Ganesha Purana — Kridakhanda — Chapter 148
GnP 2 148.11
दार्यंर् शौर्यं च दाक्ष्यं च युद्धे पृष्ठप्रदर्शनम् । शरण्यपालनं दानं धृतिस्तेजः स्वभावजम् २.१४८.३० प्रभुता मनऔन्नत्यं सुनीतिर्लोकपालनम् । पंचकर्माधिकारित्वं क्षात्रकर्म समीरितम् ३१ नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् । त्रिधाकर्माधिकारित्वं वैश्यानां कर्म ईदृशम् ३२ दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् । एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम् ३३ स्वस्वकर्मरता एते मय्यार्प्याखिलकारिणः । मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप ३४ इति ते कथितो राजन्प्रसादाद्योग उत्तमः । सागोपांग सविस्तारोऽनादिसिद्धौ मया प्रिय ३५ युङ्क्ष्व योगं मयाख्यातं नाख्यातं कस्यचिन्नृप। गोपयैनं ततः सिद्धिं परां यास्यस्यनुत्तमाम् ३६ क उवाच । इति तस्य वचः श्रुत्वा प्रसन्नस्य महात्मनः । गणेशस्य वरेण्यः स चकार च यथोदितम् ३७ त्यक्त्वा राज्यं कुटुंबं च कान्तारं प्रययौ स्यात् । उपदिष्टं यथायोगमास्थाय मुक्तिमाप्नुयात् ३८ इमं योप्युत्तमं योगं शृणोति श्रद्धया तु यः । सोऽपि कैवल्यमाप्नोति यथा योगी तथैव सः ३९ य इमं श्रावयेद्योगं कृत्वाऽस्यार्थं सुबुद्धिमान् । यथा योगी तथा सोऽपि परं निर्वाणमृच्छति २.१४८.४० यो गीतां सम्यगभ्यस्य ज्ञात्वाचार्थं गुरोर्मुखात। कृत्वा पूजां गणेशस्य प्रत्यहं पठते तु यः ४१ एककालं द्विकालं वा त्रिकालं वापि यः पठेत् । ब्रह्मीभूतस्य तस्यापि दर्शनान्मुच्यतेतरः ४२ न यज्ञैर्न व्रतैर्दानैर्नाग्निहोत्रैर्महाधनैः। न वेदैः सम्यगभ्यस्तैः सम्यग्ज्ञातैः सहांगकैः ४३ पुराणश्रवणैर्नैव न शास्त्रैः साधु चिन्तनैः। प्राप्यते ब्रह्म परममनया प्राप्यते नरैः४४ ब्रह्मघ्नो मद्यपः स्तेनो गुरुतल्पगमोऽपि यः। चतुर्णां यस्तु संसर्गी महापातककारिणाम्४५ स्त्रीहिंसा गोवधादीनां कर्तारो ये च पापिनः । ते सर्वे प्रतिमुच्यन्ते गीतामेतां पठन्ति चेत् ४६ यः पठेत्प्रयतो नित्यं स गणेशो न संशयः । चतुर्थ्यां य: पठेद्भक्त्या सोऽपि मोक्षाय कल्पते ४७ ततःत्क्षेत्रं समासाद्य स्नात्वाऽभ्यर्च्य गजाननम् । सकृद्गीतां पठेद्भक्त्या ब्रह्मभूयाय जायते ४८ भाद्रमासे सिते पक्षे चतुर्थ्यां भक्तिमान्नरः । कृत्वा महीमयीं मूर्तिं गणेशस्य चतुर्भुजाम् ४९ सवाहनां सायुधां च समभ्यर्च्य यथाविधि । यः पठेत्सप्तकृत्वस्तु गीतामेतां प्रयत्नतः २.१४८.५० ददाति तस्य तुष्टोसौ गणेशो भोगमुत्तमम् । पुत्रान्पौत्रान्धनं धान्यं पशुरत्नादिसंपदः ५१ विद्यार्थिनो लभेद्विद्या सुखार्थी सुखमाप्नुयात् । कामानन्याँल्लभेत्कामी मुक्तिमन्ते प्रयान्ति ते ५२ (६६८९) ॐतत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे 'गुणत्रयकृतियोगो' नामैकादशोध्यायः
dāryaṃr śauryaṃ ca dākṣyaṃ ca yuddhe pṛṣṭhapradarśanam | śaraṇyapālanaṃ dānaṃ dhṛtistejaḥ svabhāvajam 2.148.30 prabhutā manaaunnatyaṃ sunītirlokapālanam | paṃcakarmādhikāritvaṃ kṣātrakarma samīritam 31 nānāvastukrayo bhūmeḥ karṣaṇaṃ rakṣaṇaṃ gavām | tridhākarmādhikāritvaṃ vaiśyānāṃ karma īdṛśam 32 dānaṃ dvijānāṃ śuśrūṣā sarvadā śivasevanam | etādṛśaṃ naravyāghra karma śaudramudīritam 33 svasvakarmaratā ete mayyārpyākhilakāriṇaḥ | matprasādātsthiraṃ sthānaṃ yānti te paramaṃ nṛpa 34 iti te kathito rājanprasādādyoga uttamaḥ | sāgopāṃga savistāro'nādisiddhau mayā priya 35 yuṅkṣva yogaṃ mayākhyātaṃ nākhyātaṃ kasyacinnṛpa| gopayainaṃ tataḥ siddhiṃ parāṃ yāsyasyanuttamām 36 ka uvāca | iti tasya vacaḥ śrutvā prasannasya mahātmanaḥ | gaṇeśasya vareṇyaḥ sa cakāra ca yathoditam 37 tyaktvā rājyaṃ kuṭuṃbaṃ ca kāntāraṃ prayayau syāt | upadiṣṭaṃ yathāyogamāsthāya muktimāpnuyāt 38 imaṃ yopyuttamaṃ yogaṃ śṛṇoti śraddhayā tu yaḥ | so'pi kaivalyamāpnoti yathā yogī tathaiva saḥ 39 ya imaṃ śrāvayedyogaṃ kṛtvā'syārthaṃ subuddhimān | yathā yogī tathā so'pi paraṃ nirvāṇamṛcchati 2.148.40 yo gītāṃ samyagabhyasya jñātvācārthaṃ gurormukhāta| kṛtvā pūjāṃ gaṇeśasya pratyahaṃ paṭhate tu yaḥ 41 ekakālaṃ dvikālaṃ vā trikālaṃ vāpi yaḥ paṭhet | brahmībhūtasya tasyāpi darśanānmucyatetaraḥ 42 na yajñairna vratairdānairnāgnihotrairmahādhanaiḥ| na vedaiḥ samyagabhyastaiḥ samyagjñātaiḥ sahāṃgakaiḥ 43 purāṇaśravaṇairnaiva na śāstraiḥ sādhu cintanaiḥ| prāpyate brahma paramamanayā prāpyate naraiḥ44 brahmaghno madyapaḥ steno gurutalpagamo'pi yaḥ| caturṇāṃ yastu saṃsargī mahāpātakakāriṇām45 strīhiṃsā govadhādīnāṃ kartāro ye ca pāpinaḥ | te sarve pratimucyante gītāmetāṃ paṭhanti cet 46 yaḥ paṭhetprayato nityaṃ sa gaṇeśo na saṃśayaḥ | caturthyāṃ ya: paṭhedbhaktyā so'pi mokṣāya kalpate 47 tataḥtkṣetraṃ samāsādya snātvā'bhyarcya gajānanam | sakṛdgītāṃ paṭhedbhaktyā brahmabhūyāya jāyate 48 bhādramāse site pakṣe caturthyāṃ bhaktimānnaraḥ | kṛtvā mahīmayīṃ mūrtiṃ gaṇeśasya caturbhujām 49 savāhanāṃ sāyudhāṃ ca samabhyarcya yathāvidhi | yaḥ paṭhetsaptakṛtvastu gītāmetāṃ prayatnataḥ 2.148.50 dadāti tasya tuṣṭosau gaṇeśo bhogamuttamam | putrānpautrāndhanaṃ dhānyaṃ paśuratnādisaṃpadaḥ 51 vidyārthino labhedvidyā sukhārthī sukhamāpnuyāt | kāmānanyā~llabhetkāmī muktimante prayānti te 52 (6689) oṃtatsaditi śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārtha śāstre śrīmadādi śrīmanmahāgāṇeśvare mahāpurāṇe uttarakhaṇḍe bālacarite śrīgajānanavareṇyasaṃvāde 'guṇatrayakṛtiyogo' nāmaikādaśodhyāyaḥ
GnP 2 148.29
श्रीगजानन उवाच । तपोऽपि त्रिविधं राजन्कायिकादिप्रभेदतः। ऋजुतार्जवशौचाश्च ब्रह्मचर्यमहिंसनम् १ गुरुविज्ञद्विजातीनां पूजनं चासुरद्विषाम् । स्वधर्मपालनं नित्यं कायिकं तपईदृशम् २ मर्मांस्पृक्च प्रियं वाक्यमनुद्वेगं हितं ऋतम् । अधीतिर्वेदशास्त्राणां वाचिकं तप ईदशम् ३ अन्तःप्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः । निर्मलाशयता नित्यं मानसं तप ईदृशम् ४ अकामतः श्रद्धया च यत्तपः सात्त्विकं तु तत् । सत्कारपूजार्थं सदम्भं राजसं तपः ५ तदस्थिरं जन्ममृती प्रयच्छति न संशयः । परात्मपीडकं यच्च तपस्तामसमुच्यते ६ विधिवाक्यप्रमाणार्थं सत्पात्रे देशकालतः । श्रद्धया दीयमानं यद्दानं तत्सात्विकं मतम् ७ उपकारं फलं वापि कांक्षद्भिर्दीयते नरैः । क्लेशतोऽदीयमानं वा भक्त्या राजसमुच्यते ८ अकालदेशतोऽपात्रेवज्ञया दीयते तु यत् । असत्काराच्च यद्दत्तं तद्दानं तामसं स्मृतम् ९ ज्ञानं च त्रिविधं राजन्शृणुष्व स्थिरचेतसा । त्रिधा कर्म च कर्तारं ब्रवीमि ते प्रसंगतः २.१४८.१० नानाविधेषु भूतेषु मामेकं वीक्ष्यते तु यः । नाशवत्सु च नित्यं मां तज्ज्ञानं सात्त्विकं नृप ११ तेषु वेत्ति पृथग्भूतं विविधं भावमाश्रितः । मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितम् १२ हेतुहीनमसत्यं च देहात्मविषयं च यत् । असदल्पार्थविषयं तामसं ज्ञानमुच्यते १३ भेदतस्त्रिविधं कर्म विद्धि राजन्मयेरितम् । कामनाद्वेषदम्भैर्यद्रहितं नित्यकर्म यत १४ कृतं विना फलेच्छां यत्कर्म सात्त्विकमुच्यते । यद्बहुक्लेशतः कर्म कृतं यच्च फलेच्छया १५ क्रियमाणं नृभिर्दम्भात्कर्म राजसमुच्यते । अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत् १६ अज्ञानात्क्रियमाणं यत्कर्म तामसमीरितम् । कर्त्तारं त्रिविधं विद्धि कथ्यमानं मया नृप १७ धैर्योत्साही समोऽसिद्धौ सिद्धौ चाविक्रियस्तु यः । अहंकारविमुक्तो यः स कर्ता सात्त्विको नृप १८ कुर्वन्हर्षं च शोकं च हिंसा फलस्पृशम् च यः । अशुचिर्लुब्धको यस्तु राजसोऽसौ निगद्यते १९ प्रमादाज्ञानसहितः परीच्छेदपरः शठः । अलसस्तर्कवान्यस्तु कर्ताऽसौ तामसो मतः २.१४८.२० सुखं च त्रिविधं राजन्दुःखं च क्रमतः शृणु । सात्त्विकं राजसं चैव तामसं च मयोच्यते २१ विषवद्भासते पूर्वं दुःखस्यान्तकरं च यत । इच्छ्यमानं तथा वृत्या वदन्ते मृतवद्भवेत् २२ प्रसादात्स्वस्य बुद्धेर्यत्सात्त्विकं सुखमीरितम् । विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा २३ हालाहालमिवान्ते यद्राजसं सुखमीरितम् । तन्द्रिप्रमादसंभूतमालस्यप्रभवं च यत् २४ सर्वदा मोहकं स्वस्य सुखं तामसमीदृशम् । न तदस्ति यदेतैर्यमुक्तं स्यात्त्रिविधैर्गुणैः २५ राजन्ब्रह्मापि त्रिविधमोंतत्सदिति भेदतः । त्रिलोकेषु त्रिधाभूतमखिलं भूप वर्तते २६ ब्रह्मक्षत्रियविट्शूद्राः स्वभावाद्भिन्नकर्मिणः । तानि तेषां तु कर्माणि संक्षेपात्तेऽधुना वदे २७ अन्तर्बाह्येन्द्रियाणां च वशत्वमार्जवं क्षमा। नानातपांसि शौचं च द्विविधं ज्ञानमात्मनः २८ वेदशास्त्रपुराणानां स्मृतिनां ज्ञानमेव च । अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाहृतम्
śrīgajānana uvāca | tapo'pi trividhaṃ rājankāyikādiprabhedataḥ| ṛjutārjavaśaucāśca brahmacaryamahiṃsanam 1 guruvijñadvijātīnāṃ pūjanaṃ cāsuradviṣām | svadharmapālanaṃ nityaṃ kāyikaṃ tapaīdṛśam 2 marmāṃspṛkca priyaṃ vākyamanudvegaṃ hitaṃ ṛtam | adhītirvedaśāstrāṇāṃ vācikaṃ tapa īdaśam 3 antaḥprasādaḥ śāntatvaṃ maunamindriyanigrahaḥ | nirmalāśayatā nityaṃ mānasaṃ tapa īdṛśam 4 akāmataḥ śraddhayā ca yattapaḥ sāttvikaṃ tu tat | satkārapūjārthaṃ sadambhaṃ rājasaṃ tapaḥ 5 tadasthiraṃ janmamṛtī prayacchati na saṃśayaḥ | parātmapīḍakaṃ yacca tapastāmasamucyate 6 vidhivākyapramāṇārthaṃ satpātre deśakālataḥ | śraddhayā dīyamānaṃ yaddānaṃ tatsātvikaṃ matam 7 upakāraṃ phalaṃ vāpi kāṃkṣadbhirdīyate naraiḥ | kleśato'dīyamānaṃ vā bhaktyā rājasamucyate 8 akāladeśato'pātrevajñayā dīyate tu yat | asatkārācca yaddattaṃ taddānaṃ tāmasaṃ smṛtam 9 jñānaṃ ca trividhaṃ rājanśṛṇuṣva sthiracetasā | tridhā karma ca kartāraṃ bravīmi te prasaṃgataḥ 2.148.10 nānāvidheṣu bhūteṣu māmekaṃ vīkṣyate tu yaḥ | nāśavatsu ca nityaṃ māṃ tajjñānaṃ sāttvikaṃ nṛpa 11 teṣu vetti pṛthagbhūtaṃ vividhaṃ bhāvamāśritaḥ | māmavyayaṃ ca tajjñānaṃ rājasaṃ parikīrtitam 12 hetuhīnamasatyaṃ ca dehātmaviṣayaṃ ca yat | asadalpārthaviṣayaṃ tāmasaṃ jñānamucyate 13 bhedatastrividhaṃ karma viddhi rājanmayeritam | kāmanādveṣadambhairyadrahitaṃ nityakarma yata 14 kṛtaṃ vinā phalecchāṃ yatkarma sāttvikamucyate | yadbahukleśataḥ karma kṛtaṃ yacca phalecchayā 15 kriyamāṇaṃ nṛbhirdambhātkarma rājasamucyate | anapekṣya svaśaktiṃ yadarthakṣayakaraṃ ca yat 16 ajñānātkriyamāṇaṃ yatkarma tāmasamīritam | karttāraṃ trividhaṃ viddhi kathyamānaṃ mayā nṛpa 17 dhairyotsāhī samo'siddhau siddhau cāvikriyastu yaḥ | ahaṃkāravimukto yaḥ sa kartā sāttviko nṛpa 18 kurvanharṣaṃ ca śokaṃ ca hiṃsā phalaspṛśam ca yaḥ | aśucirlubdhako yastu rājaso'sau nigadyate 19 pramādājñānasahitaḥ parīcchedaparaḥ śaṭhaḥ | alasastarkavānyastu kartā'sau tāmaso mataḥ 2.148.20 sukhaṃ ca trividhaṃ rājanduḥkhaṃ ca kramataḥ śṛṇu | sāttvikaṃ rājasaṃ caiva tāmasaṃ ca mayocyate 21 viṣavadbhāsate pūrvaṃ duḥkhasyāntakaraṃ ca yata | icchyamānaṃ tathā vṛtyā vadante mṛtavadbhavet 22 prasādātsvasya buddheryatsāttvikaṃ sukhamīritam | viṣayāṇāṃ tu yo bhogo bhāsate'mṛtavatpurā 23 hālāhālamivānte yadrājasaṃ sukhamīritam | tandripramādasaṃbhūtamālasyaprabhavaṃ ca yat 24 sarvadā mohakaṃ svasya sukhaṃ tāmasamīdṛśam | na tadasti yadetairyamuktaṃ syāttrividhairguṇaiḥ 25 rājanbrahmāpi trividhamoṃtatsaditi bhedataḥ | trilokeṣu tridhābhūtamakhilaṃ bhūpa vartate 26 brahmakṣatriyaviṭśūdrāḥ svabhāvādbhinnakarmiṇaḥ | tāni teṣāṃ tu karmāṇi saṃkṣepātte'dhunā vade 27 antarbāhyendriyāṇāṃ ca vaśatvamārjavaṃ kṣamā| nānātapāṃsi śaucaṃ ca dvividhaṃ jñānamātmanaḥ 28 vedaśāstrapurāṇānāṃ smṛtināṃ jñānameva ca | anuṣṭhānaṃ tadarthānāṃ karma brāhmamudāhṛtam
GnP 2 148.149
अध्याय १४९ प्रारंभ :- क उवाच । एवं पूजां संप्रगृहय तत्रैव न्यवसद्विभुः । भक्तानां पूरयन्कामान्सदने राजपूजिते १ मुनिरुवाच । विनायकस्य माहात्म्ये कथा भिन्ना निरूपिताः । अवतीर्य वरेण्यस्य गृहे विघ्नासुरो हतः २ गजासुरमुखप्राप्तिर्वर्णिता चतुरानन । अत्रैव पार्वती गर्भादाविर्भावो निरूपितः ३ गजाननतया देव संशयोऽतो ममाभवत् । त्वदन्यः संशयेच्छेत्ता नास्त्येव भुवनत्रये ४ क उवाच । न कार्यः संशयो व्यास नानाशक्तियुते विभौ। निजेच्छावशतोऽनेकरूपकः कल्पभेदतः ५ शम्भुवक्त्राच्च क्रोधाच्च प्रादुर्भूतो गजाननः । गौर्याश्च तेजसो जात उदराच्च क्वचिन्मुने ६ क्वचिद्गौरीमलाच्चापि द्विमुखो द्विकरः क्वचित् । क्वचित्पंचमुखः क्वापि षण्मुखो दशबाहुकः ७ क्वचिद्वाखःदशहस्तश्च सहस्रभुजमण्डितः । आगमेषु समस्तेषु नानाध्यानानि सन्ति हि ८ न चात्र संशयः कार्यो विस्मयो वा मुने प्रभौ । शिवाद्ब्रह्मा च विष्णुश्च लैंगे जातौ निरूपितौ ९ स्कान्दे विधातुर्नेत्राच्च शिवोत्पत्तिर्निरूपिता । विष्णुः शिवं ध्यायति च शिवोऽपि विष्णुमेव च २.१४९.१० पंचाक्षरं समन्त्रं च तारकं वदति प्रभुः । शतकोटिमितं रामचरितं च त्रिधाकृतम् ११ मर्त्यलोके तारकं स स्थापयामास शंकरः । क्वचिच्छिवात्सृष्टिरुक्ता ब्रह्मणश्च क्वचिद्धरेः १२ भगवत्याः क्वचित्प्रोक्ता क्वचित्सूर्याद्गजाननात् । क्वचिच्च ब्रह्मणः प्रोक्ता सर्वं तच्छास्त्रसंमतम् १३ संशयं कुरुते यस्तु स याति नरकं ध्रुवम् । क उवाच ॥ एवं त्रेतायुगकथा प्रोक्ता सर्वा मुने तव १४ इदानीमभिधास्यानि कथां कलियुगाश्रिताम् । कलिप्रान्ते मुने लोका भ्रष्टाचारास्तथानृताः १५ ब्राह्मणा वेदरहिताः स्नानसन्ध्याविवर्जिताः । यजनं याजनं दानं न करिष्यन्ति कर्हिचित् १६ प्रतिग्रहं च दुण्टानां करिष्यन्ति सुदुर्लभम् । परापवादं तन्निन्दां परस्रीधर्षणं तथा १७ करिष्यन्ति जनाः सर्वे विधिलोपं च सर्वशः। विश्वासघातं सर्वत्र कुर्वन्ति च जना ध्रुवम् १८ विधिलोपे च शपथं करिष्यन्ति धरातले। न करिष्यन्ति मेघाश्च वृष्टिं क्वापि मुनीश्वर १९ महानदीतीरदेशे करिष्यन्ति कृषिं जनाः । यो बलि सोप्यबलिनो हरिष्यन्ति धनं बलात् २.१४९.२० हरिष्यतस्ततो द्वौ च त्रयस्ताभ्यां बलात्पुनः । शूद्रा वेदं पठिष्यन्ति ब्राह्मणाः शूद्रकर्मिणः २१ क्षत्रिया वैश्यकर्माणो वैश्याश्च शूद्रकर्मिणः। प्रतिग्रहं करिष्यन्ति चाण्डालस्य द्विजातयः २२ दरिद्राश्च भविष्यन्ति हाहाभूता विचेतसः । वदिष्यन्ति च न मया गृहीतं धनमण्वपि २३ गृहीत्वापि च कृत्याय याचितारो धनं परात् । उत्कोचं च गृहीत्वैव वृथा साक्ष्यं ब्रुवन्ति च २४ सतां निन्दा करिष्यन्ति मैत्रीं चासद्भिरेव च । वृथा मांसस्य भक्ष्यं च करिष्यन्ति द्विजातयः २५ उच्छेदः सज्जनानां स्यादितरेषां च वैभवम् । हित्वा देवान्भविष्यन्ति जनाः सर्वे तथैन्द्रिकान् २६ भूतप्रेतपिशाचानां भजने सक्त मानसाः । वेषान्नानाविधान्कृत्वा भक्षयिष्यन्ति वाडवाः २७ केचिच्च क्षत्रिया भिक्षां चरिष्यन्त्यकुलोचिताम् । व्रतानि निर्ममांश्चापि नाचरिष्यन्ति कर्हिचित् २८ वर्णसंकरकारीणि कर्ता कर्माणि भूजनः । पतिव्रता भ्रष्टव्रता भविष्यन्ति कलौ युगे २९ म्लेच्छप्रायाः सर्वलोकाः परद्रव्यापहारिणः । निर्दयाः कुपथासक्ताः सर्वदा सत्यवर्जिताः २.१४९.३० धरित्री सस्यहीना च रसहीना महीरुहाः। पंचमे वाथ षष्ठे वा वर्षे कन्यां प्रसूयते ३१ षोडशाब्दपरं चायुर्भविप्यति तदा युगे। तीर्थानि गुप्तरूपाणि देवतायतनानि च ३२ एवं पापे प्रवृद्धे तु धर्मे विश्वार्थमात्रकः । भविष्यन्ति तदा देवा उपवासपरायणाः ३३ स्वधास्वाहावषट्कारैर्वजिताभयविह्वलाः । यास्यन्ति शरणं देवं गजाननमनामयम् ३४ स्तुतिं नानाविधां तस्य करिष्यन्ति नतिं बहु । प्रार्थयिष्यन्ति देवेशं सर्वविघ्नविनाशनम् ३५ एवं सर्वं विचार्यासौ आविर्भावं करिष्यति । गजाननः शूर्पकर्णो धूम्रवर्णोऽपि नामतः ३६ नीलमश्वं समारुह्य खड्गहस्तो रुषा ज्वलन् । कल्पयिष्यति सेनां स नानारूपां निजेच्छया ३७ शस्त्राणि च महास्त्राणि कल्पयिष्यत्ययत्नतः । वधिष्यति महाम्लेछान्सेनया स्वेन तेजसा ३८ म्लेच्छभूतांस्तथा लोकान्वधिष्यति तदाऽखिलान् । लीलान्कन्दरदेशेषु ब्राह्मणान्वन्यभक्षिण: ३९ समानाय्य प्रपूज्यैतान्भूमिं दास्यति देवराट् । सत्कर्मकारिणः सर्वान्विचाल्यति च सज्जनान् २.१४९.४० तदा धर्ममयं विश्वं भविष्यति कृते युगे। एवं कृत्वा धूम्रवर्णस्ततोन्तर्धानमेष्यति ४१ एवं चतुर्युगे व्यास विघ्नेशस्य महात्मनः । कथितानि च नामानि रूपाणि च तवानघ ४२ कर्माण्यद्भुतरूपाणि तस्य चोक्तानि सर्वशः । येषां श्रवणमात्रेण मुच्यन्ते सर्वजन्तवः ४३ अनन्यस्याणि रूपाणि न वक्तुं शक्तिरस्ति मे । यत्र वेदाश्च चत्वारो विकुण्ठास्तत्र का कथा ४४ मम वा मद्विधस्यापि महिम्नस्तस्य वर्णने । अनुष्ठानाय गच्छ त्वं व्यवसायं करोम्यहम् ४५ भृगुरुवाच । एवं श्रुत्वा सोमकान्त व्यासो ब्रह्ममुखात्कथाम् । अतिप्रीतमनाः प्राह सर्वपापप्रणाशिनीम् ४६ मुनिरुवाच । न तृप्तिमधिगच्छामि । श्रुत्वाख्यानं महाद्भुतम् । धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया सर्वसंशयाः ४७ दूरीकृताः कथासंगाद्गणेशचरिता श्रयात् । अमृतस्येव मे तृप्तिः श्रुत्वा श्रुत्वा न जायते ४८ अस्य श्रवणमात्रेण जन्मजन्मान्तरार्जितम् । वृजिनं नाशमायाति सर्वे कामा भवन्ति च ४९ पूर्वपुण्यबलादस्य श्रवणं जायते नृणाम् । न श्राव्यं दुर्जनायेदं पुराणं सर्वसिद्धिदम् २.१४९.५० एवमुक्त्वा नमस्कृत्य परिक्रम्य स्वयं भुवम् । गृहीत्वाज्ञां ययौ व्यासस्तपसे वनमुत्तमम् ५१ यत्र कन्दफलान्यासन्नुत्तमानि जलानि च । न वायुः प्रबलो यत्र नातपो नाग्निरेव च ५२ तत्रोपविष्टैकनिष्ठो जपन्नेकाक्षरं मनुम् । व्यतीयुर्द्धादशाब्दानि मुनेस्तस्य तपस्यतः ॥ ततः प्रादुरभूत्तस्य पुरतस्तु गजाननः ५३ (६७४२)
adhyāya 149 prāraṃbha :- ka uvāca | evaṃ pūjāṃ saṃpragṛhaya tatraiva nyavasadvibhuḥ | bhaktānāṃ pūrayankāmānsadane rājapūjite 1 muniruvāca | vināyakasya māhātmye kathā bhinnā nirūpitāḥ | avatīrya vareṇyasya gṛhe vighnāsuro hataḥ 2 gajāsuramukhaprāptirvarṇitā caturānana | atraiva pārvatī garbhādāvirbhāvo nirūpitaḥ 3 gajānanatayā deva saṃśayo'to mamābhavat | tvadanyaḥ saṃśayecchettā nāstyeva bhuvanatraye 4 ka uvāca | na kāryaḥ saṃśayo vyāsa nānāśaktiyute vibhau| nijecchāvaśato'nekarūpakaḥ kalpabhedataḥ 5 śambhuvaktrācca krodhācca prādurbhūto gajānanaḥ | gauryāśca tejaso jāta udarācca kvacinmune 6 kvacidgaurīmalāccāpi dvimukho dvikaraḥ kvacit | kvacitpaṃcamukhaḥ kvāpi ṣaṇmukho daśabāhukaḥ 7 kvacidvākhaḥdaśahastaśca sahasrabhujamaṇḍitaḥ | āgameṣu samasteṣu nānādhyānāni santi hi 8 na cātra saṃśayaḥ kāryo vismayo vā mune prabhau | śivādbrahmā ca viṣṇuśca laiṃge jātau nirūpitau 9 skānde vidhāturnetrācca śivotpattirnirūpitā | viṣṇuḥ śivaṃ dhyāyati ca śivo'pi viṣṇumeva ca 2.149.10 paṃcākṣaraṃ samantraṃ ca tārakaṃ vadati prabhuḥ | śatakoṭimitaṃ rāmacaritaṃ ca tridhākṛtam 11 martyaloke tārakaṃ sa sthāpayāmāsa śaṃkaraḥ | kvacicchivātsṛṣṭiruktā brahmaṇaśca kvaciddhareḥ 12 bhagavatyāḥ kvacitproktā kvacitsūryādgajānanāt | kvacicca brahmaṇaḥ proktā sarvaṃ tacchāstrasaṃmatam 13 saṃśayaṃ kurute yastu sa yāti narakaṃ dhruvam | ka uvāca || evaṃ tretāyugakathā proktā sarvā mune tava 14 idānīmabhidhāsyāni kathāṃ kaliyugāśritām | kaliprānte mune lokā bhraṣṭācārāstathānṛtāḥ 15 brāhmaṇā vedarahitāḥ snānasandhyāvivarjitāḥ | yajanaṃ yājanaṃ dānaṃ na kariṣyanti karhicit 16 pratigrahaṃ ca duṇṭānāṃ kariṣyanti sudurlabham | parāpavādaṃ tannindāṃ parasrīdharṣaṇaṃ tathā 17 kariṣyanti janāḥ sarve vidhilopaṃ ca sarvaśaḥ| viśvāsaghātaṃ sarvatra kurvanti ca janā dhruvam 18 vidhilope ca śapathaṃ kariṣyanti dharātale| na kariṣyanti meghāśca vṛṣṭiṃ kvāpi munīśvara 19 mahānadītīradeśe kariṣyanti kṛṣiṃ janāḥ | yo bali sopyabalino hariṣyanti dhanaṃ balāt 2.149.20 hariṣyatastato dvau ca trayastābhyāṃ balātpunaḥ | śūdrā vedaṃ paṭhiṣyanti brāhmaṇāḥ śūdrakarmiṇaḥ 21 kṣatriyā vaiśyakarmāṇo vaiśyāśca śūdrakarmiṇaḥ| pratigrahaṃ kariṣyanti cāṇḍālasya dvijātayaḥ 22 daridrāśca bhaviṣyanti hāhābhūtā vicetasaḥ | vadiṣyanti ca na mayā gṛhītaṃ dhanamaṇvapi 23 gṛhītvāpi ca kṛtyāya yācitāro dhanaṃ parāt | utkocaṃ ca gṛhītvaiva vṛthā sākṣyaṃ bruvanti ca 24 satāṃ nindā kariṣyanti maitrīṃ cāsadbhireva ca | vṛthā māṃsasya bhakṣyaṃ ca kariṣyanti dvijātayaḥ 25 ucchedaḥ sajjanānāṃ syāditareṣāṃ ca vaibhavam | hitvā devānbhaviṣyanti janāḥ sarve tathaindrikān 26 bhūtapretapiśācānāṃ bhajane sakta mānasāḥ | veṣānnānāvidhānkṛtvā bhakṣayiṣyanti vāḍavāḥ 27 kecicca kṣatriyā bhikṣāṃ cariṣyantyakulocitām | vratāni nirmamāṃścāpi nācariṣyanti karhicit 28 varṇasaṃkarakārīṇi kartā karmāṇi bhūjanaḥ | pativratā bhraṣṭavratā bhaviṣyanti kalau yuge 29 mlecchaprāyāḥ sarvalokāḥ paradravyāpahāriṇaḥ | nirdayāḥ kupathāsaktāḥ sarvadā satyavarjitāḥ 2.149.30 dharitrī sasyahīnā ca rasahīnā mahīruhāḥ| paṃcame vātha ṣaṣṭhe vā varṣe kanyāṃ prasūyate 31 ṣoḍaśābdaparaṃ cāyurbhavipyati tadā yuge| tīrthāni guptarūpāṇi devatāyatanāni ca 32 evaṃ pāpe pravṛddhe tu dharme viśvārthamātrakaḥ | bhaviṣyanti tadā devā upavāsaparāyaṇāḥ 33 svadhāsvāhāvaṣaṭkārairvajitābhayavihvalāḥ | yāsyanti śaraṇaṃ devaṃ gajānanamanāmayam 34 stutiṃ nānāvidhāṃ tasya kariṣyanti natiṃ bahu | prārthayiṣyanti deveśaṃ sarvavighnavināśanam 35 evaṃ sarvaṃ vicāryāsau āvirbhāvaṃ kariṣyati | gajānanaḥ śūrpakarṇo dhūmravarṇo'pi nāmataḥ 36 nīlamaśvaṃ samāruhya khaḍgahasto ruṣā jvalan | kalpayiṣyati senāṃ sa nānārūpāṃ nijecchayā 37 śastrāṇi ca mahāstrāṇi kalpayiṣyatyayatnataḥ | vadhiṣyati mahāmlechānsenayā svena tejasā 38 mlecchabhūtāṃstathā lokānvadhiṣyati tadā'khilān | līlānkandaradeśeṣu brāhmaṇānvanyabhakṣiṇa: 39 samānāyya prapūjyaitānbhūmiṃ dāsyati devarāṭ | satkarmakāriṇaḥ sarvānvicālyati ca sajjanān 2.149.40 tadā dharmamayaṃ viśvaṃ bhaviṣyati kṛte yuge| evaṃ kṛtvā dhūmravarṇastatontardhānameṣyati 41 evaṃ caturyuge vyāsa vighneśasya mahātmanaḥ | kathitāni ca nāmāni rūpāṇi ca tavānagha 42 karmāṇyadbhutarūpāṇi tasya coktāni sarvaśaḥ | yeṣāṃ śravaṇamātreṇa mucyante sarvajantavaḥ 43 ananyasyāṇi rūpāṇi na vaktuṃ śaktirasti me | yatra vedāśca catvāro vikuṇṭhāstatra kā kathā 44 mama vā madvidhasyāpi mahimnastasya varṇane | anuṣṭhānāya gaccha tvaṃ vyavasāyaṃ karomyaham 45 bhṛguruvāca | evaṃ śrutvā somakānta vyāso brahmamukhātkathām | atiprītamanāḥ prāha sarvapāpapraṇāśinīm 46 muniruvāca | na tṛptimadhigacchāmi | śrutvākhyānaṃ mahādbhutam | dhanyo'smyanugṛhīto'smi yattvayā sarvasaṃśayāḥ 47 dūrīkṛtāḥ kathāsaṃgādgaṇeśacaritā śrayāt | amṛtasyeva me tṛptiḥ śrutvā śrutvā na jāyate 48 asya śravaṇamātreṇa janmajanmāntarārjitam | vṛjinaṃ nāśamāyāti sarve kāmā bhavanti ca 49 pūrvapuṇyabalādasya śravaṇaṃ jāyate nṛṇām | na śrāvyaṃ durjanāyedaṃ purāṇaṃ sarvasiddhidam 2.149.50 evamuktvā namaskṛtya parikramya svayaṃ bhuvam | gṛhītvājñāṃ yayau vyāsastapase vanamuttamam 51 yatra kandaphalānyāsannuttamāni jalāni ca | na vāyuḥ prabalo yatra nātapo nāgnireva ca 52 tatropaviṣṭaikaniṣṭho japannekākṣaraṃ manum | vyatīyurddhādaśābdāni munestasya tapasyataḥ || tataḥ prādurabhūttasya puratastu gajānanaḥ 53 (6742)
GnP 2 148.150
अध्याय १५० प्रारंभ :- सोमकान्त उवाच । कथं प्रादुरभूद्देवः पुरस्तस्य महात्मनः । भृगो तत्सर्वमाख्याहि श्रुत्वा पापक्षयो यतः १ भृगुरुवाच । यथा तत्पुरतः प्रादुरासीद्देवो गजाननः । तत्सर्वं कथयिष्येऽहं सादरं शृणु भूमिप २ रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः । गजाननोऽब्जनयनः सिन्दूरारुणमस्तकः ३ अनेकसूर्यसंकाशो दिव्यकुण्डलमण्डितः । अंगदे मुकुटं बिभ्रत्कंकणे शेषमेव च ४ मुनिरित्थं निरीक्ष्यैनं निमील्य नयने पुनः । चकम्पे भयसंत्रस्तः स्मृत्वा मन्त्रं मुमूर्छ च ५ ततोऽब्रवीन्नागमुखो मा भैस्त्वं मुनिसत्तम । यं ध्यायसि दिवारात्रौ सोऽहं त्वां समुपागतः ६ ब्रह्मादीनामगम्यो यो वरं दातुं मुने तव । भृगुरुवाच । श्रुत्वेत्थं मधुरां वाणीं जहर्ष मुनिपुंगवः ७ मूर्धानं न्यस्य तत्पादे धन्योऽहं पितरौ तपः । धन्योऽहं धरणी वृक्षाः पुनः पुनरवीवदत् ८ यतो दृष्टः सर्वरूपो गुणातीतोऽखिलाश्रयः। चिदानन्दघनोऽनन्तोऽखिलकारणकारणम् ९ एवं स्तुत्वा प्रार्थयन्स वरदं तं गजाननम् । मुनिरुवाच । निरस्य भ्रान्तिं सर्वा मे यच्छ भक्तिं दृढां त्वयि २.१५०.१० अष्टादशपुराणानां यथा स्यां करणे क्षमः । तवापि स्तवने शक्तिः स्याद्यथा तत्कुरुष्व भोः ११ हृदये वस देवेश प्रसन्नश्चेन्ममानघ । गजानन उवाच । त्वया यत्प्रार्थितं वत्स सर्वमद्य भविष्यति १२ सर्वमान्यो व्यास नामा सर्वपावनपावनः । अपरोक्षज्ञानवांश्च भविष्यसि गुरोर्गुरुः १३ नारायणपरः ख्यात्या गुणैः कीर्त्या श्रियापि च । अष्टादशपुराणानां कर्ता त्वं हि भविष्यसि १४ तथैवोपपुराणानां तावतां च मुनीश्वर । त्वया पूर्वं दम्भवशान्न कृतं मम पूजनम् १५ स्मरणं वा ततः स्तम्भो जातो वाण्या महाद्भुतः । धातुर्मुखाच्छ्रुतो यस्मान्महिमा तेन मेऽनघ १६ विलीनं सर्वमधुना प्रविशामि तवोदरम् । भृगुरुवाच । एवमुक्त्वा प्राविशत्स तन्मुनेरुदरं विभुः १७ प्रकाशमतुलं लेभे सूर्यकोटिसमं मुनिः । दीपयामास ककुभस्ततो मूर्तिं विधाय सः१८ गजाननस्य महतीं प्रासादेऽस्थापयच्च सः । पूजयामास विविधैरुपचारैः पृथक्पृथक् १९ सिद्धिक्षेत्रमिदं सर्वलोकानां पावनं दृशोः। अनुष्ठानवतां मन्त्रनानासिद्धिप्रदं शुभम् २.१५०.२० एवमुक्त्वाप्यनुज्ञाप्य व्यासो नारायणस्तदा । पुराणं तद्गणेशस्य यच्छ्रुतं ब्रह्मणोमुखात् २१ प्राह वैशम्पायनाय ततस्तद्भुवि पप्रथे । तदेतदखिलं तेऽद्य मयापि कथितं नृप २२ नानेन सदृशं किंचित्पावनं त्रिषु विद्यते । लोकेषु परमानन्ददायकं नृपसत्तम २३ सोमकान्त न चाख्येममिदं दुष्टजने त्वया। विनीतेषु च भक्तेषु त्वयाख्येयं प्रयत्नतः २४ मया निरन्तरमिदं जप्यते स्मर्यतेऽपि च । तवापि करुणायोगात्कथितं राजसत्तम २५ गजाननध्यानपरो नित्यं जपपरोभव २६ (६७६८)
adhyāya 150 prāraṃbha :- somakānta uvāca | kathaṃ prādurabhūddevaḥ purastasya mahātmanaḥ | bhṛgo tatsarvamākhyāhi śrutvā pāpakṣayo yataḥ 1 bhṛguruvāca | yathā tatpurataḥ prādurāsīddevo gajānanaḥ | tatsarvaṃ kathayiṣye'haṃ sādaraṃ śṛṇu bhūmipa 2 raktamālyāmbaradharo raktagandhānulepanaḥ | gajānano'bjanayanaḥ sindūrāruṇamastakaḥ 3 anekasūryasaṃkāśo divyakuṇḍalamaṇḍitaḥ | aṃgade mukuṭaṃ bibhratkaṃkaṇe śeṣameva ca 4 muniritthaṃ nirīkṣyainaṃ nimīlya nayane punaḥ | cakampe bhayasaṃtrastaḥ smṛtvā mantraṃ mumūrcha ca 5 tato'bravīnnāgamukho mā bhaistvaṃ munisattama | yaṃ dhyāyasi divārātrau so'haṃ tvāṃ samupāgataḥ 6 brahmādīnāmagamyo yo varaṃ dātuṃ mune tava | bhṛguruvāca | śrutvetthaṃ madhurāṃ vāṇīṃ jaharṣa munipuṃgavaḥ 7 mūrdhānaṃ nyasya tatpāde dhanyo'haṃ pitarau tapaḥ | dhanyo'haṃ dharaṇī vṛkṣāḥ punaḥ punaravīvadat 8 yato dṛṣṭaḥ sarvarūpo guṇātīto'khilāśrayaḥ| cidānandaghano'nanto'khilakāraṇakāraṇam 9 evaṃ stutvā prārthayansa varadaṃ taṃ gajānanam | muniruvāca | nirasya bhrāntiṃ sarvā me yaccha bhaktiṃ dṛḍhāṃ tvayi 2.150.10 aṣṭādaśapurāṇānāṃ yathā syāṃ karaṇe kṣamaḥ | tavāpi stavane śaktiḥ syādyathā tatkuruṣva bhoḥ 11 hṛdaye vasa deveśa prasannaścenmamānagha | gajānana uvāca | tvayā yatprārthitaṃ vatsa sarvamadya bhaviṣyati 12 sarvamānyo vyāsa nāmā sarvapāvanapāvanaḥ | aparokṣajñānavāṃśca bhaviṣyasi gurorguruḥ 13 nārāyaṇaparaḥ khyātyā guṇaiḥ kīrtyā śriyāpi ca | aṣṭādaśapurāṇānāṃ kartā tvaṃ hi bhaviṣyasi 14 tathaivopapurāṇānāṃ tāvatāṃ ca munīśvara | tvayā pūrvaṃ dambhavaśānna kṛtaṃ mama pūjanam 15 smaraṇaṃ vā tataḥ stambho jāto vāṇyā mahādbhutaḥ | dhāturmukhācchruto yasmānmahimā tena me'nagha 16 vilīnaṃ sarvamadhunā praviśāmi tavodaram | bhṛguruvāca | evamuktvā prāviśatsa tanmunerudaraṃ vibhuḥ 17 prakāśamatulaṃ lebhe sūryakoṭisamaṃ muniḥ | dīpayāmāsa kakubhastato mūrtiṃ vidhāya saḥ18 gajānanasya mahatīṃ prāsāde'sthāpayacca saḥ | pūjayāmāsa vividhairupacāraiḥ pṛthakpṛthak 19 siddhikṣetramidaṃ sarvalokānāṃ pāvanaṃ dṛśoḥ| anuṣṭhānavatāṃ mantranānāsiddhipradaṃ śubham 2.150.20 evamuktvāpyanujñāpya vyāso nārāyaṇastadā | purāṇaṃ tadgaṇeśasya yacchrutaṃ brahmaṇomukhāt 21 prāha vaiśampāyanāya tatastadbhuvi paprathe | tadetadakhilaṃ te'dya mayāpi kathitaṃ nṛpa 22 nānena sadṛśaṃ kiṃcitpāvanaṃ triṣu vidyate | lokeṣu paramānandadāyakaṃ nṛpasattama 23 somakānta na cākhyemamidaṃ duṣṭajane tvayā| vinīteṣu ca bhakteṣu tvayākhyeyaṃ prayatnataḥ 24 mayā nirantaramidaṃ japyate smaryate'pi ca | tavāpi karuṇāyogātkathitaṃ rājasattama 25 gajānanadhyānaparo nityaṃ japaparobhava 26 (6768)