Ganesha Purana — Kridakhanda — Chapter 141
GnP 2 141.4
अध्याय १४१ प्रारंभ :- वरेण्य उवाच । संन्यस्तिश्चैव योगश्च कर्मणां वर्ण्यते त्वया । उभयोर्निश्चितं त्वेकं श्रेयो यद्वद मे प्रभो १ श्रीगजानन उवाच । क्रियायोगो वियोगश्चाप्युभौ मोक्षस्य साधने । तयोर्मध्ये क्रियायोगस्त्यागात्तस्य विशिष्यते २ द्वन्द्वदुःखसहोऽद्वेष्टा यो न कांक्षति किंचन। मुच्यते बन्धनात्सद्यो नित्यं संन्यासवान्सुखम्। वदन्ति भिन्नफलकौ कर्मणस्त्यागसंग्रहौ । मूढाल्पज्ञास्तयोरेकं संयुजीत विचक्षणः ४ यदेव प्राप्यते त्यागात्तदेव योगतः फलम् । संग्रहं कर्मणो योगं यो विन्दति स विन्दति ५ केवलं कर्मणां न्यासं संन्यासं न विदुर्बुधाः । कुर्वन्ननिच्छया कर्म योगी ब्रह्मैव जायते ६ निर्मलो यतचित्तात्मा जितस्वो योगतत्परः। आत्मानं सर्वभूतस्थं पश्यन्कुर्वन्न लिप्यते ७ तत्त्वविद्योगयुक्तात्मा करोमीति न मन्यते । एकादशानीन्द्रियाणि कुर्वन्ति कर्मसंख्यया ८ तत्सर्वमर्पयेद्ब्रह्मण्यपि कर्म करोति यः । न लिप्यते पुण्यपापैर्भानुभानुर्यथार्थगः ९ कायिकं वाचिकं बौद्धमैन्द्रियं मानसं तथा । त्यक्त्वाशां कर्म कुर्वन्ति योगज्ञाश्वित्तशुद्धये २.१४१.१० योगहीनो नरः कर्म फलेहया करोत्यलम् । बद्ध्यते कर्मबीजैः स ततो दुःखं समश्नुते ११ मनसा सकलं कर्म त्यक्त्वा योगी सुखं वसेत् । न कुर्वन्कारयन्वापि नन्दञ्श्वभ्रे सुपत्तने १२ न क्रिया न च कर्तृत्वं कस्यचित्सृज्यते मया । न क्रियाबीजसंपर्कः शक्त्या तत्क्रियतेऽखिलम १३ कस्यचित्पुण्यपापानि न स्पृशामि विभुर्नुप । ज्ञानमूढा विमुहयन्ति मोहेनावृतबुद्धयः १४ विवेकेनात्मनो ज्ञानं येषां नाशितमात्मना । तेषां विकाशमायाति ज्ञानमादित्यवत्परम् १५ मन्निष्ठा मद्धियोऽत्यन्तं मच्चित्ता मयि तत्पराः । अपुनर्भवमायान्ति विज्ञाननाशितैनसः १६ ज्ञानविज्ञानसम्पन्नं द्विजे गवि गजादिषु । समेक्षणा महात्मानः पण्डिताः श्वपचे शुनि १७ वश्यः स्वर्गो जगत्तेषां जीवन्मुक्ताः समेक्षणाः । यतोऽदोषं ब्रह्मसमं तस्मात्तैस्तद्वशीकृतम् १८ प्रियाप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न। ब्रह्माश्रिता असंमूढा ब्रह्मज्ञाः समबुद्धयः १९ वरेण्य उवाच । किं सुखं त्रिषु लोकेषु देवगन्धर्वयोनिषु । भगवन्कृपया तन्मे वद विद्याविशारद २.१४१.२० गणेश उवाच । आनन्दमश्नुते सक्तः स्वात्मारामो निजात्मनि । अविनाश्यं सुखं तद्धि न सुखं विषयादिषु २१ विषयोत्थानि सौख्यानि दुःखानां तानि हेतवः । उत्पत्तिनाशयुक्तानि तत्रासक्तो न तत्त्ववित् २२ कारणे सति कामस्य क्रोधस्य सहते च यः । तौ जेतुं वर्ष्मविरहात्स सुखं चिरमश्नुते २३ अन्तर्निष्ठोऽन्तःप्रकाशोऽन्तःसुखोऽन्तोरतिर्लभेत् । असंदिग्धोऽक्षयं ब्रह्म सर्वभूतहितार्थकृत् २४ जेतारः षडरीणां ये शमिनो दमिनस्तथा । तेषां समं ततो ब्रह्म स्वात्मज्ञानां विभात्यहो २५ आसनेषु समासीनस्त्यक्त्वेमान्विषयान्बहिः । संस्तभ्य भृकुटीमास्ते प्राणायामपरायणः २६ प्राणायामं तु संरोधं प्राणापानसमुद्भवम् । वदन्ति मुनयस्तं च त्रिधाभूतं विपश्चितः २७ प्रमाणं भेदतो विद्धि लघुमध्यममुत्तमम । दशभिद्वयंधिकैर्वर्णैः प्राणायामो लघुः स्मृतः २८ चतुर्विंशत्यक्षरो यो मध्यमः स उदाहृतः । षट्त्रिंशल्लघुवर्णो य उत्तमः सोऽभिधीयते २९ सिंहं शार्दूलकं वापि मत्तेभं मृदुतां यथा । नयन्ति प्राणिनस्तद्वत्प्राणापानौ सुसाधयेत् २.१४१.३० पीडयन्ति मृगांस्ते न लोकान्वश्यं गता नृप । दहत्येनस्तथा वायुः संस्तब्धो न च तत्तनुम् ३१ यथा यथा नरः कश्चित्सोपानावलिमाक्रमेत् । तथा तथा वशीकुर्यात्प्राणापानौ हि योगवित् ३२ पूरकं कुम्भकं चैव रेचकं च ततोभ्यसेत् । अतीतानागतज्ञानी ततः स्याज्जगतीतले ३३ प्राणायामैर्द्वादशभिरुत्तमैर्धारणा मता । योगस्तु धारणे द्वे स्याद्योगीशस्त सदाऽभ्यसेत् ३४ एवं यः कुरुते राजंस्त्रिकालज्ञः स जायते । अनायासेन तस्य स्याद्वश्यं लोकत्रयं नृप ३५ ब्रह्मरूपं जगत्सर्वं पश्यति स्वान्तरात्मनि । एवं योगश्च संन्यासः समानफलदायिनौ ३६ जन्तूनां हितकर्तारं कर्मणां फलदायिम्। मां ज्ञात्वा मुक्तिमाप्नोति त्रैलोक्यस्येश्वरं विभुम् ३७ (६४७६) ओँतत्सदिति ङीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखंडे बालचरिते श्रीगजाननवरेण्यसंवादे कर्मसंन्यास' योगो नाम चतुर्थोऽध्यायः
adhyāya 141 prāraṃbha :- vareṇya uvāca | saṃnyastiścaiva yogaśca karmaṇāṃ varṇyate tvayā | ubhayorniścitaṃ tvekaṃ śreyo yadvada me prabho 1 śrīgajānana uvāca | kriyāyogo viyogaścāpyubhau mokṣasya sādhane | tayormadhye kriyāyogastyāgāttasya viśiṣyate 2 dvandvaduḥkhasaho'dveṣṭā yo na kāṃkṣati kiṃcana| mucyate bandhanātsadyo nityaṃ saṃnyāsavānsukham| vadanti bhinnaphalakau karmaṇastyāgasaṃgrahau | mūḍhālpajñāstayorekaṃ saṃyujīta vicakṣaṇaḥ 4 yadeva prāpyate tyāgāttadeva yogataḥ phalam | saṃgrahaṃ karmaṇo yogaṃ yo vindati sa vindati 5 kevalaṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ na vidurbudhāḥ | kurvannanicchayā karma yogī brahmaiva jāyate 6 nirmalo yatacittātmā jitasvo yogatatparaḥ| ātmānaṃ sarvabhūtasthaṃ paśyankurvanna lipyate 7 tattvavidyogayuktātmā karomīti na manyate | ekādaśānīndriyāṇi kurvanti karmasaṃkhyayā 8 tatsarvamarpayedbrahmaṇyapi karma karoti yaḥ | na lipyate puṇyapāpairbhānubhānuryathārthagaḥ 9 kāyikaṃ vācikaṃ bauddhamaindriyaṃ mānasaṃ tathā | tyaktvāśāṃ karma kurvanti yogajñāśvittaśuddhaye 2.141.10 yogahīno naraḥ karma phalehayā karotyalam | baddhyate karmabījaiḥ sa tato duḥkhaṃ samaśnute 11 manasā sakalaṃ karma tyaktvā yogī sukhaṃ vaset | na kurvankārayanvāpi nandañśvabhre supattane 12 na kriyā na ca kartṛtvaṃ kasyacitsṛjyate mayā | na kriyābījasaṃparkaḥ śaktyā tatkriyate'khilama 13 kasyacitpuṇyapāpāni na spṛśāmi vibhurnupa | jñānamūḍhā vimuhayanti mohenāvṛtabuddhayaḥ 14 vivekenātmano jñānaṃ yeṣāṃ nāśitamātmanā | teṣāṃ vikāśamāyāti jñānamādityavatparam 15 manniṣṭhā maddhiyo'tyantaṃ maccittā mayi tatparāḥ | apunarbhavamāyānti vijñānanāśitainasaḥ 16 jñānavijñānasampannaṃ dvije gavi gajādiṣu | samekṣaṇā mahātmānaḥ paṇḍitāḥ śvapace śuni 17 vaśyaḥ svargo jagatteṣāṃ jīvanmuktāḥ samekṣaṇāḥ | yato'doṣaṃ brahmasamaṃ tasmāttaistadvaśīkṛtam 18 priyāpriye prāpya harṣadveṣau ye prāpnuvanti na| brahmāśritā asaṃmūḍhā brahmajñāḥ samabuddhayaḥ 19 vareṇya uvāca | kiṃ sukhaṃ triṣu lokeṣu devagandharvayoniṣu | bhagavankṛpayā tanme vada vidyāviśārada 2.141.20 gaṇeśa uvāca | ānandamaśnute saktaḥ svātmārāmo nijātmani | avināśyaṃ sukhaṃ taddhi na sukhaṃ viṣayādiṣu 21 viṣayotthāni saukhyāni duḥkhānāṃ tāni hetavaḥ | utpattināśayuktāni tatrāsakto na tattvavit 22 kāraṇe sati kāmasya krodhasya sahate ca yaḥ | tau jetuṃ varṣmavirahātsa sukhaṃ ciramaśnute 23 antarniṣṭho'ntaḥprakāśo'ntaḥsukho'ntoratirlabhet | asaṃdigdho'kṣayaṃ brahma sarvabhūtahitārthakṛt 24 jetāraḥ ṣaḍarīṇāṃ ye śamino daminastathā | teṣāṃ samaṃ tato brahma svātmajñānāṃ vibhātyaho 25 āsaneṣu samāsīnastyaktvemānviṣayānbahiḥ | saṃstabhya bhṛkuṭīmāste prāṇāyāmaparāyaṇaḥ 26 prāṇāyāmaṃ tu saṃrodhaṃ prāṇāpānasamudbhavam | vadanti munayastaṃ ca tridhābhūtaṃ vipaścitaḥ 27 pramāṇaṃ bhedato viddhi laghumadhyamamuttamama | daśabhidvayaṃdhikairvarṇaiḥ prāṇāyāmo laghuḥ smṛtaḥ 28 caturviṃśatyakṣaro yo madhyamaḥ sa udāhṛtaḥ | ṣaṭtriṃśallaghuvarṇo ya uttamaḥ so'bhidhīyate 29 siṃhaṃ śārdūlakaṃ vāpi mattebhaṃ mṛdutāṃ yathā | nayanti prāṇinastadvatprāṇāpānau susādhayet 2.141.30 pīḍayanti mṛgāṃste na lokānvaśyaṃ gatā nṛpa | dahatyenastathā vāyuḥ saṃstabdho na ca tattanum 31 yathā yathā naraḥ kaścitsopānāvalimākramet | tathā tathā vaśīkuryātprāṇāpānau hi yogavit 32 pūrakaṃ kumbhakaṃ caiva recakaṃ ca tatobhyaset | atītānāgatajñānī tataḥ syājjagatītale 33 prāṇāyāmairdvādaśabhiruttamairdhāraṇā matā | yogastu dhāraṇe dve syādyogīśasta sadā'bhyaset 34 evaṃ yaḥ kurute rājaṃstrikālajñaḥ sa jāyate | anāyāsena tasya syādvaśyaṃ lokatrayaṃ nṛpa 35 brahmarūpaṃ jagatsarvaṃ paśyati svāntarātmani | evaṃ yogaśca saṃnyāsaḥ samānaphaladāyinau 36 jantūnāṃ hitakartāraṃ karmaṇāṃ phaladāyim| māṃ jñātvā muktimāpnoti trailokyasyeśvaraṃ vibhum 37 (6476) o~tatsaditi ṅīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārtha śāstre śrīmadādi śrīmanmahāgāṇeśvare mahāpurāṇe uttarakhaṃḍe bālacarite śrīgajānanavareṇyasaṃvāde karmasaṃnyāsa' yogo nāma caturtho'dhyāyaḥ
GnP 2 141.5
अध्याय १४२ प्रारंभ :- श्री गजानन उवाच। श्रौतस्मार्तानि कर्माणि फलं नेच्छन्समाचरेत । शस्तः स योगी राजेन्द्र अक्रियाद्योगमाश्रितात् १ योगप्राप्त्यै महाबाहो हेतुः कर्मैव मे मतम् । सिद्धयोगस्य संसिद्ध्यै हेतू शमदमौ मतौ २ इन्द्रियार्थाश्च संकल्प्य कुर्वन्स्वस्य रिपुर्भवेत् । एताननिच्छन्यः कुर्वन्सिद्धिं योगी स सिद्धति ३ सुह्रत्त्वे च रिपुत्वे च उद्धारे चैव बन्धने । आत्मनैवात्मनो ह्यात्माऽनात्मा भवति कश्चन ४ मानेऽपमाने दुःखे च सुखे सुहृदि साधुषु । मित्रेऽमित्रेऽप्युदासीने द्वेष्ये लोष्ठे च कांचने ५ समो जितात्मा विज्ञानी ज्ञानीन्द्रियजयावहः । अभ्यसेत्सततं योगं तदा युक्ततमो हि सः ६ तप्तः श्रान्तो व्याकूलो वा क्षुधितोऽव्यग्रचित्तकः । कालेऽनिशीतेत्युष्णे वानिलाग्न्यम्बुसमाकुले ७ सध्वनावतिजीर्णे गोस्थाने साग्नौ जलान्तिके। कूपकूले श्मशाने च नद्यां भित्तौ च मर्मरे ८ चैत्ये सवल्मिके देशे पिशाचादिसमावृते। नाभ्यसेद्योगविद्योगं योगीध्यानपरायणः ९ स्मृतिलोपश्च मूकत्वं बाधिर्यमन्धता ज्वरः । जडता जायते सद्यो दोषाज्ञानाद्धि योगिनः २.१४२.१० एते दोषाः परित्याज्या योगाभ्यासेनशालिना। अनादरे हि चैतेषां स्मृतिलोपादयो ध्रुवम् ११ नातिभुञ्जन्सदा योगो नाभुं जन्नातिनिद्रितः । नातिजाग्रत्सिद्धिमेति भूप योगं सदाऽभ्यसन् १२ संकल्पजांस्त्यजेत्कामान्नियताहारजागरः। नियम्य खगणं बुद्ध्या विरमेत शनैः शनैः १३ ततस्ततः कृषेदेतद्यत्र यत्रानुगच्छति । धृत्यात्मवशगं कुर्याच्चित्तं चंचलमादृतः १४ एवं कुर्वन्सदा योगी परां निर्वृतिमृच्छति । विश्वस्मिन्निजमात्मानं विश्वं च स्वात्मनीक्षते १५ योगेन यो मामुपैति तमुपैम्यहमादरात् । मोचयामि न मुंचामि तमहं मां स न त्यजेत् १६ सुखे दुःखे तरे द्वेषे क्षुधि तोषे समस्तृषि । आत्मसाम्येन भूतानि सर्वगं मां च वेत्ति यः १७ जीवन्मुक्तः स योगीन्द्रः केवलं मयि संश्रितः । ब्रह्मादीनां च देवानां स वन्द्यः स्याज्जगत्त्रये १८ वरेण्य उवाच । द्विविधोऽपि हि योगोऽयमसंभाव्यो हि मे मतः । यतोऽन्तःकरणं दुष्टं चंचलं दुर्ग्रहं विभो १९ श्री गजानन उवाच । यो निग्रहं दुर्ग्रहस्य मनसाः संप्रकल्पयेत्। घटीयन्त्रसमादस्मान्मुक्तः संसृतिचक्रकात् २.१४२.२० विषयैः क्रकचैरेतत्संसृष्टं चक्रकं दृढम् । जनश्छेत्तुं न शक्नोति कर्मकीलैः सुसंवृतम् २१ अतिदुःखं च वैराग्यं भोगाद्वैतृष्ण्यमेव च । गुरुप्रसादः सत्संग उपायास्तज्यये अमी २२ अभ्यासाद्वा वशीकुर्यान्मनो योगस्य सिद्धये। वरेण्य दुर्लभो योगो विनाऽस्य मनसो जयात् २३ वरेण्य उवाच । योगभ्रष्टस्य को लोकः का गतिः किं फलं भवेत् । विभो सर्वज्ञ मे छिन्धि संशयं बुद्धिचक्रभृत् २४ श्री गजानन उवाच । दिव्यदेहधरो योगाद्भ्रष्टः स्वर्भोगमुत्तमम्। भुक्त्वा योगिकुले जन्म लभेदृद्धिमतां कुले २५ पुनर्योगी भवत्येष संस्कारात्पूर्वजन्मजात् । न हि पुण्यकृतां कश्चिन्नरकं प्रतिपद्यते २६ ज्ञाननिष्ठात्तपोनिष्ठाकर्मनिष्ठान्नराधिप । श्रेष्ठो योगी श्रेष्ठतमो भक्तिमान्मयि तेषु यः२७ (६५०३) ॐतत्सदिति० श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखंडे बालचरिते श्रीगजाननवरेण्यसंवादे 'योगावृत्ति प्रशंसनो' योगोनाम पंचमोध्याय
adhyāya 142 prāraṃbha :- śrī gajānana uvāca| śrautasmārtāni karmāṇi phalaṃ necchansamācareta | śastaḥ sa yogī rājendra akriyādyogamāśritāt 1 yogaprāptyai mahābāho hetuḥ karmaiva me matam | siddhayogasya saṃsiddhyai hetū śamadamau matau 2 indriyārthāśca saṃkalpya kurvansvasya ripurbhavet | etānanicchanyaḥ kurvansiddhiṃ yogī sa siddhati 3 suhrattve ca riputve ca uddhāre caiva bandhane | ātmanaivātmano hyātmā'nātmā bhavati kaścana 4 māne'pamāne duḥkhe ca sukhe suhṛdi sādhuṣu | mitre'mitre'pyudāsīne dveṣye loṣṭhe ca kāṃcane 5 samo jitātmā vijñānī jñānīndriyajayāvahaḥ | abhyasetsatataṃ yogaṃ tadā yuktatamo hi saḥ 6 taptaḥ śrānto vyākūlo vā kṣudhito'vyagracittakaḥ | kāle'niśītetyuṣṇe vānilāgnyambusamākule 7 sadhvanāvatijīrṇe gosthāne sāgnau jalāntike| kūpakūle śmaśāne ca nadyāṃ bhittau ca marmare 8 caitye savalmike deśe piśācādisamāvṛte| nābhyasedyogavidyogaṃ yogīdhyānaparāyaṇaḥ 9 smṛtilopaśca mūkatvaṃ bādhiryamandhatā jvaraḥ | jaḍatā jāyate sadyo doṣājñānāddhi yoginaḥ 2.142.10 ete doṣāḥ parityājyā yogābhyāsenaśālinā| anādare hi caiteṣāṃ smṛtilopādayo dhruvam 11 nātibhuñjansadā yogo nābhuṃ jannātinidritaḥ | nātijāgratsiddhimeti bhūpa yogaṃ sadā'bhyasan 12 saṃkalpajāṃstyajetkāmānniyatāhārajāgaraḥ| niyamya khagaṇaṃ buddhyā virameta śanaiḥ śanaiḥ 13 tatastataḥ kṛṣedetadyatra yatrānugacchati | dhṛtyātmavaśagaṃ kuryāccittaṃ caṃcalamādṛtaḥ 14 evaṃ kurvansadā yogī parāṃ nirvṛtimṛcchati | viśvasminnijamātmānaṃ viśvaṃ ca svātmanīkṣate 15 yogena yo māmupaiti tamupaimyahamādarāt | mocayāmi na muṃcāmi tamahaṃ māṃ sa na tyajet 16 sukhe duḥkhe tare dveṣe kṣudhi toṣe samastṛṣi | ātmasāmyena bhūtāni sarvagaṃ māṃ ca vetti yaḥ 17 jīvanmuktaḥ sa yogīndraḥ kevalaṃ mayi saṃśritaḥ | brahmādīnāṃ ca devānāṃ sa vandyaḥ syājjagattraye 18 vareṇya uvāca | dvividho'pi hi yogo'yamasaṃbhāvyo hi me mataḥ | yato'ntaḥkaraṇaṃ duṣṭaṃ caṃcalaṃ durgrahaṃ vibho 19 śrī gajānana uvāca | yo nigrahaṃ durgrahasya manasāḥ saṃprakalpayet| ghaṭīyantrasamādasmānmuktaḥ saṃsṛticakrakāt 2.142.20 viṣayaiḥ krakacairetatsaṃsṛṣṭaṃ cakrakaṃ dṛḍham | janaśchettuṃ na śaknoti karmakīlaiḥ susaṃvṛtam 21 atiduḥkhaṃ ca vairāgyaṃ bhogādvaitṛṣṇyameva ca | guruprasādaḥ satsaṃga upāyāstajyaye amī 22 abhyāsādvā vaśīkuryānmano yogasya siddhaye| vareṇya durlabho yogo vinā'sya manaso jayāt 23 vareṇya uvāca | yogabhraṣṭasya ko lokaḥ kā gatiḥ kiṃ phalaṃ bhavet | vibho sarvajña me chindhi saṃśayaṃ buddhicakrabhṛt 24 śrī gajānana uvāca | divyadehadharo yogādbhraṣṭaḥ svarbhogamuttamam| bhuktvā yogikule janma labhedṛddhimatāṃ kule 25 punaryogī bhavatyeṣa saṃskārātpūrvajanmajāt | na hi puṇyakṛtāṃ kaścinnarakaṃ pratipadyate 26 jñānaniṣṭhāttaponiṣṭhākarmaniṣṭhānnarādhipa | śreṣṭho yogī śreṣṭhatamo bhaktimānmayi teṣu yaḥ27 (6503) oṃtatsaditi0 śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārtha śāstre śrīmadādi śrīmanmahāgāṇeśvare mahāpurāṇe uttarakhaṃḍe bālacarite śrīgajānanavareṇyasaṃvāde 'yogāvṛtti praśaṃsano' yogonāma paṃcamodhyāya
GnP 2 141.7
यो ह्यन्यदेवतां मां च द्विषन्नन्यां समर्चयेत् । याति कल्पसहस्रं स निरयान्दुःखभाक् सदा १३ भूतशुद्धिं विधायादौ प्राणानां स्थापनं तथा । आकृष्य चेतसो वृतिं ततो न्यासमुपक्रमेत् १४ कृत्वान्तर्मातृकान्यासं बहिश्चाथ षडङ्ककम् । न्यासं च मूलमन्त्रस्य ततो ध्यात्वा जपेन्मनुम् १५ स्थिरचित्तो जपेन्मन्त्रं यथा गुरुमुखोद्गतम् । जपं निवेद्य देवाय स्तुत्वा स्तोत्रैरनेकधा १६ एवं मां य उपासीत स लभेन्मोक्षमव्ययम् । य उपासनया हीनो धिङनरो व्यर्थजन्मभाक् १७ यज्ञोऽहमौषधं मन्त्रोऽग्निराज्यं च हविर्हुतम् । ध्यानं ध्येयः स्तुतिः स्तोत्रं नतिर्भक्तिरुपासना १८ त्रयीज्ञेयं पवित्रं च पितामह पितामहः । ॐकारः पावनः साक्षी प्रभुर्मित्रं गतिर्लयः १९ उत्पत्तिः पोषको बीजं शरणं वास एव च । असन्मृत्युः सदमृतमात्मा ब्रह्माहमेव च २.१४४.२० दानं होमस्तपो भक्तिर्जपः स्वाध्याय. एव च । यद्यत्करोति तत्सर्वं स मे मयि निवेदयेत् २१ योषितोऽथ दुराचाराः पापास्त्रैवर्णिकास्तथा । मदाश्रया विमुच्यन्ते कि मद्भक्त्या द्विजादयः २२ न विनश्यति मद्भक्तो ज्ञात्वेमा मद्विभूतयः । प्रभवं मे विभूतीश्च न देवा ऋषयो विदुः २३ नानाविभूतिभिरहं व्याप्य विश्वं प्रतिष्ठितम् । यद्यच्छ्रेष्ठतमं लोके सा विभूतिर्निबोध मे २४ (६५४८) ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखंडे बालचरिते श्रीगजाननवरेण्यसंवादे ' उपासना योगो' नाम सप्तमोध्याय अध्याय १४५ प्रारंभ :- वरेण्य उवाच । भगवन्नारदो महयं तव नानाविभूतयः । उक्तवांस्ता अहं वेद न सर्वाः सोऽपि वेत्ति ताः १ त्वमेव तत्त्वतः सर्वा वेत्सि ता द्विरदानन । निजं रूपमिदानीं मे व्यापकं चारु दर्शय २ श्रीगजानन उवाच । एकस्मिन्मयि पश्य त्वं विश्वमेतच्चराचरम् । नानाश्चर्याणि दिव्यानि पुरा दृष्टानि केनचित् ३ ज्ञानचक्षुरहं तेऽद्य सृजामि स्वप्रभावतः । चर्मचक्षुः कथं पश्येन्मां विभुं अजमव्ययम् ४ व्यास उवाच । ततो राजा वरेण्यः स दिव्यचक्षुरवैक्षत । ईशितुः परमं रूपं गजास्यस्य महाद्भुतम् ५ असंख्यवक्त्रं ललितमसंख्यांघ्रिकरं महत् । अनुलिप्तं सुगन्धेन दिव्यभूषाम्बरस्रजम् ६ असंख्यनयनं कोटिसूर्यरश्मिधृतायुधम् । तद्वर्ष्माणि त्रयो लोका द्रष्टास्तेन पृथग्विधाः
yo hyanyadevatāṃ māṃ ca dviṣannanyāṃ samarcayet | yāti kalpasahasraṃ sa nirayānduḥkhabhāk sadā 13 bhūtaśuddhiṃ vidhāyādau prāṇānāṃ sthāpanaṃ tathā | ākṛṣya cetaso vṛtiṃ tato nyāsamupakramet 14 kṛtvāntarmātṛkānyāsaṃ bahiścātha ṣaḍaṅkakam | nyāsaṃ ca mūlamantrasya tato dhyātvā japenmanum 15 sthiracitto japenmantraṃ yathā gurumukhodgatam | japaṃ nivedya devāya stutvā stotrairanekadhā 16 evaṃ māṃ ya upāsīta sa labhenmokṣamavyayam | ya upāsanayā hīno dhiṅanaro vyarthajanmabhāk 17 yajño'hamauṣadhaṃ mantro'gnirājyaṃ ca havirhutam | dhyānaṃ dhyeyaḥ stutiḥ stotraṃ natirbhaktirupāsanā 18 trayījñeyaṃ pavitraṃ ca pitāmaha pitāmahaḥ | oṃkāraḥ pāvanaḥ sākṣī prabhurmitraṃ gatirlayaḥ 19 utpattiḥ poṣako bījaṃ śaraṇaṃ vāsa eva ca | asanmṛtyuḥ sadamṛtamātmā brahmāhameva ca 2.144.20 dānaṃ homastapo bhaktirjapaḥ svādhyāya. eva ca | yadyatkaroti tatsarvaṃ sa me mayi nivedayet 21 yoṣito'tha durācārāḥ pāpāstraivarṇikāstathā | madāśrayā vimucyante ki madbhaktyā dvijādayaḥ 22 na vinaśyati madbhakto jñātvemā madvibhūtayaḥ | prabhavaṃ me vibhūtīśca na devā ṛṣayo viduḥ 23 nānāvibhūtibhirahaṃ vyāpya viśvaṃ pratiṣṭhitam | yadyacchreṣṭhatamaṃ loke sā vibhūtirnibodha me 24 (6548) oṃ tatsaditi śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārtha śāstre śrīmadādi śrīmanmahāgāṇeśvare mahāpurāṇe uttarakhaṃḍe bālacarite śrīgajānanavareṇyasaṃvāde ' upāsanā yogo' nāma saptamodhyāya adhyāya 145 prāraṃbha :- vareṇya uvāca | bhagavannārado mahayaṃ tava nānāvibhūtayaḥ | uktavāṃstā ahaṃ veda na sarvāḥ so'pi vetti tāḥ 1 tvameva tattvataḥ sarvā vetsi tā dviradānana | nijaṃ rūpamidānīṃ me vyāpakaṃ cāru darśaya 2 śrīgajānana uvāca | ekasminmayi paśya tvaṃ viśvametaccarācaram | nānāścaryāṇi divyāni purā dṛṣṭāni kenacit 3 jñānacakṣurahaṃ te'dya sṛjāmi svaprabhāvataḥ | carmacakṣuḥ kathaṃ paśyenmāṃ vibhuṃ ajamavyayam 4 vyāsa uvāca | tato rājā vareṇyaḥ sa divyacakṣuravaikṣata | īśituḥ paramaṃ rūpaṃ gajāsyasya mahādbhutam 5 asaṃkhyavaktraṃ lalitamasaṃkhyāṃghrikaraṃ mahat | anuliptaṃ sugandhena divyabhūṣāmbarasrajam 6 asaṃkhyanayanaṃ koṭisūryaraśmidhṛtāyudham | tadvarṣmāṇi trayo lokā draṣṭāstena pṛthagvidhāḥ
GnP 2 141.8
दृष्ट्वैश्वरं परं रूपं प्रणम्य स नृपोब्रवीत् । वरेण्य उवाच । वीक्षेऽहं तव देहेऽस्मिन्देवानृषिगणान्पितॄन् ८ पातालानां समुद्राणां द्वीपानां चैव भूभृताम्। वनर्षीणां सप्तकं च नानार्थः संकुलं विभो ९ भुवोऽन्नरिक्षं स्वर्गाश्च मनुष्योरगराक्षसान् । ब्रह्मविष्णुमहेशेन्द्रान्देवांजन्तूननेकधा २.१४५.१० अनाद्यनन्तं लोकादिमनन्तभुजशीर्षकम् । प्रदीप्तानलसंकाशमप्रमेयं पुरातनम् ११ किरीटकुण्डलधरं दुर्निरीक्ष्यं मुदावहम् । एतादृशं च वीक्षे त्वां विशालवक्षसं प्रभुम् १२ सुरविद्याधरैर्यक्षैः किन्नरैर्मुनिमानुषैः । नृत्यद्भिरप्सरोभिश्च गन्धर्वैर्गानतत्परैः १३ वसुरुद्रादित्यगणैः सिद्धैः साध्यैर्मुदा युतैः । सेव्यमानं महाभक्त्या वीक्ष्यमाणं सुविस्मितैः १४ वेत्तारमक्षरं वेद्यं धर्मगोप्तारमीश्वरम् । पातालानि दिशः स्वर्गान्भुवं व्याप्याखिलं स्थितम् १५ भीता लोकास्तथा चाहमेवं त्वां वीक्ष्य रूपिणम् । नानादंष्टाकरालं च नानाविद्याविशारदम् १६ प्रलयानलदीप्तास्यं जटिलं च नभःस्पृशम् । दृष्ट्वा गणेश ते रूपमहं भ्रान्त इवाभवम् १७ देवा मनुष्या नागाद्याःखिलास्त्वदुदरेशयाः । नानायोनिभुजश्चान्ते त्वय्येव प्रविशन्ति च १८ अब्धेरुत्पद्यमानास्ते यथा जीमूतबिन्दवः । त्वमिन्द्रोऽग्निर्यमश्चैव निर्ऋतिर्वरुणो मरुत १९ गुह्यकेशस्तथेशानः सोमः सूर्योऽखिलं जगत्। नमामि त्वामतः स्वामिन्प्रसादं कुरु मेऽधुना २.१४५.२० दर्शयस्व निजं रूपं सौम्यं यत्पूर्वमीक्षितम् । को वेद लीलास्ते भूमन्क्रियमाणा निजेच्छया २१ अनुग्रहान्मया दृष्टमैश्वरं रूपमीदृशम् । ज्ञानचक्षुर्यतो दत्तं प्रसन्नेन त्वया मम २२ श्रीगजानन उवाच । नेदं रूपं महाबाहो मम पश्यन्त्ययोगिनः । सनकाद्या नारदाद्याः पश्यन्ति मदनुग्रहान् २३ चतुर्वेदार्थतत्त्वज्ञाश्चतुःशास्त्रविशारदाः । यज्ञदानतपोनिष्ठा न मे रूपं विदन्ति ते २४ शक्योऽहं वीक्षितुं ज्ञातुं प्रवेष्टुं भक्तिभावतः । त्यज भीतिं च मोहं च पश्य मां सोम्यरूपिणम् २५ मद्भक्तो मत्परः सर्वसंगहीनो मदर्थकृत् । निष्क्रोधः सर्वभूतेषु समो मामेति भूभुज २६ (६५७३ ) ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखंडे बालचरिते श्रीगजाननवरेण्यसंवादे 'विश्वरूपवीक्षणयोगो' योगो नाम अष्टमोऽध्यायः
dṛṣṭvaiśvaraṃ paraṃ rūpaṃ praṇamya sa nṛpobravīt | vareṇya uvāca | vīkṣe'haṃ tava dehe'smindevānṛṣigaṇānpitṝn 8 pātālānāṃ samudrāṇāṃ dvīpānāṃ caiva bhūbhṛtām| vanarṣīṇāṃ saptakaṃ ca nānārthaḥ saṃkulaṃ vibho 9 bhuvo'nnarikṣaṃ svargāśca manuṣyoragarākṣasān | brahmaviṣṇumaheśendrāndevāṃjantūnanekadhā 2.145.10 anādyanantaṃ lokādimanantabhujaśīrṣakam | pradīptānalasaṃkāśamaprameyaṃ purātanam 11 kirīṭakuṇḍaladharaṃ durnirīkṣyaṃ mudāvaham | etādṛśaṃ ca vīkṣe tvāṃ viśālavakṣasaṃ prabhum 12 suravidyādharairyakṣaiḥ kinnarairmunimānuṣaiḥ | nṛtyadbhirapsarobhiśca gandharvairgānatatparaiḥ 13 vasurudrādityagaṇaiḥ siddhaiḥ sādhyairmudā yutaiḥ | sevyamānaṃ mahābhaktyā vīkṣyamāṇaṃ suvismitaiḥ 14 vettāramakṣaraṃ vedyaṃ dharmagoptāramīśvaram | pātālāni diśaḥ svargānbhuvaṃ vyāpyākhilaṃ sthitam 15 bhītā lokāstathā cāhamevaṃ tvāṃ vīkṣya rūpiṇam | nānādaṃṣṭākarālaṃ ca nānāvidyāviśāradam 16 pralayānaladīptāsyaṃ jaṭilaṃ ca nabhaḥspṛśam | dṛṣṭvā gaṇeśa te rūpamahaṃ bhrānta ivābhavam 17 devā manuṣyā nāgādyāḥkhilāstvadudareśayāḥ | nānāyonibhujaścānte tvayyeva praviśanti ca 18 abdherutpadyamānāste yathā jīmūtabindavaḥ | tvamindro'gniryamaścaiva nirṛtirvaruṇo maruta 19 guhyakeśastatheśānaḥ somaḥ sūryo'khilaṃ jagat| namāmi tvāmataḥ svāminprasādaṃ kuru me'dhunā 2.145.20 darśayasva nijaṃ rūpaṃ saumyaṃ yatpūrvamīkṣitam | ko veda līlāste bhūmankriyamāṇā nijecchayā 21 anugrahānmayā dṛṣṭamaiśvaraṃ rūpamīdṛśam | jñānacakṣuryato dattaṃ prasannena tvayā mama 22 śrīgajānana uvāca | nedaṃ rūpaṃ mahābāho mama paśyantyayoginaḥ | sanakādyā nāradādyāḥ paśyanti madanugrahān 23 caturvedārthatattvajñāścatuḥśāstraviśāradāḥ | yajñadānataponiṣṭhā na me rūpaṃ vidanti te 24 śakyo'haṃ vīkṣituṃ jñātuṃ praveṣṭuṃ bhaktibhāvataḥ | tyaja bhītiṃ ca mohaṃ ca paśya māṃ somyarūpiṇam 25 madbhakto matparaḥ sarvasaṃgahīno madarthakṛt | niṣkrodhaḥ sarvabhūteṣu samo māmeti bhūbhuja 26 (6573 ) oṃ tatsaditi śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārtha śāstre śrīmadādi śrīmanmahāgāṇeśvare mahāpurāṇe uttarakhaṃḍe bālacarite śrīgajānanavareṇyasaṃvāde 'viśvarūpavīkṣaṇayogo' yogo nāma aṣṭamo'dhyāyaḥ
GnP 2 141.12
अध्याय १४३ प्रारंभ :- गजानन उवाच । ईदृशं विद्धि मे तत्त्वं मद्गतेनान्तरात्मना । यज्ज्ञात्वा मामसंदिग्धं वेत्सि मोक्ष्यसि सर्वगम् १ तत्तेऽहं शृणु वक्ष्यामि लोकानां हितकाम्यया। अस्ति ज्ञेयं यतो नान्यन्मुक्तेश्च साधनं नृप २ ज्ञेया मत्प्रकृतिः पूर्वं ततः स्याज्ज्ञानगोचरः । ततो विज्ञानसंपत्तिर्मयि ज्ञाते नृणां भवेत् ३ क्वनलो खमहंकारः कं चित्तं धीसमीरणः । रवीन्दू यागकृच्चैका दशधा प्रकृतिर्मम ४ अन्यां मत्प्रकृतिं वृद्धां मुनयः संगिरन्ति च । तथा त्रिविष्टपं व्याप्तं जीवत्वं गतयाऽनया ५ आभ्यामुत्पाद्यते सर्वं चराचरमयं जगत् । संगाद्विश्वस्य संभूतिः परित्राणं लयोप्यहम् ६ तत्त्वमेतन्निबोद्धुं मे यतते कश्चिदेव हि । वर्णाश्रमवतां पुसां पुरा चीर्णेन कर्मणा ७ साक्षात्करोति मां कश्चिद्यत्नवत्स्वपि तेषु च। मत्तोऽन्यन्नेक्षते किंचिन्मयि सर्वं च वीक्षते ८ श्रितौ सुगन्धरूपेण तेजोरूपेण चाग्निषु। प्रभारूपेण पुण्यब्जे रसरूपेण चाप्सु च ९ धीतपो बलिनां चाहं धीस्तपो बलमेव च । त्रिविधेषु विकारेषु मदुत्पन्नेष्वहं स्थितः २.१४३.१० न मां विन्दन्ति पापीयान् मायामोहितचेतसः । त्रिविकारा मोहयति प्रकृतिर्मे जगत्त्रयम् ११ यो मे त्तत्त्वं विजानाति मोहं त्यजति सोऽखिलम् । अनेकैर्जन्मभिश्चैवं ज्ञात्वा मां मुच्यते ततः १२ अन्ये नानाविधान्देवान्भजन्ते तान्व्रजन्ति ते । यथा यथा मतिं कृत्वा भजते मां जनोऽखिलः १३ तथा तथाऽस्य तं भावं पूरयाम्यहमेव तम् । अहं सर्वं विजानामि मां न कश्चिद्विबुध्यते १४ अव्यक्तं व्यक्तिमापन्नं न विदुः काममोहिताः । नाहं प्रकाशतां यामि अज्ञानां पापकर्मणाम् १५ यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयान्वितः । स यात्यपुनरावृत्तिं प्रसादान्मम भूभुज १६ यं यं देवं स्मरन्भक्त्या त्यजति स्वं कलेवरम् । तत्तत्सालोक्यमायाति तत्तद्भक्त्या नराधिप १७ अतश्चाहर्निशं भूप स्मर्तव्योऽनेकरूपवान् । सर्वेषामप्यहं गम्यः स्रोतसामर्णवो यथा १८ ब्रह्मविष्णुशिवेन्द्राद्यांल्लोकान्प्राप्य पुनः पतेत् । यो मामुपैत्य संदिग्धः पतनं तस्य न क्वचित् १९ अनन्यशरणो यो मां भक्त्या भजति भूमिप । योगक्षेमौ च तस्याहं सर्वदा प्रतिपादये २.१४३.२० द्विविधा गतिरुद्दिष्टा शुक्ला कृष्णा नृणां नृप । एकया परमं ब्रह्म परया याति संसृतिम् २१ (६५२४) ॐतत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजानवरेण्यसंवादे 'योगावृत्तिबुद्धियोगो नाम षष्ठोऽध्यायः। अध्याय १४४ प्रारंभ :- वरेण्य उवाच । का शुक्ला गतिरुद्दिष्टा का च कृष्णा गजानन । किं ब्रह्मसंसृतिः का मे वक्तुमर्हस्यनुग्रहात् १ गजानन उवाच । अग्निर्ज्योतिरहःशुक्ला कर्मार्हमयनं गतिः । चान्द्रं ज्योतिस्तथा धूमो रात्रिश्च दक्षिणायनम् २ कृष्णैते ब्रह्मसंसृत्योरवाप्तैः कारणं गतिः। दृश्यादृश्यमिदं सर्वं ब्रह्मैवेत्यवधारय ३ क्षरं पंचात्मकं विद्धि तदन्तरक्षरं स्मृतम् । उभाभ्यां यदतिक्रान्तं शुद्धं विद्धि सनातनम् ४ अनेकजन्मसंभूतिः संसृतिः परिकीर्तिता। संसृतिं प्राप्नुवन्त्येते ये तु मां गणयन्ति न ५ ये मां सम्यगुपासन्ते परं ब्रह्म प्रयान्ति ते । ध्यानाद्यैरुपचारैर्मां तथा पंचामृतादिभिः ६ स्नानवस्त्राद्यलंकारसुगन्धधूपदीपकैः । नैवेद्यैः फलताम्बूलदक्षिणाभिश्च योर्चयेत् ७ भक्त्यैकचेतसा चैव तस्येष्टं पूरयाम्यहम् । एवं प्रतिदिनं भक्त्या मद्भक्तो मां समर्पयेत् ८ अथवा मानसीं पूजां कुर्वीत स्थिरचेतसा । अथवा फलपत्राद्यैः पुष्पमूलजलादिभिः । पूजयेन्मां प्रयत्नेन तत्तदिष्टफलं लभेत् ९ त्रिविधास्वपि पूजासु श्रेयसी मानसी मता । साप्युत्तमा मता पूजाऽनिच्छया या कृता मम २.१४४.१० ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिश्च यः । एकां पूजां प्रकुर्वाणोप्यनो वा सिद्धिमृच्छति ११ मदन्यं देवं यो भक्त्या द्विषन्मामन्यदेवताम् । सोऽपि मामेव यजते परंत्वविधितो नृप
adhyāya 143 prāraṃbha :- gajānana uvāca | īdṛśaṃ viddhi me tattvaṃ madgatenāntarātmanā | yajjñātvā māmasaṃdigdhaṃ vetsi mokṣyasi sarvagam 1 tatte'haṃ śṛṇu vakṣyāmi lokānāṃ hitakāmyayā| asti jñeyaṃ yato nānyanmukteśca sādhanaṃ nṛpa 2 jñeyā matprakṛtiḥ pūrvaṃ tataḥ syājjñānagocaraḥ | tato vijñānasaṃpattirmayi jñāte nṛṇāṃ bhavet 3 kvanalo khamahaṃkāraḥ kaṃ cittaṃ dhīsamīraṇaḥ | ravīndū yāgakṛccaikā daśadhā prakṛtirmama 4 anyāṃ matprakṛtiṃ vṛddhāṃ munayaḥ saṃgiranti ca | tathā triviṣṭapaṃ vyāptaṃ jīvatvaṃ gatayā'nayā 5 ābhyāmutpādyate sarvaṃ carācaramayaṃ jagat | saṃgādviśvasya saṃbhūtiḥ paritrāṇaṃ layopyaham 6 tattvametanniboddhuṃ me yatate kaścideva hi | varṇāśramavatāṃ pusāṃ purā cīrṇena karmaṇā 7 sākṣātkaroti māṃ kaścidyatnavatsvapi teṣu ca| matto'nyannekṣate kiṃcinmayi sarvaṃ ca vīkṣate 8 śritau sugandharūpeṇa tejorūpeṇa cāgniṣu| prabhārūpeṇa puṇyabje rasarūpeṇa cāpsu ca 9 dhītapo balināṃ cāhaṃ dhīstapo balameva ca | trividheṣu vikāreṣu madutpanneṣvahaṃ sthitaḥ 2.143.10 na māṃ vindanti pāpīyān māyāmohitacetasaḥ | trivikārā mohayati prakṛtirme jagattrayam 11 yo me ttattvaṃ vijānāti mohaṃ tyajati so'khilam | anekairjanmabhiścaivaṃ jñātvā māṃ mucyate tataḥ 12 anye nānāvidhāndevānbhajante tānvrajanti te | yathā yathā matiṃ kṛtvā bhajate māṃ jano'khilaḥ 13 tathā tathā'sya taṃ bhāvaṃ pūrayāmyahameva tam | ahaṃ sarvaṃ vijānāmi māṃ na kaścidvibudhyate 14 avyaktaṃ vyaktimāpannaṃ na viduḥ kāmamohitāḥ | nāhaṃ prakāśatāṃ yāmi ajñānāṃ pāpakarmaṇām 15 yaḥ smṛtvā tyajati prāṇamante māṃ śraddhayānvitaḥ | sa yātyapunarāvṛttiṃ prasādānmama bhūbhuja 16 yaṃ yaṃ devaṃ smaranbhaktyā tyajati svaṃ kalevaram | tattatsālokyamāyāti tattadbhaktyā narādhipa 17 ataścāharniśaṃ bhūpa smartavyo'nekarūpavān | sarveṣāmapyahaṃ gamyaḥ srotasāmarṇavo yathā 18 brahmaviṣṇuśivendrādyāṃllokānprāpya punaḥ patet | yo māmupaitya saṃdigdhaḥ patanaṃ tasya na kvacit 19 ananyaśaraṇo yo māṃ bhaktyā bhajati bhūmipa | yogakṣemau ca tasyāhaṃ sarvadā pratipādaye 2.143.20 dvividhā gatiruddiṣṭā śuklā kṛṣṇā nṛṇāṃ nṛpa | ekayā paramaṃ brahma parayā yāti saṃsṛtim 21 (6524) oṃtatsaditi śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārtha śāstre śrīmadādi śrīnmahāgāṇeśvare mahāpurāṇe uttarakhaṇḍe bālacarite śrīgajānavareṇyasaṃvāde 'yogāvṛttibuddhiyogo nāma ṣaṣṭho'dhyāyaḥ| adhyāya 144 prāraṃbha :- vareṇya uvāca | kā śuklā gatiruddiṣṭā kā ca kṛṣṇā gajānana | kiṃ brahmasaṃsṛtiḥ kā me vaktumarhasyanugrahāt 1 gajānana uvāca | agnirjyotirahaḥśuklā karmārhamayanaṃ gatiḥ | cāndraṃ jyotistathā dhūmo rātriśca dakṣiṇāyanam 2 kṛṣṇaite brahmasaṃsṛtyoravāptaiḥ kāraṇaṃ gatiḥ| dṛśyādṛśyamidaṃ sarvaṃ brahmaivetyavadhāraya 3 kṣaraṃ paṃcātmakaṃ viddhi tadantarakṣaraṃ smṛtam | ubhābhyāṃ yadatikrāntaṃ śuddhaṃ viddhi sanātanam 4 anekajanmasaṃbhūtiḥ saṃsṛtiḥ parikīrtitā| saṃsṛtiṃ prāpnuvantyete ye tu māṃ gaṇayanti na 5 ye māṃ samyagupāsante paraṃ brahma prayānti te | dhyānādyairupacārairmāṃ tathā paṃcāmṛtādibhiḥ 6 snānavastrādyalaṃkārasugandhadhūpadīpakaiḥ | naivedyaiḥ phalatāmbūladakṣiṇābhiśca yorcayet 7 bhaktyaikacetasā caiva tasyeṣṭaṃ pūrayāmyaham | evaṃ pratidinaṃ bhaktyā madbhakto māṃ samarpayet 8 athavā mānasīṃ pūjāṃ kurvīta sthiracetasā | athavā phalapatrādyaiḥ puṣpamūlajalādibhiḥ | pūjayenmāṃ prayatnena tattadiṣṭaphalaṃ labhet 9 trividhāsvapi pūjāsu śreyasī mānasī matā | sāpyuttamā matā pūjā'nicchayā yā kṛtā mama 2.144.10 brahmacārī gṛhastho vā vānaprastho yatiśca yaḥ | ekāṃ pūjāṃ prakurvāṇopyano vā siddhimṛcchati 11 madanyaṃ devaṃ yo bhaktyā dviṣanmāmanyadevatām | so'pi māmeva yajate paraṃtvavidhito nṛpa