← Ganesha Purana — Kridakhanda

Ganesha Purana — Kridakhanda — Chapter 136

GnP 2 136.1

अध्याय १३८ प्रारंभ :- क उवाच । एवमेव पुरा पृष्टः शौनकेन महात्मना । स सूतः कथयामास गीतां व्यासमुखाच्छ्रुताम् १ सूत उवाच । अष्टादशपुराणोक्तममृतं प्राशितं मया । ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् २ येनामृतमयो भूत्वा पुमान्ब्रह्मा मृतं यतः । योगामृतं महाभाग तन्मे करुणया वद ३ व्यास उवाच । अथ गीतां प्रवक्ष्यामि योगमार्गप्रकाशिनीम् । नियुक्ता पृच्छते सूत राज्ञे गजमुखेन या ४ वरेण्य उवाच । विघ्नेश्वर महाबाहो सर्वविद्याविशारद । सर्वशास्त्रार्थतत्वज्ञ योगं मे वक्तुमर्हसि ५ गजानन उवाच । सम्यग्व्यवसिता राजन्मतिस्तेऽनुग्रहान्मम । शृणु गीतां प्रवक्ष्यामि योगामृतमयीं नृप ६ न योगं योगमित्याहुर्योगो योगो न च श्रियः । न योगो विषयैर्योगो न च मात्रादिभिस्तथा ७ योगो यः पितृमात्रादेर्न स योगो नराधिप। यो योगो बन्धुपुत्रादेर्यश्चाष्ट भूतिभिः सह ८ न स योगः स्त्रिया योगो जगदुद्भूतरूपया। राज्ययोगश्च नो योगो न योगो गजवाजिभिः ९ योगो नेन्द्रपदस्यापि योगो योगार्थिनः प्रियः । योगो यः सत्यलोकस्य न स योगो मतो मम २.१३८.१० शैवस्य योगो नो योगो वैष्णवस्य पदस्य च । न योगो भूप सूर्यत्वं चन्द्रत्वं न कुबेरता ११ नानिलत्वं नानलत्वं नामरत्वं न कालता । वारुण्यं न नैर्ऋत्यं योगो न सार्वभीमता १२ योगं नानाविधं भूप युज्जन्ति ज्ञानिनस्तु तम् । भवन्ति वितृषा लोके जिताहारा विरेतसः १३ पानयन्त्यखिलाल्लोकान्वशीकृतजगत्त्रयाः । करुणापूर्णहृदया बोधयन्ति च कांश्चन १४ जीवन्मुक्ता हृदे मग्नाः परमानन्दरूपिणि । निमील्याक्षीणि पश्यन्तः परं ब्रह्म हृदि स्थितम् १५ ध्यायन्तः परमं ब्रह्म चित्ते योगवशीकृतम्। भूतानि स्वात्मना तुल्यं सर्वाणि गणयन्ति ते १६ येन केनचिदाच्छिन्ना येन केन चिदाहताः । येन केन चिदाकृष्टा येन केनाचिदाशिताः १७ करुणापूर्णहृदया भ्रमन्ति धरणीतले । अनुग्रहाय भूतानां जितक्रोधा जितेन्द्रियाः १८ देहमात्रभृतो भूप समलोष्ठाश्मकांचना । एतादृशा महाभागाः स्युश्चक्षुर्गोचराः प्रिय१९ तमिदानीमहं वक्ष्ये शृणु योगमनुत्तमम् । श्रुत्वा यं मुच्यते जन्तुः पापेभ्यो भवसागरात् २.१३८.२० शिवे विष्णौ च शक्तौ च सूर्ये मयि नराधिप । याऽभेदबुद्धिर्योगः स सम्यग्योगो मतो मम २१ अहमेव जगद्यस्मात्सृजामि पालयामि च । कृत्वा नानाविधं वेषं संहरामि स्वलीलया २२ अहमेव महाविष्णुरहमेव सदाशिवः । अहमेव महाशक्तिरहमेवार्यमा प्रिय २३ अहमेको नृणां नाथो जातः पंचविधः पुरा । अज्ञानान्मां न जानन्ति जगत्कारणकारणम् २४ मत्तोऽग्निरापो धरणी मत्त आकाशमारुतौ । ब्रह्मा विष्णुश्च रुद्रश्च लोकपाला दिशो दश २५ वसवो मनवो गावो मुनयः पशवोऽपि च । सरितः सागरा यक्षा वृक्षाः पक्षिगणा अपि २६ तथैकविंशतिस्वर्गा नागाः सप्तवनानि च । मनुष्याः पर्वताः साध्याः सिद्धा रक्षोगणास्तथा २७ अहं साक्षी जगच्चक्षुरलिप्तः सर्वकर्मभिः । अविकारोऽप्रमेयोऽहमव्यक्तो विश्वगोऽव्ययः २८ अहमेव परं ब्रह्माव्ययानन्दात्मकं नृप । मोहयत्यखिलान्माया श्रेष्ठान्मन नरानमून् २९ सर्वदा षड्रविकारेषु तानि यं योजयेद्भृशम्। हित्वाजापटलं जन्तुरनेकैर्जन्मभिः शनैः २.१३८.३० विरज्य विन्दति ब्रह्म विषयेषु सुबोधतः । अच्छेद्यं शस्त्रसङघातैरदाह्यमनलेन च ३१ अक्लेद्यं प च वनैरशोष्यं मारुतेन च । अवध्यं वध्यमानेऽपि शरीरेऽस्मिन्नराधिप ३२ यामिमां पुष्पितां वाचं प्रशंसन्ति श्रुतीरिताम् । त्रयीवादरता मूढास्ततोऽन्यन्मन्वतोऽपि न ३३ कुर्वन्ति सततं कर्म जन्ममृत्युफलप्रदम् । स्वर्गैश्वर्यरता ध्वस्तचेतना भोगबुद्धयः ३४ संपादयन्ति ते भूयः स्वात्मना निजबन्धनम् । संसारचक्रं युंजन्ति जडाः कर्मपरा नराः ३५ यस्य यद्विहितं कर्म तत्कर्तव्यं मदर्पणम् । ततोऽस्य कर्मबीजानामुच्छिन्नाः स्युर्महांकुराः ३६ चित्तशुद्धिश्च महती विज्ञानसाधका भवेत् । विज्ञाने न हि विज्ञातं परं ब्रह्म मुनीश्वरैः ३७ तस्मात्कर्माणि कुर्वीत बुद्धियुक्तो नराधिप । न त्वकर्मा भवेत्कोऽपि स्वधर्मत्यागवांस्तथा ३८ जहाति यदि कर्माणि ततः सिद्धिं न विन्दति । आदौ ज्ञाने नाधिकारः कर्मण्येव स युज्यते ३९ कर्मणा शुद्धहृदयोऽभेदबुद्धिमुपैष्यति । स च योग: समाख्यातोऽमृतत्वाय हि कल्पते २.१३८.४० योगमन्यं प्रवक्ष्यामि शृणु भूप तमुत्तमम् । पशौ पुत्रे तथा मित्रे शत्रौ बन्धौ सुहृज्जने ४१ बहिर्दृष्ट्या च समया हृत्स्थया लोकयेत्पुमान् । सुखे दुःखे तथामर्षे हर्षे भीतौ समो भवेत् ४२ रोगाप्तौ चैव भोगाप्तौ जये वा विजयेऽपि च । श्रियोऽयोगे च योगे च लाभालाभे मृतावपि ४३ समो मां वस्तुजातेषु पश्यन्नन्तर्बहिस्थितम्। सूर्ये सोमे जले वह्नौ शिवे शक्तौ तथाऽनिले ४४ द्विजे हृदे महानद्यां तीर्थे क्षेत्रेऽघनाशिनि। विष्णौ च सर्वदेवेषु तथा यक्षोरगेषु च ४५ गन्धर्वेषु मनुष्येषु तथा तिर्यग्भवेषु च। सततं मां हि यः पश्येत्सोऽयं योगविदुच्यते ४६ संपरीहृत्य स्वार्थेभ्य इन्द्रियाणि विवेकतः । सर्वत्र समताबुद्धिः स योगो भूप मे मतः ४७ आत्मनात्मविवेकेन या बुद्धिर्दैवयोगतः । स्वधर्मासक्तचित्तस्य तद्योगो योग उच्यते ४८ धर्माधर्मौ जहातीह तथा त्युक्त उभावपि । अतो योगाय युञ्जीत योगो वैधेषु कौशलम् ४९ धर्माधर्मफले त्यक्त्वा मनीषी विजितेन्द्रियः। जन्मबन्धविनिर्मुक्तः स्थानं संयात्यनामयम् २.१३८.५० यदा ह्यज्ञानकालुष्यं जन्तोर्बुद्धिः क्रमिष्यति । तदाऽसौ याति वैराग्यं वेदवाक्यादिषु क्रमात ५१ त्रयीविप्रतिपन्नस्य स्थाणुत्वं यास्यते यदा। परात्मन्यचला बुद्धिस्तदा स योगमाप्नुयात् ५२ मानसानखिलान्कामान्यदा धीमांस्त्यजेत्प्रिय । स्वात्मनि स्वेन संतुष्टः स्थिरबुद्धिस्तदोच्यते ५३ वितृष्णः सर्वसौख्येषु नोद्विग्नो दुःखसंगमे । गतसाध्वसरुड्रागः स्थिरबुद्धिस्तदोच्यते ५४ यथाऽयं कमठोऽङगानि संकोचयति सर्वतः । विषयेभ्यस्तथा खानि संकर्षेद्योगतत्परः ५५ व्यावर्तन्तेऽस्य विषयास्त्यक्ताहारस्य वर्ष्मिणः। विना रागं च रागोऽपि दृष्ट्वा ब्रह्म विनश्यति ५६ विपश्चिद्यतते भूप स्थितिमास्थाय योगिनः । मन्थयित्वेन्द्रियाण्यस्य हरन्ति बलतो मनः ५७ युक्तस्तानि वशे कृत्वा सर्वदा मत्परो भवेत । संयतानीन्द्रियाणीह यस्य स कृतधीमतः ५८ चिन्तयानस्य विषयान्संगस्तेषूपजायते। कामः संवर्धते तस्मात्ततः क्रोधोऽभिवर्द्धते ५९ क्रोधादज्ञानसंभूतिर्विभ्रमस्तु ततः स्मृतेः । भ्रंशात्स्मृतेर्मतेर्ध्वंसस्तद्ध्वंसात्सोऽपि नश्यति २.१३८.६० विना द्वेषं च रागं च गोचरान्यस्त खैश्चरेत् । स्वाधीनहृदयो वश्यैः संतोषं स समृच्छति ६१ त्रिविधस्यापि दुःखस्य संतोषे क्षेपणं भवेत् । प्रज्ञया संस्थितश्चायं प्रसन्नहृदयो भवेत् ६२ विना प्रसादं न मतिर्विना मत्या न भावना । विना तां न शमो भूप विना तेन कुतः सुखम् ६३ इन्द्रियाश्वान्विचरतो विषयाननुवर्तते। यन्मनस्तन्मतिं हन्यादश्व नावं मरुद्यथा ६४ या रात्रिः सर्वभूतानां तस्यां निद्राति नैव सः । न स्वपन्तीह ते यत्र सा रात्रिस्तस्य भूमिप ६५ सरितां पतिमायान्ति वनानि सर्वतो यथा । आयान्ति तं तथा कामाः स ना शान्तिं सदा लभेत् ६६ अतस्तानीह संरुद्ध्य सर्वतः खानि मानवः । स्वस्वार्थेभ्यः प्रधावन्ति बुद्धिरस्य स्थिरा तदा ६७ ममताऽहंकृती त्यक्त्वा सर्वान्कामांश्च यस्त्यजेत् । नित्यं ज्ञानरतो भूयाज्ज्ञानान्मुक्तिं प्रयास्यति ६८ एनां ब्रह्मधियं भूप यो विजानाति दैवतः । तुरीयावस्थां प्राप्यापि शीलान्मुक्तिं स ऋच्छति६९ (६३४६) ॐतत्सदिति श्रीमद् गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थं शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखंडे बालचरिते श्रीगजाननवरेण्यसंवादे 'सांख्ययोगसारार्थं' योगोनाम प्रथमोध्याय अध्याय १३९ प्रारंभ :- वरेण्य उवाच । ज्ञाननिष्ठा कर्मनिष्ठा द्वयं प्रोक्तं त्वया विभो । अवधार्य वदैकं मे निश्रेयसकरं नु किम् १ गजानन उवाच । अस्मिंश्चराचरे स्थित्यौ पुरोक्ते द्वे मया प्रिय । सांख्यानां बुद्धियोगेन वैधयोगेन कर्मणाम् २ अनारभ्भेण वैधानां निष्क्रियः पुरुषो भवेत् । न सिद्धिं याति संत्यागात्केवलात्कर्मणान् नृप ३ कदाचिदक्रियः कोऽपि क्षणं नैवावतिष्ठते । अस्वतन्त्रः प्रकृतिजैर्गुणैः कर्म च कार्यते ४ कर्मकारीन्द्रियग्रामं नियम्यास्ते स्मरन्पुमान् । तद्गोचरान्मन्दचित्तो धिगाचारः स भण्यते ५ तद्ग्रामं संनियम्यादौ मनसा कर्म चारभेत् । इन्द्रियैः कर्मयोगं यो वितृष्णः स परो नृप ६ अकर्मणः श्रेष्ठतमं कर्मानीच्छाकृतं तु यत् । वर्ष्मणः स्थितिरप्यस्याकर्मणो नैव सेत्स्यति ७ असमर्प्य निबध्यन्ते कर्म तेन जना मयि । कुर्वीत सततं कर्मांनाशोऽसंगो मदर्पणम् ८ मदर्थं यानि कर्माणि तानि बध्नन्ति न क्वचित् । सवासनमिदं कर्म बध्नाति देहिनं बलात् ९ वर्णान्सृष्ट्वाऽवदं चाहं सयज्ञांस्तान्पुरा प्रिय । यज्ञेन ऋध्यतामेष कामदः कल्पवृक्षवत् २.१३९.१० सुरांश्चानेन प्रीणध्वं सुरास्ते प्रीणयन्तु नः । लभध्वं परमं स्थानन्योन्यप्रीणनात्स्थिरम् ११ इष्टा देवाः प्रदास्यन्ति भोगानिष्टान्सुतर्पिताः। तैर्दत्तांस्तान्नर स्तेभ्योऽदत्त्वा भुंक्ते स तस्करः १२ हुतावशिष्ट भोक्तारो मुक्ताः स्युः सर्वपातकैः । अदन्त्येनो महापापा आत्महेतोः पचन्ति ये १३ ऊर्जा भवन्ति भूतानि देवादन्नस्य संभवः । यज्ञांच्च देवसंभूतिस्तदुत्पत्तिश्च वैधतः १४ ब्रह्मणो वैधमुत्पन्नं मत्तो ब्रह्मसमुद्भवः । अतो यज्ञे च विश्वस्मिन्स्थितं मां विद्धि भूमिप १५ संसृतीनां महाचक्रं क्रामितव्यं विचक्षणैः । स मुदा प्राणिति भूपेन्द्रियक्रीडोऽधमो जन: १६ अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः । आत्मतृप्तो नरो यः स्यात्तस्यार्थो नैव विद्यते १७ कार्याकार्यकृतीनां स नैवाप्नोति शुभाशुभे। किंचिदस्य न साध्यं स्यात्सर्वजन्तुषु सर्वदा १८ अतोऽसक्तनया भूप कर्तव्यं कर्म जन्तुभिः । सक्तोऽगतिमवाप्नोति मामवाप्नोति तादृशः १९ परमां सिद्धिमापन्नाः पुरा राजर्षयो द्विजाः । संग्रहाय हि लोकानां तादृशं कर्म चारभेत् २.१३९.२० श्रेयान्यत्कुरुते कर्म तत्करोत्यखिलो जनः । मनुते यत्प्रमाणं स तदेवानुसरत्यसौ २१ विष्टपे मे न साध्योऽस्ति कश्चिदर्थो नराधिप । अनालब्धश्च लब्धव्यः कुर्वे कर्म तथाप्यहम् २२ न कुर्वेऽहं यदा कर्म स्वतन्त्रोऽलसभावितः। करिष्यन्ति मम ध्यानं सर्वे वर्णा महामते २३ भविष्यन्ति ततो लोका उच्छिन्नाः संप्रदायिनः । हन्ता स्यामस्य लोकस्य विधाता संकरस्य च २४ कामिनो हि सदा कामैरज्ञानात्कर्मकारिणः । लोकानां संग्रहायैतद्विद्धान्कुर्यादसक्तधीः २५ विभिन्नत्वमतिं जह्यादज्ञानां कर्मचारिणाम् । योगयुक्तः सर्वकर्माण्यर्पयेन्मयि कर्मकृत २६ अविद्यागुणसाचिव्यात्कुर्वकर्माण्यतन्द्रितः । अहंकारान्मन्दबुद्धिरहं कर्तेति योऽब्रवीत् २७ यस्तु वेत्त्यात्मनस्तत्त्वं विभागाद् गुणकर्मणोः । करणं विषये वृत्तमिति मत्वा न सज्जते २८ कुवन्ति सफलं कर्म गुणैस्त्रिभिर्विमोहिताः । अविश्वज्ञास्वात्मद्रुहो विश्वविन्नैव लङघयेत २९ नित्यं नैमित्तिकं तस्मान्मयि कर्मार्पयेद्बुधः । त्यक्त्वाऽहंममताबुद्धिं परां गतिमवाप्नुयात् २.१३९.३० अनीर्ष्यन्तो ये मयोक्तमिदं शुभम् । अनुतिष्ठन्ति ये सर्वे मुक्तास्तेऽखिलकर्मभिः ३१ ये चैव नानुतिष्ठन्ति अशुभा हतचेतसः । ईर्ष्यमाणान्महामूढान्नष्टांस्तान्विद्धि मे रिपून् ३२ तुल्यं प्रकृत्या कुरुते कर्म यज्ज्ञानवानपि । अनुयाति च तामेव ग्रहस्तत्र मुधा मतः ३३ कामश्चैव तथा क्रोधः खानामर्थेषु जायते। नैतयोर्वश्यतां यायादस्य विध्वंसकौ यतः ३४ शस्तोऽगुणो निजो धर्मः सांगदान्यस्य धर्मतः । निजे तस्मिन्मृतिः श्रेयः परत्र भयदः परः ३५ वरेण्य उवाच । पुमान्यत्कुरुते पापं स हि केन नियुज्यते । अकांक्षन्नपि हेरम्ब प्रेरितः प्रबलादिव ३६ श्रीगजानन उवाच । कामक्रोधौ महापापौ गुणद्वयसमुद्भवौ । नयन्तौ वश्यतां लोकान्विद्ध्येतौ द्वेषिणौ वरौ ३७ आवृणोति यथा माया जगद्वाष्पो जलं यथा । वर्षामेघो यथा भानुं तद्वत्कामोऽखिलांश्च रुट् ३८ प्रतिपत्तिमतो ज्ञान छादितं सततं द्विषा । इच्छात्मकेन तरसा दुष्पूरेण च शुष्मिणा ३९ आश्रित्य बुद्धिमनसी इन्द्रियाणि स तिष्ठति । तैरेवाच्छादितप्रज्ञो ज्ञानिनं मोहयत्यसौ २.१३९.४० तस्मान्नियम्य तान्यादौ समनांसि नरो जयेत् । ज्ञानविज्ञानयोः शान्तिकरं पापं मनोभवम् ४१ अंतस्तानि पराण्याहुस्तेभ्यश्च परमं मनः । ततोऽपि हि परा बुद्धिरात्मा बुद्धेः परो मतः ४२ बुद्ध्वैवमात्मनात्मानं संस्तभ्यात्मानमात्मना । हत्वा शत्रुं कामरूपं परं पदमवाप्नुयात् ४३ ( ६३८९) ॐतत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे 'कर्मयोगो' नाम द्वितीयोध्यायः

adhyāya 138 prāraṃbha :- ka uvāca | evameva purā pṛṣṭaḥ śaunakena mahātmanā | sa sūtaḥ kathayāmāsa gītāṃ vyāsamukhācchrutām 1 sūta uvāca | aṣṭādaśapurāṇoktamamṛtaṃ prāśitaṃ mayā | tato'tirasavatpātumicchāmyamṛtamuttamam 2 yenāmṛtamayo bhūtvā pumānbrahmā mṛtaṃ yataḥ | yogāmṛtaṃ mahābhāga tanme karuṇayā vada 3 vyāsa uvāca | atha gītāṃ pravakṣyāmi yogamārgaprakāśinīm | niyuktā pṛcchate sūta rājñe gajamukhena yā 4 vareṇya uvāca | vighneśvara mahābāho sarvavidyāviśārada | sarvaśāstrārthatatvajña yogaṃ me vaktumarhasi 5 gajānana uvāca | samyagvyavasitā rājanmatiste'nugrahānmama | śṛṇu gītāṃ pravakṣyāmi yogāmṛtamayīṃ nṛpa 6 na yogaṃ yogamityāhuryogo yogo na ca śriyaḥ | na yogo viṣayairyogo na ca mātrādibhistathā 7 yogo yaḥ pitṛmātrāderna sa yogo narādhipa| yo yogo bandhuputrāderyaścāṣṭa bhūtibhiḥ saha 8 na sa yogaḥ striyā yogo jagadudbhūtarūpayā| rājyayogaśca no yogo na yogo gajavājibhiḥ 9 yogo nendrapadasyāpi yogo yogārthinaḥ priyaḥ | yogo yaḥ satyalokasya na sa yogo mato mama 2.138.10 śaivasya yogo no yogo vaiṣṇavasya padasya ca | na yogo bhūpa sūryatvaṃ candratvaṃ na kuberatā 11 nānilatvaṃ nānalatvaṃ nāmaratvaṃ na kālatā | vāruṇyaṃ na nairṛtyaṃ yogo na sārvabhīmatā 12 yogaṃ nānāvidhaṃ bhūpa yujjanti jñāninastu tam | bhavanti vitṛṣā loke jitāhārā viretasaḥ 13 pānayantyakhilāllokānvaśīkṛtajagattrayāḥ | karuṇāpūrṇahṛdayā bodhayanti ca kāṃścana 14 jīvanmuktā hṛde magnāḥ paramānandarūpiṇi | nimīlyākṣīṇi paśyantaḥ paraṃ brahma hṛdi sthitam 15 dhyāyantaḥ paramaṃ brahma citte yogavaśīkṛtam| bhūtāni svātmanā tulyaṃ sarvāṇi gaṇayanti te 16 yena kenacidācchinnā yena kena cidāhatāḥ | yena kena cidākṛṣṭā yena kenācidāśitāḥ 17 karuṇāpūrṇahṛdayā bhramanti dharaṇītale | anugrahāya bhūtānāṃ jitakrodhā jitendriyāḥ 18 dehamātrabhṛto bhūpa samaloṣṭhāśmakāṃcanā | etādṛśā mahābhāgāḥ syuścakṣurgocarāḥ priya19 tamidānīmahaṃ vakṣye śṛṇu yogamanuttamam | śrutvā yaṃ mucyate jantuḥ pāpebhyo bhavasāgarāt 2.138.20 śive viṣṇau ca śaktau ca sūrye mayi narādhipa | yā'bhedabuddhiryogaḥ sa samyagyogo mato mama 21 ahameva jagadyasmātsṛjāmi pālayāmi ca | kṛtvā nānāvidhaṃ veṣaṃ saṃharāmi svalīlayā 22 ahameva mahāviṣṇurahameva sadāśivaḥ | ahameva mahāśaktirahamevāryamā priya 23 ahameko nṛṇāṃ nātho jātaḥ paṃcavidhaḥ purā | ajñānānmāṃ na jānanti jagatkāraṇakāraṇam 24 matto'gnirāpo dharaṇī matta ākāśamārutau | brahmā viṣṇuśca rudraśca lokapālā diśo daśa 25 vasavo manavo gāvo munayaḥ paśavo'pi ca | saritaḥ sāgarā yakṣā vṛkṣāḥ pakṣigaṇā api 26 tathaikaviṃśatisvargā nāgāḥ saptavanāni ca | manuṣyāḥ parvatāḥ sādhyāḥ siddhā rakṣogaṇāstathā 27 ahaṃ sākṣī jagaccakṣuraliptaḥ sarvakarmabhiḥ | avikāro'prameyo'hamavyakto viśvago'vyayaḥ 28 ahameva paraṃ brahmāvyayānandātmakaṃ nṛpa | mohayatyakhilānmāyā śreṣṭhānmana narānamūn 29 sarvadā ṣaḍravikāreṣu tāni yaṃ yojayedbhṛśam| hitvājāpaṭalaṃ janturanekairjanmabhiḥ śanaiḥ 2.138.30 virajya vindati brahma viṣayeṣu subodhataḥ | acchedyaṃ śastrasaṅaghātairadāhyamanalena ca 31 akledyaṃ pa ca vanairaśoṣyaṃ mārutena ca | avadhyaṃ vadhyamāne'pi śarīre'sminnarādhipa 32 yāmimāṃ puṣpitāṃ vācaṃ praśaṃsanti śrutīritām | trayīvādaratā mūḍhāstato'nyanmanvato'pi na 33 kurvanti satataṃ karma janmamṛtyuphalapradam | svargaiśvaryaratā dhvastacetanā bhogabuddhayaḥ 34 saṃpādayanti te bhūyaḥ svātmanā nijabandhanam | saṃsāracakraṃ yuṃjanti jaḍāḥ karmaparā narāḥ 35 yasya yadvihitaṃ karma tatkartavyaṃ madarpaṇam | tato'sya karmabījānāmucchinnāḥ syurmahāṃkurāḥ 36 cittaśuddhiśca mahatī vijñānasādhakā bhavet | vijñāne na hi vijñātaṃ paraṃ brahma munīśvaraiḥ 37 tasmātkarmāṇi kurvīta buddhiyukto narādhipa | na tvakarmā bhavetko'pi svadharmatyāgavāṃstathā 38 jahāti yadi karmāṇi tataḥ siddhiṃ na vindati | ādau jñāne nādhikāraḥ karmaṇyeva sa yujyate 39 karmaṇā śuddhahṛdayo'bhedabuddhimupaiṣyati | sa ca yoga: samākhyāto'mṛtatvāya hi kalpate 2.138.40 yogamanyaṃ pravakṣyāmi śṛṇu bhūpa tamuttamam | paśau putre tathā mitre śatrau bandhau suhṛjjane 41 bahirdṛṣṭyā ca samayā hṛtsthayā lokayetpumān | sukhe duḥkhe tathāmarṣe harṣe bhītau samo bhavet 42 rogāptau caiva bhogāptau jaye vā vijaye'pi ca | śriyo'yoge ca yoge ca lābhālābhe mṛtāvapi 43 samo māṃ vastujāteṣu paśyannantarbahisthitam| sūrye some jale vahnau śive śaktau tathā'nile 44 dvije hṛde mahānadyāṃ tīrthe kṣetre'ghanāśini| viṣṇau ca sarvadeveṣu tathā yakṣorageṣu ca 45 gandharveṣu manuṣyeṣu tathā tiryagbhaveṣu ca| satataṃ māṃ hi yaḥ paśyetso'yaṃ yogaviducyate 46 saṃparīhṛtya svārthebhya indriyāṇi vivekataḥ | sarvatra samatābuddhiḥ sa yogo bhūpa me mataḥ 47 ātmanātmavivekena yā buddhirdaivayogataḥ | svadharmāsaktacittasya tadyogo yoga ucyate 48 dharmādharmau jahātīha tathā tyukta ubhāvapi | ato yogāya yuñjīta yogo vaidheṣu kauśalam 49 dharmādharmaphale tyaktvā manīṣī vijitendriyaḥ| janmabandhavinirmuktaḥ sthānaṃ saṃyātyanāmayam 2.138.50 yadā hyajñānakāluṣyaṃ jantorbuddhiḥ kramiṣyati | tadā'sau yāti vairāgyaṃ vedavākyādiṣu kramāta 51 trayīvipratipannasya sthāṇutvaṃ yāsyate yadā| parātmanyacalā buddhistadā sa yogamāpnuyāt 52 mānasānakhilānkāmānyadā dhīmāṃstyajetpriya | svātmani svena saṃtuṣṭaḥ sthirabuddhistadocyate 53 vitṛṣṇaḥ sarvasaukhyeṣu nodvigno duḥkhasaṃgame | gatasādhvasaruḍrāgaḥ sthirabuddhistadocyate 54 yathā'yaṃ kamaṭho'ṅagāni saṃkocayati sarvataḥ | viṣayebhyastathā khāni saṃkarṣedyogatatparaḥ 55 vyāvartante'sya viṣayāstyaktāhārasya varṣmiṇaḥ| vinā rāgaṃ ca rāgo'pi dṛṣṭvā brahma vinaśyati 56 vipaścidyatate bhūpa sthitimāsthāya yoginaḥ | manthayitvendriyāṇyasya haranti balato manaḥ 57 yuktastāni vaśe kṛtvā sarvadā matparo bhaveta | saṃyatānīndriyāṇīha yasya sa kṛtadhīmataḥ 58 cintayānasya viṣayānsaṃgasteṣūpajāyate| kāmaḥ saṃvardhate tasmāttataḥ krodho'bhivarddhate 59 krodhādajñānasaṃbhūtirvibhramastu tataḥ smṛteḥ | bhraṃśātsmṛtermaterdhvaṃsastaddhvaṃsātso'pi naśyati 2.138.60 vinā dveṣaṃ ca rāgaṃ ca gocarānyasta khaiścaret | svādhīnahṛdayo vaśyaiḥ saṃtoṣaṃ sa samṛcchati 61 trividhasyāpi duḥkhasya saṃtoṣe kṣepaṇaṃ bhavet | prajñayā saṃsthitaścāyaṃ prasannahṛdayo bhavet 62 vinā prasādaṃ na matirvinā matyā na bhāvanā | vinā tāṃ na śamo bhūpa vinā tena kutaḥ sukham 63 indriyāśvānvicarato viṣayānanuvartate| yanmanastanmatiṃ hanyādaśva nāvaṃ marudyathā 64 yā rātriḥ sarvabhūtānāṃ tasyāṃ nidrāti naiva saḥ | na svapantīha te yatra sā rātristasya bhūmipa 65 saritāṃ patimāyānti vanāni sarvato yathā | āyānti taṃ tathā kāmāḥ sa nā śāntiṃ sadā labhet 66 atastānīha saṃruddhya sarvataḥ khāni mānavaḥ | svasvārthebhyaḥ pradhāvanti buddhirasya sthirā tadā 67 mamatā'haṃkṛtī tyaktvā sarvānkāmāṃśca yastyajet | nityaṃ jñānarato bhūyājjñānānmuktiṃ prayāsyati 68 enāṃ brahmadhiyaṃ bhūpa yo vijānāti daivataḥ | turīyāvasthāṃ prāpyāpi śīlānmuktiṃ sa ṛcchati69 (6346) oṃtatsaditi śrīmad gaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaṃ śāstre śrīmadādi śrīmanmahāgāṇeśvare mahāpurāṇe uttarakhaṃḍe bālacarite śrīgajānanavareṇyasaṃvāde 'sāṃkhyayogasārārthaṃ' yogonāma prathamodhyāya adhyāya 139 prāraṃbha :- vareṇya uvāca | jñānaniṣṭhā karmaniṣṭhā dvayaṃ proktaṃ tvayā vibho | avadhārya vadaikaṃ me niśreyasakaraṃ nu kim 1 gajānana uvāca | asmiṃścarācare sthityau purokte dve mayā priya | sāṃkhyānāṃ buddhiyogena vaidhayogena karmaṇām 2 anārabhbheṇa vaidhānāṃ niṣkriyaḥ puruṣo bhavet | na siddhiṃ yāti saṃtyāgātkevalātkarmaṇān nṛpa 3 kadācidakriyaḥ ko'pi kṣaṇaṃ naivāvatiṣṭhate | asvatantraḥ prakṛtijairguṇaiḥ karma ca kāryate 4 karmakārīndriyagrāmaṃ niyamyāste smaranpumān | tadgocarānmandacitto dhigācāraḥ sa bhaṇyate 5 tadgrāmaṃ saṃniyamyādau manasā karma cārabhet | indriyaiḥ karmayogaṃ yo vitṛṣṇaḥ sa paro nṛpa 6 akarmaṇaḥ śreṣṭhatamaṃ karmānīcchākṛtaṃ tu yat | varṣmaṇaḥ sthitirapyasyākarmaṇo naiva setsyati 7 asamarpya nibadhyante karma tena janā mayi | kurvīta satataṃ karmāṃnāśo'saṃgo madarpaṇam 8 madarthaṃ yāni karmāṇi tāni badhnanti na kvacit | savāsanamidaṃ karma badhnāti dehinaṃ balāt 9 varṇānsṛṣṭvā'vadaṃ cāhaṃ sayajñāṃstānpurā priya | yajñena ṛdhyatāmeṣa kāmadaḥ kalpavṛkṣavat 2.139.10 surāṃścānena prīṇadhvaṃ surāste prīṇayantu naḥ | labhadhvaṃ paramaṃ sthānanyonyaprīṇanātsthiram 11 iṣṭā devāḥ pradāsyanti bhogāniṣṭānsutarpitāḥ| tairdattāṃstānnara stebhyo'dattvā bhuṃkte sa taskaraḥ 12 hutāvaśiṣṭa bhoktāro muktāḥ syuḥ sarvapātakaiḥ | adantyeno mahāpāpā ātmahetoḥ pacanti ye 13 ūrjā bhavanti bhūtāni devādannasya saṃbhavaḥ | yajñāṃcca devasaṃbhūtistadutpattiśca vaidhataḥ 14 brahmaṇo vaidhamutpannaṃ matto brahmasamudbhavaḥ | ato yajñe ca viśvasminsthitaṃ māṃ viddhi bhūmipa 15 saṃsṛtīnāṃ mahācakraṃ krāmitavyaṃ vicakṣaṇaiḥ | sa mudā prāṇiti bhūpendriyakrīḍo'dhamo jana: 16 antarātmani yaḥ prīta ātmārāmo'khilapriyaḥ | ātmatṛpto naro yaḥ syāttasyārtho naiva vidyate 17 kāryākāryakṛtīnāṃ sa naivāpnoti śubhāśubhe| kiṃcidasya na sādhyaṃ syātsarvajantuṣu sarvadā 18 ato'saktanayā bhūpa kartavyaṃ karma jantubhiḥ | sakto'gatimavāpnoti māmavāpnoti tādṛśaḥ 19 paramāṃ siddhimāpannāḥ purā rājarṣayo dvijāḥ | saṃgrahāya hi lokānāṃ tādṛśaṃ karma cārabhet 2.139.20 śreyānyatkurute karma tatkarotyakhilo janaḥ | manute yatpramāṇaṃ sa tadevānusaratyasau 21 viṣṭape me na sādhyo'sti kaścidartho narādhipa | anālabdhaśca labdhavyaḥ kurve karma tathāpyaham 22 na kurve'haṃ yadā karma svatantro'lasabhāvitaḥ| kariṣyanti mama dhyānaṃ sarve varṇā mahāmate 23 bhaviṣyanti tato lokā ucchinnāḥ saṃpradāyinaḥ | hantā syāmasya lokasya vidhātā saṃkarasya ca 24 kāmino hi sadā kāmairajñānātkarmakāriṇaḥ | lokānāṃ saṃgrahāyaitadviddhānkuryādasaktadhīḥ 25 vibhinnatvamatiṃ jahyādajñānāṃ karmacāriṇām | yogayuktaḥ sarvakarmāṇyarpayenmayi karmakṛta 26 avidyāguṇasācivyātkurvakarmāṇyatandritaḥ | ahaṃkārānmandabuddhirahaṃ karteti yo'bravīt 27 yastu vettyātmanastattvaṃ vibhāgād guṇakarmaṇoḥ | karaṇaṃ viṣaye vṛttamiti matvā na sajjate 28 kuvanti saphalaṃ karma guṇaistribhirvimohitāḥ | aviśvajñāsvātmadruho viśvavinnaiva laṅaghayeta 29 nityaṃ naimittikaṃ tasmānmayi karmārpayedbudhaḥ | tyaktvā'haṃmamatābuddhiṃ parāṃ gatimavāpnuyāt 2.139.30 anīrṣyanto ye mayoktamidaṃ śubham | anutiṣṭhanti ye sarve muktāste'khilakarmabhiḥ 31 ye caiva nānutiṣṭhanti aśubhā hatacetasaḥ | īrṣyamāṇānmahāmūḍhānnaṣṭāṃstānviddhi me ripūn 32 tulyaṃ prakṛtyā kurute karma yajjñānavānapi | anuyāti ca tāmeva grahastatra mudhā mataḥ 33 kāmaścaiva tathā krodhaḥ khānāmartheṣu jāyate| naitayorvaśyatāṃ yāyādasya vidhvaṃsakau yataḥ 34 śasto'guṇo nijo dharmaḥ sāṃgadānyasya dharmataḥ | nije tasminmṛtiḥ śreyaḥ paratra bhayadaḥ paraḥ 35 vareṇya uvāca | pumānyatkurute pāpaṃ sa hi kena niyujyate | akāṃkṣannapi heramba preritaḥ prabalādiva 36 śrīgajānana uvāca | kāmakrodhau mahāpāpau guṇadvayasamudbhavau | nayantau vaśyatāṃ lokānviddhyetau dveṣiṇau varau 37 āvṛṇoti yathā māyā jagadvāṣpo jalaṃ yathā | varṣāmegho yathā bhānuṃ tadvatkāmo'khilāṃśca ruṭ 38 pratipattimato jñāna chāditaṃ satataṃ dviṣā | icchātmakena tarasā duṣpūreṇa ca śuṣmiṇā 39 āśritya buddhimanasī indriyāṇi sa tiṣṭhati | tairevācchāditaprajño jñāninaṃ mohayatyasau 2.139.40 tasmānniyamya tānyādau samanāṃsi naro jayet | jñānavijñānayoḥ śāntikaraṃ pāpaṃ manobhavam 41 aṃtastāni parāṇyāhustebhyaśca paramaṃ manaḥ | tato'pi hi parā buddhirātmā buddheḥ paro mataḥ 42 buddhvaivamātmanātmānaṃ saṃstabhyātmānamātmanā | hatvā śatruṃ kāmarūpaṃ paraṃ padamavāpnuyāt 43 ( 6389) oṃtatsaditi śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārtha śāstre śrīmadādi śrīmanmahāgāṇeśvare mahāpurāṇe uttarakhaṇḍe bālacarite śrīgajānanavareṇyasaṃvāde 'karmayogo' nāma dvitīyodhyāyaḥ

GnP 2 136.3

१३९॥ अध्याय १४० प्रारंभ :- श्रीगजानन उवाच । पुरा सर्गादिसमये त्रैगुण्यं त्रितनूरहम् । निर्माय चैनमवदं विष्णवे योगमुत्तमम् १ अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे । ततः परम्परायातं विदुरेनं महर्षयः २ कालेन बहुना चायं नष्टः स्याच्चरमे युगे। अश्रद्धेयो ह्यविश्वास्यो विगीतव्यश्च भूमिप ३ एनं पुराभवं योगं श्रुतवानसि मन्मुखात् । गुहयाद्गुहयतमं वेदहरस्यं परमं शुभम् ४ वरेण्य उवाच । सांप्रतं चावतीर्णोऽसि गर्भतस्त्वं गजानन । प्रोक्तवान्कथमेनं त्वं विष्णवे योगमुत्तमम ५ श्रीगजानन उवाच। अनेकानि च ते जन्मान्यतीतानि ममापि च। संस्मरे तानि सर्वाणि न स्मृतिस्तव वर्तते ६ मत्त एव महाबाहो जाता विष्ण्वादयः सुराः । मय्येव च लयं यान्ति प्रलयेषु युगे युगे ७ अहमेव परो ब्रह्मा महारुद्रोऽहमेव च । अहमेव जगत्सर्वं स्थावरं जंगमं च यत् ८ अजोऽव्ययोऽहं भूतात्माऽनादिरीश्वर एव च । आस्थाय त्रिगुणां मायां भवामि बहुयोनिषु ९ अधर्मोपचयो धर्मापचयो हि यदा भवेत् । साधून्संरक्षितुं दुष्टांस्तदात्तुं संभवाम्यहम् २.१४०.१० उच्छिद्याधर्मानिचयं धर्मसंस्थापयाम्यहम् । हन्मि दुष्टांश्च दैत्यांश्च नानालीलाकरो मुदा ११ वर्णाश्रमान्मुनीन्साधून्पालये बहुरूपधृक् । एवं यो वेत्ति संभूतीम्मम दिव्यां युगे युगे १२ तत्तत्कर्म च वीर्यं च मम रूपं समासतः । त्यक्त्वाहं ममताबुद्धिं न पुनर्भूः स जायते १३ निरीहा निर्भयारोषा मत्परा मद्यपाश्रयाः । विज्ञान तपसा शुद्धा अनेके मामुपागताः १४ येन येन हि भावेन संसेवन्ते नरोत्तमाः । तथा तथा फलं तेभ्यः प्रयच्छाम्यव्ययः स्फुटम् १५ जनाः स्युरितरे राजन्मम मार्गानुयायिनः । तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते १६ कुर्वन्ति देवताप्रीतिं वाञ्छन्तः कर्मणां फलम् । प्राप्नुवन्तीह ते लोके शीघ्रं सिद्धिं हि कर्मजाम् १७ चत्वारो हि मया वर्णा रजःसत्त्वतमोंशतः । कर्मांशतश्च संसृष्टा मृत्युलोके मया नृप १८ कर्तारमपि मां तेषामकर्तारं विदुर्बुधाः । अनादिमीश्वरं नित्यमलिप्तं कर्मजैर्गुणैः १९ निरीहं योऽभिजानाति कर्म बध्नाति नैव तम्। चक्रुः कर्माणि बुद्ध्वैवं पूर्वं पूर्वं मुमुक्षवः २.१४०.२० वासनासहितादाद्यात्संसारकारणाद्दृढात् । अज्ञानबन्धनाज्जन्तुर्बुद्ध्वायं मुच्यतेऽखिलात् २१ तदकर्मं च कर्मापि कथयाम्यधुना तव। यत्रदा मौनं गता मोहादृषयो बुद्धिशालिनः २२ तत्त्वं मुमुक्षुणा ज्ञेयं कर्माकर्मविकर्मणाम् । त्रिविधानीह कर्माणि सुनिन्नैषां गतिप्रिय २३ क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः । यस्य स्यात्स हि मर्त्येऽस्मिंल्लोके मुक्तोऽखिलार्थदृक् २४ कर्मांकुरवियोगेन यः कर्माण्यारभेन्नरः । तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् २५ फलतृष्णाविहायस्यात्सदा तृप्तो विसाधनः। उद्युक्तोऽपि क्रियां कर्तुं किंचिन्नैव करोति सः २६ निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः । केवलं वै गृहं कर्माचरन्नायाति पातकम् २७ अद्वन्द्वोऽमत्सरो भूत्वा सिद्धौसिद्ध्यौः समश्च यः । यथाप्राप्त्यीह संतुष्टः कुर्वन्कर्म न बध्यते २८ अखिलैर्विषयैर्मुक्तो ज्ञानविज्ञानवानपि । यज्ञार्थं तस्य सकलं कृतं कर्म विलीयते२९ अहमग्निर्हविर्होता हुतं यन्मयि चार्पितम् । ब्रह्माप्तव्यं च तेनाथ ब्रह्मण्येव यतो रतः२.१४०.३० योगिनः केचिदपरे दिष्टं यज्ञं वदन्ति च । ब्रह्माग्निरेव यज्ञो वै इति केचन मेनिरे ३१ संयमाग्नौ परं भूप इन्द्रियाण्युपजुह्वति । खाग्निष्वन्ये तद्विषयाञ्शब्दादीनुपजुह्वति ३२ प्राणानामिन्द्रियाणां च परे कर्माणि कृतत्स्नशः। निजात्मरसिरूपेऽग्नौ ज्ञानदीप्ते प्रजुह्वति३३ द्रव्येण तपसा वापि स्वाध्याये नापि केचन । तीव्रव्रतेन यतिनो ज्ञानेनापि यजन्ति माम् ३४ प्राणेऽपानं तथा प्राणमपाने प्रक्षिपन्ति ये । रुद्ध्वा गतींश्चोभयोस्ते प्राणायामपरायणाः ३५ जित्वा प्राणान्प्राणगतीरुपजुह्वति तेषु च । एवं नाना यज्ञरता यज्ञध्वंसितपातकाः ३६ नित्यं ब्रह्म प्रयान्त्येते यज्ञाशेषामृताशिनः । अयज्ञकारिणो लोको नायमन्यः कुतो भवेत् ३७ कायिकादित्रिधाभूतान्यज्ञान्वेदे प्रतिष्ठितान् । ज्ञात्वा तानखिलान्भूप मोक्षसेऽखिलबन्धनात् ३८ सर्वेषां भूप यज्ञानां ज्ञानयज्ञः परो मतः । अखिलं लीयते कर्म ज्ञाने मोक्षस्य साधने ३९ तज्ज्ञेयं पुरुषव्याघ्रप्रश्नेन नतितः सताम् । शुश्रूषया वदिष्यन्ति सन्तस्तत्त्वविशारदाः २.१४०.४० नानासंगान्जनः कुर्वन्नैकं साधुसमागमम् । करोति तेन संसारे बन्धनं समुपैति सः ४१ सत्संगाद्गुणसंभूतिरापदां लय एव च । स्वहितं प्राप्यते सर्वैरिह लोके परत्र च ४२ इतरत्सुलभं राजन्सत्संगोऽतीवदुर्लभः । यज्ज्ञात्वा न पुनर्बन्धमेति ज्ञेयं ततो यतः ४३ ततः सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति । अतिपापरतो जन्तुस्ततस्तस्मात्प्रमुच्यते ४४ विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् । प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात् ४५ न ज्ञानं समतामेति पवित्रमितरन्नृप । आत्मन्येवावगच्छन्ति योगात्कालेन योगिनः ४६ भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात् । लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ ४७ भक्तिहीनो ऽश्रद्दधानः सर्वत्रसंशयी तु यः। तस्य शं नापि विज्ञातमिह लोके न चापरे ४८ आत्मज्ञानरतं ज्ञाननाशिताखिलसंशयम । योगास्ताखिलकर्माणं बध्नन्ति भूप तानि न ४९ ज्ञानखड्गप्रहारेण संभूतामज्ञतां बलात्। छित्त्वाऽन्तसंशयं तस्माद्योगयुक्तो भवेन्नरः २.१४०.५० (६४३९) ओं तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थं शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखंडे बालचरिते श्रीगजाननवरेण्यसंवादे ब्रह्मार्पणयोगो नाम तृतीयोध्यायः

139|| adhyāya 140 prāraṃbha :- śrīgajānana uvāca | purā sargādisamaye traiguṇyaṃ tritanūraham | nirmāya cainamavadaṃ viṣṇave yogamuttamam 1 aryamṇe so'bravītso'pi manave nijasūnave | tataḥ paramparāyātaṃ vidurenaṃ maharṣayaḥ 2 kālena bahunā cāyaṃ naṣṭaḥ syāccarame yuge| aśraddheyo hyaviśvāsyo vigītavyaśca bhūmipa 3 enaṃ purābhavaṃ yogaṃ śrutavānasi manmukhāt | guhayādguhayatamaṃ vedaharasyaṃ paramaṃ śubham 4 vareṇya uvāca | sāṃprataṃ cāvatīrṇo'si garbhatastvaṃ gajānana | proktavānkathamenaṃ tvaṃ viṣṇave yogamuttamama 5 śrīgajānana uvāca| anekāni ca te janmānyatītāni mamāpi ca| saṃsmare tāni sarvāṇi na smṛtistava vartate 6 matta eva mahābāho jātā viṣṇvādayaḥ surāḥ | mayyeva ca layaṃ yānti pralayeṣu yuge yuge 7 ahameva paro brahmā mahārudro'hameva ca | ahameva jagatsarvaṃ sthāvaraṃ jaṃgamaṃ ca yat 8 ajo'vyayo'haṃ bhūtātmā'nādirīśvara eva ca | āsthāya triguṇāṃ māyāṃ bhavāmi bahuyoniṣu 9 adharmopacayo dharmāpacayo hi yadā bhavet | sādhūnsaṃrakṣituṃ duṣṭāṃstadāttuṃ saṃbhavāmyaham 2.140.10 ucchidyādharmānicayaṃ dharmasaṃsthāpayāmyaham | hanmi duṣṭāṃśca daityāṃśca nānālīlākaro mudā 11 varṇāśramānmunīnsādhūnpālaye bahurūpadhṛk | evaṃ yo vetti saṃbhūtīmmama divyāṃ yuge yuge 12 tattatkarma ca vīryaṃ ca mama rūpaṃ samāsataḥ | tyaktvāhaṃ mamatābuddhiṃ na punarbhūḥ sa jāyate 13 nirīhā nirbhayāroṣā matparā madyapāśrayāḥ | vijñāna tapasā śuddhā aneke māmupāgatāḥ 14 yena yena hi bhāvena saṃsevante narottamāḥ | tathā tathā phalaṃ tebhyaḥ prayacchāmyavyayaḥ sphuṭam 15 janāḥ syuritare rājanmama mārgānuyāyinaḥ | tathaiva vyavahāraṃ te sveṣu cānyeṣu kurvate 16 kurvanti devatāprītiṃ vāñchantaḥ karmaṇāṃ phalam | prāpnuvantīha te loke śīghraṃ siddhiṃ hi karmajām 17 catvāro hi mayā varṇā rajaḥsattvatamoṃśataḥ | karmāṃśataśca saṃsṛṣṭā mṛtyuloke mayā nṛpa 18 kartāramapi māṃ teṣāmakartāraṃ vidurbudhāḥ | anādimīśvaraṃ nityamaliptaṃ karmajairguṇaiḥ 19 nirīhaṃ yo'bhijānāti karma badhnāti naiva tam| cakruḥ karmāṇi buddhvaivaṃ pūrvaṃ pūrvaṃ mumukṣavaḥ 2.140.20 vāsanāsahitādādyātsaṃsārakāraṇāddṛḍhāt | ajñānabandhanājjanturbuddhvāyaṃ mucyate'khilāt 21 tadakarmaṃ ca karmāpi kathayāmyadhunā tava| yatradā maunaṃ gatā mohādṛṣayo buddhiśālinaḥ 22 tattvaṃ mumukṣuṇā jñeyaṃ karmākarmavikarmaṇām | trividhānīha karmāṇi suninnaiṣāṃ gatipriya 23 kriyāyāmakriyājñānamakriyāyāṃ kriyāmatiḥ | yasya syātsa hi martye'smiṃlloke mukto'khilārthadṛk 24 karmāṃkuraviyogena yaḥ karmāṇyārabhennaraḥ | tattvadarśananirdagdhakriyamāhurbudhā budham 25 phalatṛṣṇāvihāyasyātsadā tṛpto visādhanaḥ| udyukto'pi kriyāṃ kartuṃ kiṃcinnaiva karoti saḥ 26 nirīho nigṛhītātmā parityaktaparigrahaḥ | kevalaṃ vai gṛhaṃ karmācarannāyāti pātakam 27 advandvo'matsaro bhūtvā siddhausiddhyauḥ samaśca yaḥ | yathāprāptyīha saṃtuṣṭaḥ kurvankarma na badhyate 28 akhilairviṣayairmukto jñānavijñānavānapi | yajñārthaṃ tasya sakalaṃ kṛtaṃ karma vilīyate29 ahamagnirhavirhotā hutaṃ yanmayi cārpitam | brahmāptavyaṃ ca tenātha brahmaṇyeva yato rataḥ2.140.30 yoginaḥ kecidapare diṣṭaṃ yajñaṃ vadanti ca | brahmāgnireva yajño vai iti kecana menire 31 saṃyamāgnau paraṃ bhūpa indriyāṇyupajuhvati | khāgniṣvanye tadviṣayāñśabdādīnupajuhvati 32 prāṇānāmindriyāṇāṃ ca pare karmāṇi kṛtatsnaśaḥ| nijātmarasirūpe'gnau jñānadīpte prajuhvati33 dravyeṇa tapasā vāpi svādhyāye nāpi kecana | tīvravratena yatino jñānenāpi yajanti mām 34 prāṇe'pānaṃ tathā prāṇamapāne prakṣipanti ye | ruddhvā gatīṃścobhayoste prāṇāyāmaparāyaṇāḥ 35 jitvā prāṇānprāṇagatīrupajuhvati teṣu ca | evaṃ nānā yajñaratā yajñadhvaṃsitapātakāḥ 36 nityaṃ brahma prayāntyete yajñāśeṣāmṛtāśinaḥ | ayajñakāriṇo loko nāyamanyaḥ kuto bhavet 37 kāyikāditridhābhūtānyajñānvede pratiṣṭhitān | jñātvā tānakhilānbhūpa mokṣase'khilabandhanāt 38 sarveṣāṃ bhūpa yajñānāṃ jñānayajñaḥ paro mataḥ | akhilaṃ līyate karma jñāne mokṣasya sādhane 39 tajjñeyaṃ puruṣavyāghrapraśnena natitaḥ satām | śuśrūṣayā vadiṣyanti santastattvaviśāradāḥ 2.140.40 nānāsaṃgānjanaḥ kurvannaikaṃ sādhusamāgamam | karoti tena saṃsāre bandhanaṃ samupaiti saḥ 41 satsaṃgādguṇasaṃbhūtirāpadāṃ laya eva ca | svahitaṃ prāpyate sarvairiha loke paratra ca 42 itaratsulabhaṃ rājansatsaṃgo'tīvadurlabhaḥ | yajjñātvā na punarbandhameti jñeyaṃ tato yataḥ 43 tataḥ sarvāṇi bhūtāni svātmanyevābhipaśyati | atipāparato jantustatastasmātpramucyate 44 vividhānyapi karmāṇi jñānāgnirdahati kṣaṇāt | prasiddho'gniryathā sarvaṃ bhasmatāṃ nayati kṣaṇāt 45 na jñānaṃ samatāmeti pavitramitarannṛpa | ātmanyevāvagacchanti yogātkālena yoginaḥ 46 bhaktimānindriyajayī tatparo jñānamāpnuyāt | labdhvā tatparamaṃ mokṣaṃ svalpakālena yātyasau 47 bhaktihīno 'śraddadhānaḥ sarvatrasaṃśayī tu yaḥ| tasya śaṃ nāpi vijñātamiha loke na cāpare 48 ātmajñānarataṃ jñānanāśitākhilasaṃśayama | yogāstākhilakarmāṇaṃ badhnanti bhūpa tāni na 49 jñānakhaḍgaprahāreṇa saṃbhūtāmajñatāṃ balāt| chittvā'ntasaṃśayaṃ tasmādyogayukto bhavennaraḥ 2.140.50 (6439) oṃ tatsaditi śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaṃ śāstre śrīmadādi śrīmanmahāgāṇeśvare mahāpurāṇe uttarakhaṃḍe bālacarite śrīgajānanavareṇyasaṃvāde brahmārpaṇayogo nāma tṛtīyodhyāyaḥ

GnP 2 136.136

अध्याय १३६ प्रारंभ :- क उवाच । एकस्मिन्दिवसे देवो जगाद मुनिसत्तमम् । पराशरं महाभाग्यं परदुःखप्रपीडितः १ गजानन उवाच। सिन्दूरेण तु दुष्टेन पीडितं सकलं जगत् । स्वाहास्वधावषट्कारैर्वर्जितं वेदघोषतः २ स्थानभ्रष्टा देवगणा भ्रष्टा ऋषिगणास्तथा । गजाननस्वरूपेण करिष्ये दुष्टनाशनम् ३ साधूनां पालनं चैव भूभारहरणं तथा । स्थापनं सर्वदेवानामानन्दं जगतोऽपि च ४ निधेहि मस्तके तात पाणिं मेऽभयदं शुभम् । अनुग्रहप्रसादात्ते हनिष्ये दुष्टदानवान् ५ मुनिरुवाच । आश्चर्यं परमं बाल बालभावात्प्रभाषसे । बालकः कौतुकाविष्टो याचते चन्द्रमण्डलम् ६ असाध्यं त्रिदशैः सर्वैः कर्म कर्तुं तथेच्छसि । यस्य श्वासेन गिरयः पतन्ति शतशो भुवि ७ पादाघातेन यस्याशु कम्पते भुवनत्रयम्। कथं त्वं युध्यसे तेन बिसतन्तुशरीरवान् ८ चरित्वा नववर्षाणि पूर्णानि तव सांप्रतम् । ममानुग्रहमात्रेण त्वं चेच्छक्तो भविष्यसि ९ तदाऽयं निहितो हस्तो मस्तकेऽभयदायकः । क उवाच । ततो हर्षयुतो देवो नमस्कृत्य मुनिं तदा २.१३६.१० जननीमपि दुर्गां च श्रीहरिं हरमेव च। ययौ योद्धुं मूषकं तमारुह्य स गजाननः ११ अङ्कुशं परशुं पाशं कमलं च चतुर्भुजैः। दधानो गर्जनेनाशु कम्पयन्भुवनत्रयम् १२ प्रज्वलंस्तेजसा स्वेन प्रलयानलसन्निभः । क्षणेन प्राप सिन्दूरनगरं स गजाननः १३ घूसृणेश्वरसान्निध्यात्सिद्धसिन्दूरवाडकम् । तत्रस्थः प्रशशासासौ सिन्दूरो भुवनत्रयम् १४ तदुत्तरे स्थितो देवो जगर्ज गर्जयन्दिशः । चुक्षुभुः सागराः सप्त विशीर्णा गिरयोऽपि च १५ श्रुत्वा निनादं तस्याशु सर्वदैत्याश्चकम्पिरे । मुमूर्च्छुर्भीरवः सर्वे केचिन्मृत्युमुपाययुः १६ सिन्दूरोऽपि मुमूर्च्छाशु क्षणेन प्रकृतिं ययौ । उवाच सेवकान्सर्वान्कोऽयं गर्जति दृश्यताम् १७ मूर्छा प्राप्ता मया कस्माद्यच्छब्देन पुरः कथम् । स्थास्यामि तत्परः स्थातुं कस्य शक्तिर्भविष्यति १८ ततस्ते सेवका जग्मुस्तदा बालसमीपतः । तद्रूपं ते निरीक्ष्यैव सिंहस्य करिणो यथा १९ बिभुश्चैव चकम्पुश्च केचिद्धैर्यात्तमब्रुवन् । कस्य त्वं कुत आयातः किमर्थं तव नाम किम् २.१३६.२० सिन्दूरो विश्वसंहाररसिकः क्रोधसंयुतः। श्रुत्वा ते क्रन्दितं सर्वं कम्पितं च ससिन्दुरम् २१ बालोऽपि बलवान्भासि चतुःपंचाद्विकोऽपि च । दृश्यसे सर्वसंहारकारणाय क्षमः क्षणात् २२ एवमाकर्ण्य तद्वाक्यं प्रोवाच स च तान्विभुः । अहं शिवसुतः ख्यातः पराशरगृहे वसन् २३ दृष्टसंहाररसिको भक्तपालनतत्परः। नानावतारकुशलो ब्रह्मादीनामगोचरः २४ गजाननेति मे नाम युद्धं कर्तुं समागतः । स्वामिनं वोऽथ गच्छन्तु तस्मै सर्वं ब्रुवन्तु च २५ तस्मिन्हते मानसं मे तोषमेष्यति दुर्जये । क उवाच। ततस्ते निर्ययुः शीघ्रं सिन्दूरं प्राब्रुवन्वचः २६ दूता ऊचुः । वयं शीघ्रतरं याताः पुरुष भवदाज्ञया । कृतान्तसदृशं तं तु दृष्ट्वा सर्वे च कम्पिता २७ ततोऽभवत्प्रतापेन तदग्रे प्राब्रुवाम च । ततस्तेन समाख्यातं निजं सर्वं समासतः २८ गजानननेति नामास्य शिवपुत्रत्वमेव च । दुष्टदैत्यविनाशाय साधूनां पालनाय च २९ सांप्रतम् तु त्वया सार्द्धं युद्धाय समुपागतः । स चतुर्वार्षिको बालो वल्गते बहुविस्तरम् २.१३६.३० इदानीं स्वस्वभावेन जहि शत्रुं निजं लघुं । तव तु श्वासमात्रेण दूरे गच्छेदयं शिशुः ३१ यस्य ते दर्शनात्स्वामिंश्चकंपः शिवकादयः । तस्य ते गणना कास्ति बालकस्याल्पमेधसः ३२ क उवाच । एवं दूतवचः श्रुत्वा सिंदूरश्चिन्तयातुरः। बभूव म्लानतुण्डश्च क्रोधारुणविलोचनः ३३ उद्वमन्नयनाद्वह्निं प्रलयानलसन्निभम् । उवाच दूतान्क्रोधेन हर्षेण च समन्वितः ३४ स उवाच । आश्चर्यं परमं दूता भवद्वचसि मेऽभवत । सिंहेन सह योद्धुं वै मशकः कथमेष्यति ३५ चतुर्वर्षेण बालेन योद्धव्यं किं मया सह । यूयं ततः कथं भीता न जाने तत्र कारणम् ३६ मयि क्रुद्धे जगन्नश्येत्तत्र का गणनाऽस्य ह । जगर्ज गर्जयन्व्योम दिशोऽपि विदिशोऽपि च ३७ धृत्वा शस्त्राणि चात्राणि निर्ययौ युद्धलालसः। तत ऊचुरमात्यास्तं नमस्कृत्यासुराधिपम् ३८ सत्सु बलेष्वमात्येषु कथं ग्रासि स्वयं रणम् । वयं तं हि हनिष्यामः प्रतापात्तव दैत्यप ३९ समयार्थं महत्सैन्यं पाल्यते सोऽयमागतः । प्राणांस्त्यक्ष्यामहे सर्वे तव हेतोर्महाप्रभो २.१३६.४० अनुजानीहि यास्यामो हन्तुं बालं रिपुं तव । सिन्दूर उवाच । यामि सर्वे प्रपश्यन्तु पौरुषं मम सैनिका ४१ इत्युक्त्वा प्रययो शीघ्रं बालं हन्तुं सुमुत्सुकः । स प्राप क्षणमात्रेण यत्र बालः स्थितोऽभवत् ४२ (६२१६)

adhyāya 136 prāraṃbha :- ka uvāca | ekasmindivase devo jagāda munisattamam | parāśaraṃ mahābhāgyaṃ paraduḥkhaprapīḍitaḥ 1 gajānana uvāca| sindūreṇa tu duṣṭena pīḍitaṃ sakalaṃ jagat | svāhāsvadhāvaṣaṭkārairvarjitaṃ vedaghoṣataḥ 2 sthānabhraṣṭā devagaṇā bhraṣṭā ṛṣigaṇāstathā | gajānanasvarūpeṇa kariṣye duṣṭanāśanam 3 sādhūnāṃ pālanaṃ caiva bhūbhāraharaṇaṃ tathā | sthāpanaṃ sarvadevānāmānandaṃ jagato'pi ca 4 nidhehi mastake tāta pāṇiṃ me'bhayadaṃ śubham | anugrahaprasādātte haniṣye duṣṭadānavān 5 muniruvāca | āścaryaṃ paramaṃ bāla bālabhāvātprabhāṣase | bālakaḥ kautukāviṣṭo yācate candramaṇḍalam 6 asādhyaṃ tridaśaiḥ sarvaiḥ karma kartuṃ tathecchasi | yasya śvāsena girayaḥ patanti śataśo bhuvi 7 pādāghātena yasyāśu kampate bhuvanatrayam| kathaṃ tvaṃ yudhyase tena bisatantuśarīravān 8 caritvā navavarṣāṇi pūrṇāni tava sāṃpratam | mamānugrahamātreṇa tvaṃ cecchakto bhaviṣyasi 9 tadā'yaṃ nihito hasto mastake'bhayadāyakaḥ | ka uvāca | tato harṣayuto devo namaskṛtya muniṃ tadā 2.136.10 jananīmapi durgāṃ ca śrīhariṃ harameva ca| yayau yoddhuṃ mūṣakaṃ tamāruhya sa gajānanaḥ 11 aṅkuśaṃ paraśuṃ pāśaṃ kamalaṃ ca caturbhujaiḥ| dadhāno garjanenāśu kampayanbhuvanatrayam 12 prajvalaṃstejasā svena pralayānalasannibhaḥ | kṣaṇena prāpa sindūranagaraṃ sa gajānanaḥ 13 ghūsṛṇeśvarasānnidhyātsiddhasindūravāḍakam | tatrasthaḥ praśaśāsāsau sindūro bhuvanatrayam 14 taduttare sthito devo jagarja garjayandiśaḥ | cukṣubhuḥ sāgarāḥ sapta viśīrṇā girayo'pi ca 15 śrutvā ninādaṃ tasyāśu sarvadaityāścakampire | mumūrcchurbhīravaḥ sarve kecinmṛtyumupāyayuḥ 16 sindūro'pi mumūrcchāśu kṣaṇena prakṛtiṃ yayau | uvāca sevakānsarvānko'yaṃ garjati dṛśyatām 17 mūrchā prāptā mayā kasmādyacchabdena puraḥ katham | sthāsyāmi tatparaḥ sthātuṃ kasya śaktirbhaviṣyati 18 tataste sevakā jagmustadā bālasamīpataḥ | tadrūpaṃ te nirīkṣyaiva siṃhasya kariṇo yathā 19 bibhuścaiva cakampuśca keciddhairyāttamabruvan | kasya tvaṃ kuta āyātaḥ kimarthaṃ tava nāma kim 2.136.20 sindūro viśvasaṃhārarasikaḥ krodhasaṃyutaḥ| śrutvā te kranditaṃ sarvaṃ kampitaṃ ca sasinduram 21 bālo'pi balavānbhāsi catuḥpaṃcādviko'pi ca | dṛśyase sarvasaṃhārakāraṇāya kṣamaḥ kṣaṇāt 22 evamākarṇya tadvākyaṃ provāca sa ca tānvibhuḥ | ahaṃ śivasutaḥ khyātaḥ parāśaragṛhe vasan 23 dṛṣṭasaṃhārarasiko bhaktapālanatatparaḥ| nānāvatārakuśalo brahmādīnāmagocaraḥ 24 gajānaneti me nāma yuddhaṃ kartuṃ samāgataḥ | svāminaṃ vo'tha gacchantu tasmai sarvaṃ bruvantu ca 25 tasminhate mānasaṃ me toṣameṣyati durjaye | ka uvāca| tataste niryayuḥ śīghraṃ sindūraṃ prābruvanvacaḥ 26 dūtā ūcuḥ | vayaṃ śīghrataraṃ yātāḥ puruṣa bhavadājñayā | kṛtāntasadṛśaṃ taṃ tu dṛṣṭvā sarve ca kampitā 27 tato'bhavatpratāpena tadagre prābruvāma ca | tatastena samākhyātaṃ nijaṃ sarvaṃ samāsataḥ 28 gajānananeti nāmāsya śivaputratvameva ca | duṣṭadaityavināśāya sādhūnāṃ pālanāya ca 29 sāṃpratam tu tvayā sārddhaṃ yuddhāya samupāgataḥ | sa caturvārṣiko bālo valgate bahuvistaram 2.136.30 idānīṃ svasvabhāvena jahi śatruṃ nijaṃ laghuṃ | tava tu śvāsamātreṇa dūre gacchedayaṃ śiśuḥ 31 yasya te darśanātsvāmiṃścakaṃpaḥ śivakādayaḥ | tasya te gaṇanā kāsti bālakasyālpamedhasaḥ 32 ka uvāca | evaṃ dūtavacaḥ śrutvā siṃdūraścintayāturaḥ| babhūva mlānatuṇḍaśca krodhāruṇavilocanaḥ 33 udvamannayanādvahniṃ pralayānalasannibham | uvāca dūtānkrodhena harṣeṇa ca samanvitaḥ 34 sa uvāca | āścaryaṃ paramaṃ dūtā bhavadvacasi me'bhavata | siṃhena saha yoddhuṃ vai maśakaḥ kathameṣyati 35 caturvarṣeṇa bālena yoddhavyaṃ kiṃ mayā saha | yūyaṃ tataḥ kathaṃ bhītā na jāne tatra kāraṇam 36 mayi kruddhe jagannaśyettatra kā gaṇanā'sya ha | jagarja garjayanvyoma diśo'pi vidiśo'pi ca 37 dhṛtvā śastrāṇi cātrāṇi niryayau yuddhalālasaḥ| tata ūcuramātyāstaṃ namaskṛtyāsurādhipam 38 satsu baleṣvamātyeṣu kathaṃ grāsi svayaṃ raṇam | vayaṃ taṃ hi haniṣyāmaḥ pratāpāttava daityapa 39 samayārthaṃ mahatsainyaṃ pālyate so'yamāgataḥ | prāṇāṃstyakṣyāmahe sarve tava hetormahāprabho 2.136.40 anujānīhi yāsyāmo hantuṃ bālaṃ ripuṃ tava | sindūra uvāca | yāmi sarve prapaśyantu pauruṣaṃ mama sainikā 41 ityuktvā prayayo śīghraṃ bālaṃ hantuṃ sumutsukaḥ | sa prāpa kṣaṇamātreṇa yatra bālaḥ sthito'bhavat 42 (6216)

GnP 2 136.137

अध्याय १३७ प्रारंभ :- क उवाच । तं दृष्टवा बालकं प्राह सिन्दूरो मदगर्वितः । लज्जा मे जायते मन्द युध्यतो बालकेन ह १ याहि शीघ्रं गृहं बाल पिब मातुः स्तनं मुदा । वृथा मच्छरपातेन सद्यो मृत्युमुपैष्यसि २ पलायन्ते हि माँ दृष्ट्वा केशाद्यास्त्रि दिवौकसः। मृते त्वयि तव स्नेहात्पितरौ ते मरिष्यतः ३ अतो गच्छ न मे स्वास्यं दर्शयस्व किशोरक। यस्य मे तलघातेन ब्रह्माण्डं शतधा भवेत् ४ देव उवाच । सत्यमुक्तं त्वया दुष्ट न चेतसि विचारितम् । न ज्ञातं मम सामर्थ्यं रूपं वा विविधं त्वया ५ यस्य मे क्रोधदृष्ट्यैव भ्रष्टाः स्युः सुरनायकाः । स्वेच्छयाऽहं सृजे भावैस्त्रिभिरेव हरामि च ६ विश्वं चराचरं नानारूपवांस्तु युगे युगे। भूमि भारं महाघोरं हरामि दुष्टनाशनात् ७ न लघुर्लघुतामेति पराक्रमयुतोऽपि चेत । अणुमात्रो दहेद्वह्निः सकलं नगरं महत्८ जिजीविषुश्चेद्गच्छ त्वं नत्वा मां निजमन्दिरम्। मानिनो नैव निघ्नन्ति नतं च शरणागतम् ९ नो चेन्मच्छस्त्रपातेन स्वर्गलोकं गमिष्यसि। हते त्वयि सुखं यास्ये त्वया यत्पीडितं जगत् २.१३७.१० ब्रह्मणो वरदानेन मा गर्वं कुरु दैत्यराट्। विपरीतं भवेत्सर्वं विपरीतं यथा पुरा ११ स्तम्भेऽवतीर्ण न्यहनद्धिरण्यकशिपुं विभुः । सुग्रीवेण हतो बन्धू राममाश्रित्य कालतः १२ विपरीता मतिर्जाता तवापि कालयोगतः। अतिस्थूलो लघुतरो भाससे मम सांप्रतम् १३ धृत्वा धैर्यं च लज्जां च युद्धं कुरु मया सह। क उवाच । एवमुक्त्वा दधाराशु विराड्रूपं गजाननः १४ ब्रह्माण्डादूर्ध्वमगमन्मस्तकश्चरणौ तथा। पातालानि च सप्तानि भित्त्वा यातौ श्रुती दिशः १५ पश्यति स्म यदा दैत्यो बालं तं विश्वरूपिणम् । सहस्रशिरसं देवं सहस्राक्षं दिवो भुवम् १६ सहस्रपादं व्याप्याशु स्थितं व्याप्य दिशो दश । दिव्याम्बरं दिव्यगन्धं दिव्यालंकारभूषितम् १७ असंख्यसूर्यसदृशमसंख्यरूपिणं विभुम् । एवं दृष्ट्वा विराड्रूपं चकम्पे दैत्यमानसम् १८ धृत्वा धैर्यं पुनर्दैत्यो ययौ देवस्य सन्निधौ। जगर्ज गर्जयन्व्योम दिशोऽपि विदिशोऽपि च १९ उद्यम्य खड्गं सहसा देवं हन्तुमियेष सः । ययौ तत्पुरतः क्रोधात्पतंगो ज्वलनं यथा २.१३७.२० देव उवाच । नायं मूढो विजानीते स्वरूपं मम दुर्लभम् । अहमेव विमोक्ष्यामीत्युक्त्वा कण्ठे दधार तम् २१ ममर्द सिन्दुरं तं स कराभ्यां बलवत्तरम् । ततस्तदसृजांगानि विलिलिम्पारुणेन स जः२२ ततः सिन्दूरवदनसिन्दूरप्रिय एव च। अभवज्जगतीख्यातो भक्तकामप्रपूरकः२३ सिन्दूरे निहते देवा मुदा पुष्पाण्यवाकिरन् । अवाद्यञ्जयवाद्यानि ननृतुश्चाप्सरोगणाः २४ आययुस्तत्र मुनयो वसिष्ठप्रमुखाः सुराः । ब्रह्माद्याः सकलाः शक्रपुरोगा वस्तुपाणयः २५ जयशब्दैर्नमः शब्दैः पूरयन्तो दिशो दश । ततः सर्वे भूमिपाला ययुस्तत्र मुदान्विताः २६ षोडशैरुपचारैस्तमानर्चुः परमेश्वरम् । गजाननं चतुर्बाहुं सर्वाभरणभूषितम् २७ दिव्याम्बरं दिव्यगन्धमाखुवाहनमीश्वरम् । प्रार्थयामासुरिन्द्राद्याः स्तोतुं त्वां न हि शक्नुमः २८ यत्र कुण्ठाश्चतुर्वेदा ब्रह्माद्याश्च मुनीश्वराः । त्वं कर्ता कारणं कार्यं रक्षकः पोषकोऽपि च २९ संहर्ता मोहनश्चास्य विश्वस्य ज्ञानदः क्वचित् । सरितः सागरा वृक्षाः पर्वताः पशवोऽखिलाः २.१३७.३० वायुराकाश पृथिवी वह्निर्वारि त्वमेव च। ब्रह्मा विष्णुः शिवः शक्रो मरुतो मुनयोऽपि च ३१ गन्धर्वाश्चारणाः सिद्धा यक्षराक्षसपन्नगा। अप्सरःकिन्नरा देव त्वमेव स चराचरम् ३२ वयं धन्यायतो दृष्टः प्रत्यक्षं मोक्षसाधनः । सिन्दूरे तु हते देव सुखं प्राप्ताः सुरोत्तमाः ३३ राजानो मुनयो लोकाः स्वस्वकार्ये मुदारताः । भविष्यन्ति स्वधास्वाहावषट्काराश्रिताः क्रियाः ३४ नानावतारैः कुरुषे पालनं त्वं विशेषतः। दुष्टानां नाशनं सद्यो भक्तानां कामपूरकः ३५ क उवाच । एवमुक्त्वा सुरास्तं तु व्यदधुः सर्व एव ते । प्रासादं रम्यशिखरं स्थापयित्वा गजाननम् ३६ यस्य दर्शनमात्रेण मुच्यते पातकाज्जनः । कुलानि तारयेत्सप्त स्मरणादस्य मानवः ३७ पूजयित्वा प्रणम्यैनं परितृप्तिं ययुः सुराः । ततस्तं मुनयः सर्वे पुपूजुः परमादरात् ३८ सिन्दूरहेति नामास्य चक्रुः सिन्दूरनाशनात् ।। अतिसंतुष्टमनसो नत्वा जग्मुः स्वमाश्रमम् ३९ ततः सर्वे मुनिवरा नत्वा देवं सभक्तितः । पुपूजुः परमात्मानं नानाद्रव्यैरनेकशः २.१३७.४० राजसदनमिति ते क्षेत्रं ख्यातिमुपैष्यति । वरेण्यस्तं विलोक्यैव निजपुत्रमबुध्यत ४१ यतो राज्ञां पदान्याशु हत्वा दैत्यं सुदारुणम् । दत्तानि भवता नाथ सिन्दूरं लोककण्टकम् ४२ दैत्यविमर्दन इति नाम ख्यातिमुपैष्यति । पुपूज तनयं स्नेहात्तदा दृष्टपराक्रमम् ४३ मुमोच स्नेहजं चाश्रु न शशाक प्रभाषितुम् । अतिगद्गदकण्ठत्वाद्रुरोद भृशदुःखितः ४४ वरेण्य उवाच । मूढभावेन संत्यक्तो विघ्नभीतेन पापिना । यं त्वां पूजयितुं याता ब्रह्म शक्रपुरोगमाः ४५ अनन्तकोटिब्रह्माण्डनायकं त्वां न विद्महे । कामधेनुं निधिंकल्पवृक्षं मूढो यथा त्यजेत् ४६ मायया मोहितस्तेऽहमत्यजं त्वां तथा गृहात् । क उवाच । इति तच्छुचमाकर्ण्य कृपया परमेश्वरः ४७ आलिलिंग वरेण्यं तं चतुर्बाहुभिरादरात् । उवाच परया भक्त्या वरेण्यनृपतिं विभुः ४८ देव उवाच । पुराकल्पे महारण्ये तपस्तप्तं सुदारुणम् । उभाभ्यां पक्वपर्णानि भक्षयित्वा वटस्य ह ४९ दिव्यवर्षसहस्रेण प्रसन्नोऽहं तदाऽभवम् । भवद्भ्यां हि वृतः पुत्रो न मोक्षो मूढभावतः २.१३७.५० सोऽहं पुत्रत्वमापन्नो भूभारहरणाय च । सिन्दूरस्य वधं कर्तुं साधूनां पालनं तथा ५१ अन्यथा न शरीरं मे निराकारस्य साक्षिणः । वचनं तु कृतं सत्यं त्रैलोक्यस्यापि तोषणम् ५२ यास्येऽधुना निजं धाम न त्वं शोके मनः कृथाः । वरेण्य उवाच । संसारे बहुदुःखानि दृष्टानि दुःसहानि च ५३ इदानीं मोक्षमार्गं मे कृपया दिश दुःखहन् । साक्षात्कारे कथं बन्धस्तव स्याद्द्विरदानन ५४ येनोपदेशेन मुक्तिं यास्यामि तद्वदस्व मे । योगं तं येन संत्यक्षे कामं क्रोधं मृतेर्भयम् ५५ क उवाच । एवमाकर्ण्य तद्वाक्यं कृपया स गजाननः । उपवेश्य स्वासने तं हस्तं शिरसि चादधत् ५६ गणेशगीतां तस्मै स उपदेष्टुं प्रचक्रमे । निरस्य सर्वसंदेहान्विश्वरूपं प्रदर्श्य च ५७ गीतासारं स युद्ध्वैवः गणेशस्योपदेशतः । स्थाप्य राज्यममात्येषु तपसे वनमाययौ ५८ अतिवैराग्यसंयुक्तो दध्यौ तं च गजाननम् । आवर्तयत्सदा गीतामनन्यविषयकृती ५९ यथा जलं जले क्षिप्तं जलमेव हि जायते । तथा तद्ध्यानतः सोऽपि तन्मयत्वमुपाययौ २.१३७.६० मुनिरुवाच । चतुरानन देवेश कृपया परया वद । गीतां तां तु गणेशस्य सर्वाज्ञानविनाशनीम् ६१ ( ६२७७ )

adhyāya 137 prāraṃbha :- ka uvāca | taṃ dṛṣṭavā bālakaṃ prāha sindūro madagarvitaḥ | lajjā me jāyate manda yudhyato bālakena ha 1 yāhi śīghraṃ gṛhaṃ bāla piba mātuḥ stanaṃ mudā | vṛthā maccharapātena sadyo mṛtyumupaiṣyasi 2 palāyante hi mā~ dṛṣṭvā keśādyāstri divaukasaḥ| mṛte tvayi tava snehātpitarau te mariṣyataḥ 3 ato gaccha na me svāsyaṃ darśayasva kiśoraka| yasya me talaghātena brahmāṇḍaṃ śatadhā bhavet 4 deva uvāca | satyamuktaṃ tvayā duṣṭa na cetasi vicāritam | na jñātaṃ mama sāmarthyaṃ rūpaṃ vā vividhaṃ tvayā 5 yasya me krodhadṛṣṭyaiva bhraṣṭāḥ syuḥ suranāyakāḥ | svecchayā'haṃ sṛje bhāvaistribhireva harāmi ca 6 viśvaṃ carācaraṃ nānārūpavāṃstu yuge yuge| bhūmi bhāraṃ mahāghoraṃ harāmi duṣṭanāśanāt 7 na laghurlaghutāmeti parākramayuto'pi ceta | aṇumātro dahedvahniḥ sakalaṃ nagaraṃ mahat8 jijīviṣuścedgaccha tvaṃ natvā māṃ nijamandiram| mānino naiva nighnanti nataṃ ca śaraṇāgatam 9 no cenmacchastrapātena svargalokaṃ gamiṣyasi| hate tvayi sukhaṃ yāsye tvayā yatpīḍitaṃ jagat 2.137.10 brahmaṇo varadānena mā garvaṃ kuru daityarāṭ| viparītaṃ bhavetsarvaṃ viparītaṃ yathā purā 11 stambhe'vatīrṇa nyahanaddhiraṇyakaśipuṃ vibhuḥ | sugrīveṇa hato bandhū rāmamāśritya kālataḥ 12 viparītā matirjātā tavāpi kālayogataḥ| atisthūlo laghutaro bhāsase mama sāṃpratam 13 dhṛtvā dhairyaṃ ca lajjāṃ ca yuddhaṃ kuru mayā saha| ka uvāca | evamuktvā dadhārāśu virāḍrūpaṃ gajānanaḥ 14 brahmāṇḍādūrdhvamagamanmastakaścaraṇau tathā| pātālāni ca saptāni bhittvā yātau śrutī diśaḥ 15 paśyati sma yadā daityo bālaṃ taṃ viśvarūpiṇam | sahasraśirasaṃ devaṃ sahasrākṣaṃ divo bhuvam 16 sahasrapādaṃ vyāpyāśu sthitaṃ vyāpya diśo daśa | divyāmbaraṃ divyagandhaṃ divyālaṃkārabhūṣitam 17 asaṃkhyasūryasadṛśamasaṃkhyarūpiṇaṃ vibhum | evaṃ dṛṣṭvā virāḍrūpaṃ cakampe daityamānasam 18 dhṛtvā dhairyaṃ punardaityo yayau devasya sannidhau| jagarja garjayanvyoma diśo'pi vidiśo'pi ca 19 udyamya khaḍgaṃ sahasā devaṃ hantumiyeṣa saḥ | yayau tatpurataḥ krodhātpataṃgo jvalanaṃ yathā 2.137.20 deva uvāca | nāyaṃ mūḍho vijānīte svarūpaṃ mama durlabham | ahameva vimokṣyāmītyuktvā kaṇṭhe dadhāra tam 21 mamarda sinduraṃ taṃ sa karābhyāṃ balavattaram | tatastadasṛjāṃgāni vililimpāruṇena sa jaḥ22 tataḥ sindūravadanasindūrapriya eva ca| abhavajjagatīkhyāto bhaktakāmaprapūrakaḥ23 sindūre nihate devā mudā puṣpāṇyavākiran | avādyañjayavādyāni nanṛtuścāpsarogaṇāḥ 24 āyayustatra munayo vasiṣṭhapramukhāḥ surāḥ | brahmādyāḥ sakalāḥ śakrapurogā vastupāṇayaḥ 25 jayaśabdairnamaḥ śabdaiḥ pūrayanto diśo daśa | tataḥ sarve bhūmipālā yayustatra mudānvitāḥ 26 ṣoḍaśairupacāraistamānarcuḥ parameśvaram | gajānanaṃ caturbāhuṃ sarvābharaṇabhūṣitam 27 divyāmbaraṃ divyagandhamākhuvāhanamīśvaram | prārthayāmāsurindrādyāḥ stotuṃ tvāṃ na hi śaknumaḥ 28 yatra kuṇṭhāścaturvedā brahmādyāśca munīśvarāḥ | tvaṃ kartā kāraṇaṃ kāryaṃ rakṣakaḥ poṣako'pi ca 29 saṃhartā mohanaścāsya viśvasya jñānadaḥ kvacit | saritaḥ sāgarā vṛkṣāḥ parvatāḥ paśavo'khilāḥ 2.137.30 vāyurākāśa pṛthivī vahnirvāri tvameva ca| brahmā viṣṇuḥ śivaḥ śakro maruto munayo'pi ca 31 gandharvāścāraṇāḥ siddhā yakṣarākṣasapannagā| apsaraḥkinnarā deva tvameva sa carācaram 32 vayaṃ dhanyāyato dṛṣṭaḥ pratyakṣaṃ mokṣasādhanaḥ | sindūre tu hate deva sukhaṃ prāptāḥ surottamāḥ 33 rājāno munayo lokāḥ svasvakārye mudāratāḥ | bhaviṣyanti svadhāsvāhāvaṣaṭkārāśritāḥ kriyāḥ 34 nānāvatāraiḥ kuruṣe pālanaṃ tvaṃ viśeṣataḥ| duṣṭānāṃ nāśanaṃ sadyo bhaktānāṃ kāmapūrakaḥ 35 ka uvāca | evamuktvā surāstaṃ tu vyadadhuḥ sarva eva te | prāsādaṃ ramyaśikharaṃ sthāpayitvā gajānanam 36 yasya darśanamātreṇa mucyate pātakājjanaḥ | kulāni tārayetsapta smaraṇādasya mānavaḥ 37 pūjayitvā praṇamyainaṃ paritṛptiṃ yayuḥ surāḥ | tatastaṃ munayaḥ sarve pupūjuḥ paramādarāt 38 sindūraheti nāmāsya cakruḥ sindūranāśanāt || atisaṃtuṣṭamanaso natvā jagmuḥ svamāśramam 39 tataḥ sarve munivarā natvā devaṃ sabhaktitaḥ | pupūjuḥ paramātmānaṃ nānādravyairanekaśaḥ 2.137.40 rājasadanamiti te kṣetraṃ khyātimupaiṣyati | vareṇyastaṃ vilokyaiva nijaputramabudhyata 41 yato rājñāṃ padānyāśu hatvā daityaṃ sudāruṇam | dattāni bhavatā nātha sindūraṃ lokakaṇṭakam 42 daityavimardana iti nāma khyātimupaiṣyati | pupūja tanayaṃ snehāttadā dṛṣṭaparākramam 43 mumoca snehajaṃ cāśru na śaśāka prabhāṣitum | atigadgadakaṇṭhatvādruroda bhṛśaduḥkhitaḥ 44 vareṇya uvāca | mūḍhabhāvena saṃtyakto vighnabhītena pāpinā | yaṃ tvāṃ pūjayituṃ yātā brahma śakrapurogamāḥ 45 anantakoṭibrahmāṇḍanāyakaṃ tvāṃ na vidmahe | kāmadhenuṃ nidhiṃkalpavṛkṣaṃ mūḍho yathā tyajet 46 māyayā mohitaste'hamatyajaṃ tvāṃ tathā gṛhāt | ka uvāca | iti tacchucamākarṇya kṛpayā parameśvaraḥ 47 āliliṃga vareṇyaṃ taṃ caturbāhubhirādarāt | uvāca parayā bhaktyā vareṇyanṛpatiṃ vibhuḥ 48 deva uvāca | purākalpe mahāraṇye tapastaptaṃ sudāruṇam | ubhābhyāṃ pakvaparṇāni bhakṣayitvā vaṭasya ha 49 divyavarṣasahasreṇa prasanno'haṃ tadā'bhavam | bhavadbhyāṃ hi vṛtaḥ putro na mokṣo mūḍhabhāvataḥ 2.137.50 so'haṃ putratvamāpanno bhūbhāraharaṇāya ca | sindūrasya vadhaṃ kartuṃ sādhūnāṃ pālanaṃ tathā 51 anyathā na śarīraṃ me nirākārasya sākṣiṇaḥ | vacanaṃ tu kṛtaṃ satyaṃ trailokyasyāpi toṣaṇam 52 yāsye'dhunā nijaṃ dhāma na tvaṃ śoke manaḥ kṛthāḥ | vareṇya uvāca | saṃsāre bahuduḥkhāni dṛṣṭāni duḥsahāni ca 53 idānīṃ mokṣamārgaṃ me kṛpayā diśa duḥkhahan | sākṣātkāre kathaṃ bandhastava syāddviradānana 54 yenopadeśena muktiṃ yāsyāmi tadvadasva me | yogaṃ taṃ yena saṃtyakṣe kāmaṃ krodhaṃ mṛterbhayam 55 ka uvāca | evamākarṇya tadvākyaṃ kṛpayā sa gajānanaḥ | upaveśya svāsane taṃ hastaṃ śirasi cādadhat 56 gaṇeśagītāṃ tasmai sa upadeṣṭuṃ pracakrame | nirasya sarvasaṃdehānviśvarūpaṃ pradarśya ca 57 gītāsāraṃ sa yuddhvaivaḥ gaṇeśasyopadeśataḥ | sthāpya rājyamamātyeṣu tapase vanamāyayau 58 ativairāgyasaṃyukto dadhyau taṃ ca gajānanam | āvartayatsadā gītāmananyaviṣayakṛtī 59 yathā jalaṃ jale kṣiptaṃ jalameva hi jāyate | tathā taddhyānataḥ so'pi tanmayatvamupāyayau 2.137.60 muniruvāca | caturānana deveśa kṛpayā parayā vada | gītāṃ tāṃ tu gaṇeśasya sarvājñānavināśanīm 61 ( 6277 )