mukhaṃ keśānnāsikāṃ ca karṣate bhūṣaṇānyapi 21 vadate skhalitāṃ vāṇīṃ paraṃdṛṣṭvā svakānyapi | etasminnantare duṣṭo dānavaḥ śalabhāsuraḥ 22 brahmādīnāmagamyo'sau parvataskandhamaṇḍalaḥ | vyomasphoṭimahāmūrdhā nīlavarṇo yathā ghanaḥ 23 japākusumanayano meghaspṛkśṛṃgamaṇḍalaḥ | bālāntikamupāyāto grasanniva jagattrayam 24 taṃ dhartuṃ bālako yāti yatra yatra sa gacchati | evaṃ tau suciraṃ kālaṃ bhramataḥ sma mahājavau 25 tataḥ śrānto'bhavadbālo ruṣā'dhāvattadantikam | dadhāra sahasā daityaṃ śalabhaṃ balavattarama 26 sapakṣau sphālayāmāsa śyeno hastagato yathā | bādhate caraṇāghātaistaṃ bālaṃ śalabhāsuraḥ 27 prasārya nayane krūre paśyatī sma tadā śiśuma | mumuce taṃ tadā bālo dadhāra ca punaḥpunaḥ 28 darśayāmāsa jananīṃ dharāpṛṣṭhe vyapothayat | śivovāca dayāviṣṭā taṃ bālaṃ krūramānasam 29 jīvaghāto na kartavyo muṃcainaṃ prāṇinaṃ śiśo| balātpunaḥ śilāpṛṣṭhe haṭhāccikṣepa bālakaḥ 2.89.30 sa tadā śatadhā jāto nipapāta ca bhūtale | garjayangaganaṃ vṛkṣānpātayangṛhatoraṇāna 31 vamanraktaṃ bahu mukhāddaśayojanavistṛtaḥ | cūrṇayannāśramānvṛkṣāṃstato mātā nināya tam 32 bālaṃ saṃsthāpayāmāsa prādātstanyaṃ ca bhojanam | sakhyo nirīkṣya taṃ bālaṃ mṛtaṃ daityaṃ tathāvidham 33 sādhu sādhviti tāḥ procustāṃ ca parvatakanyakām | gṛhaṃ viveśa girijā tāśca sakhyo mudānvitāḥ 34 cikṣipurdūrato daityaṃ tadājñāvaśagā gaṇāḥ | mumucuḥ puṣpavarṣāṇi bālaṃ devagaṇāstadā 35 (3968)

GnP 2 86.90

अध्याय ९० प्रारंभ :- क उवाच । ततो द्वादशमासे तु गिरिजा सुतमद्भुतम् । उपविष्टालिभिः सार्धमंके कृत्वा स्वलंकृतम् १ कोटिसूर्यनिभं कोटिभूषणैश्च विराजितम् । ततस्तस्या महानासीदुत्सवो नृत्यदर्शने २ बालकानां हरस्याथ ज्ञात्वा वांछां शिशुस्तदा । थेथीथेयीति शब्देन ननर्त गिरिजासुतः ३ श्रुत्वा तदीयं तं शब्दं हरो नर्तितुमागतः । शिवं नृत्यन्तमालोक्य ननर्त श्रीवरोऽपि च ४ तत इन्द्रादयो देवास्तव नर्तितुमागताः । स यथा नर्तते बालस्तेऽपि नृत्यन्ति तादृशम् ५ दर्शयन्ति तथा भावं स यथा दर्शयत्यपि । मनुष्याः पशवो वृक्षा यक्षराक्षसपन्नगाः ६ मुनयो मनवो भूपा भुवनानि चतुर्दश । एकविंशतिस्वर्गस्थाः सचेतनमचेतनम् ७ बालप्रभावान्ननृते बालच्छन्देन भूतलम् । मुनिपत्न्यो देवपत्न्यो ननृतुर्गिरिकन्यया ८ नूपुराणां सिंचितेन क्षुद्रघन्टारवेण च । पादाघातस्य शब्देन दिशो विदिश एव च ९ गगनं पर्वता आसन्नादयुक्तास्तदा मुने । चकम्पे धरणी शेषो रविश्चन्द्रश्च तारकाः २.९०.१० ततो नृत्यस्यातिशयं ज्ञात्वा गौरी न्यषेधयत् । न चक्रे बालको वाक्यं यदा गौरीसमीरितम् ११ नूपुराख्यो महादैत्यो महाकृष्णतनुर्दृढ । पातालचरणो व्योमसंस्पर्शिदृढमस्तकः १२ नूपुरान्तर्गतो दुष्टः सूक्ष्मरूपः शिशोरसौ । स बालस्तं बबन्धाशु मायया बलवत्तरम् १३ शृङ्खलाभिश्चतुर्दन्तं यथा मदच्युतं गजम् । अंके जग्राह तं बालं पुनरेवाद्रिकन्यका १४ तद्भारेण पिपीडाथ भूभारेण समेन सा। उवाच वचसा गौरी कथं गुरुतरो भवान् १५ इदानीमेव जातोऽसि तस्मादुत्तर मेऽङतः । मम प्राणा गमिष्यन्ति तव भारेण बालक १६ क उवाच । श्रुत्वा मातुर्वचो बालः पीडिता सा भृशं तदा । उत्ततार बलादंकादुधावाङ्रि युगं शिशुः १७ ततो निसृत्य दैत्योऽसौ व्योम्नि बभ्राम पक्षिवत् । तमसाऽव्यापि भूः सर्वा तेन संछादिते रवौ १८ सोऽकस्मान्निपपातोर्व्या शतधा चाभवत्खलः । ततस्ते मुनयो देवाः परमानन्दनिर्वृताः १९ तुष्टुवुर्बालरूपं तं परमात्मानमव्ययम् । देवर्षय ऊचुः । न जानीमो वयं देव रूपाणि तव यन्महः २.९०.२० लीलामायाश्च विविधा दैत्यदानवनाशिकाः । चरणात्त्याजितो दैत्यो रविमण्डललोपकः २१ भ्रमित्वा व्योमनि भृशं पतितः शतधाऽभवत् । संहृत्य जीवसंघातान्वृक्षानाश्रमपर्वतान् २२ तव नृत्यं ततो वीक्ष्य सर्वे नृत्यं प्रचक्रिरे । क उवाच । ततस्ते पुपुजुः सर्वे तं बालं विश्वरूपिणम् । नृत्योत्सवे निवृत्ते तु गौतमादीन्विसृज्य सा २३ पार्वती बालमादाय लालयित्वा स्तनं ददौ। स्त्रिय सर्वा विसृज्याथ विवेश निजमन्दिरम् २४ ततः पुनः कदाचित्स मुनिबालैः समन्वितः । गृहाद्बहिः क्रीडनार्थं ययौ चिक्रीड लीलया २५ मल्लयुद्धं च ते चकुर्द्वन्द्वशोऽनेकधा बहु । पातयामासुरागृह्य शिखायां ते परस्परम् २६ जघ्नुः शिरः शिरोभिश्च जानुभिर्जानुनी तथा । कूर्परं कूर्परेणैव चरणं चरणेन च २७ रुरुहुः पृष्ठभागं ते स्कन्धभागं परस्परम् । लत्ताप्रहारान्निर्जघ्नुरुदरे मस्तकेऽपि च २८ केचिच्च पुपुजुर्बालं गन्धपुष्पाक्षतादिभिः । केचिन्नीत्वाश्रमपदं भोजयामासुरन्धसा २९ नमश्चक्रुः पदयुगं केचिन्मालां ददुः शुभाम् । अविपुत्रस्वरूपेण दैत्यः सिन्धुप्रणोदितः २.९०.३० यं दृष्ट्वा भयमभ्येति दण्डपाणिर्भयानकः । स्वबलेन जघानारींस्तीक्ष्णधारनखो बली ३१ बिरुदं बाहुदेशे स जित्वा सर्वान्बबन्ध ह । विशालाक्षो बृहच्छृङगो महागोत्रविदारणः ३२ पुच्छाघातेन जीवानां यश्चक्रे नाशनं खलः । उन्मूलयामास द्रुमाञ्शृङ्गाघातेन पतंतान् ३३ पृष्ठलग्नो मनुष्याणां बलान्मारयते बली । स ययौ पार्वतीबालं हन्तुकामो महासुरः ३४ पृष्ठतो धावयित्वा स यावन्मारयते तु तम् । दधार शृङ्गयोर्बालो हस्ताभ्यां तावदेव हि ३५ रुरोह च स तत्पृष्ठे हयपृष्ठे यथाऽर्भकः । ततो मुनिसुताः केचित्पुच्छं धृत्वा व्यकर्षयन् ३६ केचिद्दण्डैश्च लगुडैर्निजघ्नुर्दैत्यपुंगवम् । सोऽवमत्य तु ताञ्जघ्ने पुच्छान्तेन स सत्वरम् ३७ निपेतुस्ते तदा भूमौ पुच्छाघातेन पीडिताः । दृष्ट्वा तस्य बलं बालोऽवतरच्च दधार तम् ३८ आस्फालयत्तदा पृष्ठं भ्रामयित्वा चिरं तु तम् । सहस्रधा विशीर्णांगो ममार सहसाऽसुरः ३९ अन्त्यशब्देन तस्याथ बिभाय भुवनत्रयम् । वमन्रक्तं बहु मुखात्प्रसार्य विकृतं मुखम् २.९०.४० ततो बाला मुनीनां तेऽकथयन्नचलोद्भवाम् । अनेन निधनं नीत अविजेयो महासुरैः ४१ निहन्तुं नः समायातः क्रीडता बलशालिना। क उवाच । अम्बा निरीक्ष्य निहतं महादैत्यं सुतं च तम् ४२ आश्चर्यं परमं कृत्वा निनाय निजमन्दिरम् । दध्योदनं भ्रामयित्वा बालोपरि जलेन ह ४३ तत्याज दूरतो गेहात्स्तनपानं ततो ददौ । तानि खण्डानि दैत्यस्य तत्यजुर्दूरतो गणाः ४४ मुनयो मुनिपत्न्यश्च मुनिबालाः स्त्रियोऽपि च । प्रशशंसुः सुतं गौर्या देवाः पुष्पाणि तत्यजुः ४५ आशिषोऽपि ददुर्विप्रा नृत्यन्ते स्माप्सरोगणाः ४६ (४०१४)

adhyāya 90 prāraṃbha :- ka uvāca | tato dvādaśamāse tu girijā sutamadbhutam | upaviṣṭālibhiḥ sārdhamaṃke kṛtvā svalaṃkṛtam 1 koṭisūryanibhaṃ koṭibhūṣaṇaiśca virājitam | tatastasyā mahānāsīdutsavo nṛtyadarśane 2 bālakānāṃ harasyātha jñātvā vāṃchāṃ śiśustadā | thethītheyīti śabdena nanarta girijāsutaḥ 3 śrutvā tadīyaṃ taṃ śabdaṃ haro nartitumāgataḥ | śivaṃ nṛtyantamālokya nanarta śrīvaro'pi ca 4 tata indrādayo devāstava nartitumāgatāḥ | sa yathā nartate bālaste'pi nṛtyanti tādṛśam 5 darśayanti tathā bhāvaṃ sa yathā darśayatyapi | manuṣyāḥ paśavo vṛkṣā yakṣarākṣasapannagāḥ 6 munayo manavo bhūpā bhuvanāni caturdaśa | ekaviṃśatisvargasthāḥ sacetanamacetanam 7 bālaprabhāvānnanṛte bālacchandena bhūtalam | munipatnyo devapatnyo nanṛturgirikanyayā 8 nūpurāṇāṃ siṃcitena kṣudraghanṭāraveṇa ca | pādāghātasya śabdena diśo vidiśa eva ca 9 gaganaṃ parvatā āsannādayuktāstadā mune | cakampe dharaṇī śeṣo raviścandraśca tārakāḥ 2.90.10 tato nṛtyasyātiśayaṃ jñātvā gaurī nyaṣedhayat | na cakre bālako vākyaṃ yadā gaurīsamīritam 11 nūpurākhyo mahādaityo mahākṛṣṇatanurdṛḍha | pātālacaraṇo vyomasaṃsparśidṛḍhamastakaḥ 12 nūpurāntargato duṣṭaḥ sūkṣmarūpaḥ śiśorasau | sa bālastaṃ babandhāśu māyayā balavattaram 13 śṛṅkhalābhiścaturdantaṃ yathā madacyutaṃ gajam | aṃke jagrāha taṃ bālaṃ punarevādrikanyakā 14 tadbhāreṇa pipīḍātha bhūbhāreṇa samena sā| uvāca vacasā gaurī kathaṃ gurutaro bhavān 15 idānīmeva jāto'si tasmāduttara me'ṅataḥ | mama prāṇā gamiṣyanti tava bhāreṇa bālaka 16 ka uvāca | śrutvā māturvaco bālaḥ pīḍitā sā bhṛśaṃ tadā | uttatāra balādaṃkādudhāvāṅri yugaṃ śiśuḥ 17 tato nisṛtya daityo'sau vyomni babhrāma pakṣivat | tamasā'vyāpi bhūḥ sarvā tena saṃchādite ravau 18 so'kasmānnipapātorvyā śatadhā cābhavatkhalaḥ | tataste munayo devāḥ paramānandanirvṛtāḥ 19 tuṣṭuvurbālarūpaṃ taṃ paramātmānamavyayam | devarṣaya ūcuḥ | na jānīmo vayaṃ deva rūpāṇi tava yanmahaḥ 2.90.20 līlāmāyāśca vividhā daityadānavanāśikāḥ | caraṇāttyājito daityo ravimaṇḍalalopakaḥ 21 bhramitvā vyomani bhṛśaṃ patitaḥ śatadhā'bhavat | saṃhṛtya jīvasaṃghātānvṛkṣānāśramaparvatān 22 tava nṛtyaṃ tato vīkṣya sarve nṛtyaṃ pracakrire | ka uvāca | tataste pupujuḥ sarve taṃ bālaṃ viśvarūpiṇam | nṛtyotsave nivṛtte tu gautamādīnvisṛjya sā 23 pārvatī bālamādāya lālayitvā stanaṃ dadau| striya sarvā visṛjyātha viveśa nijamandiram 24 tataḥ punaḥ kadācitsa munibālaiḥ samanvitaḥ | gṛhādbahiḥ krīḍanārthaṃ yayau cikrīḍa līlayā 25 mallayuddhaṃ ca te cakurdvandvaśo'nekadhā bahu | pātayāmāsurāgṛhya śikhāyāṃ te parasparam 26 jaghnuḥ śiraḥ śirobhiśca jānubhirjānunī tathā | kūrparaṃ kūrpareṇaiva caraṇaṃ caraṇena ca 27 ruruhuḥ pṛṣṭhabhāgaṃ te skandhabhāgaṃ parasparam | lattāprahārānnirjaghnurudare mastake'pi ca 28 kecicca pupujurbālaṃ gandhapuṣpākṣatādibhiḥ | kecinnītvāśramapadaṃ bhojayāmāsurandhasā 29 namaścakruḥ padayugaṃ kecinmālāṃ daduḥ śubhām | aviputrasvarūpeṇa daityaḥ sindhupraṇoditaḥ 2.90.30 yaṃ dṛṣṭvā bhayamabhyeti daṇḍapāṇirbhayānakaḥ | svabalena jaghānārīṃstīkṣṇadhāranakho balī 31 birudaṃ bāhudeśe sa jitvā sarvānbabandha ha | viśālākṣo bṛhacchṛṅago mahāgotravidāraṇaḥ 32 pucchāghātena jīvānāṃ yaścakre nāśanaṃ khalaḥ | unmūlayāmāsa drumāñśṛṅgāghātena pataṃtān 33 pṛṣṭhalagno manuṣyāṇāṃ balānmārayate balī | sa yayau pārvatībālaṃ hantukāmo mahāsuraḥ 34 pṛṣṭhato dhāvayitvā sa yāvanmārayate tu tam | dadhāra śṛṅgayorbālo hastābhyāṃ tāvadeva hi 35 ruroha ca sa tatpṛṣṭhe hayapṛṣṭhe yathā'rbhakaḥ | tato munisutāḥ kecitpucchaṃ dhṛtvā vyakarṣayan 36 keciddaṇḍaiśca laguḍairnijaghnurdaityapuṃgavam | so'vamatya tu tāñjaghne pucchāntena sa satvaram 37 nipetuste tadā bhūmau pucchāghātena pīḍitāḥ | dṛṣṭvā tasya balaṃ bālo'vataracca dadhāra tam 38 āsphālayattadā pṛṣṭhaṃ bhrāmayitvā ciraṃ tu tam | sahasradhā viśīrṇāṃgo mamāra sahasā'suraḥ 39 antyaśabdena tasyātha bibhāya bhuvanatrayam | vamanraktaṃ bahu mukhātprasārya vikṛtaṃ mukham 2.90.40 tato bālā munīnāṃ te'kathayannacalodbhavām | anena nidhanaṃ nīta avijeyo mahāsuraiḥ 41 nihantuṃ naḥ samāyātaḥ krīḍatā balaśālinā| ka uvāca | ambā nirīkṣya nihataṃ mahādaityaṃ sutaṃ ca tam 42 āścaryaṃ paramaṃ kṛtvā nināya nijamandiram | dadhyodanaṃ bhrāmayitvā bālopari jalena ha 43 tatyāja dūrato gehātstanapānaṃ tato dadau | tāni khaṇḍāni daityasya tatyajurdūrato gaṇāḥ 44 munayo munipatnyaśca munibālāḥ striyo'pi ca | praśaśaṃsuḥ sutaṃ gauryā devāḥ puṣpāṇi tatyajuḥ 45 āśiṣo'pi dadurviprā nṛtyante smāpsarogaṇāḥ 46 (4014)