← Ganesha Purana — Kridakhanda

Ganesha Purana — Kridakhanda — Chapter 81

GnP 2 81.2

पप्रच्छ तं ततः कस्त्वं कुत आगमनं तव । किमर्छ त्वं गुणेशश्चेद्भवितासि वदस्व माम्२२ क उवाच । इति तद्वचनं श्रुत्वाऽवदत्स पुरुषो महान् । स्वनेन नादयन्सर्वा दिशो विदिश एव च २३ देव उवाच । यं ध्यायसि दिवारात्रावनुष्ठानवती शुभे । सोऽहं गुणेशस्ते गेहेऽवतीर्णः परमः पुमान् २४ परात्परतरो यस्मादवदं त्वा वरार्थिनीम्। यास्ये ते पुत्रतां देवि यत्कृत्यं मे शृणुष्व तत् २५ उभयोः सेवनं कार्यं सिन्धुदैत्यविनाशनम् । अमराणां पदप्रातिं कृत्वा यास्ये निजं पदं२६ क उवाच। पीत्वा वाक्यामृतं तस्य प्रीता सा गिरिजात्मजा। उवाचेह परं भाग्यं परमं मे तपःफलम्२७ नायकोऽनन्तकोटीनां ब्रह्माण्डानां विभुर्मया । दृष्टश्चिदानन्दघनो यस्मात्सृष्टमनेकशः २८ पंचभूतानि ब्रह्मेशहरिश्चन्द्रेन्द्र भास्कराः। नक्षत्राणि च गन्धर्वा यक्षा मुनिगणा द्रुमाः २९ शैलाः पक्षिगणाः सर्वे भुवनानि चतुर्दश । स्थावरं जंगमं यस्मात्सचेतनमचेतनम्

papraccha taṃ tataḥ kastvaṃ kuta āgamanaṃ tava | kimarcha tvaṃ guṇeśaścedbhavitāsi vadasva mām22 ka uvāca | iti tadvacanaṃ śrutvā'vadatsa puruṣo mahān | svanena nādayansarvā diśo vidiśa eva ca 23 deva uvāca | yaṃ dhyāyasi divārātrāvanuṣṭhānavatī śubhe | so'haṃ guṇeśaste gehe'vatīrṇaḥ paramaḥ pumān 24 parātparataro yasmādavadaṃ tvā varārthinīm| yāsye te putratāṃ devi yatkṛtyaṃ me śṛṇuṣva tat 25 ubhayoḥ sevanaṃ kāryaṃ sindhudaityavināśanam | amarāṇāṃ padaprātiṃ kṛtvā yāsye nijaṃ padaṃ26 ka uvāca| pītvā vākyāmṛtaṃ tasya prītā sā girijātmajā| uvāceha paraṃ bhāgyaṃ paramaṃ me tapaḥphalam27 nāyako'nantakoṭīnāṃ brahmāṇḍānāṃ vibhurmayā | dṛṣṭaścidānandaghano yasmātsṛṣṭamanekaśaḥ 28 paṃcabhūtāni brahmeśahariścandrendra bhāskarāḥ| nakṣatrāṇi ca gandharvā yakṣā munigaṇā drumāḥ 29 śailāḥ pakṣigaṇāḥ sarve bhuvanāni caturdaśa | sthāvaraṃ jaṃgamaṃ yasmātsacetanamacetanam

Then she asked him: "Who are you? Whence has your coming been? For what purpose? If you are to be Guṇeśa, tell me." (22) Ka said: Hearing that speech of hers, that great Person spoke, making all the directions and the intermediate directions resound with his voice. (23) The god said: He whom you meditate upon day and night, performing your observance, O auspicious one — I am he, Guṇeśa, the supreme Person, descended into your house. (24) Since I am higher than the highest, I have spoken to you who sought a boon; I shall become your son, O goddess; hear what my work is. (25) Service to you both is to be done, and the destruction of the demon Sindhu; having brought about the immortals' recovery of their stations, I shall go to my own abode. (26) Ka said: Drinking the nectar of his words, that daughter of the mountain was pleased and said: "Here is the highest good fortune, the supreme fruit of my austerity! (27) By me has been seen the lord, the master of endless crores of universes, dense with consciousness and bliss, from whom manifold things were created: (28) the five elements, Brahmā, Īśa and Hari, the moon, Indra and the sun, the stars, the gandharvas, the yakṣas, the hosts of sages, the trees, (29) the mountains, all the flocks of birds, the fourteen worlds — from whom the immobile and the moving, the sentient and the insentient (all arose)."

AI translation rendered from the Sanskrit, not a published edition

GnP 2 81.21

क उवाच। ततःसा पार्वती हृष्टा सखीजनमगान्निजम्। वृत्तान्तं सर्वमाचख्यौ हृष्टरूपोऽपि सोऽभवत् १ ततत्प्रभृति सा देवी गुणेशमानसाऽभवत्। पश्यति स्मान्यबालं सा गुणेशोऽयं भवेदिति २ गृहीतुं धावति तदा तन्मात्रा सा निषिध्यते । न क्वापि विश्रमं याति गुणेशध्यानतत्परा ३ तन्नाम जपते नित्यं तन्मयं लोकते जगत् । पप्रच्छ च सखीः सर्वा गुणेशो यास्यते कदा ४ पित्रा मे कथितं पूर्वं व्रतमीशाप्तये शुभम् । पार्थिवस्य गणेशस्य पूजनं च यथाविधि ५ तेन व्रतप्रभावेण प्राप्ताऽस्मि शंकरं प्रियम् । पुनस्तदाचरिष्यामि गुणेशप्राप्तयेऽधुना ६ ततो भाद्रचतुर्थ्यां सा कृत्वा मूर्तिं मुदान्विता । उपचारैः षोडशभिः पुपूज च गजाननीम्७ षड्भिर्ध्यानादिकः पंचामृतवस्त्रैरनेकशः । यज्ञोपवीतगंधैश्च धूपदीपैर्यथाविधि८ नानापुष्पैश्च नैवेद्यैर्नानाविधफलैरपि । ताम्बूलैरार्द्रपूगैश्च लवंगादिसमन्वितैः ९ दूर्वाभिश्च शमीपत्रैर्दक्षिणाभिरनेकशः । आरार्तिक्यैर्विचित्रैश्च मन्त्रपुष्पैः स्तवैरपि २.८१.१० प्रदक्षिणाप्रार्थनाभिर्ब्राह्मणानां च पूजनैः । परितुष्टा मूर्तिरसौ पार्थिवी चेतनामगात् ११ तदैव प्रभया तस्याः कोटिसूर्यप्रभा जिता । कल्पानलार्चिर्विजिताऽनन्तचन्द्रप्रभा हृता १२ हतनेत्रप्रभा गौरी मूर्छिता पतिता भुवि । मुहूर्तात्सावधाना सा प्रोवाच जगदीश्वरम् १३ किं मया विकृतं देवपूजनेन च तर्कये। अभिचारोऽथवा केन प्रयुक्तोऽयं न वेद्मि तम् १४ कथं मे विफलो यत्नो जातो देव कृपानिधे । क उवाच । श्रुत्वेत्थं वचनं तस्याः सौम्यतेजा अभूत्प्रभुः १५ सा तदैवाभवद्धृष्टा बालं वीक्ष्य पुरोगतम् । असंख्यवक्त्रनयनमसंख्यांघ्रिशिरोधरम् १६ असंख्यमुकुटं सूर्यचन्द्राग्निलोचनं विभुम् । मुक्तामणिमयीं मालां बिभ्रन्तं दीप्तिमत्परम् १७ अनेकायुधहस्तं च सर्वावयवसुन्दरम् । दृष्ट्वा तु पार्वती रूपं पवित्रं परमाद्भुतम् १८ अतर्कयच्चेतसा सा निमील्य नयने शुभे । कम्पमानांगा यष्टिः सा कर्तव्यं नाभ्यपद्यत १९ चिन्तितं किं मया दृष्टमरिष्टमद्भुतं नु किम् । उन्मील्य नयनेऽपश्यद्दिव्यदृष्टिर्धरात्मजा २.८१.२० तावच्छिवोपदिष्टं तदवेदीच्च जगाद च । पार्वत्युवाच । अस्यैव मायया भ्रान्ता न जानामि विभुं प्रभुम्

ka uvāca| tataḥsā pārvatī hṛṣṭā sakhījanamagānnijam| vṛttāntaṃ sarvamācakhyau hṛṣṭarūpo'pi so'bhavat 1 tatatprabhṛti sā devī guṇeśamānasā'bhavat| paśyati smānyabālaṃ sā guṇeśo'yaṃ bhavediti 2 gṛhītuṃ dhāvati tadā tanmātrā sā niṣidhyate | na kvāpi viśramaṃ yāti guṇeśadhyānatatparā 3 tannāma japate nityaṃ tanmayaṃ lokate jagat | papraccha ca sakhīḥ sarvā guṇeśo yāsyate kadā 4 pitrā me kathitaṃ pūrvaṃ vratamīśāptaye śubham | pārthivasya gaṇeśasya pūjanaṃ ca yathāvidhi 5 tena vrataprabhāveṇa prāptā'smi śaṃkaraṃ priyam | punastadācariṣyāmi guṇeśaprāptaye'dhunā 6 tato bhādracaturthyāṃ sā kṛtvā mūrtiṃ mudānvitā | upacāraiḥ ṣoḍaśabhiḥ pupūja ca gajānanīm7 ṣaḍbhirdhyānādikaḥ paṃcāmṛtavastrairanekaśaḥ | yajñopavītagaṃdhaiśca dhūpadīpairyathāvidhi8 nānāpuṣpaiśca naivedyairnānāvidhaphalairapi | tāmbūlairārdrapūgaiśca lavaṃgādisamanvitaiḥ 9 dūrvābhiśca śamīpatrairdakṣiṇābhiranekaśaḥ | ārārtikyairvicitraiśca mantrapuṣpaiḥ stavairapi 2.81.10 pradakṣiṇāprārthanābhirbrāhmaṇānāṃ ca pūjanaiḥ | parituṣṭā mūrtirasau pārthivī cetanāmagāt 11 tadaiva prabhayā tasyāḥ koṭisūryaprabhā jitā | kalpānalārcirvijitā'nantacandraprabhā hṛtā 12 hatanetraprabhā gaurī mūrchitā patitā bhuvi | muhūrtātsāvadhānā sā provāca jagadīśvaram 13 kiṃ mayā vikṛtaṃ devapūjanena ca tarkaye| abhicāro'thavā kena prayukto'yaṃ na vedmi tam 14 kathaṃ me viphalo yatno jāto deva kṛpānidhe | ka uvāca | śrutvetthaṃ vacanaṃ tasyāḥ saumyatejā abhūtprabhuḥ 15 sā tadaivābhavaddhṛṣṭā bālaṃ vīkṣya purogatam | asaṃkhyavaktranayanamasaṃkhyāṃghriśirodharam 16 asaṃkhyamukuṭaṃ sūryacandrāgnilocanaṃ vibhum | muktāmaṇimayīṃ mālāṃ bibhrantaṃ dīptimatparam 17 anekāyudhahastaṃ ca sarvāvayavasundaram | dṛṣṭvā tu pārvatī rūpaṃ pavitraṃ paramādbhutam 18 atarkayaccetasā sā nimīlya nayane śubhe | kampamānāṃgā yaṣṭiḥ sā kartavyaṃ nābhyapadyata 19 cintitaṃ kiṃ mayā dṛṣṭamariṣṭamadbhutaṃ nu kim | unmīlya nayane'paśyaddivyadṛṣṭirdharātmajā 2.81.20 tāvacchivopadiṣṭaṃ tadavedīcca jagāda ca | pārvatyuvāca | asyaiva māyayā bhrāntā na jānāmi vibhuṃ prabhum

GnP 2 81.41

अध्याय ८४ प्रारंभ – क उवाच । मासे द्वितीये गौरी तं सायमभ्यज्य बालकम् । स्थापयामास दोलायां गायति स्म मुदा बहु १ तावदाखू समायातौ मायारूपधरौ सुतम् । तौ क्षेमकुशलौ दैत्यौ तद्वधाकांक्षिणावुभौ २ नखदंष्ट्रायुधौ घोरौ मन्दिराभ्यन्तरं गतौ । युध्यन्तौ पालनाभ्याशे स्फुरदंगरुहौ खलौ ३ ययोश्चीत्कारशब्देन श्रुतयो बधिरीकृताः। पादाघातेन भूः सर्वा कृदक्षेत्रसमा कृता ४ ततो यष्टिं गृहीत्वा सा भीषयामास तावुभौ। यनपरौ चोभावुपरिष्टाद्गतौ तदा ५ युध्यन्तौ पतितौ घोरौ बालकोपरि तावुभौ । उरस्थलाभिघातात्स बुबुधे बालकोत्तमः ६ कृत्वा कर्कशशब्दं तु सा बिभाय तदा शिवा। बालभावेन हस्तौ स चालयामास भीतितः ७ तदाघातादुभौ नष्टजीवितौ पतितावधः। वमन्तौ रुधिरं वक्त्राद्दृष्ट्वा भ्रान्ता शिवाऽभवत् ८ किचिज्जीवितशेषौ तौ बहिर्नीतौ गणैस्तदा । मोक्षं जग्मतुराघाताद्गणेशकरसंभवात् ९ तद्देहौ पतितौ घोरौ दशयोजनविस्तृतौ । कोलाहलो महानासीद्दृष्ट्वा देहौ तथा गतौ २.८४.१० गणानां च सखीनां च पार्वत्या सुमहांस्तदा। विध्वस्ता आश्रमा वृक्षाः पर्वता भुवनानि च११ पतद्भ्यां तच्छरीराभ्यां निर्जियाभ्यां महान्त्यपि। छित्त्वा छित्त्वा तु तद्देहौ गणा निन्युर्बहिस्तदा १२ पार्वती भयवित्रस्ता बालमादाय सत्वरम् । पाययामास स्नेहेन स्तन्यं बालकवत्सला १३ ऋषिपत्न्यः समायाता पार्वतीमूचिरेऽनघाः । पुण्यं महत्तु ते गौरि येन विघ्नं विनश्यति १४ द्विमासिकेन बालेन हतौ दुष्टौ महासुरौ। अग्रे त्रिभुवनेऽनेन सदृशो न भविष्यति १५ माता राक्षसभूरत्र यत्नः कार्यः शिशाविह । नेष्यन्ति राक्षसा गुप्ता असुरा मायिनः परे १६ क उवाच । एवमुक्त्वा गता देव्यो गणास्तां तु समूचिरे । अयं तु ते शिवे बालो हनिष्यति दिने दिने १७ अस्माभिस्तु कियत्कालं बहिःकार्या हतासुराः । ततस्तु मुनयो जग्मू रक्षां चक्रुरथार्भके १८ ददौ दानानि तेभ्यः सा विससर्ज प्रणम्य तान् । ततस्तृतीये मासे तु स्वस्वकार्यरते जने । मध्याह्ने पार्वती बालं गृहीत्वा मंचकेऽस्वपत् १९ तत्परीचारिकाः सुप्ता काश्चित्कार्यान्तरे स्थिताः । चक्रुः काश्चिद्द्वारि वार्तामेतस्मिन्नन्तरेऽसुरः २.८४.२० कूराख्यश्चोतुवेषण विवेश गिरिजालयम् । वंचयित्वा लोकदृष्टिं श्वेव दुष्टो महाबलः २१ स निरीक्ष्य शिवां सुप्तां जहृषे मनसा तदा । यावन्निद्राति गिरिजा तावन्नेष्ये शिशुं त्वहम् २२ लाघवान्मंचकारूढो बालमादाय मस्तके । मंचकाधः पपाताशु चुक्रोश बालकस्तदा २३ ततः प्रबुद्धा गिरिजा बिडालास्यगतं शिशुम् । निरीक्ष्य धाव धावेति प्राक्रोशद्भयविह्वला २४ निमील्य नयने मूर्च्छामगाद्दुःखेन भीतितः । कण्ठे दशति यावत्स तावद्बालो दधार तम् २५ कर्णयोरुभयोर्दोर्भ्यां स्वभावात्पादताडनात् । न्यपातयच्छिरोदेशे मंचकाधो महासुरम् २६ स भिन्नहृदयोऽधावद्बहिर्गत्वा पपात ह। महावातेन वृक्षात्तु पक्वं किंचित्फलं यथा २७ दुर्गन्धं रुधिरं तस्य पतितं धरणीतले । आच्छादयन्नासिकां सा गिरिजा शोकविह्वला २८ आदाय तस्मै प्रादात्सा स्तनपानं शिशोस्तदा । आगता बालशब्देन सर्वास्ताः परिचारिकाः २९ स्पृशन्ति स्म तदांगानि प्रत्येकं कौतुकान्विताः । अजरामरतामस्य निश्चित्य मनसा तु ताः २.८४.३० स तु दीर्घो बिडालोऽभूत्तदा द्वादशयोजनम् । कियत्यश्चूर्णिताः सख्यः कियत्यः परिचारिकाः ३१ गणाश्चैव समायाता ओतुं दृष्ट्वा तथाविधम्। आश्चर्यं परमं चक्रुर्बालकस्य पराक्रमे ३२ क्व दैत्यो मायिको दुष्टः क्व बालचरणाहतिः । इन्द्रादीनामवध्या ये हन्यन्तेऽनेन लीलया ३३ इत्युक्त्वाज्ञां गृहीत्वा ते गणा याता निजं पदम् । केचिच्च बलिनो दैत्यमाकृष्य तत्यजुर्बहिः ३४ कटिदेशे गृहीत्वैनं साऽविशन्निजमन्दिरम् । ततश्चुतर्थे मासे तु मुनिपत्न्यः समागताः ३५ नानासौभाग्यद्रव्याणि गृहीत्वोत्तरगे रवौ । अबालाश्च सबालाश्च पार्वत्यामंदिरं शुभम् ३६ तासामासनसत्कारान्ददौ दाक्षायणी तदा । नमस्करोति ता नारीः कटौ बालं प्रगृहय च ३७ परस्परं समर्चन्त्यां हरिद्राकुंकुमादिभिः । भूमौ संस्थाप्य बालानि गतिमन्त्यगतीनि च ३८ पार्वतीयस्ततस्तेषु क्रीडते स्मापि बालकः । तेन सर्वे शुशुभिरे शशिनोडुगणो यथा ३९ दृष्ट्वा ता मुनिपत्न्यस्तमूचुर्गिरिसुतामिति । धन्याऽसि गौरि पुत्रेण शिवदत्तेन भास्वता २.८४.४० तव बालस्य सान्निध्याद्भासन्ते नोऽपि बालकाः । निधिसंगेन हेमत्वं लोहेनापि समाप्यते ४१ एवं कौतुकयुक्तास्ता आनर्चुश्च परस्परम् । हरिद्राभिः कुंकमेक्षुखण्डचन्दनगृंजकैः ४२ तिलैर्गुडैस्तालपत्रैर्नानापरिमलैरपि । काश्चिदंगे हरिद्रां च मुखेषु च लिलिम्पिरे ४३ एतस्मिनन्तरे दैत्यो नाम्ना बालासुरो महान् । बालरूपी समवयास्तन्मध्ये क्रीडितुं ययौ ४४ चिक्रीड पार्वतीयेन युध्यन्निव विनोदतः । यथासिंहेन क्रोष्टा तु महिषो वा गजेन च ४५ कण्ठेन कण्ठं संघृष्य पेततुर्भुवि दारुणौ। मस्तके चरणाभ्यां सोऽहनद्दुष्टो गजाननम् ४६ कचादानाय हस्ताभ्यां विचकर्ष बलादमुम् । स्वयं च गर्जते दुष्टो वृद्धः क्रोष्टा यथा निशि ४७ दृष्ट्वा तथाविधौ तौ सा गिरिजा प्राह ताः स्त्रियः । कस्यर्षेर्दृढबालोऽयं ताडयित्वा शिशुं मम ४८ क्रन्दतेऽसौ खर इव प्रहरे प्रहरे खलः । अर्भकाणां स्वभावोऽयमित्युपेक्षितवत्यसौ ४९ तौ तु भूमिगतौ बालौ लुण्ठतः स्मानुवत्सलौ । धृत्वा परस्परं केशानाकर्षन्तं च सर्वशः २.८४.५० हसन्तौ हासयन्तौ च बालकांश्च मुनिस्त्रियः । जानन्नपि महादैत्यं खेलति स्म विनायकः ५१ ततो बालासुरो दुष्टो हस्ताभ्यां बलवत्तरम् । जीवग्राहं कण्ठदेशे दधार गणनायकम् ५२ तथा तं सोऽपि जग्राह रुद्धश्वासोऽसुरोऽभवत् । विह्वलं दैत्यपुत्रं तं दृष्ट्वा दुश्चित्ततां स्त्रियः ५३ ययुश्च चक्रुशुर्बालो निहतोऽनेन निश्चितम् । धावमाना ययुः काश्चिन्नाशकन्मोचितुं हि तौ ५४ स्त्रियश्च पुरुषाः सर्वे ततस्तामम्बिकां शुभाम् । ऊचुर्विमोचयैनं त्वं मुनिपुत्रो मरिष्यति ५५ ततः सा पार्वती बालं मुंच मुंचेति साऽब्रवीत । अस्मिन्मृते शपिष्यन्ति मुनयो नस्तपोन्विताः ५६ जीवदानात्परं पुण्यं नास्ति ब्रह्माण्डगोलके । गमिष्यति महाशक्तिस्तव तेषां तु शापतः ५७ क उवाच । एवं यावत्प्रार्थयते गिरिजा तावदेव हि । नेत्रद्वारेण तत्प्राणा गता बुद्बुदवत्क्षणात् ५८ ददृशुस्तं ततः सर्वे दशयोजनमायतम् । करालवक्त्रं पतितं चूर्णयित्वा महाद्रुमान् ५९ ततः स्त्रियो ययुर्भीता बालमादाय सत्वराः । वृकवृन्दं हि दृष्ट्वैव धेनवोऽजा यथा भयात् २.८४.६० गिरिजापि स्वकं गृहय भ्रामयित्वा सुतं मुदम् । दत्त्वा स्तनं कारयित्वा शान्तिकं द्विजपुंगवैः ६१ ददौ दानानि तेभ्यः सा जगृहे आशिषो बहु । न जाने आसुरीं मायां कियन्तो यान्ति नाशितुम् ६२ ततस्ते विलयं यान्ति मम बालान्महाखलाः । ईश्वरे सानुकूले कः पीडितुं क्षमते जनम् ६३ क उवाच । एवमाकर्ण्य तद्वाक्यं मुनिपत्न्यो ययुश्च ते । गणास्तं दूरतः क्षिप्त्वा स्नात्वा स्वं धाम लेभिरे ६४ (३७५५) क उवाच । श्रुत्वा मुनिमुखात्पुत्रं गिरिजाया महाबलम् । पंचमे मासि संप्राप्ते मरोचिर्वीक्षितुं ययौ १ भूत- भव्यभविष्यज्ञः समलोष्ठाश्मकांचनः । वेदशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः २ संहारे रक्षणे सृष्टौ मनसा जगतः क्षमः । तं दृष्ट्वा पादयोस्तस्य पतिता सखिभिः सह ३ उपवेश्यासने पादौ क्षालयामास भक्तितः । तज्जलं पावनं पीत्वा सिषेचान्तर्गुहं मदा ४ उपचारैः षोडशभिः पुपूजेश्वरभावना । उवाच पार्वती तुष्टा लभ्यं दृष्टं पदं हि ते ५ मुनिरुवाच । अहमात्ममना देवि न व्रजामि हि कुत्रचित् । अकस्माद्ध्यानविषयस्तव पुत्रो बभूव मे ६ तस्य ते दर्शनाकांक्षी शिबस्याप्यहमागतः । क उवाच । एवमाकर्ण्य सा वाक्यं तस्यर्षेस्तनयं स्वकम् ७ अतिप्रीतिमना गौरी तस्यांके संन्यवेशत् । ऊचे सा तं महाभाग्यं फलितं दर्शनात्तव ८ पुण्यं च परमं प्राप्तं शुभमग्रे भविष्यति । मुनिरुवाच । गौरि तेऽयं सुतो ब्रह्मस्वरूपो भासते मम ९ षट्चक्रभेदनरता योगनिष्ठा महर्षयः । वायुभक्ष्या उपासन्ते यं ते सोऽयं तवात्मजः २.८५.१० गुणत्रयबिभेदेन त्रितनुस्त्रिक्रियाकरः । यत्सत्तयाथ शेषोऽपि वहते मस्तके भुवम ११ अणुरूपः स्थूलरूपः सप्तविंशतितत्त्वकृत् । चेतनाचेतनं विश्वं यद्रूपं सर्वकर्मकृत् १२ युगे दशभुजः पूर्वे सिंहारूढो विनायकः । द्वितीये षड्भुजो बर्हिवाहनः शशिसन्निभः १३ मयूरेश इति ख्यातो नानादैत्यनिबर्हणः । तृतीये तु युगे देवो रक्तवर्णश्चतुर्भुजः १४ गजानन इति ख्यातो धूम्रवर्णः कलौ युगे। धूमकेतुरिति ख्यातो द्विभुजः सर्वदैत्यहा १५ एतस्य रक्षणं गौरि दैत्येभ्यः कुरु सर्वदा । गौर्युवाच । एषोऽतिचपलो बालो दैत्यान्हन्ति बहूनपि १६ अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम । दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः । अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि १७ मुनिरुवाच । ध्यायेत्सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् । द्वापारे तु गजाननं युगभुजं रक्तांकरागं विभुं तुर्येतु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा १८ विनायकः शिखां पातु परमात्मा परात्परः । अतिसुन्दरकायस्तु मस्तकं सुमहोत्कट: १९ ललाटं काश्यपः पातु भ्रूयुगं तु महोदरः । नयने भालचन्द्रस्तु गजास्यत्वोष्ठपल्लवौ २.८५.२० जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः । वाचं विनायकः पातु दन्तान्रक्षतु दुर्मुखः २१ श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः । गणेशस्तु मुखं कण्ठं पातु देवो गणंजयः २२ स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः । हृदयं गणनाथस्तु हेरम्बो जठरं महान् २३ धराधरः पातु पार्श्वं पृष्ठं विघ्नहरः शुभः । लिंगं गुह्यं सदाऽपातु वक्रतुण्डो महाबलः २४ गणक्रीडो जानुजंघे ऊरूमंगलमूर्तिमान् । एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु २५ क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः । अंगुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः २६ सर्वागांनि मयूरेशो विश्वव्यापी सदाऽवतु । अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु २७ आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु । प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः २८ दक्षिणस्यामुमापुत्रो नैर्ऋत्यां तु गणेश्वरः । प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः २९ कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः । दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत २.८५.३० राक्षसासुरवेतालग्रहभूतपिशाचतः । पाशांकुशधरः पातु रजः सत्त्वं तमः स्मृतिम् ३१ ज्ञानं धर्म च लक्ष्मीं च लज्जां कीर्तिं दयां कुलम् । वपुर्धनं च धान्यं च गृहां दारान्सुतान्सखीन ३२ सर्वायुधधरः पौत्रान्मयूरेशोऽवतात्सदा । कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु ३३ भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः । न भयं जायते तस्य यक्षरक्षः पिशाचतः ३४ त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् । यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ३५ युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद्ध्रुवम् । मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ३६ सप्तवारं पठेद्यस्तु दिननामेकविंशतिम् । तत्तत्फलमवाप्नोति साधको नात्र संशयः ३७ एकविंशतिवारं च पठेत्तावद्दिनानि यः । कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ३८ राजदर्शनेवेलायां पठेदेतत् त्रिवारतः । स राजानं वशं नीत्वा प्रकृतिं च सभां जयेत् ३९ इदं गणेशकवचं मुद्गलेन समीरितम्। कश्यपाय च तेनाथ माण्डव्याय महर्षये २.८५.४० मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभं। सर्वरक्षाकरं सर्वमनःकामप्रपूरकम्

adhyāya 84 prāraṃbha – ka uvāca | māse dvitīye gaurī taṃ sāyamabhyajya bālakam | sthāpayāmāsa dolāyāṃ gāyati sma mudā bahu 1 tāvadākhū samāyātau māyārūpadharau sutam | tau kṣemakuśalau daityau tadvadhākāṃkṣiṇāvubhau 2 nakhadaṃṣṭrāyudhau ghorau mandirābhyantaraṃ gatau | yudhyantau pālanābhyāśe sphuradaṃgaruhau khalau 3 yayoścītkāraśabdena śrutayo badhirīkṛtāḥ| pādāghātena bhūḥ sarvā kṛdakṣetrasamā kṛtā 4 tato yaṣṭiṃ gṛhītvā sā bhīṣayāmāsa tāvubhau| yanaparau cobhāvupariṣṭādgatau tadā 5 yudhyantau patitau ghorau bālakopari tāvubhau | urasthalābhighātātsa bubudhe bālakottamaḥ 6 kṛtvā karkaśaśabdaṃ tu sā bibhāya tadā śivā| bālabhāvena hastau sa cālayāmāsa bhītitaḥ 7 tadāghātādubhau naṣṭajīvitau patitāvadhaḥ| vamantau rudhiraṃ vaktrāddṛṣṭvā bhrāntā śivā'bhavat 8 kicijjīvitaśeṣau tau bahirnītau gaṇaistadā | mokṣaṃ jagmaturāghātādgaṇeśakarasaṃbhavāt 9 taddehau patitau ghorau daśayojanavistṛtau | kolāhalo mahānāsīddṛṣṭvā dehau tathā gatau 2.84.10 gaṇānāṃ ca sakhīnāṃ ca pārvatyā sumahāṃstadā| vidhvastā āśramā vṛkṣāḥ parvatā bhuvanāni ca11 patadbhyāṃ taccharīrābhyāṃ nirjiyābhyāṃ mahāntyapi| chittvā chittvā tu taddehau gaṇā ninyurbahistadā 12 pārvatī bhayavitrastā bālamādāya satvaram | pāyayāmāsa snehena stanyaṃ bālakavatsalā 13 ṛṣipatnyaḥ samāyātā pārvatīmūcire'naghāḥ | puṇyaṃ mahattu te gauri yena vighnaṃ vinaśyati 14 dvimāsikena bālena hatau duṣṭau mahāsurau| agre tribhuvane'nena sadṛśo na bhaviṣyati 15 mātā rākṣasabhūratra yatnaḥ kāryaḥ śiśāviha | neṣyanti rākṣasā guptā asurā māyinaḥ pare 16 ka uvāca | evamuktvā gatā devyo gaṇāstāṃ tu samūcire | ayaṃ tu te śive bālo haniṣyati dine dine 17 asmābhistu kiyatkālaṃ bahiḥkāryā hatāsurāḥ | tatastu munayo jagmū rakṣāṃ cakrurathārbhake 18 dadau dānāni tebhyaḥ sā visasarja praṇamya tān | tatastṛtīye māse tu svasvakāryarate jane | madhyāhne pārvatī bālaṃ gṛhītvā maṃcake'svapat 19 tatparīcārikāḥ suptā kāścitkāryāntare sthitāḥ | cakruḥ kāściddvāri vārtāmetasminnantare'suraḥ 2.84.20 kūrākhyaścotuveṣaṇa viveśa girijālayam | vaṃcayitvā lokadṛṣṭiṃ śveva duṣṭo mahābalaḥ 21 sa nirīkṣya śivāṃ suptāṃ jahṛṣe manasā tadā | yāvannidrāti girijā tāvanneṣye śiśuṃ tvaham 22 lāghavānmaṃcakārūḍho bālamādāya mastake | maṃcakādhaḥ papātāśu cukrośa bālakastadā 23 tataḥ prabuddhā girijā biḍālāsyagataṃ śiśum | nirīkṣya dhāva dhāveti prākrośadbhayavihvalā 24 nimīlya nayane mūrcchāmagādduḥkhena bhītitaḥ | kaṇṭhe daśati yāvatsa tāvadbālo dadhāra tam 25 karṇayorubhayordorbhyāṃ svabhāvātpādatāḍanāt | nyapātayacchirodeśe maṃcakādho mahāsuram 26 sa bhinnahṛdayo'dhāvadbahirgatvā papāta ha| mahāvātena vṛkṣāttu pakvaṃ kiṃcitphalaṃ yathā 27 durgandhaṃ rudhiraṃ tasya patitaṃ dharaṇītale | ācchādayannāsikāṃ sā girijā śokavihvalā 28 ādāya tasmai prādātsā stanapānaṃ śiśostadā | āgatā bālaśabdena sarvāstāḥ paricārikāḥ 29 spṛśanti sma tadāṃgāni pratyekaṃ kautukānvitāḥ | ajarāmaratāmasya niścitya manasā tu tāḥ 2.84.30 sa tu dīrgho biḍālo'bhūttadā dvādaśayojanam | kiyatyaścūrṇitāḥ sakhyaḥ kiyatyaḥ paricārikāḥ 31 gaṇāścaiva samāyātā otuṃ dṛṣṭvā tathāvidham| āścaryaṃ paramaṃ cakrurbālakasya parākrame 32 kva daityo māyiko duṣṭaḥ kva bālacaraṇāhatiḥ | indrādīnāmavadhyā ye hanyante'nena līlayā 33 ityuktvājñāṃ gṛhītvā te gaṇā yātā nijaṃ padam | kecicca balino daityamākṛṣya tatyajurbahiḥ 34 kaṭideśe gṛhītvainaṃ sā'viśannijamandiram | tataścutarthe māse tu munipatnyaḥ samāgatāḥ 35 nānāsaubhāgyadravyāṇi gṛhītvottarage ravau | abālāśca sabālāśca pārvatyāmaṃdiraṃ śubham 36 tāsāmāsanasatkārāndadau dākṣāyaṇī tadā | namaskaroti tā nārīḥ kaṭau bālaṃ pragṛhaya ca 37 parasparaṃ samarcantyāṃ haridrākuṃkumādibhiḥ | bhūmau saṃsthāpya bālāni gatimantyagatīni ca 38 pārvatīyastatasteṣu krīḍate smāpi bālakaḥ | tena sarve śuśubhire śaśinoḍugaṇo yathā 39 dṛṣṭvā tā munipatnyastamūcurgirisutāmiti | dhanyā'si gauri putreṇa śivadattena bhāsvatā 2.84.40 tava bālasya sānnidhyādbhāsante no'pi bālakāḥ | nidhisaṃgena hematvaṃ lohenāpi samāpyate 41 evaṃ kautukayuktāstā ānarcuśca parasparam | haridrābhiḥ kuṃkamekṣukhaṇḍacandanagṛṃjakaiḥ 42 tilairguḍaistālapatrairnānāparimalairapi | kāścidaṃge haridrāṃ ca mukheṣu ca lilimpire 43 etasminantare daityo nāmnā bālāsuro mahān | bālarūpī samavayāstanmadhye krīḍituṃ yayau 44 cikrīḍa pārvatīyena yudhyanniva vinodataḥ | yathāsiṃhena kroṣṭā tu mahiṣo vā gajena ca 45 kaṇṭhena kaṇṭhaṃ saṃghṛṣya petaturbhuvi dāruṇau| mastake caraṇābhyāṃ so'hanadduṣṭo gajānanam 46 kacādānāya hastābhyāṃ vicakarṣa balādamum | svayaṃ ca garjate duṣṭo vṛddhaḥ kroṣṭā yathā niśi 47 dṛṣṭvā tathāvidhau tau sā girijā prāha tāḥ striyaḥ | kasyarṣerdṛḍhabālo'yaṃ tāḍayitvā śiśuṃ mama 48 krandate'sau khara iva prahare prahare khalaḥ | arbhakāṇāṃ svabhāvo'yamityupekṣitavatyasau 49 tau tu bhūmigatau bālau luṇṭhataḥ smānuvatsalau | dhṛtvā parasparaṃ keśānākarṣantaṃ ca sarvaśaḥ 2.84.50 hasantau hāsayantau ca bālakāṃśca munistriyaḥ | jānannapi mahādaityaṃ khelati sma vināyakaḥ 51 tato bālāsuro duṣṭo hastābhyāṃ balavattaram | jīvagrāhaṃ kaṇṭhadeśe dadhāra gaṇanāyakam 52 tathā taṃ so'pi jagrāha ruddhaśvāso'suro'bhavat | vihvalaṃ daityaputraṃ taṃ dṛṣṭvā duścittatāṃ striyaḥ 53 yayuśca cakruśurbālo nihato'nena niścitam | dhāvamānā yayuḥ kāścinnāśakanmocituṃ hi tau 54 striyaśca puruṣāḥ sarve tatastāmambikāṃ śubhām | ūcurvimocayainaṃ tvaṃ muniputro mariṣyati 55 tataḥ sā pārvatī bālaṃ muṃca muṃceti sā'bravīta | asminmṛte śapiṣyanti munayo nastaponvitāḥ 56 jīvadānātparaṃ puṇyaṃ nāsti brahmāṇḍagolake | gamiṣyati mahāśaktistava teṣāṃ tu śāpataḥ 57 ka uvāca | evaṃ yāvatprārthayate girijā tāvadeva hi | netradvāreṇa tatprāṇā gatā budbudavatkṣaṇāt 58 dadṛśustaṃ tataḥ sarve daśayojanamāyatam | karālavaktraṃ patitaṃ cūrṇayitvā mahādrumān 59 tataḥ striyo yayurbhītā bālamādāya satvarāḥ | vṛkavṛndaṃ hi dṛṣṭvaiva dhenavo'jā yathā bhayāt 2.84.60 girijāpi svakaṃ gṛhaya bhrāmayitvā sutaṃ mudam | dattvā stanaṃ kārayitvā śāntikaṃ dvijapuṃgavaiḥ 61 dadau dānāni tebhyaḥ sā jagṛhe āśiṣo bahu | na jāne āsurīṃ māyāṃ kiyanto yānti nāśitum 62 tataste vilayaṃ yānti mama bālānmahākhalāḥ | īśvare sānukūle kaḥ pīḍituṃ kṣamate janam 63 ka uvāca | evamākarṇya tadvākyaṃ munipatnyo yayuśca te | gaṇāstaṃ dūrataḥ kṣiptvā snātvā svaṃ dhāma lebhire 64 (3755) ka uvāca | śrutvā munimukhātputraṃ girijāyā mahābalam | paṃcame māsi saṃprāpte marocirvīkṣituṃ yayau 1 bhūta- bhavyabhaviṣyajñaḥ samaloṣṭhāśmakāṃcanaḥ | vedaśāstrārthatattvajño nyastasvaparavibhramaḥ 2 saṃhāre rakṣaṇe sṛṣṭau manasā jagataḥ kṣamaḥ | taṃ dṛṣṭvā pādayostasya patitā sakhibhiḥ saha 3 upaveśyāsane pādau kṣālayāmāsa bhaktitaḥ | tajjalaṃ pāvanaṃ pītvā siṣecāntarguhaṃ madā 4 upacāraiḥ ṣoḍaśabhiḥ pupūjeśvarabhāvanā | uvāca pārvatī tuṣṭā labhyaṃ dṛṣṭaṃ padaṃ hi te 5 muniruvāca | ahamātmamanā devi na vrajāmi hi kutracit | akasmāddhyānaviṣayastava putro babhūva me 6 tasya te darśanākāṃkṣī śibasyāpyahamāgataḥ | ka uvāca | evamākarṇya sā vākyaṃ tasyarṣestanayaṃ svakam 7 atiprītimanā gaurī tasyāṃke saṃnyaveśat | ūce sā taṃ mahābhāgyaṃ phalitaṃ darśanāttava 8 puṇyaṃ ca paramaṃ prāptaṃ śubhamagre bhaviṣyati | muniruvāca | gauri te'yaṃ suto brahmasvarūpo bhāsate mama 9 ṣaṭcakrabhedanaratā yoganiṣṭhā maharṣayaḥ | vāyubhakṣyā upāsante yaṃ te so'yaṃ tavātmajaḥ 2.85.10 guṇatrayabibhedena tritanustrikriyākaraḥ | yatsattayātha śeṣo'pi vahate mastake bhuvama 11 aṇurūpaḥ sthūlarūpaḥ saptaviṃśatitattvakṛt | cetanācetanaṃ viśvaṃ yadrūpaṃ sarvakarmakṛt 12 yuge daśabhujaḥ pūrve siṃhārūḍho vināyakaḥ | dvitīye ṣaḍbhujo barhivāhanaḥ śaśisannibhaḥ 13 mayūreśa iti khyāto nānādaityanibarhaṇaḥ | tṛtīye tu yuge devo raktavarṇaścaturbhujaḥ 14 gajānana iti khyāto dhūmravarṇaḥ kalau yuge| dhūmaketuriti khyāto dvibhujaḥ sarvadaityahā 15 etasya rakṣaṇaṃ gauri daityebhyaḥ kuru sarvadā | gauryuvāca | eṣo'ticapalo bālo daityānhanti bahūnapi 16 agre kiṃ karma karteti na jāne munisattama | daityā nānāvidhā duṣṭāḥ sādhudevadruhaḥ khalāḥ | ato'sya kaṇṭhe kiṃcittvaṃ rakṣārthaṃ baddhumarhasi 17 muniruvāca | dhyāyetsiṃhagataṃ vināyakamamuṃ digbāhumādye yuge tretāyāṃ tu mayūravāhanamamuṃ ṣaḍbāhukaṃ siddhidam | dvāpāre tu gajānanaṃ yugabhujaṃ raktāṃkarāgaṃ vibhuṃ turyetu dvibhujaṃ sitāṃgaruciraṃ sarvārthadaṃ sarvadā 18 vināyakaḥ śikhāṃ pātu paramātmā parātparaḥ | atisundarakāyastu mastakaṃ sumahotkaṭa: 19 lalāṭaṃ kāśyapaḥ pātu bhrūyugaṃ tu mahodaraḥ | nayane bhālacandrastu gajāsyatvoṣṭhapallavau 2.85.20 jihvāṃ pātu gaṇakrīḍaścibukaṃ girijāsutaḥ | vācaṃ vināyakaḥ pātu dantānrakṣatu durmukhaḥ 21 śravaṇau pāśapāṇistu nāsikāṃ cintitārthadaḥ | gaṇeśastu mukhaṃ kaṇṭhaṃ pātu devo gaṇaṃjayaḥ 22 skandhau pātu gajaskandhaḥ stanau vighnavināśanaḥ | hṛdayaṃ gaṇanāthastu herambo jaṭharaṃ mahān 23 dharādharaḥ pātu pārśvaṃ pṛṣṭhaṃ vighnaharaḥ śubhaḥ | liṃgaṃ guhyaṃ sadā'pātu vakratuṇḍo mahābalaḥ 24 gaṇakrīḍo jānujaṃghe ūrūmaṃgalamūrtimān | ekadanto mahābuddhiḥ pādau gulphau sadā'vatu 25 kṣipraprasādano bāhū pāṇī āśāprapūrakaḥ | aṃgulīśca nakhānpātu padmahasto'rināśanaḥ 26 sarvāgāṃni mayūreśo viśvavyāpī sadā'vatu | anuktamapi yatsthānaṃ dhūmraketuḥ sadā'vatu 27 āmodastvagrataḥ pātu pramodaḥ pṛṣṭhato'vatu | prācyāṃ rakṣatu buddhīśa āgneyyāṃ siddhidāyakaḥ 28 dakṣiṇasyāmumāputro nairṛtyāṃ tu gaṇeśvaraḥ | pratīcyāṃ vighnahartā'vyādvāyavyāṃ gajakarṇakaḥ 29 kauberyāṃ nidhipaḥ pāyādīśānyāmīśanandanaḥ | divā'vyādekadantastu rātrau sandhyāsu vighnahṛta 2.85.30 rākṣasāsuravetālagrahabhūtapiśācataḥ | pāśāṃkuśadharaḥ pātu rajaḥ sattvaṃ tamaḥ smṛtim 31 jñānaṃ dharma ca lakṣmīṃ ca lajjāṃ kīrtiṃ dayāṃ kulam | vapurdhanaṃ ca dhānyaṃ ca gṛhāṃ dārānsutānsakhīna 32 sarvāyudhadharaḥ pautrānmayūreśo'vatātsadā | kapilo'jāvikaṃ pātu gavāśvaṃ vikaṭo'vatu 33 bhūrjapatre likhitvedaṃ yaḥ kaṇṭhe dhārayetsudhīḥ | na bhayaṃ jāyate tasya yakṣarakṣaḥ piśācataḥ 34 trisandhyaṃ japate yastu vajrasāratanurbhavet | yātrākāle paṭhedyastu nirvighnena phalaṃ labhet 35 yuddhakāle paṭhedyastu vijayaṃ prāpnuyāddhruvam | māraṇoccāṭanākarṣastambhamohanakarmaṇi 36 saptavāraṃ paṭhedyastu dinanāmekaviṃśatim | tattatphalamavāpnoti sādhako nātra saṃśayaḥ 37 ekaviṃśativāraṃ ca paṭhettāvaddināni yaḥ | kārāgṛhagataṃ sadyo rājñā vadhyaṃ ca mocayet 38 rājadarśanevelāyāṃ paṭhedetat trivārataḥ | sa rājānaṃ vaśaṃ nītvā prakṛtiṃ ca sabhāṃ jayet 39 idaṃ gaṇeśakavacaṃ mudgalena samīritam| kaśyapāya ca tenātha māṇḍavyāya maharṣaye 2.85.40 mahyaṃ sa prāha kṛpayā kavacaṃ sarvasiddhidam | na deyaṃ bhaktihīnāya deyaṃ śraddhāvate śubhaṃ| sarvarakṣākaraṃ sarvamanaḥkāmaprapūrakam

GnP 2 81.81

स त्वं मम कुमारत्वं प्राप्तोऽसीति विडम्बनम् । अथ त्वां प्रार्थयेदेव प्राकृतो भव साम्प्रतम् ३१ येन ते लालनं कुर्यां सेवनं परमादरात्। क उवाच । यावद्वदति सैवं तु ददर्श पुरतस्तु तम् ३२ षड्भुजं चन्द्रसुभगं लोचनत्रयभूषितम् । सुनास सुभ्रु वदनं स्थूलवक्षसमीश्वरम् ३३ ध्वजांकुशोर्ध्वरेखाब्जचिह्नितं पादपंकजम् । कोटिस्फटिकसंकाशं कोटिचन्द्रप्रभं विभुम् ३४ हेमतारानिभान्केशान्दधन्तं बालरूपिणम् । कुर्वन्तं प्रथमं शब्दं कम्पयन्तं वसुन्धराम् ३५ जनाः स्थानानि मर्यादां तत्यजुस्तस्य शब्दतः । नीरसा वृक्षनिचयाः सपल्लवचयास्तदा ३६ जाता गावो बहुक्षीरास्त्रैलोक्यं जहृषे पुनः । देवदुन्दुभयो नेदुः पुष्पवृष्टिरथापतत् ३७ दृष्ट्वा बालं तु गिरिजा हस्ताभ्यां जगृहे मुदा। स्नापयामास पयसा तप्तेन स्नेहभावतः ३८ प्रस्नुतौ पाययामास स्तनौ परमहर्षिता। शिवोऽपि जहृषे तेन शिशुना परमेण ह ३९ (३५९४)

sa tvaṃ mama kumāratvaṃ prāpto'sīti viḍambanam | atha tvāṃ prārthayedeva prākṛto bhava sāmpratam 31 yena te lālanaṃ kuryāṃ sevanaṃ paramādarāt| ka uvāca | yāvadvadati saivaṃ tu dadarśa puratastu tam 32 ṣaḍbhujaṃ candrasubhagaṃ locanatrayabhūṣitam | sunāsa subhru vadanaṃ sthūlavakṣasamīśvaram 33 dhvajāṃkuśordhvarekhābjacihnitaṃ pādapaṃkajam | koṭisphaṭikasaṃkāśaṃ koṭicandraprabhaṃ vibhum 34 hematārānibhānkeśāndadhantaṃ bālarūpiṇam | kurvantaṃ prathamaṃ śabdaṃ kampayantaṃ vasundharām 35 janāḥ sthānāni maryādāṃ tatyajustasya śabdataḥ | nīrasā vṛkṣanicayāḥ sapallavacayāstadā 36 jātā gāvo bahukṣīrāstrailokyaṃ jahṛṣe punaḥ | devadundubhayo neduḥ puṣpavṛṣṭirathāpatat 37 dṛṣṭvā bālaṃ tu girijā hastābhyāṃ jagṛhe mudā| snāpayāmāsa payasā taptena snehabhāvataḥ 38 prasnutau pāyayāmāsa stanau paramaharṣitā| śivo'pi jahṛṣe tena śiśunā parameṇa ha 39 (3594)

(31) "That you have come to the condition of being my son is (only) a mimicry. Now one would but entreat you: become ordinary now, (32) so that I may fondle you and wait upon you with the highest reverence." Kaḥ said: Even as she was speaking thus, she saw before her him — (33) six-armed, lovely as the moon, adorned with three eyes, fine of nose and brow of face, broad-chested, the Lord; (34) with lotus-feet marked with the signs of banner, goad, upward line and lotus; like a crore of crystals, radiant as a crore of moons, the mighty one; (35) bearing hair like golden stars, in the form of an infant, uttering his first cry, making the earth tremble. (36) At his cry people abandoned their places and their bounds; the sapless masses of trees then became laden with fresh shoots; (37) cows became rich in milk, the three worlds rejoiced again, the drums of the gods sounded, and a rain of flowers fell. (38) Seeing the child, Girijā took him joyfully in both hands and out of affection bathed him with warm milk; (39) greatly delighted, she gave him her flowing breasts to drink; and Śiva too rejoiced in that supreme infant.

AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain

GnP 2 81.83

अध्याय ८२ प्रारंभ :- क उवाच । ततः शिवगणाः शम्भुं वृत्तान्तं तं न्यवेदयन् । आश्चर्यं परमं देवं शिवा पुत्रसमन्विता १ जाता पुत्रावलोकार्थं ततो याहि निजं स्थलम् । एवं गणवचः श्रुत्वा तुतोष गिरिजापतिः २ आगत्य वीक्ष्य तं बालमद्भुतं शशिसन्निभम् । स्फटिकाद्रिनिभं कुन्दधवलं कञ्जलोचनम् ३ आश्चर्यं परमं लेभे प्रोवाच च वचस्तदा । शिव उवाच । नायं बालोऽनादिसिद्धो जराजन्मविवजितः ४ लीलाविग्रहवानेष स्वप्रकाशो गुणातिगः । शुद्धसत्त्वमयः सर्वजीवेशो भुवनेश्वरः ५ मुनिध्येयोऽखिलाधारो ब्रह्मभूतोऽखिलप्रदः । क उवाच । एवमुक्त्वा कराभ्यां स बालमादत्त शंकरः ६ लालयित्वा हृदि स्थाप्य सर्वहृत्स्थोऽपि यः सदा । पुनरूचे च गिरिजां शिवोऽशिवहरो विभुः ७ परमात्मा गुणातीतः पुत्रतां ते समागतः । परानुष्ठानतो देवि साक्षाद्दृष्टो विभुस्त्वया ८ क उवाच । ततो विप्रान्समाहूय पूजयित्वा गणाधिपम् । पुण्याहं वाचयित्वा च मातृपूजनपूर्वकम् ९ कृत्वाऽभ्युदयिकं श्राद्धं प्राशयित्वा घृतं मधु । अभिमन्त्र्य शिशुं भूमिं गिरिजा तं स्तनं ददौ २.८२.१० गौतमादीन्पूजयित्वा ददौ दानान्यनेकशः । ततस्ते तदनुज्ञाता नाम प्रोचुर्महर्षयः ११ अयं ते बालतां यातोऽनादिसिद्धोऽखिलेश्वरः। निर्माता सर्वलोकानां चराचरगुरोर्गुरुः १२ मायावी वेदवेदान्तागोचरो मध्यगे रवौ। अवतीर्णः सुमुहर्ते कीर्तिमाविष्करिष्यति १३ भाद्रशुक्लचतुर्थ्यां तु शशिवारे च वायुमे । सिंहलग्ने पच्चशुभग्रहयुक्तेऽभवत्सुतः १४ श्रीमान्पराक्रमयुतोऽद्भुतकर्मा महाबलः । भविष्यति च लोकानां भक्तानामतिसौख्यदः १५ एकादशदिने शम्भो कुरु नामास्य सुन्दरम् । क उवाच । एवमुक्त्वा गताः सर्वे मुनयो निजमन्दिरम् १६ हरो बालं विनिक्षिप्य गिरिजाशयने शुभे । विसृज्य लोकानखिलान्बहिरायान्मुदान्वितः १७ ततः शेषो ययौ तत्र फणाच्छायामथाकरोत् । नीरजस्कां धरां चक्रुर्मेघास्तत्र सुखो ववौ १८ मारुतो मालतीगन्धो ननृतुश्चाप्सरोगणाः । जगुर्गन्धर्वसङघाश्च तुष्टुवुश्चारणा विभुम् १९ ततो मुनिगणाः सर्वे मृन्मूर्ति चक्रुरुत्तमाम् । मण्डपं शोभनं कृत्वा कदलीपुष्पमण्डितम् २.८२.२० पुपूजुः परया भक्त्या पद्मासनगता मुदा । गुणेशेति गुणेशेति जेपुः सर्वे निरन्तरम् २१ अहोरात्रोषिताः सर्वे रात्रौ च जागरान्विताः । यथाशक्ति द्विजान्भोज्य चक्रुस्ते पारणं द्विजाः २२ एवं दशदिने विप्रान्भोजयामासुरादरात् । गृहे गृहे महोत्साहांश्चक्रुर्देवस्य तुष्टये २३ एकादशे तु दिवसे सर्वे मुनिगणाः शिवम् । आहूता आययुर्नाम कर्तुं शिवसुतस्य ह २४ मानितास्तेन ते सम्यक्कारयामासुरुत्तमम् । सर्वेशत्वाद्गुणेशेति सर्वविघ्नहरं शुभम् २५ शिवोऽपि तान्मुनीन्प्राह सम्यङनाम समीरितम् । सर्वारम्भेषु पूज्योऽयमिति तस्मै वरं ददौ २६ पूजिता मुनयः सर्वे दत्त्वा दानानि सर्वशः । आज्ञां गृहीत्वा शम्भोस्ते स्वस्वाश्रमपदं ययुः २७ अन्तर्गृहगता देवी पुपूजे देवताः स्वयम् । तदादि सा तिथिः ख्याता गुणेशस्य वरप्रदा २८ तस्यां महोत्सवः कार्यश्चतुर्थ्यां स्वशुभाप्तये । मृन्मयीं प्रतिमां कृत्वा पूजयेच्च यथाविधि २९ कृत्वा मण्डपिकां चारुमुपोष्य जागृयान्निशि । मोदकापूपलड्डूकैः पायसैः पूजयेद्विभुम् २.८२.३० अपरस्मिन्दिने विप्रान्भोजयेच्च यथाविधि । एकविंशतिसंख्याकान्यथाशक्ति च दक्षिणाम् ३१ दत्त्वा तेभ्यो नमस्कृत्य पश्चाद्भोजनमाचरेत् । यो न पूजयते चास्यां गणेशं मृन्मयं नरः ३२ स विघ्नैरभिभूतः सन्नानारोगै प्रपीड्यते। न तस्य दर्शनं कुर्यात्पतितस्येव कर्हिचित् ३३ जाते तु दर्शने तस्य गणेशं नाम संस्मरेत् । चतुर्थ्या महिमानं नो न शक्यं सुनिरूपितुम् ३४ कर्माणि तु गुणेशस्य यथामति निरूपये । गुप्तरूपाः सिन्धुदूताः शंकरालयसंस्थिताः ३५ तमुदन्तं तु ते गत्वा प्रावदन्सिन्धवे तदा । समासीनाय योधैश्च बहुभिर्वेष्टिताय च ३६ स्थापयित्वाऽप्सरोनृत्यं गानं गन्धर्वसंभवम् । दूता ऊचुः । दक्षिणे दण्डकारण्ये त्रिसन्ध्याक्षेत्रसंज्ञिते ३७ गत्वा तत्र दृष्टवन्तो भगवन्तं शिवाभिधम् । अष्टाशीतिसहस्राणां मुनीनामाश्रमान्बहून् ३८ एकस्मिन्दिवसे बालं शिवा प्रासूत षड्भुजम् । लावण्यकोशं त्रैलोक्येऽनुपमं महसोज्ज्वलम् ३९ दशाहस्सु महोत्साहैर्गतेषु मुनिपुंगवाः । चक्रुर्नाम गुणेशेति तस्य बालस्य शंकरः २.८२.४० वयं वादित्रनिर्घोषैर्बधिरा इव तस्थितम । यदि हन्तुं गमिष्यामः सप्तकोटिगणास्तदा ४१ एकैकस्य बलं घोरं पर्वतोन्मूलनक्षमम् । निहन्युः सहसाऽभ्येत्य वृत्तान्तं को निवेदयेत् ४२ क उवाच । एव वदत्सु दूतेषु शुश्रुवे व्योमवाक् तदा । उत्पन्नः क्वापि ते हन्ता सिन्धो सावधतां व्रज ४३ सिन्धुरुवाच । वध्यतां वध्यतां कोऽयं ब्रूते दुष्टवचोऽत्र ह । क उवाच । केचिदुड्डीय पतिता धावयित्वाऽपरे ययुः ४४ तावद्दैत्यो महामूर्च्छां संप्राप्तः पतितो भुवि । चिन्तामग्नो म्लानमुखो निरुत्साहो हतप्रभः ४५ उवाच विस्खलद्वाचो मुहूर्तात्प्राप्य चेतनाम् । त्रैलोक्यकण्टकस्यापि कण्टकः क उपस्थितः ४६ कथं हन्याद्गजः सिंहं मशको वाथ वारणम् । त्रयस्त्रिंशत्कोटिदेवा निर्जिताः क्षणमात्रतः ४७ तस्य मे मरणं कस्माज्जायेत व्योमवाङ्मृषा । ऋताऽस्तु वा गमिष्यामि भक्षितुं तमहं रिपुम् ४८ एवमुक्त्वा क्षणार्धात्स भद्रासनगतोऽभवत् । सर्वे वीरास्ततो याताः श्रुत्वा वार्तां तथाविधाम् ४९ त्वमेव मृत्योर्मृत्युश्च तत्र मृत्युः कथं भवेत् । इत्यूचुस्ते भवेद्वापि तं क्यं घातयामहे २.८२.५० स्वर्गे भूमौ तले वापि गगने वा वसेद्यदि । देह्याज्ञां नो गमिष्यामो दैत्यास्तानब्रवीदथ ५१ सखीनां सेवकानां च पीत्वा वाक्यामृतं परम् । प्रीतोऽहं यान्तु शीघ्रं तु यत्र मे स रिपुर्भवेत् ५२ अनेकमायया हत्वा रिपुं मम निवेद्यताम् । क उवाच । एवमाज्ञां गृहीत्वा ते संख्यातीता ययुस्ततः ५३ त्रिसन्ध्याक्षेत्रमासाद्य गुप्तरूपेण चावसन् । गौरीसुतं तत्र कुत्र मायया हन्म इत्युत ५४ ( ३६४८ ) अध्याय ८३ प्रारंभ :- क उवाच । शुक्लचन्द्र इव ब्रह्मन्ववृधे स दिने दिने । ततो हिमालयः प्रायाच्छ्रुत्वा गौरीसुतं शुभम् १ अलंकारान्समादाय मूल्यरत्नसमन्वितान् । अजिरे तं निरीक्ष्यैव धावयित्वा ययौ सुता २ आलिलिंग मुदा गौरो बहुकालागतं च तम् । आनन्दाश्रूणि साऽमुञ्च्चत्सोऽपि सा तं ततोऽवदत् ३ गौर्युवाच । कथं निष्ठुरतां यातो वृत्तान्तं मम कर्हिचित् । न गृह्णासि न वा स्वीयं प्रेषयस्यपि निर्दय ४ हिमवानुवाच । सत्यं वदसि गौरि त्वं कण्ठे प्राणा मम स्थिताः । अतस्त्वद्दर्शनाकांक्षी प्राप्तोऽहं हरवल्लभे ५ वत्से धेनुमनो यद्वत्तद्वत्त्वयि मनो मम । क उवाच । एवमाकर्ण्य तद्वाक्यं सा ददावासनं शुभम् ६ उपविष्टोऽब्रवीद्वाक्यं पुनर्गिरिवरः सुताम् । श्रुतो नारदवाक्येन पुत्रस्ते परमाद्भुतः ७ ततस्तं द्रष्टुमायातः सर्वविघ्नहरं शुभम्। क उवाच । पार्वती बालमादाय पितुरंके न्यवेशयत् ८ सोऽलंकारैरलङ्कृत्य महिमानं ततोऽब्रवीत् । स उवाच । अयं बालो महामायः करिष्यति महीमिमाम् ९ निष्कण्टकां यथा चन्द्रः शीतलां स्वकरैरिमाम् । अयं देवगणान्सर्वान्स्वस्थाने स्थापयिष्यति २.८३.१० करिष्यत्यङ्घ्रिसेवां ते शिशोरस्य मुनीश्वराः । एतस्य सर्वरूपाणि स्थावराणि चराणि च ११ अयमेव सदा ध्येयो ब्रह्मादीनां सहस्रदृक् । सहस्राङघ्रिः सर्वजगत्कारणानां च कारणम् १२ सहस्रास्योऽनन्तमूर्तिः समष्टिव्यष्टिरूपवान् । त्रैलोक्ये नेदृशो बालो दृष्टा क्वापि शुभायवान् १३ अहं तन्मयतां यातो दृष्ट्वा तत्पादपंकजम् । यथाऽम्भसि पयः क्षिप्तं याति तन्मयतां क्षणात् १४ अस्य यत्नं कुरु शुभे निधिरेष पुरातनः । क उवाच । मस्तके मुकुटं चास्य स्वांगदे भुजयोरपि १५ पंकजं हृदि श्रुत्योश्च कुण्डले रत्नभूषिते । कटिसूत्र कटौ चांडघ्र्योर्महार्हाः क्षुद्रघण्टिकाः १६ एवं दत्त्वा भूषणानि नाम चक्रे शुभं गिरिः । हेरम्बेति महाविघ्नहरं भक्ताभयप्रदम् १७ ततो भुक्त्वा गृहीत्वाज्ञां ययौ स्वस्थानमादिराद्र । एकस्मिन्दिवसे बालश्चिक्रीड निजमन्दिरे १८ गृध्रासुरो गृध्ररूपी महाबलपराक्रमः । पक्षवातेन यस्याद्रिचयश्चूर्णत्वमीयिवान् १९ गण्डशैलाश्च वृक्षाश्च पादाघातेन तस्य च । सपक्षच्छायया बालमाच्छाद्य खेऽभ्रमत्तदा २.८३.२० नयनानि च सर्वेषां पक्षाघातरजःकणैः । आच्छादयन्महाशब्दैः श्रोत्रे बधिरतामियेत् २१ ततश्चंच्वा तु तं बालं गृहीत्वा गृध्रपुंगवः । व्योममार्गं गतो दूरं गरुडो भुजगं यथा २२ बभ्राम गगने दुष्टोऽजानन्बालपराक्रमम् । ततोऽपश्यद्गिरिसुता बालः कुत्र कुतो गतः २३ नापश्यच्चत्वरे तं तु ततः शोकाकुलाऽभवत् । केन नीतो मम सुतो दुष्टेन च दुरात्मना २४ उपविष्टा ततोऽपश्यद्व्योम्नि गृध्रमुखे सुतम्। मूर्च्छिता पतिता भूमौ धाव धावेति चाब्रवीत् २५ मम प्राणा गमिष्यन्ति विना पुत्रं सुरेश्वर । कथं ममोपरि व्योम पतितं शंकरः कथम् २६ नैष्ठुर्यं परमं प्राप्तो मय्येव जगदीश्वरः । द्वादशाब्दं तपस्तप्तं निराहारतया मया २७ करुणाब्धिः स्वप्रकाशोऽवतीर्णोऽभून्ममालयम् । स गतो निधिरूपो मेऽभाग्यायाः पापसंचयात २८ गते बाले गतं सर्वं सुखमात्यन्तिकं मम । क उवाच । एवं तस्यां तु शोचन्त्यां शुशुचुस्तत्सखीजनाः २९ ततस्ते तत्समाधानं चक्रुर्ज्ञानेन युक्तिभिः । अनादिनिधने बाले न शोकं कर्तुमर्हसि २.८३.३० स्वप्रकाशेऽवतीर्णे ते बह्वनुष्ठानयोगतः । कुत्र वा मृन्मयी मूर्तिश्चेतनामगमद्वद ३१ स्थिरा भव क्षणेन त्वं द्रक्ष्यसे स्वसुतं शुभे । अन्तकस्यान्तको बाल: पुनरेष्यति निष्ठया ३२ सखीजने वदत्येवं तावद्बालः स्वमुष्टिना । दधार चञ्चु बलवान्यथा श्वासो न निर्ययौ ३३ श्वासरोधाद्गतासुः स गृध्रस्तेन समन्वितः । निपपात महीपृष्ठे वज्राहत इवाचलः ३४ पतमानो गृध्रदेहो दशयोजन विस्तृतः । चूर्णयामास गेहानि तच्चित्रमभवद्भृशम् ३५ चैत्यवृक्षेषु भग्नेषु ययुः पक्षिगणा दिशः । ततो दृष्ट्वा तु तं बालमवदत्स सखीगणः ३६ अयमक्षतदेहस्तु पतितो गिरिजासुतः । क उवाच । श्रुत्वेत्थं वचनं तस्य त्वरिता बालमाददे ३७ गौरी निधाय हृदये परमानन्दमाप च । आश्चर्यं परमं प्राप्य ददौ दानान्यनेकशः ३८ गतमस्य महारिष्टमग्रे न स्यादिति द्विजा। नमस्कृत्य द्विजान्प्रायान्मन्दिराभ्यन्तरं शिवा ३९ दशयोजनविस्तारः क्वासुरो बलवत्तरः । क्व बालः कोमलतनुर्लघुरूपो जघान तम् २.८३.४० एतावतो बलमिदमग्रे किं वा करिष्यति । इत्युवाच सखीं गौरी स्तनपानं ददौ मुदा ४१ अयं लघुर्न मन्तव्यो यथा वह्निकणो दहेत् । महान्तं काष्ठनिचयं तथाऽनेन हतोऽसुरः ४२ ततस्तद्देहखण्डानि गणा दूरे निचिक्षिपुः । शृणुयादिदमाख्यानं सोऽसुरैर्नाभिभूयते ४३ (३६९१)

adhyāya 82 prāraṃbha :- ka uvāca | tataḥ śivagaṇāḥ śambhuṃ vṛttāntaṃ taṃ nyavedayan | āścaryaṃ paramaṃ devaṃ śivā putrasamanvitā 1 jātā putrāvalokārthaṃ tato yāhi nijaṃ sthalam | evaṃ gaṇavacaḥ śrutvā tutoṣa girijāpatiḥ 2 āgatya vīkṣya taṃ bālamadbhutaṃ śaśisannibham | sphaṭikādrinibhaṃ kundadhavalaṃ kañjalocanam 3 āścaryaṃ paramaṃ lebhe provāca ca vacastadā | śiva uvāca | nāyaṃ bālo'nādisiddho jarājanmavivajitaḥ 4 līlāvigrahavāneṣa svaprakāśo guṇātigaḥ | śuddhasattvamayaḥ sarvajīveśo bhuvaneśvaraḥ 5 munidhyeyo'khilādhāro brahmabhūto'khilapradaḥ | ka uvāca | evamuktvā karābhyāṃ sa bālamādatta śaṃkaraḥ 6 lālayitvā hṛdi sthāpya sarvahṛtstho'pi yaḥ sadā | punarūce ca girijāṃ śivo'śivaharo vibhuḥ 7 paramātmā guṇātītaḥ putratāṃ te samāgataḥ | parānuṣṭhānato devi sākṣāddṛṣṭo vibhustvayā 8 ka uvāca | tato viprānsamāhūya pūjayitvā gaṇādhipam | puṇyāhaṃ vācayitvā ca mātṛpūjanapūrvakam 9 kṛtvā'bhyudayikaṃ śrāddhaṃ prāśayitvā ghṛtaṃ madhu | abhimantrya śiśuṃ bhūmiṃ girijā taṃ stanaṃ dadau 2.82.10 gautamādīnpūjayitvā dadau dānānyanekaśaḥ | tataste tadanujñātā nāma procurmaharṣayaḥ 11 ayaṃ te bālatāṃ yāto'nādisiddho'khileśvaraḥ| nirmātā sarvalokānāṃ carācaragurorguruḥ 12 māyāvī vedavedāntāgocaro madhyage ravau| avatīrṇaḥ sumuharte kīrtimāviṣkariṣyati 13 bhādraśuklacaturthyāṃ tu śaśivāre ca vāyume | siṃhalagne paccaśubhagrahayukte'bhavatsutaḥ 14 śrīmānparākramayuto'dbhutakarmā mahābalaḥ | bhaviṣyati ca lokānāṃ bhaktānāmatisaukhyadaḥ 15 ekādaśadine śambho kuru nāmāsya sundaram | ka uvāca | evamuktvā gatāḥ sarve munayo nijamandiram 16 haro bālaṃ vinikṣipya girijāśayane śubhe | visṛjya lokānakhilānbahirāyānmudānvitaḥ 17 tataḥ śeṣo yayau tatra phaṇācchāyāmathākarot | nīrajaskāṃ dharāṃ cakrurmeghāstatra sukho vavau 18 māruto mālatīgandho nanṛtuścāpsarogaṇāḥ | jagurgandharvasaṅaghāśca tuṣṭuvuścāraṇā vibhum 19 tato munigaṇāḥ sarve mṛnmūrti cakruruttamām | maṇḍapaṃ śobhanaṃ kṛtvā kadalīpuṣpamaṇḍitam 2.82.20 pupūjuḥ parayā bhaktyā padmāsanagatā mudā | guṇeśeti guṇeśeti jepuḥ sarve nirantaram 21 ahorātroṣitāḥ sarve rātrau ca jāgarānvitāḥ | yathāśakti dvijānbhojya cakruste pāraṇaṃ dvijāḥ 22 evaṃ daśadine viprānbhojayāmāsurādarāt | gṛhe gṛhe mahotsāhāṃścakrurdevasya tuṣṭaye 23 ekādaśe tu divase sarve munigaṇāḥ śivam | āhūtā āyayurnāma kartuṃ śivasutasya ha 24 mānitāstena te samyakkārayāmāsuruttamam | sarveśatvādguṇeśeti sarvavighnaharaṃ śubham 25 śivo'pi tānmunīnprāha samyaṅanāma samīritam | sarvārambheṣu pūjyo'yamiti tasmai varaṃ dadau 26 pūjitā munayaḥ sarve dattvā dānāni sarvaśaḥ | ājñāṃ gṛhītvā śambhoste svasvāśramapadaṃ yayuḥ 27 antargṛhagatā devī pupūje devatāḥ svayam | tadādi sā tithiḥ khyātā guṇeśasya varapradā 28 tasyāṃ mahotsavaḥ kāryaścaturthyāṃ svaśubhāptaye | mṛnmayīṃ pratimāṃ kṛtvā pūjayecca yathāvidhi 29 kṛtvā maṇḍapikāṃ cārumupoṣya jāgṛyānniśi | modakāpūpalaḍḍūkaiḥ pāyasaiḥ pūjayedvibhum 2.82.30 aparasmindine viprānbhojayecca yathāvidhi | ekaviṃśatisaṃkhyākānyathāśakti ca dakṣiṇām 31 dattvā tebhyo namaskṛtya paścādbhojanamācaret | yo na pūjayate cāsyāṃ gaṇeśaṃ mṛnmayaṃ naraḥ 32 sa vighnairabhibhūtaḥ sannānārogai prapīḍyate| na tasya darśanaṃ kuryātpatitasyeva karhicit 33 jāte tu darśane tasya gaṇeśaṃ nāma saṃsmaret | caturthyā mahimānaṃ no na śakyaṃ sunirūpitum 34 karmāṇi tu guṇeśasya yathāmati nirūpaye | guptarūpāḥ sindhudūtāḥ śaṃkarālayasaṃsthitāḥ 35 tamudantaṃ tu te gatvā prāvadansindhave tadā | samāsīnāya yodhaiśca bahubhirveṣṭitāya ca 36 sthāpayitvā'psaronṛtyaṃ gānaṃ gandharvasaṃbhavam | dūtā ūcuḥ | dakṣiṇe daṇḍakāraṇye trisandhyākṣetrasaṃjñite 37 gatvā tatra dṛṣṭavanto bhagavantaṃ śivābhidham | aṣṭāśītisahasrāṇāṃ munīnāmāśramānbahūn 38 ekasmindivase bālaṃ śivā prāsūta ṣaḍbhujam | lāvaṇyakośaṃ trailokye'nupamaṃ mahasojjvalam 39 daśāhassu mahotsāhairgateṣu munipuṃgavāḥ | cakrurnāma guṇeśeti tasya bālasya śaṃkaraḥ 2.82.40 vayaṃ vāditranirghoṣairbadhirā iva tasthitama | yadi hantuṃ gamiṣyāmaḥ saptakoṭigaṇāstadā 41 ekaikasya balaṃ ghoraṃ parvatonmūlanakṣamam | nihanyuḥ sahasā'bhyetya vṛttāntaṃ ko nivedayet 42 ka uvāca | eva vadatsu dūteṣu śuśruve vyomavāk tadā | utpannaḥ kvāpi te hantā sindho sāvadhatāṃ vraja 43 sindhuruvāca | vadhyatāṃ vadhyatāṃ ko'yaṃ brūte duṣṭavaco'tra ha | ka uvāca | keciduḍḍīya patitā dhāvayitvā'pare yayuḥ 44 tāvaddaityo mahāmūrcchāṃ saṃprāptaḥ patito bhuvi | cintāmagno mlānamukho nirutsāho hataprabhaḥ 45 uvāca viskhaladvāco muhūrtātprāpya cetanām | trailokyakaṇṭakasyāpi kaṇṭakaḥ ka upasthitaḥ 46 kathaṃ hanyādgajaḥ siṃhaṃ maśako vātha vāraṇam | trayastriṃśatkoṭidevā nirjitāḥ kṣaṇamātrataḥ 47 tasya me maraṇaṃ kasmājjāyeta vyomavāṅmṛṣā | ṛtā'stu vā gamiṣyāmi bhakṣituṃ tamahaṃ ripum 48 evamuktvā kṣaṇārdhātsa bhadrāsanagato'bhavat | sarve vīrāstato yātāḥ śrutvā vārtāṃ tathāvidhām 49 tvameva mṛtyormṛtyuśca tatra mṛtyuḥ kathaṃ bhavet | ityūcuste bhavedvāpi taṃ kyaṃ ghātayāmahe 2.82.50 svarge bhūmau tale vāpi gagane vā vasedyadi | dehyājñāṃ no gamiṣyāmo daityāstānabravīdatha 51 sakhīnāṃ sevakānāṃ ca pītvā vākyāmṛtaṃ param | prīto'haṃ yāntu śīghraṃ tu yatra me sa ripurbhavet 52 anekamāyayā hatvā ripuṃ mama nivedyatām | ka uvāca | evamājñāṃ gṛhītvā te saṃkhyātītā yayustataḥ 53 trisandhyākṣetramāsādya guptarūpeṇa cāvasan | gaurīsutaṃ tatra kutra māyayā hanma ityuta 54 ( 3648 ) adhyāya 83 prāraṃbha :- ka uvāca | śuklacandra iva brahmanvavṛdhe sa dine dine | tato himālayaḥ prāyācchrutvā gaurīsutaṃ śubham 1 alaṃkārānsamādāya mūlyaratnasamanvitān | ajire taṃ nirīkṣyaiva dhāvayitvā yayau sutā 2 āliliṃga mudā gauro bahukālāgataṃ ca tam | ānandāśrūṇi sā'muñccatso'pi sā taṃ tato'vadat 3 gauryuvāca | kathaṃ niṣṭhuratāṃ yāto vṛttāntaṃ mama karhicit | na gṛhṇāsi na vā svīyaṃ preṣayasyapi nirdaya 4 himavānuvāca | satyaṃ vadasi gauri tvaṃ kaṇṭhe prāṇā mama sthitāḥ | atastvaddarśanākāṃkṣī prāpto'haṃ haravallabhe 5 vatse dhenumano yadvattadvattvayi mano mama | ka uvāca | evamākarṇya tadvākyaṃ sā dadāvāsanaṃ śubham 6 upaviṣṭo'bravīdvākyaṃ punargirivaraḥ sutām | śruto nāradavākyena putraste paramādbhutaḥ 7 tatastaṃ draṣṭumāyātaḥ sarvavighnaharaṃ śubham| ka uvāca | pārvatī bālamādāya pituraṃke nyaveśayat 8 so'laṃkārairalaṅkṛtya mahimānaṃ tato'bravīt | sa uvāca | ayaṃ bālo mahāmāyaḥ kariṣyati mahīmimām 9 niṣkaṇṭakāṃ yathā candraḥ śītalāṃ svakarairimām | ayaṃ devagaṇānsarvānsvasthāne sthāpayiṣyati 2.83.10 kariṣyatyaṅghrisevāṃ te śiśorasya munīśvarāḥ | etasya sarvarūpāṇi sthāvarāṇi carāṇi ca 11 ayameva sadā dhyeyo brahmādīnāṃ sahasradṛk | sahasrāṅaghriḥ sarvajagatkāraṇānāṃ ca kāraṇam 12 sahasrāsyo'nantamūrtiḥ samaṣṭivyaṣṭirūpavān | trailokye nedṛśo bālo dṛṣṭā kvāpi śubhāyavān 13 ahaṃ tanmayatāṃ yāto dṛṣṭvā tatpādapaṃkajam | yathā'mbhasi payaḥ kṣiptaṃ yāti tanmayatāṃ kṣaṇāt 14 asya yatnaṃ kuru śubhe nidhireṣa purātanaḥ | ka uvāca | mastake mukuṭaṃ cāsya svāṃgade bhujayorapi 15 paṃkajaṃ hṛdi śrutyośca kuṇḍale ratnabhūṣite | kaṭisūtra kaṭau cāṃḍaghryormahārhāḥ kṣudraghaṇṭikāḥ 16 evaṃ dattvā bhūṣaṇāni nāma cakre śubhaṃ giriḥ | herambeti mahāvighnaharaṃ bhaktābhayapradam 17 tato bhuktvā gṛhītvājñāṃ yayau svasthānamādirādra | ekasmindivase bālaścikrīḍa nijamandire 18 gṛdhrāsuro gṛdhrarūpī mahābalaparākramaḥ | pakṣavātena yasyādricayaścūrṇatvamīyivān 19 gaṇḍaśailāśca vṛkṣāśca pādāghātena tasya ca | sapakṣacchāyayā bālamācchādya khe'bhramattadā 2.83.20 nayanāni ca sarveṣāṃ pakṣāghātarajaḥkaṇaiḥ | ācchādayanmahāśabdaiḥ śrotre badhiratāmiyet 21 tataścaṃcvā tu taṃ bālaṃ gṛhītvā gṛdhrapuṃgavaḥ | vyomamārgaṃ gato dūraṃ garuḍo bhujagaṃ yathā 22 babhrāma gagane duṣṭo'jānanbālaparākramam | tato'paśyadgirisutā bālaḥ kutra kuto gataḥ 23 nāpaśyaccatvare taṃ tu tataḥ śokākulā'bhavat | kena nīto mama suto duṣṭena ca durātmanā 24 upaviṣṭā tato'paśyadvyomni gṛdhramukhe sutam| mūrcchitā patitā bhūmau dhāva dhāveti cābravīt 25 mama prāṇā gamiṣyanti vinā putraṃ sureśvara | kathaṃ mamopari vyoma patitaṃ śaṃkaraḥ katham 26 naiṣṭhuryaṃ paramaṃ prāpto mayyeva jagadīśvaraḥ | dvādaśābdaṃ tapastaptaṃ nirāhāratayā mayā 27 karuṇābdhiḥ svaprakāśo'vatīrṇo'bhūnmamālayam | sa gato nidhirūpo me'bhāgyāyāḥ pāpasaṃcayāta 28 gate bāle gataṃ sarvaṃ sukhamātyantikaṃ mama | ka uvāca | evaṃ tasyāṃ tu śocantyāṃ śuśucustatsakhījanāḥ 29 tataste tatsamādhānaṃ cakrurjñānena yuktibhiḥ | anādinidhane bāle na śokaṃ kartumarhasi 2.83.30 svaprakāśe'vatīrṇe te bahvanuṣṭhānayogataḥ | kutra vā mṛnmayī mūrtiścetanāmagamadvada 31 sthirā bhava kṣaṇena tvaṃ drakṣyase svasutaṃ śubhe | antakasyāntako bāla: punareṣyati niṣṭhayā 32 sakhījane vadatyevaṃ tāvadbālaḥ svamuṣṭinā | dadhāra cañcu balavānyathā śvāso na niryayau 33 śvāsarodhādgatāsuḥ sa gṛdhrastena samanvitaḥ | nipapāta mahīpṛṣṭhe vajrāhata ivācalaḥ 34 patamāno gṛdhradeho daśayojana vistṛtaḥ | cūrṇayāmāsa gehāni taccitramabhavadbhṛśam 35 caityavṛkṣeṣu bhagneṣu yayuḥ pakṣigaṇā diśaḥ | tato dṛṣṭvā tu taṃ bālamavadatsa sakhīgaṇaḥ 36 ayamakṣatadehastu patito girijāsutaḥ | ka uvāca | śrutvetthaṃ vacanaṃ tasya tvaritā bālamādade 37 gaurī nidhāya hṛdaye paramānandamāpa ca | āścaryaṃ paramaṃ prāpya dadau dānānyanekaśaḥ 38 gatamasya mahāriṣṭamagre na syāditi dvijā| namaskṛtya dvijānprāyānmandirābhyantaraṃ śivā 39 daśayojanavistāraḥ kvāsuro balavattaraḥ | kva bālaḥ komalatanurlaghurūpo jaghāna tam 2.83.40 etāvato balamidamagre kiṃ vā kariṣyati | ityuvāca sakhīṃ gaurī stanapānaṃ dadau mudā 41 ayaṃ laghurna mantavyo yathā vahnikaṇo dahet | mahāntaṃ kāṣṭhanicayaṃ tathā'nena hato'suraḥ 42 tatastaddehakhaṇḍāni gaṇā dūre nicikṣipuḥ | śṛṇuyādidamākhyānaṃ so'surairnābhibhūyate 43 (3691)

GnP 2 81.85

अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् । रक्षसासुरवेतालदैत्यदानवसंभवा ४२ (३७९७)

anenāsya kṛtā rakṣā na bādhā'sya bhavetkvacit | rakṣasāsuravetāladaityadānavasaṃbhavā 42 (3797)

By this (armour) protection has been made for him; no affliction will ever befall him — none arising from rākṣasas, asuras, vetālas, daityas or dānavas.

AI translation rendered from the Sanskrit, not a published edition