← Ganesha Purana — Kridakhanda

Ganesha Purana — Kridakhanda — Chapter 76

GnP 2 76.2

अध्याय ७८ प्रारंभ :-। क उवाच । सर्वे निगृहिता देवाः सिन्धुना प्रभविष्णुना । तस्यैव च वधोपायं चिन्तयामासुरुत्सुकाः १। हरिरुवाच । सर्वेषां संमतं ज्ञाय कर्तव्यः कार्यनिश्चयः । तस्मात्सर्वे ब्रुवन्त्वद्य मतं यस्य यथा भवेत्

adhyāya 78 prāraṃbha :-| ka uvāca | sarve nigṛhitā devāḥ sindhunā prabhaviṣṇunā | tasyaiva ca vadhopāyaṃ cintayāmāsurutsukāḥ 1| hariruvāca | sarveṣāṃ saṃmataṃ jñāya kartavyaḥ kāryaniścayaḥ | tasmātsarve bruvantvadya mataṃ yasya yathā bhavet

Beginning of chapter 78. Ka said: All the gods were held down by Sindhu, the mighty one, and eagerly they pondered the means of killing him. (1) Hari said: The decision on what is to be done should be made after learning the consent of all; therefore let everyone now speak his opinion, whoever's it may be and however it stands.

AI translation rendered from the Sanskrit, not a published edition

GnP 2 76.76

अध्याय ७६ प्रारंभ क उवाच । वैकुण्ठे सुखमासीनमागतोऽमरसंयुतः । हरिर्हरिं नमस्कृत्य निजगाद प्रयोजनम् १। इन्द्र उवाच । किं न जानासि गोविन्द सिन्धुदैत्यकृतामिमाम् । आपदं नोऽमरावत्यां दुष्टैराक्रमणं कृतम् २। तेन सार्द्धं कृतं युद्धं यथाशक्ति सुरैः सह । न स जेतुं क्षमो दैत्योऽतस्त्वां शरणमन्वियाम् ३। न त्वां विना गतिर्नोऽस्ति सर्वदा त्वं गतिर्हि नः । निर्दालयैनं नो देहि स्थानानि जगदीश्वर ४। क उवाच । श्रुत्वा हरिवचो विष्णुश्चिन्ताश्चर्यसमन्वितः । उवाच तं न भीः कार्या प्रविज्येष्येऽसुरं क्षणात् ५। एवमुक्त्वा हृषीकेशो रुरोह निजवाहनम् । तदुड्डानेन च तदा चकम्पे भुवनत्रयम् ६। पतिता अवनौ वृक्षाः पक्षिवृन्दसमन्विताः।। किरीटकुण्डलधरो वनमालावि- भूषितः ७। कस्तुभार्चिर्लसद्वक्षाः कस्तूरीतिलकोज्ज्वलः । शंखचक्रगदापद्महस्तो यातोऽमरावतीम् ८। ज्ञात्वा देवगणान्प्राप्तान्गरुडासनसंयुतान् । युद्धायाजग्मुरसुरा नानाशस्त्रधरास्तदा ९। धनुश्चक्रधरो दैत्यः सतूणो हयसंगतः । सिन्धुरप्यागतो रोषाद्योद्धुकामो महाबलः२.७६.१ ०। ततः कुबेरो वरुणो वायुरग्निः पुरन्दरः। सोमो मित्रश्च भौमश्च नासत्यौ मदनोऽपि च११। ततोऽभवद् द्वन्द्वयुद्धं सिन्धुदैत्ये पुरः स्थिते । प्रचण्डो वरुणेनाजौ कमलेन च यक्षराट् १२। वृत्रेण शतयज्वा च निशुम्भः पवनेन च । शुम्भोऽपि युयुधे तत्र विष्णुना प्रभविष्णुना १३। वह्निश्चण्डेन मुण्डेन सोमश्च युयुधे भृशम् । कदम्बेन च भौमश्च मदनेन च शम्बरः १४। नासत्यौ कालदैत्येन सर्व एव च सैनिकाः। शस्त्रैरस्त्रैः प्रजघ्नुस्ते मर्मस्थानानि चासकृत १५। केचिद्युयुधिरे मल्ललीलया युद्धदुर्मदाः। परस्परं शस्त्रघातैः केचित्तत्र प्रपेदिरे १६। मृता मुमूषंवः केचिद्व्यंगाश्चैव वल्गिरे । जयं पराजयं तेन प्रापुः क्वचित्कमेव च १७। ततो वृत्रासुरः शक्रमहनन्मुष्टिघाततः । मस्तकं मस्तकेनैव निजघ्नतुरथौजसा १८। एवं हस्तेन हस्तं च पादं पादेन जघ्नतु । वक्षःस्थलेन वक्षश्च ततो वज्रेण सोऽहनत् १९। जघान वृत्र शक्रं तं सोऽपतन्मूर्छितो भुवि । यावत्पलायति पुरो वमन्रक्तं मुखाद्बहु २.७६.२०। ततः पपात भूपृष्ठे हतो मूर्छा गतो भृशम् । पुनः संज्ञामवाप्यैव वज्रकल्पेन मुष्टिना २१। जघान वृत्रः शक्रं तं सोऽपत- न्मूर्च्छितो भुवि । यावत्पलायति सुरो वमन्रक्तं मुखाद्बहु । तावद्दैत्या योद्धुकामाः समीयुः सर्वतोदिशम् । दृष्टवा पराक्रमं तेषां मघवान्तर्दधे तदा २२। एवं ये ये द्वन्द्वयुद्धं कुर्वन्तो देवतागणाः । ते सर्वे भग्नदर्पास्तु पलायनमकुर्वत २३। एवं देवेषु भग्नेषु गरुडं प्राहिणोद्धरिः । चक्रदीप्त्या स्वदीप्त्या च भासयन्विदिशो दिश २४। अहनच्चक्रधाराभिर्देत्यश्रेणीरनेकश । केचिद्भग्नानना दैत्या केचिद्भग्नशिरोधरा २५। केचिच्च शतधा जाता शीर्णजानूरुबाहव । केचिच्च शरणं याता न ममार जनार्दनः २६। सर्वे महाबला दैत्या मुक्तिं हरिहता गता. । मेदोमांसवहा नद्यः सद्यस्तत्र प्रवर्तिताः २७। ततः शंखनिनादेन हरि सर्वं व्यनादयत् । एवं जयति गोविंदे सर्वे शुम्भादयोऽसुराः २८। तमेव योद्धुमायाता द्वन्द्वयुद्धं विहाय तत् । विराड्रूपेण भगवान्धृत्वा तांश्चतुरोऽसुरान् २९। भिण्डिपालेन पाषाणं यथा क्षिपति मानवः । तथा चण्डं च मुण्डं च निशुम्भं शुम्भमेव च २.७६.३०। भ्रामयित्वाऽक्षिपद्दूरे मध्ये कृत्वा सरिद्वराम् । ते मूर्च्छां परिभूयैव पुनश्च वाहिनीं गताः ३१। हृदि प्रचण्डं पृष्ठे तु वृत्रं मुष्टिप्रहारतः । जघान हरिरव्यग्रः कालं कमलमेव च ३२। भौमासुरं च शिरसि कदम्बं चक्रघाततः । कोलासुरं च गदया विव्याध हृदि माधवः ३३। ततः सिन्धुरगात्तूर्णं कृतकोलाहलारवः । दिगन्तान्नादयन्प्रोचे बलं ते दर्शितं हरे ३४। ममापि पौरुषं पश्य न च गन्तुं त्वमर्हसि । न मे दृष्टिगतो जीवन् रिपुर्याति कदाचन ३५। भूतभव्यभविष्यज्ञ किं पूर्वं न विचारितम् । यस्य शब्देन च भृशं कम्पते भुवनत्रयम् ३६। तत्पुरः कथमायातः खद्योत इव भूषणम् । ततोऽमरगणाः प्रोचुर्वल्गन्तं सिन्धुदैत्यपम् ३७। शूरा न हि प्रजल्पन्ति दर्शयन्त्येव पौरुषम् । अस्माकं न हरेराज्ञा नो चेत्त्वं शतधा भवेः ३८ (३४०१)।

adhyāya 76 prāraṃbha ka uvāca | vaikuṇṭhe sukhamāsīnamāgato'marasaṃyutaḥ | harirhariṃ namaskṛtya nijagāda prayojanam 1| indra uvāca | kiṃ na jānāsi govinda sindhudaityakṛtāmimām | āpadaṃ no'marāvatyāṃ duṣṭairākramaṇaṃ kṛtam 2| tena sārddhaṃ kṛtaṃ yuddhaṃ yathāśakti suraiḥ saha | na sa jetuṃ kṣamo daityo'tastvāṃ śaraṇamanviyām 3| na tvāṃ vinā gatirno'sti sarvadā tvaṃ gatirhi naḥ | nirdālayainaṃ no dehi sthānāni jagadīśvara 4| ka uvāca | śrutvā harivaco viṣṇuścintāścaryasamanvitaḥ | uvāca taṃ na bhīḥ kāryā pravijyeṣye'suraṃ kṣaṇāt 5| evamuktvā hṛṣīkeśo ruroha nijavāhanam | taduḍḍānena ca tadā cakampe bhuvanatrayam 6| patitā avanau vṛkṣāḥ pakṣivṛndasamanvitāḥ|| kirīṭakuṇḍaladharo vanamālāvi- bhūṣitaḥ 7| kastubhārcirlasadvakṣāḥ kastūrītilakojjvalaḥ | śaṃkhacakragadāpadmahasto yāto'marāvatīm 8| jñātvā devagaṇānprāptāngaruḍāsanasaṃyutān | yuddhāyājagmurasurā nānāśastradharāstadā 9| dhanuścakradharo daityaḥ satūṇo hayasaṃgataḥ | sindhurapyāgato roṣādyoddhukāmo mahābalaḥ2.76.1 0| tataḥ kubero varuṇo vāyuragniḥ purandaraḥ| somo mitraśca bhaumaśca nāsatyau madano'pi ca11| tato'bhavad dvandvayuddhaṃ sindhudaitye puraḥ sthite | pracaṇḍo varuṇenājau kamalena ca yakṣarāṭ 12| vṛtreṇa śatayajvā ca niśumbhaḥ pavanena ca | śumbho'pi yuyudhe tatra viṣṇunā prabhaviṣṇunā 13| vahniścaṇḍena muṇḍena somaśca yuyudhe bhṛśam | kadambena ca bhaumaśca madanena ca śambaraḥ 14| nāsatyau kāladaityena sarva eva ca sainikāḥ| śastrairastraiḥ prajaghnuste marmasthānāni cāsakṛta 15| kecidyuyudhire mallalīlayā yuddhadurmadāḥ| parasparaṃ śastraghātaiḥ kecittatra prapedire 16| mṛtā mumūṣaṃvaḥ kecidvyaṃgāścaiva valgire | jayaṃ parājayaṃ tena prāpuḥ kvacitkameva ca 17| tato vṛtrāsuraḥ śakramahananmuṣṭighātataḥ | mastakaṃ mastakenaiva nijaghnaturathaujasā 18| evaṃ hastena hastaṃ ca pādaṃ pādena jaghnatu | vakṣaḥsthalena vakṣaśca tato vajreṇa so'hanat 19| jaghāna vṛtra śakraṃ taṃ so'patanmūrchito bhuvi | yāvatpalāyati puro vamanraktaṃ mukhādbahu 2.76.20| tataḥ papāta bhūpṛṣṭhe hato mūrchā gato bhṛśam | punaḥ saṃjñāmavāpyaiva vajrakalpena muṣṭinā 21| jaghāna vṛtraḥ śakraṃ taṃ so'pata- nmūrcchito bhuvi | yāvatpalāyati suro vamanraktaṃ mukhādbahu | tāvaddaityā yoddhukāmāḥ samīyuḥ sarvatodiśam | dṛṣṭavā parākramaṃ teṣāṃ maghavāntardadhe tadā 22| evaṃ ye ye dvandvayuddhaṃ kurvanto devatāgaṇāḥ | te sarve bhagnadarpāstu palāyanamakurvata 23| evaṃ deveṣu bhagneṣu garuḍaṃ prāhiṇoddhariḥ | cakradīptyā svadīptyā ca bhāsayanvidiśo diśa 24| ahanaccakradhārābhirdetyaśreṇīranekaśa | kecidbhagnānanā daityā kecidbhagnaśirodharā 25| kecicca śatadhā jātā śīrṇajānūrubāhava | kecicca śaraṇaṃ yātā na mamāra janārdanaḥ 26| sarve mahābalā daityā muktiṃ harihatā gatā. | medomāṃsavahā nadyaḥ sadyastatra pravartitāḥ 27| tataḥ śaṃkhaninādena hari sarvaṃ vyanādayat | evaṃ jayati goviṃde sarve śumbhādayo'surāḥ 28| tameva yoddhumāyātā dvandvayuddhaṃ vihāya tat | virāḍrūpeṇa bhagavāndhṛtvā tāṃścaturo'surān 29| bhiṇḍipālena pāṣāṇaṃ yathā kṣipati mānavaḥ | tathā caṇḍaṃ ca muṇḍaṃ ca niśumbhaṃ śumbhameva ca 2.76.30| bhrāmayitvā'kṣipaddūre madhye kṛtvā saridvarām | te mūrcchāṃ paribhūyaiva punaśca vāhinīṃ gatāḥ 31| hṛdi pracaṇḍaṃ pṛṣṭhe tu vṛtraṃ muṣṭiprahārataḥ | jaghāna hariravyagraḥ kālaṃ kamalameva ca 32| bhaumāsuraṃ ca śirasi kadambaṃ cakraghātataḥ | kolāsuraṃ ca gadayā vivyādha hṛdi mādhavaḥ 33| tataḥ sindhuragāttūrṇaṃ kṛtakolāhalāravaḥ | digantānnādayanproce balaṃ te darśitaṃ hare 34| mamāpi pauruṣaṃ paśya na ca gantuṃ tvamarhasi | na me dṛṣṭigato jīvan ripuryāti kadācana 35| bhūtabhavyabhaviṣyajña kiṃ pūrvaṃ na vicāritam | yasya śabdena ca bhṛśaṃ kampate bhuvanatrayam 36| tatpuraḥ kathamāyātaḥ khadyota iva bhūṣaṇam | tato'maragaṇāḥ procurvalgantaṃ sindhudaityapam 37| śūrā na hi prajalpanti darśayantyeva pauruṣam | asmākaṃ na harerājñā no cettvaṃ śatadhā bhaveḥ 38 (3401)|

GnP 2 76.77

अध्याय ७७ प्रारंभ –। क उवाच । इति तद्वचनं श्रुत्वा क्रोधाद्वह्निकणान्वमन् । यथा सिंहो गजानीकं याति तद्वद्ययौ सुरान् १। सिन्धुर्मुष्टिप्रहारेण जघान बलसूदनम् । पपात स धरापृष्ठे वाताहत इव द्रुमः २। भालदेशे कुबेरं च हनौ च वरुणं यमम् । पृष्ठ देशे जघानासौ चक्राघातेन दैत्यराट् ३। तालुदेशे पावकं च मन्मथं लत्तयाऽहनत् । अनिलं पादघातेन शनैश्चरमपोथयत् ४। सोमं भौमं भ्रामयित्वा तत्याज भूतले बलात् । पृष्ठभागेऽहनच्चैव सनकं च सनन्दनम् ५। नासत्यौ नारदश्चापि कुत्रापि च पलायिताः । ततः पलायिता सर्वे दृष्ट्वा वीर्यं सुरास्तदा ६। पतिता मूर्छिताः केचिद्दैत्यश्चक्रेण माधवम्। मुष्टिदेशे जघानासौ चक्रं तस्यापतद्भुवि ७। माधवो गदया मूर्ध्नि दैत्येशं तमताडयत्। वंचयित्वा च शतधा गदां स्वां च व्यचिक्षिपत् ८। ज्ञात्वा पराक्रमं तस्य प्रोचे तं मधुसूदनः । वरयस्व वरं दैत्य यत्ते मनसि वर्तते ९। नैतादृशो मयाऽदर्शि पुरुषार्थोऽसुरे क्वचित् । ततोऽब्रवीद्दैत्यपतिः परमाह्लादसंयुतः २.७७.१०। यदि तुष्टोऽसि देवेश यदि देयो वरो मम । गण्डकीनगरे मे त्वं परिवारयुतो हरे ११। सार्वकालं वस विभो नान्यं याचे वरं परम् । तत ऊचे महाविष्णुः स्थास्यामि नगरे तव १२। दत्तो वरो यतो नूनं ततोऽस्मि वशगस्तव । ततः स सत्यलोके च कैलासे वैष्णवे पदे १३। आस्थापयद्दैत्यपतीन्स्वयं शाक्रे पदेऽवसत् । तत्राप्यन्यं स्थापयित्वा रमापतियुतः स्वयम् १४। वाद्यन्दुन्दुभिनिर्घोषैः स्वपुरीं गण्डकीं ययौ । नुवन्ति बन्दिनस्तं तु नेदृशोऽभूत्पुमान्क्वचित् १५। येन विष्णुर्गृहं स्वीयं जित्वाऽनायि सुरान्बहून् । ददृशुर्नागरास्तस्य समीपे वरुणं हरिम् १६। कुबेरं देवमुख्यांश्च ततः स्वभवनं ययुः । ततः प्रोचे हरिं दैत्यो गण्डकीनगरे सुखम् १७। विहरस्वामरैः सार्द्धं ततः सोऽपि तथाऽकरोत् । परितो दूरतो दैत्यो दैत्यानन्यान्न्यवेशयत् १८। ततो देवा हरिं प्रोचुः किं कृतं गरुडध्वज । त्यक्त्वा स्वविक्रमं किं त्वं स्थितोऽत्यानन्दनिर्भरः १९। कथं कारागृहे प्राप्ता मृत्युलोकं गताः कथम् । कथमन्तो भवेदस्य भोगस्य जगदीश्वर २.७७.२०। तत ऊचे हरिः सर्वान्कालो हि दुरतिक्रमः । कालेन जायते सर्वं हृसते वर्धतेऽपि वा २१। तस्मात्कालं प्रतीक्षध्वं काल एनं ग्रसिष्यति । एवं जित्वा त्रिलोकीं स महाबलपराक्रमः २२। ततो दैत्यो जगौ सर्वं वृत्तान्तं पितरौ मुदा । आशिषं ददतुस्तौ च ज्ञात्वा पौरुषमस्य ह २३। ततो दैत्यो दुष्टमतिर्भूतले समघोषयत् । देवद्विजगवामर्चा क्रियते येन केनचित् २४। स हन्तव्योऽथवा साधुरानेयो मम सन्निधौ । प्रतिमा यत्र यत्र स्यात्तां भंक्त्वा निक्षिपेज्जले २५। ममैव प्रतिमां कृत्वा पूजयन्तु गृहे गृहे । प्राबोधयन्सिन्धुवचो दूता एवं स्थले स्थले २६। भंक्त्वा प्रासादमूर्तीश्च तोऽयेगाधे च चिक्षिपुः । सिन्धोश्च प्रतिमां कृत्वाऽस्थापयन्परमादरात् २७। पूजार्थं राक्षसाश्चापि ततो याता निजं पतिम् । ऊचुर्वैनायकहरहरिभानुरमादिकाः २८। प्रतिमाः प्रविभज्याशु क्षिप्ताः सर्वा महाजले । तवैव प्रतिमास्तत्र स्थापिता राक्षसा अपि २९। पूजार्थं स्थापिताः स्वामिन्नागताश्च तवान्तिकम् । एवं धर्मस्य सर्वस्य विच्छित्तिः समजायत २.७७.३०। यज्ञदानस्वधास्वाहावषट्कारान्न चाकरोत् । देवद्विजगुरूणां च पूजनं क्व च नाभवत् ३१। मेरुं याता ऋषिगणाः केचिद्भ्रंशमुपागताः । एवं त्रैलोक्यप्रबला दैत्या जाताश्च राक्षसाः ३२। विलीना निधनं प्राप्ताः साधवो देवतागणाः । यथा देवगणा मोक्षं सिन्धोः प्राप्ताः शृणुष्व तत् ३३ (३४३४)।

adhyāya 77 prāraṃbha –| ka uvāca | iti tadvacanaṃ śrutvā krodhādvahnikaṇānvaman | yathā siṃho gajānīkaṃ yāti tadvadyayau surān 1| sindhurmuṣṭiprahāreṇa jaghāna balasūdanam | papāta sa dharāpṛṣṭhe vātāhata iva drumaḥ 2| bhāladeśe kuberaṃ ca hanau ca varuṇaṃ yamam | pṛṣṭha deśe jaghānāsau cakrāghātena daityarāṭ 3| tāludeśe pāvakaṃ ca manmathaṃ lattayā'hanat | anilaṃ pādaghātena śanaiścaramapothayat 4| somaṃ bhaumaṃ bhrāmayitvā tatyāja bhūtale balāt | pṛṣṭhabhāge'hanaccaiva sanakaṃ ca sanandanam 5| nāsatyau nāradaścāpi kutrāpi ca palāyitāḥ | tataḥ palāyitā sarve dṛṣṭvā vīryaṃ surāstadā 6| patitā mūrchitāḥ keciddaityaścakreṇa mādhavam| muṣṭideśe jaghānāsau cakraṃ tasyāpatadbhuvi 7| mādhavo gadayā mūrdhni daityeśaṃ tamatāḍayat| vaṃcayitvā ca śatadhā gadāṃ svāṃ ca vyacikṣipat 8| jñātvā parākramaṃ tasya proce taṃ madhusūdanaḥ | varayasva varaṃ daitya yatte manasi vartate 9| naitādṛśo mayā'darśi puruṣārtho'sure kvacit | tato'bravīddaityapatiḥ paramāhlādasaṃyutaḥ 2.77.10| yadi tuṣṭo'si deveśa yadi deyo varo mama | gaṇḍakīnagare me tvaṃ parivārayuto hare 11| sārvakālaṃ vasa vibho nānyaṃ yāce varaṃ param | tata ūce mahāviṣṇuḥ sthāsyāmi nagare tava 12| datto varo yato nūnaṃ tato'smi vaśagastava | tataḥ sa satyaloke ca kailāse vaiṣṇave pade 13| āsthāpayaddaityapatīnsvayaṃ śākre pade'vasat | tatrāpyanyaṃ sthāpayitvā ramāpatiyutaḥ svayam 14| vādyandundubhinirghoṣaiḥ svapurīṃ gaṇḍakīṃ yayau | nuvanti bandinastaṃ tu nedṛśo'bhūtpumānkvacit 15| yena viṣṇurgṛhaṃ svīyaṃ jitvā'nāyi surānbahūn | dadṛśurnāgarāstasya samīpe varuṇaṃ harim 16| kuberaṃ devamukhyāṃśca tataḥ svabhavanaṃ yayuḥ | tataḥ proce hariṃ daityo gaṇḍakīnagare sukham 17| viharasvāmaraiḥ sārddhaṃ tataḥ so'pi tathā'karot | parito dūrato daityo daityānanyānnyaveśayat 18| tato devā hariṃ procuḥ kiṃ kṛtaṃ garuḍadhvaja | tyaktvā svavikramaṃ kiṃ tvaṃ sthito'tyānandanirbharaḥ 19| kathaṃ kārāgṛhe prāptā mṛtyulokaṃ gatāḥ katham | kathamanto bhavedasya bhogasya jagadīśvara 2.77.20| tata ūce hariḥ sarvānkālo hi duratikramaḥ | kālena jāyate sarvaṃ hṛsate vardhate'pi vā 21| tasmātkālaṃ pratīkṣadhvaṃ kāla enaṃ grasiṣyati | evaṃ jitvā trilokīṃ sa mahābalaparākramaḥ 22| tato daityo jagau sarvaṃ vṛttāntaṃ pitarau mudā | āśiṣaṃ dadatustau ca jñātvā pauruṣamasya ha 23| tato daityo duṣṭamatirbhūtale samaghoṣayat | devadvijagavāmarcā kriyate yena kenacit 24| sa hantavyo'thavā sādhurāneyo mama sannidhau | pratimā yatra yatra syāttāṃ bhaṃktvā nikṣipejjale 25| mamaiva pratimāṃ kṛtvā pūjayantu gṛhe gṛhe | prābodhayansindhuvaco dūtā evaṃ sthale sthale 26| bhaṃktvā prāsādamūrtīśca to'yegādhe ca cikṣipuḥ | sindhośca pratimāṃ kṛtvā'sthāpayanparamādarāt 27| pūjārthaṃ rākṣasāścāpi tato yātā nijaṃ patim | ūcurvaināyakaharaharibhānuramādikāḥ 28| pratimāḥ pravibhajyāśu kṣiptāḥ sarvā mahājale | tavaiva pratimāstatra sthāpitā rākṣasā api 29| pūjārthaṃ sthāpitāḥ svāminnāgatāśca tavāntikam | evaṃ dharmasya sarvasya vicchittiḥ samajāyata 2.77.30| yajñadānasvadhāsvāhāvaṣaṭkārānna cākarot | devadvijagurūṇāṃ ca pūjanaṃ kva ca nābhavat 31| meruṃ yātā ṛṣigaṇāḥ kecidbhraṃśamupāgatāḥ | evaṃ trailokyaprabalā daityā jātāśca rākṣasāḥ 32| vilīnā nidhanaṃ prāptāḥ sādhavo devatāgaṇāḥ | yathā devagaṇā mokṣaṃ sindhoḥ prāptāḥ śṛṇuṣva tat 33 (3434)|

GnP 2 76.79

क उवाच । इति शक्रवचः श्रुत्वा ब्रुवन्ब्रह्मादयः सुराः । ईश्वरः सर्वकर्ताऽस्ति स कल्याणं करिष्यति ३। स येन तुष्यते देवः स उपायो विधीयताम् । स एनं परिभूत्वैव पदानि नः प्रदास्यति ४। ततो वक्तुप्रधानोऽसौ बृहस्पतिरभाषत । स्वल्पया पूजया सद्यः प्रसन्नो जायते विभुः ५। चराचरगुरुः सद्यः सर्वैः प्रार्थ्योऽसुरान्तकः । देवा ऊचुः । को देवः प्रार्थनीयस्ते मतो वाचस्पते वद ६। तस्य तुष्टिं करिष्यामः स्वपदप्राप्तयेऽखिलाः। गुरुरुवाच । सृजते पाति यो विश्वं हन्ति रूपत्रयात्मकः ७। अबीजो बीजभूतश्चाशेषवाचामगोचरः । नित्यो ब्रह्ममयो ज्योतिस्वरूपः शास्त्रगोचरः ८। अनादिमध्यनिधनो निर्गुणो यो निरामयः । बहुरूपैकरूपश्च यस्य नामाखिला जनाः ९। गृहीत्वा सर्वकार्येषु सिद्धिं यान्ति निजेप्सिताम् । संकष्टं हरते भक्त्या पूजितः स विनायकः २.७८.१०। आराधयन्तु सर्वे तं स वः सिद्धिं विधास्यति । माघस्य कृष्णपक्षोऽयं संप्रवृत्तोऽधुना सुराः ११। चतुर्थी भौमयुक्ताऽस्य प्रिया विघ्न हरस्य ह । स एव प्रकटीभूय दास्यते स्वंपदानि वः १२। सिन्धुं स संनिहत्यैव नात्र कार्या विचारणा । यद्यत्कामयते यो यस्तत्तत्सर्वं प्रदास्यति १३। देवा ऊचुः । सम्यगुक्तं गुरो वाक्ये येन तृप्ता वयं मुने । महास्रोतोवहान्नस्त्वं कर्णधारोऽसि साम्प्रतम् १४। क उवाच । ततस्ते शक्रवरुणकुबेरमधुसूदनाः । गुरुभौमशशीनाश्च यमाग्न्यनिलकादयः १५। पञ्चामृतं गन्धमाल्यं शमीदूर्वाश्च पल्लवान् । फलान्यरण्यजातानि विविधानि च मृत्तिकाः १६। अशर्कराः समादाय गण्डकीं तां नदीं ययुः । मण्डपं विपुलं कृत्वा भक्त्वा वृक्षाननेकशः १७। लताभिः कदलीस्तम्भैः सुच्छायं च सुशीतलम् । स्नात्वा नित्यक्रियाः कृत्वा मूर्तीश्चक्रु सुशोभना १८। सिंहारूढा दशभुजा दशायुधविराजिताः । वैनायकीः करिकरा नानाभूषाविराजिताः १९। सिद्धिबुद्धियुताः पार्श्वे किरीटकुण्डलोज्ज्वलाः । पीतवस्त्रपरीधानाः सर्पभूषाविराजिताः । तस्मिन्मण्डपमध्ये ताः स्थापयित्वा यथाविधि । पुपूजुः परया भक्त्या षोडशैरुपचारकैः २.७८.२०। पञ्चामृतैः शुद्धजलैर्वस्त्रगन्धादिदीपकैः। नैवेद्यैर्विविधैश्चैव फलैरारार्तिकैः शुभैः २१। एवं संपूज्य ते मन्त्रं जेपुः सवितृतुष्टये । अस्तं याते सवितरि सन्ध्यां कृत्वाऽस्तुवन्विभुम् २२। सर्वे ऊचुः । दीननाथ दयासिन्धो योगिहृत्पद्मसंस्थित । अनादिमध्यरहितस्वरूपाय नमो नमः २३। जगद्भास चिदाभास ज्ञानगम्य नमो नमः । मुनिमानसविष्टाय नमो दैत्यविघातिने २४। त्रिलोकेश गुणातीत गुणक्षोभ नभो नमः । त्रैलोक्यपालन विभो विश्वव्यापिन्नमो नमः २५। मायातीताय भक्तानां कामपूराय ते नमः । सोमसूर्याग्निनेत्राय नमो विश्वम्भराय ते २६। अमेयशक्तये तुभ्यं नमस्ते चन्द्रमौलये । चन्द्रगौराय शुद्धाय शुद्धज्ञानकृते नमः २७। क उवाच । एवं स्तुवत्सु देवेषु तेजोराशिरभूत्पुरः। सर्वे हतदृशो देवा विस्मिता अभवंस्तदा २८। ततस्तत्कृपया देवः सौम्यतेजा अजायत । ततस्ते ददृशुर्देवं सिंहारूढं विनायकम् २९। दशायुधधरं तावद्भुजं दिव्यकिरीटिनम् । नानाभूषाभिरामं च मुक्तादामविभूषितम् २.७८.३०। दिव्यगन्धानुलेपाढ्यं व्यालबद्धोदरं विभुम् । क्षुद्रघण्टाक्वणत्पादं कस्तूरीतिलकोज्ज्वलम् ३१। एवं दृष्ट्वा सुरा देवं नमस्कृत्योचिरे तदा। यश्चिन्तितो गुरोर्वाक्यात्स एवायं विनायकः ३२। स एव दृष्टः साक्षात्तु वाङमनोऽगोचरो विभुः । जन्म धन्यं दृशिर्धन्या तपो दानं च नः सुराः ३३। तत ऊचे सुरान्देवस्तृप्तोऽहं भवतां स्तवैः । पूजया चैव भक्त्या च संकष्टीव्रततोऽपि च ३४। संकष्टहरमेतच्च स्तोत्रं ख्यातं भविष्यति । यः पठेत्प्रयतो नित्यं स मे मान्यो भवेत्सुराः ३५। तस्य दर्शनतः सर्वे नश्येयुर्यक्षराक्षसाः । भोगान्भुनक्ति विविधानन्ते मोक्षपदं लभेत् ३६। शण्वन्तु मे पुनर्वाक्यं सिन्धुदैत्येन पीडिताः । शरणं मे प्रपन्नाश्च यज्ञवेदादिवर्जिताः ३७। निरुद्धा गण्डकीदेशे स्वधास्वाहाविवर्जिताः । ततो ह्यस्य वधं कर्तुमवतान्तरं मम ३८। गिरिजाया गृहे देवा भविष्यामि च साम्प्रतम् । मयूरेश्वरनाम्नाऽहं ख्यातिं यास्ये तदा च वः ३९। पदानामाश्रमाणां च प्राप्तिः सिन्धौ हते मया। भविष्यति न संदेह यतः कृतयुगे सुराः २.७८.४०। सिंहारूढो दशभुजस्तेजोरूपी विनायकः । षड्भुजः शशिवर्णश्च त्रेतायां बर्हिवाहन: ४१। मयूरेश्वरनामा च द्वापरे रक्तवर्णवान् । चतुर्बाहुराखुवाहो भूत्वा चाहं गजानन: ४२। ततः कलियुगे प्राप्ते श्यामवर्णो दृषन्मयः । धूमकेतुरिति ख्यातो भविष्यामि सुरा अहम्४३। शीघ्रमेव करिष्यामि भवतां वाञ्छितं सुराः। क उवाच । एवं निवेद्य तान्देवस्तत्रैवान्तर्दधे विभुः ४४। आनदत् च सुरा प्रापु: स्वकार्यं कृतनिश्चयाः। य इदं परमाख्यानं शणुयाच्छ्रावयेच्च य:४५। पठेच्च परया भक्त्या ध्यात्वा देवं विनायकम्। सर्वान्कामानवाप्नोति प्रेत्य ब्रह्ममयो भवेत्४६। क उवाच । निर्जितान्सिन्धुना देवां ज्ञात्वा शम्भुर्निजस्थलात्। सप्तकोटिगणाकीर्णस्त्रिसन्ध्याक्षेत्रमभ्यगात् १। स्वाहास्वधावषट्कारवेदाध्ययनवर्जिताः । निवसन्ति भयात्सिन्धोर्गौतमाद्या महर्षयः २। दृष्ट्वा ते त्र्यम्बकं देवं परिवव्रुः समन्ततः । यथा तीर्थं विप्रवरा बालका जननीं यथा ३। प्रणम्य तं प्रपूज्यैव प्रोचुर्धन्यतमा वयम् । अनुष्ठानं दृशिर्जन्म धन्यं ज्ञानं यतो हरः ४। अगोचरो दृष्टिगतो दण्डकारण्यमागतः । दुरितं विलयं यातं पुण्यं च फलितं महत् ५। इदानीं न च दुःख नो दृष्टे देवे भविष्यति । यथोदिते दिवानाथे न ध्वान्तं दृश्यते क्वचित् ६। ततोऽब्रवीन्महादेवः सर्वांस्तान्मुनिपुंगवान् । शिव उवाच । सिन्धुनाऽक्रामि त्रैलोक्यं कृतां देवविनिग्रहः७। मुनीनामपि केषांचित्तेन खिन्नं मनो मम। विश्रान्तिं न लभे स्थाने ततोऽहमिह चागतः ८। भवतां दर्शने नाहं परितुष्टो मुदान्वितः । इदानीमवकाशं सपरिवारस्य दीयताम् ९। अतिपुण्येन वः प्राप्तं दर्शनं पापनाशनम् । यत्रस्थित्वा परं ध्यानं करिष्ये जगदीशितुः २.७९.१०। क उवाच । इति शूलिवचः श्रुत्वा प्रोचुः सर्वे महर्षयः। सर्वेश्वरस्य ते देव दाता स्थानस्य को भवेत् ११। कल्पद्रुमस्य कः कामः केनासौ परिपूर्यते । क्षीरार्णवतृषा किं वा पल्लवेन गमिष्यति १२। तवैव रूपं पृथिवी तव वश्याऽत्र सर्वदा । त्वमीशः सर्वलोकस्य यथेच्छसि तथा कुरु १३। दर्शयामः सुरपते सुन्दरं तव चाश्रमम् । नानावृक्षलताकीर्णं रम्यवापीसरोजलम् १४। यादोभिः पक्षिभिर्युक्तं घनच्छायं सुविस्तृतम् । स्वादुकन्दफलोपेतं मृदुघाससमन्वितम् १५। यदीच्छाऽत्र वस त्र्यक्ष परिपालय नोऽखिलान् । क उवाच । तत्रावसन्महादेवो गंगौरीगणैर्युतः १६। कैलासादधिकं मेने मुनेराश्रममण्डलम् । तदाश्रयेण ते सर्वे गौतमाद्या महर्षयः १७। चेरुस्तपांसि विविधान्यासंस्ते विगतज्वराः। शिवोपि तप आरेभे गंगागौरिसहायवान् १८। ततो गणाश्च सामग्रीं तस्य चक्रुर्महात्मनः। कस्मिश्चित्समये गौरी पृच्छति स्म सदाशिवम् १९। त्वमेव कर्ता हर्ता त्वं पाता विश्वस्य शंकर । अष्टमूर्तिरमूर्तिस्त्वं सर्वशः सर्वभावतः २.७९.२०। सर्वश्रेष्ठतमस्त्वं च सर्वेषां सर्वकामदः । अष्टानां कर्मणां देव फलदाताऽखिलार्थवित् २१। त्वत्तः श्रेष्ठतमः कोऽस्ति यं त्वं ध्यायसि तं वद । देवाश्च मुनयो नागा हा यक्षमानुषराक्षसाः २२। यत्सत्तयाऽखिलं विश्वं त्वत्तः श्रेष्ठतमस्तु कः । त्रयस्त्रिंशत्कोटिदैवेः पूज्यसे सिद्धसाधकैः २३। क उवाच । इति तद्वचनं श्रुत्वा शिवो वचनमब्रवीत्। शिव उवाच। सम्यक्पृष्टं त्वया देवि तुष्टो वाक्येन तेऽनघे२४। शणुष्वावहिता देवि विस्तरेण ब्रवीमि ते। अद्यापि न कथं ज्ञातो यं ध्यायामि सुरेश्वरि२५। तत्स्वरूपं निरूपिष्ये तव प्रीतिचिकीर्षया। लोकानामुपकाराय संसारोत्तारणाय च २६। यो देवः सर्वभूतेषु गूढश्चरति विश्वकृत् । योऽनन्तशीर्षानन्तश्रीरनन्तचरणः स्वराट्२७। अनन्तश्रुतिनेत्रश्चानन्तनामा गुणातिगः। अनन्तरूपी यो देवो वेदकर्ताऽखिलार्थदः २८। योऽनन्तशक्तिविश्वात्माऽनुपमेयः पुरातनः। नोपमा शेषचन्द्राब्धिव्योम्नां नारायणस्य च २९। भारतस्य च वेदस्य व्यासस्य च मुनेरपि । यतो जीवा अनन्ताश्च जायन्तेऽम्बुमुचो यथा २.७९.३०। जलधारा यथाऽग्नेर्वा विस्फुलिंगा भवन्ति हि । ब्रह्माविष्णुशिवादीनां गुणत्रयप्रदः प्रभुः ३१। सृष्टिपालनसंहारानाज्ञापयत तैरिह । ततो गुणविभागेन गणेश इति पप्रथे ३२। तमिमं परमात्मानं परात्परतरं विभुम् । गुणेशमनिशं ध्याये परब्रह्मस्वरूपिणम् ३३। गौर्युवाच । तुष्टाऽहं तव वाक्येन प्रत्ययो मे कथं भवेत् । तं गुणेशं कथं साक्षात्करोमि च भजामि च ३४। तमुपायं वद विभो यदि तुष्टोऽसि शंकर । क उवाच । इति तस्या वचः श्रुत्वा पुनरूचे महेश्वरः ३५। शिव उवाच। एकनिष्ठतया यावत्तपसाराधितो न ते। तावत्प्रत्यक्षतां देवि कथं यास्याति स प्रभुः ३६। देव्युवाच । कथं मया तपः कार्यं केनोपायेन वा विभो । यदि तुष्टोऽसि देवेश वद सत्यं ममानघ ३७। क उवाच । एवं तदादरं बुद्ध्वा प्रोवाच गिरिजां हरः । येन तस्या भवेत्प्रीतो गुणेशो गुणवल्लभः ३८। एकाक्षरमनुं तस्यै ददौ सम्यग्घरस्तदा । द्वादशाद्वं कुरु तपस्ततस्तुष्टो भवेद्विभुः ३९। साक्षात्कारं गुणेशस्ते प्रदास्यति न संशयः। तदैव सा नमस्कृत्य गिरीशं हृष्टमानसा २.७९.४०। जगाम तपसे गौरी मन्त्रध्यानपरायणा । जीर्णापुरादुत्तरे तु लेखनादि मनोहरम ४१ (३५२६)।

ka uvāca | iti śakravacaḥ śrutvā bruvanbrahmādayaḥ surāḥ | īśvaraḥ sarvakartā'sti sa kalyāṇaṃ kariṣyati 3| sa yena tuṣyate devaḥ sa upāyo vidhīyatām | sa enaṃ paribhūtvaiva padāni naḥ pradāsyati 4| tato vaktupradhāno'sau bṛhaspatirabhāṣata | svalpayā pūjayā sadyaḥ prasanno jāyate vibhuḥ 5| carācaraguruḥ sadyaḥ sarvaiḥ prārthyo'surāntakaḥ | devā ūcuḥ | ko devaḥ prārthanīyaste mato vācaspate vada 6| tasya tuṣṭiṃ kariṣyāmaḥ svapadaprāptaye'khilāḥ| gururuvāca | sṛjate pāti yo viśvaṃ hanti rūpatrayātmakaḥ 7| abījo bījabhūtaścāśeṣavācāmagocaraḥ | nityo brahmamayo jyotisvarūpaḥ śāstragocaraḥ 8| anādimadhyanidhano nirguṇo yo nirāmayaḥ | bahurūpaikarūpaśca yasya nāmākhilā janāḥ 9| gṛhītvā sarvakāryeṣu siddhiṃ yānti nijepsitām | saṃkaṣṭaṃ harate bhaktyā pūjitaḥ sa vināyakaḥ 2.78.10| ārādhayantu sarve taṃ sa vaḥ siddhiṃ vidhāsyati | māghasya kṛṣṇapakṣo'yaṃ saṃpravṛtto'dhunā surāḥ 11| caturthī bhaumayuktā'sya priyā vighna harasya ha | sa eva prakaṭībhūya dāsyate svaṃpadāni vaḥ 12| sindhuṃ sa saṃnihatyaiva nātra kāryā vicāraṇā | yadyatkāmayate yo yastattatsarvaṃ pradāsyati 13| devā ūcuḥ | samyaguktaṃ guro vākye yena tṛptā vayaṃ mune | mahāsrotovahānnastvaṃ karṇadhāro'si sāmpratam 14| ka uvāca | tataste śakravaruṇakuberamadhusūdanāḥ | gurubhaumaśaśīnāśca yamāgnyanilakādayaḥ 15| pañcāmṛtaṃ gandhamālyaṃ śamīdūrvāśca pallavān | phalānyaraṇyajātāni vividhāni ca mṛttikāḥ 16| aśarkarāḥ samādāya gaṇḍakīṃ tāṃ nadīṃ yayuḥ | maṇḍapaṃ vipulaṃ kṛtvā bhaktvā vṛkṣānanekaśaḥ 17| latābhiḥ kadalīstambhaiḥ succhāyaṃ ca suśītalam | snātvā nityakriyāḥ kṛtvā mūrtīścakru suśobhanā 18| siṃhārūḍhā daśabhujā daśāyudhavirājitāḥ | vaināyakīḥ karikarā nānābhūṣāvirājitāḥ 19| siddhibuddhiyutāḥ pārśve kirīṭakuṇḍalojjvalāḥ | pītavastraparīdhānāḥ sarpabhūṣāvirājitāḥ | tasminmaṇḍapamadhye tāḥ sthāpayitvā yathāvidhi | pupūjuḥ parayā bhaktyā ṣoḍaśairupacārakaiḥ 2.78.20| pañcāmṛtaiḥ śuddhajalairvastragandhādidīpakaiḥ| naivedyairvividhaiścaiva phalairārārtikaiḥ śubhaiḥ 21| evaṃ saṃpūjya te mantraṃ jepuḥ savitṛtuṣṭaye | astaṃ yāte savitari sandhyāṃ kṛtvā'stuvanvibhum 22| sarve ūcuḥ | dīnanātha dayāsindho yogihṛtpadmasaṃsthita | anādimadhyarahitasvarūpāya namo namaḥ 23| jagadbhāsa cidābhāsa jñānagamya namo namaḥ | munimānasaviṣṭāya namo daityavighātine 24| trilokeśa guṇātīta guṇakṣobha nabho namaḥ | trailokyapālana vibho viśvavyāpinnamo namaḥ 25| māyātītāya bhaktānāṃ kāmapūrāya te namaḥ | somasūryāgninetrāya namo viśvambharāya te 26| ameyaśaktaye tubhyaṃ namaste candramaulaye | candragaurāya śuddhāya śuddhajñānakṛte namaḥ 27| ka uvāca | evaṃ stuvatsu deveṣu tejorāśirabhūtpuraḥ| sarve hatadṛśo devā vismitā abhavaṃstadā 28| tatastatkṛpayā devaḥ saumyatejā ajāyata | tataste dadṛśurdevaṃ siṃhārūḍhaṃ vināyakam 29| daśāyudhadharaṃ tāvadbhujaṃ divyakirīṭinam | nānābhūṣābhirāmaṃ ca muktādāmavibhūṣitam 2.78.30| divyagandhānulepāḍhyaṃ vyālabaddhodaraṃ vibhum | kṣudraghaṇṭākvaṇatpādaṃ kastūrītilakojjvalam 31| evaṃ dṛṣṭvā surā devaṃ namaskṛtyocire tadā| yaścintito gurorvākyātsa evāyaṃ vināyakaḥ 32| sa eva dṛṣṭaḥ sākṣāttu vāṅamano'gocaro vibhuḥ | janma dhanyaṃ dṛśirdhanyā tapo dānaṃ ca naḥ surāḥ 33| tata ūce surāndevastṛpto'haṃ bhavatāṃ stavaiḥ | pūjayā caiva bhaktyā ca saṃkaṣṭīvratato'pi ca 34| saṃkaṣṭaharametacca stotraṃ khyātaṃ bhaviṣyati | yaḥ paṭhetprayato nityaṃ sa me mānyo bhavetsurāḥ 35| tasya darśanataḥ sarve naśyeyuryakṣarākṣasāḥ | bhogānbhunakti vividhānante mokṣapadaṃ labhet 36| śaṇvantu me punarvākyaṃ sindhudaityena pīḍitāḥ | śaraṇaṃ me prapannāśca yajñavedādivarjitāḥ 37| niruddhā gaṇḍakīdeśe svadhāsvāhāvivarjitāḥ | tato hyasya vadhaṃ kartumavatāntaraṃ mama 38| girijāyā gṛhe devā bhaviṣyāmi ca sāmpratam | mayūreśvaranāmnā'haṃ khyātiṃ yāsye tadā ca vaḥ 39| padānāmāśramāṇāṃ ca prāptiḥ sindhau hate mayā| bhaviṣyati na saṃdeha yataḥ kṛtayuge surāḥ 2.78.40| siṃhārūḍho daśabhujastejorūpī vināyakaḥ | ṣaḍbhujaḥ śaśivarṇaśca tretāyāṃ barhivāhana: 41| mayūreśvaranāmā ca dvāpare raktavarṇavān | caturbāhurākhuvāho bhūtvā cāhaṃ gajānana: 42| tataḥ kaliyuge prāpte śyāmavarṇo dṛṣanmayaḥ | dhūmaketuriti khyāto bhaviṣyāmi surā aham43| śīghrameva kariṣyāmi bhavatāṃ vāñchitaṃ surāḥ| ka uvāca | evaṃ nivedya tāndevastatraivāntardadhe vibhuḥ 44| ānadat ca surā prāpu: svakāryaṃ kṛtaniścayāḥ| ya idaṃ paramākhyānaṃ śaṇuyācchrāvayecca ya:45| paṭhecca parayā bhaktyā dhyātvā devaṃ vināyakam| sarvānkāmānavāpnoti pretya brahmamayo bhavet46| ka uvāca | nirjitānsindhunā devāṃ jñātvā śambhurnijasthalāt| saptakoṭigaṇākīrṇastrisandhyākṣetramabhyagāt 1| svāhāsvadhāvaṣaṭkāravedādhyayanavarjitāḥ | nivasanti bhayātsindhorgautamādyā maharṣayaḥ 2| dṛṣṭvā te tryambakaṃ devaṃ parivavruḥ samantataḥ | yathā tīrthaṃ vipravarā bālakā jananīṃ yathā 3| praṇamya taṃ prapūjyaiva procurdhanyatamā vayam | anuṣṭhānaṃ dṛśirjanma dhanyaṃ jñānaṃ yato haraḥ 4| agocaro dṛṣṭigato daṇḍakāraṇyamāgataḥ | duritaṃ vilayaṃ yātaṃ puṇyaṃ ca phalitaṃ mahat 5| idānīṃ na ca duḥkha no dṛṣṭe deve bhaviṣyati | yathodite divānāthe na dhvāntaṃ dṛśyate kvacit 6| tato'bravīnmahādevaḥ sarvāṃstānmunipuṃgavān | śiva uvāca | sindhunā'krāmi trailokyaṃ kṛtāṃ devavinigrahaḥ7| munīnāmapi keṣāṃcittena khinnaṃ mano mama| viśrāntiṃ na labhe sthāne tato'hamiha cāgataḥ 8| bhavatāṃ darśane nāhaṃ parituṣṭo mudānvitaḥ | idānīmavakāśaṃ saparivārasya dīyatām 9| atipuṇyena vaḥ prāptaṃ darśanaṃ pāpanāśanam | yatrasthitvā paraṃ dhyānaṃ kariṣye jagadīśituḥ 2.79.10| ka uvāca | iti śūlivacaḥ śrutvā procuḥ sarve maharṣayaḥ| sarveśvarasya te deva dātā sthānasya ko bhavet 11| kalpadrumasya kaḥ kāmaḥ kenāsau paripūryate | kṣīrārṇavatṛṣā kiṃ vā pallavena gamiṣyati 12| tavaiva rūpaṃ pṛthivī tava vaśyā'tra sarvadā | tvamīśaḥ sarvalokasya yathecchasi tathā kuru 13| darśayāmaḥ surapate sundaraṃ tava cāśramam | nānāvṛkṣalatākīrṇaṃ ramyavāpīsarojalam 14| yādobhiḥ pakṣibhiryuktaṃ ghanacchāyaṃ suvistṛtam | svādukandaphalopetaṃ mṛdughāsasamanvitam 15| yadīcchā'tra vasa tryakṣa paripālaya no'khilān | ka uvāca | tatrāvasanmahādevo gaṃgaurīgaṇairyutaḥ 16| kailāsādadhikaṃ mene munerāśramamaṇḍalam | tadāśrayeṇa te sarve gautamādyā maharṣayaḥ 17| cerustapāṃsi vividhānyāsaṃste vigatajvarāḥ| śivopi tapa ārebhe gaṃgāgaurisahāyavān 18| tato gaṇāśca sāmagrīṃ tasya cakrurmahātmanaḥ| kasmiścitsamaye gaurī pṛcchati sma sadāśivam 19| tvameva kartā hartā tvaṃ pātā viśvasya śaṃkara | aṣṭamūrtiramūrtistvaṃ sarvaśaḥ sarvabhāvataḥ 2.79.20| sarvaśreṣṭhatamastvaṃ ca sarveṣāṃ sarvakāmadaḥ | aṣṭānāṃ karmaṇāṃ deva phaladātā'khilārthavit 21| tvattaḥ śreṣṭhatamaḥ ko'sti yaṃ tvaṃ dhyāyasi taṃ vada | devāśca munayo nāgā hā yakṣamānuṣarākṣasāḥ 22| yatsattayā'khilaṃ viśvaṃ tvattaḥ śreṣṭhatamastu kaḥ | trayastriṃśatkoṭidaiveḥ pūjyase siddhasādhakaiḥ 23| ka uvāca | iti tadvacanaṃ śrutvā śivo vacanamabravīt| śiva uvāca| samyakpṛṣṭaṃ tvayā devi tuṣṭo vākyena te'naghe24| śaṇuṣvāvahitā devi vistareṇa bravīmi te| adyāpi na kathaṃ jñāto yaṃ dhyāyāmi sureśvari25| tatsvarūpaṃ nirūpiṣye tava prīticikīrṣayā| lokānāmupakārāya saṃsārottāraṇāya ca 26| yo devaḥ sarvabhūteṣu gūḍhaścarati viśvakṛt | yo'nantaśīrṣānantaśrīranantacaraṇaḥ svarāṭ27| anantaśrutinetraścānantanāmā guṇātigaḥ| anantarūpī yo devo vedakartā'khilārthadaḥ 28| yo'nantaśaktiviśvātmā'nupameyaḥ purātanaḥ| nopamā śeṣacandrābdhivyomnāṃ nārāyaṇasya ca 29| bhāratasya ca vedasya vyāsasya ca munerapi | yato jīvā anantāśca jāyante'mbumuco yathā 2.79.30| jaladhārā yathā'gnervā visphuliṃgā bhavanti hi | brahmāviṣṇuśivādīnāṃ guṇatrayapradaḥ prabhuḥ 31| sṛṣṭipālanasaṃhārānājñāpayata tairiha | tato guṇavibhāgena gaṇeśa iti paprathe 32| tamimaṃ paramātmānaṃ parātparataraṃ vibhum | guṇeśamaniśaṃ dhyāye parabrahmasvarūpiṇam 33| gauryuvāca | tuṣṭā'haṃ tava vākyena pratyayo me kathaṃ bhavet | taṃ guṇeśaṃ kathaṃ sākṣātkaromi ca bhajāmi ca 34| tamupāyaṃ vada vibho yadi tuṣṭo'si śaṃkara | ka uvāca | iti tasyā vacaḥ śrutvā punarūce maheśvaraḥ 35| śiva uvāca| ekaniṣṭhatayā yāvattapasārādhito na te| tāvatpratyakṣatāṃ devi kathaṃ yāsyāti sa prabhuḥ 36| devyuvāca | kathaṃ mayā tapaḥ kāryaṃ kenopāyena vā vibho | yadi tuṣṭo'si deveśa vada satyaṃ mamānagha 37| ka uvāca | evaṃ tadādaraṃ buddhvā provāca girijāṃ haraḥ | yena tasyā bhavetprīto guṇeśo guṇavallabhaḥ 38| ekākṣaramanuṃ tasyai dadau samyaggharastadā | dvādaśādvaṃ kuru tapastatastuṣṭo bhavedvibhuḥ 39| sākṣātkāraṃ guṇeśaste pradāsyati na saṃśayaḥ| tadaiva sā namaskṛtya girīśaṃ hṛṣṭamānasā 2.79.40| jagāma tapase gaurī mantradhyānaparāyaṇā | jīrṇāpurāduttare tu lekhanādi manoharama 41 (3526)|