Ganesha Purana — Kridakhanda — Chapter 126
GnP 2 126.5
अथ गजाननचरितं-द्वापर युग॥ अध्याय १२७ प्रारंभ :- व्यास उवाच । चतुरानन देवेश गुणेशचरितं शुभम् । कथितं विस्तराद्देव नाहं तृप्तोऽस्मि तच्छ्रवात्१॥ सुधया तु विरक्तः स्यान्न कथा श्रवणान्नरः । त्रेतायुगकथा सर्वा गुणेशस्य श्रुता मया २॥ गजाननेति नामास्य द्वापरे तु कुतोऽभवत् । मूषको वाहनं चास्य कथं यातो महाविभो ३॥ कृपया संशयममुं छिन्धि त्वं कमलासन । क उवाच । सम्यक्पृष्टं त्वया वत्स मम चित्तगतं मुने ४॥ यतः श्रोता च वक्ता च पृच्छकः सिद्धिमाप्नुयात् । तां कथां कथयिष्यामि विनायककृतां मुने
atha gajānanacaritaṃ-dvāpara yuga|| adhyāya 127 prāraṃbha :- vyāsa uvāca | caturānana deveśa guṇeśacaritaṃ śubham | kathitaṃ vistarāddeva nāhaṃ tṛpto'smi tacchravāt1|| sudhayā tu viraktaḥ syānna kathā śravaṇānnaraḥ | tretāyugakathā sarvā guṇeśasya śrutā mayā 2|| gajānaneti nāmāsya dvāpare tu kuto'bhavat | mūṣako vāhanaṃ cāsya kathaṃ yāto mahāvibho 3|| kṛpayā saṃśayamamuṃ chindhi tvaṃ kamalāsana | ka uvāca | samyakpṛṣṭaṃ tvayā vatsa mama cittagataṃ mune 4|| yataḥ śrotā ca vaktā ca pṛcchakaḥ siddhimāpnuyāt | tāṃ kathāṃ kathayiṣyāmi vināyakakṛtāṃ mune
— tr. refused: cyber
GnP 2 126.126
अध्याय १२६ प्रारंभ :- क उवाच । सिद्धे विवाहे च ततो मयूरेशः शिखण्डिनम् । आरुह्य सहसा गन्तुं नगरीं स्वामियेष सः १॥ स्वं स्वं वाहनमारुढा गीर्वाणास्तत्क्षणेन च । यान्ति स्म पुरतस्तस्य मुनयः पृष्ठतो ययुः २॥ अन्वयुर्नागराः सर्वे स्त्रियश्च बालकानि च । आनन्दयुक्ता नगरात्सहसा चक्रपाणिना ३॥ वाद्यत्सु सर्ववाद्येषु ननृतुश्चाप्सरोगणाः । रणभूमिं गतो यावन्मयूरेशोऽखिलैर्वृतः ४॥ तावत्स्कन्दादयो वीराः प्रार्थयांचक्रिरे विभुम् । वीरा ऊचुः । सेनाचरा दैत्यगणैर्निहता युद्धसंभ्रमात् ५॥ उत्तस्थुः सर्व एवैते त्वत्कटाक्षामृतोक्षिताः । तान्दृष्ट्वा जीवितांस्तेन सर्वे देवाश्च नागराः ६॥ विस्मयं परमं प्राप्ताः साधु साध्वब्रुवंस्तदा । ततो योजनमात्रं च दत्त्वा मार्गमवस्थितः ७॥ देवोऽब्रवीच्चक्रपाणिं मूर्ध्नि दत्त्वा करं शुभम् । आलिंग्य दशदोर्दण्डैः शत्रुपक्षभयंकरैः ८॥ देव उवाच । त्वं याहि गण्डकीं शीघ्रं नागरैर्मम वाक्यतः । क उवाच । एवमाकर्ण्य तद्वाक्यं मुमोचाश्रूणि सत्वरम् ९॥ नागराश्च प्रणम्योच्चैरूचुर्वाक्यं शुचान्विताः। यत्र यासि नयास्मांस्त्वमत्र त्यक्तुं न चार्हसि २.१२६.१०॥ नागतः स्यात्पूर्वमेव तदा दुःखं न नो भवेत् । एवमुक्त्वा नमस्कृत्य ययुः सर्वे तदाज्ञया ११॥ चक्रपाणिरपि तदा नमस्कृत्य ययौ पुरः । वर्णयन्तो गुणगणांस्तदीयानद्भुतान्बहून् १२॥ क्षणेन नगरीं प्राप्य चक्रपाण्यनुमोदिताः । नागराः स्वगृहं प्राप्ताश्चक्रपाणिर्निजालयम १३॥ पंचानामपि देवानां प्रासादानप्यकारयत् । पंचायतनमूर्तिं च स्थापयामास तेषु च १४॥ प्रत्यहं पूजयामास भक्तिभावसमन्वितः । मयूरेशपुरीं प्राप्तो मयूरेशोऽपि तत्क्षणात् १५ आश्चर्यं परमं प्राप्ता गणाः सर्वे निरीक्ष्य ताम् । यस्यां रत्नमया स्तम्भा भित्तयोऽष्टापदान्विताः १६॥ एको ना दृश्यते तत्रासंख्यातजनसंयुतः । प्रविश्य स सभां रम्यां ब्रह्मादीनुपवेश्य च १७॥ मध्ये विवेश च ततो लोकयन्सर्वतः स्वयम् । ददर्श पूर्वेभागे स मन्मथं रति संयुतम १८॥ देवीं मार्जारनाम्नीं ता लोके ख्यातां सुखप्रदाम । दक्षिणस्यां दिशि तदा लोकयत्पार्वती शिवौ १९॥ तत्पुरो विरजां देवी भक्तकामप्रपूरिकाम् । पश्चिमायां दिशि ततो वाराहं धरणीयुतम २.१२६.२०॥ आश्रयां नाम देवीं च सर्वविघ्नहरां शुभाम् । उत्तरस्यां दिशि तदा श्रीहरिं समलोकयत् २१॥ मुक्तादेवीं च विख्यातां सर्वमुक्तिप्रदां ततः । त्रयस्त्रिंशत्कोटिसुराः स्थितास्तद्दर्शनेच्छया २२॥ भाद्रशुद्धप्रतिपदि स्नात्वाऽभ्यर्च्य गजाननम् । गत्वा तु पूर्वदिग्भागे मार्जारीं पूजयेत्ततः २३॥ दत्त्वा दानानि विप्रेभ्यः स्मृत्वा ध्यात्वा गजाननम् । मौनं व्रतं समास्थाय न श्रुत्वा पादजध्वनिम् २४॥ कृमिकीटपतंगादीन्न हिंसेत्प्रयतः शुचिः । पुनः स्नात्वा समभ्यर्चेद्देवदेवं गजाननम् २५॥ पूर्ववत्तु द्वितीयेऽह्नि तृतीये च ततः क्रमात् । तथैव दक्षिणद्वारि विरजां द्वितयेऽहनि २६॥ तृतीये पश्चिमद्वारि तथैवाश्रमसंज्ञिताम। नत्वाऽर्चयेच्चतुर्थ्यां तु तद्वदुत्तरतो नरः २७॥ मुक्तां देवीं समभ्यर्च्य मयूरेशं च तद्दिने । पूजामहोत्सवं कुर्याद्रात्रौ जागरणं चरेत् २८॥ एवं यः कुरुते भक्त्या द्वाराणि चोपवासतः । स सर्वांल्लभते कामान्मयूरेशप्रसादतः २९॥ चतुर्थ्यामेव चत्वारि शक्तो द्वाराणि पूर्ववत् । आद्यन्तमज्जनादेवदर्शनं च करोति यः २.१२६.३०॥ तस्य सद्यः फलं दद्यात्परितुष्टो गजाननः । तस्माच्छुद्धप्रतिपदमारभ्य ब्रह्मचर्यवान् ३१॥ ततश्चतुर्थ्यामुषसि स्नानं कृत्वा विधानतः । नित्यं संपाद्य विधिवन्मयूरेशं समर्चयेत् ३२॥ प्रदक्षिणा नमस्कारान्कुर्यादेवैकविंशतिम् । पूर्वद्वारे नमस्कृत्य मार्जारीं त्वरयान्वितः ३३॥ एवं शिवावाश्रयां च मुक्तादेवीं नमेत्पराम् । प्रारभेद्दिनशेषे तु मयूरेश्वरपूजनम् ३४॥ षोडशैरुपचारैस्तु पूजयेत्सुसमाहितः । रात्रौ जागरणं कुर्याद्गीतवादित्रनिस्वनैः ३५॥ प्रभाते विमले स्नात्वा पुनर्देवं समर्चयेत् । ब्राह्मणैः सह कुर्वीत पारणं स्वस्य शक्तितः ३६॥ तेभ्यो दद्याद्धिरण्यं च वासोधान्यं गवादिकम् । एवं यः कुरुते मर्त्यो दुःसाध्यमपि साधयेत् ३७॥ पुत्रपौत्रयुतो भोगान्भुक्त्वा चान्ते व्रजेद्दिवम् । इन्द्रादयो लोकपालाः पूजयिष्यन्ति तं नरम् ३८॥ सेवन्ते पादकमलं तस्य या अष्टानायिकाः । अन्धस्तु लभते दृष्टिं मूको वाचं लभेद्ध्रुवम् ३९॥ बधिरः श्रुतिमाप्नोति पङ्गुश्च चरणावपि । भार्यार्थी लभते भार्यां विद्यार्थी लभते मतिम् २.१२६.४०॥ एतदेव फलं प्रोक्तं द्वारेषु चोपवासतः । ततः कदाचिद्देवेशो मयूरेशोऽखिलान्सुरान् ४१॥ उवाच श्लक्ष्णया वाचा हरिब्रह्मशिवादिकान् । मयूरेश उवाच । यदर्थमवतीर्णोहं तत्कार्यं कृतं सुराः ४२॥ निहता बहवो दैत्या भूभारश्च कृतो लघुः । सिन्धोः कारागृहात्सर्वे मोचिता अमृतान्धसः ४३॥ स्वाहास्वधावषट्कारा भविष्यन्ति यथापुरा । भवतामाज्ञया देवा यस्ये स्वं धाम सांप्रतम् ४४॥ एवमाकर्ण्य तद्वाक्यं देवाः सर्वे शुचान्विताः । त्यजन्तोऽश्रूणि संप्रोचुः परस्परमुखेक्षणाः ४५॥ अस्मांस्त्यक्त्वा मयूरेश क्व वा गन्तुं समीहसे । कथं स्नेहं परित्यज्य नैष्ठुर्यं परमं गतः ४६॥ ततस्तत्पार्वती श्रुत्वा सहसा शोककर्षिता । पपात मूर्छिता भूमौ मुहूर्तादवदच्च सा ४७॥ पार्वत्युवाच । दीननाथ दयासिन्धो सिन्धुदैत्यविमर्दन । क्व यास्यति जगन्नाथ हित्वा मां जननीं तव ४८॥ न स्थास्यन्ति मम प्राणास्त्वयि याते सुरेश्वर । देव उवाच । द्वापरे पुनरेवाहं यास्ये त्वत्पुत्रतां शुभे ४९॥ न मिथ्या वचनं मे स्यान्न चिन्तां कर्तुमर्हसि । ममापि दुःखमतुलं वियोगात्तव जायते २.१२६.५०॥ नैकत्र सर्वदा मातः सुह्र वसतिर्भवेत् । सिन्दूरो नाम दैत्योऽपि भविष्यति सुदारुणः ५१॥ अवध्यः सर्वदेवानां तदाऽहं स्यां तवार्भकः । स्मृतमात्रः तवाग्रेऽहं स्थास्यामि शिवनंदिनि ५२॥ ततः षडाननः प्राह नय मां यत्र यास्यसि । बालके कृपणे दीने नौदासिन्यं हि युज्यते ५३॥ देव उवाच । न चिन्तां कुरु बन्धो त्वमत्रायास्याम्यहं पुनः । भवतो न वियोगो मे सर्वान्तर्यामिणः खलु ५४॥ तस्मै ददौ मयूरं तं मयूरेशः स्वबन्धवे । मयूरध्वज इत्येव नामचक्रेऽस्य तत्क्षणात् ५५॥ आरुरोह मयूरं तं स्कन्दो बन्धोरथाज्ञया । तस्मिन्नेव क्षणे देवोऽन्तर्दधे स मयूरराट् ५६॥ तस्मिन्नन्तहिते केशा अपश्यन्ह्रदि तं सदा । ततो ब्रह्मा वालुकाभिः कृत्वा मूर्तिं गजाननीम् ५७॥ स्थापयामास विधिवत्प्रासादे सुमनोहरे । पुपूजुः सर्वलोकास्तमुपचारैर्यथाविधि ५८॥ वसिष्ठाद्या मुनिगणाः सस्नुर्ब्रह्मकमण्डलौ । सर्व नित्यविधिं कृत्वा ययुर्मूर्ति सुशोभनीम् ५९॥ उपोष्य केचिद्विदधुर्द्वाराणि धामलब्धये । स्नात्वा नत्वा मयूरेशं धावमानास्तथाऽपरे २.१२६.६०॥ ऊचुः परस्परं देवा मुनयोऽपि मुदा तदा । नैतादृशं पुण्यक्षेत्रं यत्र देवः स्थितः स्वयम् ६१॥ मयूरेशो विघ्नहरो भक्तानां कामपूरकः । पूजायित्यैवमुक्त्वा तु जग्मुस्ते स्वं स्वमाश्रमम् ६२॥ ब्रह्मादयः सुराः स्वं स्वं पदमभ्यागमंस्तदा । शंकरः सपरीवारः कैलासमगमन्मुदा ६३॥ स्वधास्वाहावषट्कारैरिन्द्राद्या मुमुदुस्तदा । क उवाच । एवं ते सर्वमाख्यातं त्रेतायुगकृतं मुने ६४॥ मयूरेशस्य चरितं श्रवणात्सर्वकामदम् । धन्यं यशस्यमायुष्यं सर्वपापहरं नृणाम् ६५॥ पुत्रदं धनदं विद्याप्रदं दुःखनिवारणम् । आधिव्याधिहरं कुष्ठदुष्टरोगादिनाशनम् ६६॥ पठतां शृण्वतां पुंसां भुक्तिमुक्तिप्रदं शुभम् । विजयश्रीपदनृणां क्षत्रियाणां विशामपि ६७॥ शूद्राणामपि सर्वेषां श्रीप्रदं पुष्टिवर्धनम्। यद्यत्ते परिपृष्ठं मे तत्तत्ते कथितं मुने ६८॥ गजाननस्य चरितं पुनः श्रोष्यसि मन्मुखात् ६९ (५७९५)॥
adhyāya 126 prāraṃbha :- ka uvāca | siddhe vivāhe ca tato mayūreśaḥ śikhaṇḍinam | āruhya sahasā gantuṃ nagarīṃ svāmiyeṣa saḥ 1|| svaṃ svaṃ vāhanamāruḍhā gīrvāṇāstatkṣaṇena ca | yānti sma puratastasya munayaḥ pṛṣṭhato yayuḥ 2|| anvayurnāgarāḥ sarve striyaśca bālakāni ca | ānandayuktā nagarātsahasā cakrapāṇinā 3|| vādyatsu sarvavādyeṣu nanṛtuścāpsarogaṇāḥ | raṇabhūmiṃ gato yāvanmayūreśo'khilairvṛtaḥ 4|| tāvatskandādayo vīrāḥ prārthayāṃcakrire vibhum | vīrā ūcuḥ | senācarā daityagaṇairnihatā yuddhasaṃbhramāt 5|| uttasthuḥ sarva evaite tvatkaṭākṣāmṛtokṣitāḥ | tāndṛṣṭvā jīvitāṃstena sarve devāśca nāgarāḥ 6|| vismayaṃ paramaṃ prāptāḥ sādhu sādhvabruvaṃstadā | tato yojanamātraṃ ca dattvā mārgamavasthitaḥ 7|| devo'bravīccakrapāṇiṃ mūrdhni dattvā karaṃ śubham | āliṃgya daśadordaṇḍaiḥ śatrupakṣabhayaṃkaraiḥ 8|| deva uvāca | tvaṃ yāhi gaṇḍakīṃ śīghraṃ nāgarairmama vākyataḥ | ka uvāca | evamākarṇya tadvākyaṃ mumocāśrūṇi satvaram 9|| nāgarāśca praṇamyoccairūcurvākyaṃ śucānvitāḥ| yatra yāsi nayāsmāṃstvamatra tyaktuṃ na cārhasi 2.126.10|| nāgataḥ syātpūrvameva tadā duḥkhaṃ na no bhavet | evamuktvā namaskṛtya yayuḥ sarve tadājñayā 11|| cakrapāṇirapi tadā namaskṛtya yayau puraḥ | varṇayanto guṇagaṇāṃstadīyānadbhutānbahūn 12|| kṣaṇena nagarīṃ prāpya cakrapāṇyanumoditāḥ | nāgarāḥ svagṛhaṃ prāptāścakrapāṇirnijālayama 13|| paṃcānāmapi devānāṃ prāsādānapyakārayat | paṃcāyatanamūrtiṃ ca sthāpayāmāsa teṣu ca 14|| pratyahaṃ pūjayāmāsa bhaktibhāvasamanvitaḥ | mayūreśapurīṃ prāpto mayūreśo'pi tatkṣaṇāt 15 āścaryaṃ paramaṃ prāptā gaṇāḥ sarve nirīkṣya tām | yasyāṃ ratnamayā stambhā bhittayo'ṣṭāpadānvitāḥ 16|| eko nā dṛśyate tatrāsaṃkhyātajanasaṃyutaḥ | praviśya sa sabhāṃ ramyāṃ brahmādīnupaveśya ca 17|| madhye viveśa ca tato lokayansarvataḥ svayam | dadarśa pūrvebhāge sa manmathaṃ rati saṃyutama 18|| devīṃ mārjāranāmnīṃ tā loke khyātāṃ sukhapradāma | dakṣiṇasyāṃ diśi tadā lokayatpārvatī śivau 19|| tatpuro virajāṃ devī bhaktakāmaprapūrikām | paścimāyāṃ diśi tato vārāhaṃ dharaṇīyutama 2.126.20|| āśrayāṃ nāma devīṃ ca sarvavighnaharāṃ śubhām | uttarasyāṃ diśi tadā śrīhariṃ samalokayat 21|| muktādevīṃ ca vikhyātāṃ sarvamuktipradāṃ tataḥ | trayastriṃśatkoṭisurāḥ sthitāstaddarśanecchayā 22|| bhādraśuddhapratipadi snātvā'bhyarcya gajānanam | gatvā tu pūrvadigbhāge mārjārīṃ pūjayettataḥ 23|| dattvā dānāni viprebhyaḥ smṛtvā dhyātvā gajānanam | maunaṃ vrataṃ samāsthāya na śrutvā pādajadhvanim 24|| kṛmikīṭapataṃgādīnna hiṃsetprayataḥ śuciḥ | punaḥ snātvā samabhyarceddevadevaṃ gajānanam 25|| pūrvavattu dvitīye'hni tṛtīye ca tataḥ kramāt | tathaiva dakṣiṇadvāri virajāṃ dvitaye'hani 26|| tṛtīye paścimadvāri tathaivāśramasaṃjñitāma| natvā'rcayeccaturthyāṃ tu tadvaduttarato naraḥ 27|| muktāṃ devīṃ samabhyarcya mayūreśaṃ ca taddine | pūjāmahotsavaṃ kuryādrātrau jāgaraṇaṃ caret 28|| evaṃ yaḥ kurute bhaktyā dvārāṇi copavāsataḥ | sa sarvāṃllabhate kāmānmayūreśaprasādataḥ 29|| caturthyāmeva catvāri śakto dvārāṇi pūrvavat | ādyantamajjanādevadarśanaṃ ca karoti yaḥ 2.126.30|| tasya sadyaḥ phalaṃ dadyātparituṣṭo gajānanaḥ | tasmācchuddhapratipadamārabhya brahmacaryavān 31|| tataścaturthyāmuṣasi snānaṃ kṛtvā vidhānataḥ | nityaṃ saṃpādya vidhivanmayūreśaṃ samarcayet 32|| pradakṣiṇā namaskārānkuryādevaikaviṃśatim | pūrvadvāre namaskṛtya mārjārīṃ tvarayānvitaḥ 33|| evaṃ śivāvāśrayāṃ ca muktādevīṃ nametparām | prārabheddinaśeṣe tu mayūreśvarapūjanam 34|| ṣoḍaśairupacāraistu pūjayetsusamāhitaḥ | rātrau jāgaraṇaṃ kuryādgītavāditranisvanaiḥ 35|| prabhāte vimale snātvā punardevaṃ samarcayet | brāhmaṇaiḥ saha kurvīta pāraṇaṃ svasya śaktitaḥ 36|| tebhyo dadyāddhiraṇyaṃ ca vāsodhānyaṃ gavādikam | evaṃ yaḥ kurute martyo duḥsādhyamapi sādhayet 37|| putrapautrayuto bhogānbhuktvā cānte vrajeddivam | indrādayo lokapālāḥ pūjayiṣyanti taṃ naram 38|| sevante pādakamalaṃ tasya yā aṣṭānāyikāḥ | andhastu labhate dṛṣṭiṃ mūko vācaṃ labheddhruvam 39|| badhiraḥ śrutimāpnoti paṅguśca caraṇāvapi | bhāryārthī labhate bhāryāṃ vidyārthī labhate matim 2.126.40|| etadeva phalaṃ proktaṃ dvāreṣu copavāsataḥ | tataḥ kadāciddeveśo mayūreśo'khilānsurān 41|| uvāca ślakṣṇayā vācā haribrahmaśivādikān | mayūreśa uvāca | yadarthamavatīrṇohaṃ tatkāryaṃ kṛtaṃ surāḥ 42|| nihatā bahavo daityā bhūbhāraśca kṛto laghuḥ | sindhoḥ kārāgṛhātsarve mocitā amṛtāndhasaḥ 43|| svāhāsvadhāvaṣaṭkārā bhaviṣyanti yathāpurā | bhavatāmājñayā devā yasye svaṃ dhāma sāṃpratam 44|| evamākarṇya tadvākyaṃ devāḥ sarve śucānvitāḥ | tyajanto'śrūṇi saṃprocuḥ parasparamukhekṣaṇāḥ 45|| asmāṃstyaktvā mayūreśa kva vā gantuṃ samīhase | kathaṃ snehaṃ parityajya naiṣṭhuryaṃ paramaṃ gataḥ 46|| tatastatpārvatī śrutvā sahasā śokakarṣitā | papāta mūrchitā bhūmau muhūrtādavadacca sā 47|| pārvatyuvāca | dīnanātha dayāsindho sindhudaityavimardana | kva yāsyati jagannātha hitvā māṃ jananīṃ tava 48|| na sthāsyanti mama prāṇāstvayi yāte sureśvara | deva uvāca | dvāpare punarevāhaṃ yāsye tvatputratāṃ śubhe 49|| na mithyā vacanaṃ me syānna cintāṃ kartumarhasi | mamāpi duḥkhamatulaṃ viyogāttava jāyate 2.126.50|| naikatra sarvadā mātaḥ suhra vasatirbhavet | sindūro nāma daityo'pi bhaviṣyati sudāruṇaḥ 51|| avadhyaḥ sarvadevānāṃ tadā'haṃ syāṃ tavārbhakaḥ | smṛtamātraḥ tavāgre'haṃ sthāsyāmi śivanaṃdini 52|| tataḥ ṣaḍānanaḥ prāha naya māṃ yatra yāsyasi | bālake kṛpaṇe dīne naudāsinyaṃ hi yujyate 53|| deva uvāca | na cintāṃ kuru bandho tvamatrāyāsyāmyahaṃ punaḥ | bhavato na viyogo me sarvāntaryāmiṇaḥ khalu 54|| tasmai dadau mayūraṃ taṃ mayūreśaḥ svabandhave | mayūradhvaja ityeva nāmacakre'sya tatkṣaṇāt 55|| āruroha mayūraṃ taṃ skando bandhorathājñayā | tasminneva kṣaṇe devo'ntardadhe sa mayūrarāṭ 56|| tasminnantahite keśā apaśyanhradi taṃ sadā | tato brahmā vālukābhiḥ kṛtvā mūrtiṃ gajānanīm 57|| sthāpayāmāsa vidhivatprāsāde sumanohare | pupūjuḥ sarvalokāstamupacārairyathāvidhi 58|| vasiṣṭhādyā munigaṇāḥ sasnurbrahmakamaṇḍalau | sarva nityavidhiṃ kṛtvā yayurmūrti suśobhanīm 59|| upoṣya kecidvidadhurdvārāṇi dhāmalabdhaye | snātvā natvā mayūreśaṃ dhāvamānāstathā'pare 2.126.60|| ūcuḥ parasparaṃ devā munayo'pi mudā tadā | naitādṛśaṃ puṇyakṣetraṃ yatra devaḥ sthitaḥ svayam 61|| mayūreśo vighnaharo bhaktānāṃ kāmapūrakaḥ | pūjāyityaivamuktvā tu jagmuste svaṃ svamāśramam 62|| brahmādayaḥ surāḥ svaṃ svaṃ padamabhyāgamaṃstadā | śaṃkaraḥ saparīvāraḥ kailāsamagamanmudā 63|| svadhāsvāhāvaṣaṭkārairindrādyā mumudustadā | ka uvāca | evaṃ te sarvamākhyātaṃ tretāyugakṛtaṃ mune 64|| mayūreśasya caritaṃ śravaṇātsarvakāmadam | dhanyaṃ yaśasyamāyuṣyaṃ sarvapāpaharaṃ nṛṇām 65|| putradaṃ dhanadaṃ vidyāpradaṃ duḥkhanivāraṇam | ādhivyādhiharaṃ kuṣṭhaduṣṭarogādināśanam 66|| paṭhatāṃ śṛṇvatāṃ puṃsāṃ bhuktimuktipradaṃ śubham | vijayaśrīpadanṛṇāṃ kṣatriyāṇāṃ viśāmapi 67|| śūdrāṇāmapi sarveṣāṃ śrīpradaṃ puṣṭivardhanam| yadyatte paripṛṣṭhaṃ me tattatte kathitaṃ mune 68|| gajānanasya caritaṃ punaḥ śroṣyasi manmukhāt 69 (5795)||
GnP 2 126.127
द्वापरे यत्कृतं तेन चरितं शृणु साम्प्रतम् । यथा गजाननो देवो रक्तवर्णश्चतुर्भुजः ६॥ गजाननश्चाखुवाहस्तत्सर्वं कथयामि ते । कदाचिद् ब्रह्मभुवनं यातः शंभुर्यदृच्छया ७॥ उत्थापयामास तदा प्रसुप्तं कमलासनम् । स उत्थितो महाजृम्भा चकार क्रोधसंयुतः ८॥ तत एको महाघोरः पुरुषः समपद्यत । स च चक्रे महाघोरं शब्दं सर्वभयंकरम् ९॥ चकम्पे पृथिवी तेन साब्धिद्वीपा सपर्वता। दिक्पालाश्चकिताः सर्वे शेषः क्षुब्धोऽसृजद्विषम् २.१२७.१०॥ विशीर्णा गिरयः सर्वे भूतान्याकुलतां ययुः । कल्पान्त इव तत्रासीत्त्रैलोक्यवासिनां नृणाम् ११॥ ब्रह्माण्डं मस्तकेनासौ स्फोटयन्निव तस्थिवान् । यद्देहतश्चारुगन्धो व्यानशे भुवनत्रयम् १२ जपाकुसुमदेहस्य प्रभयारुणिता दिशः । अयं किं मदनो जातो द्वितीयो ब्रह्मसंभवः १३॥ कामस्तु लज्जितस्तस्य सद्यो रूपनिरीक्षणात् । पुरस्तं सन्निरीक्ष्यैनं विस्मितः कमलासनः १४॥ कस्य त्वं कुत उत्पन्नः किं चिकीर्षसि तद्वद । पुरुष उवाच । अनेकानि सुरेश त्वं ब्रह्माण्डानि सृजस्यपि १५॥ विभ्रान्त इव कस्मान्मां सर्वज्ञः सन्हि पृच्छसि । जम्भायास्ते समुत्पन्नं कथं मां नावबुध्यसे १६॥ अनुगृह्णीष्व पुत्रं मा देहि नाम यथामति । स्थानं च देहि मे नाथ भक्ष्यं कार्यं च मे वद १७॥ इत्याकर्ण्य वचस्तस्य प्रोवाच चतुराननः। रक्तं वपुर्यतस्तेऽस्ति सिन्दूराख्यो भविष्यसि १८॥ सामर्थ्यं च महत्ते स्यात्त्रैलोक्याकर्षणक्षमम् । क्रोधादालिंगसे यं त्वं शतधा स भविष्यति १९॥ पंचभ्योऽपि च भूतेऽभ्यो न भयं ते कदाचन । देवदानवयक्षेभ्यो मानुषेभ्यो भयं न ते २.१२७.२०॥ इन्द्रादिलोकपालेभ्यः कालादपि भयं न ते । न नागेभ्यो न रक्षोभ्यो नाहोरात्रे भयं न ते २१॥ सजीवान्न च निर्जीवाद्भयं सिन्दूर ते भवेत् । वस यत्र मनस्ते स्यात्स्थातुं त्रिभुवनेष्वपि २२॥ ततः स वरदानेन तुतोष चतुरास्यजः । चक्रन्द कम्पयञ्शब्दैस्त्रैलोक्यं सचराचरम् २३॥ चुक्षुभुः सागराः सर्वे लोकपालाश्च दुद्रुवुः । उवाच स तदा देवं नमस्कृत्य पितामहम् २४॥ सिन्दूर उवाच । तव वाक्यामृतेनाहं प्रीतो ब्रह्माण्डनायक । त्वमेव विश्वं सृजसि पासि हंसि गुणैस्त्रिधा २५॥ त्वयि सुप्ते जगत्सुप्तमन्धकारश्च जायते । महत्भाग्यं मम विभो तपोदानव्रतैर्विना २६॥ पुत्रस्नेहात्प्रसन्नस्त्वं नान्यथा ते प्रसन्नता । कल्पकोटिततोभिस्त्वं प्रसन्नो जायसे विभौ २७॥ क उवाच । इत्युक्त्वा तं प्रणम्यासौ कृत्वापि च प्रदक्षिणम् । जगाम मनसा भूमिं मार्गे तर्कमथाकरोत् २८॥ न मे तपो वा ध्यानं वा जपः स्वाध्याय एव च । कथं तेन वरा दत्ताः सत्या उत वृथा नु ते २९॥ गत्वा द्रक्ष्यामि पितरमित्युक्त्वाऽगात्पितामहम् । तुलयित्वा तु दोर्दण्डौ जगर्ज स भयानकः २.१२७.३०॥ तमेवालिंगितुं चैच्छत्तत ऊचे पितामहः । पुत्रस्नेहान्मया दत्ता वरा अन्यस्य दुर्लभाः ३१॥ दुष्टभावान्ममैव त्वमपकर्तुमिहागतः ३२॥ भुजगस्य पयो दत्तं विषमेव हि जायते । दुष्टभावं गतो यस्मात्तस्माद्दैत्यो भविष्यसि ३३॥ परमात्माऽवतीर्याशु हनिष्यति गजाननः । तवांगं सुरभिं ज्ञात्वा स्वांगे तन्मर्दयिष्यति ३४॥ सिन्दूरारुणदेहश्च सिन्दूरप्रिय एव च । भविष्यति स देवोऽपि सिन्दूरवध एव च ३५॥ एवमुक्त्वा पपालाशु भयेन कमलासनः । मनोवायुमहावेगा निश्वासश्वाससङ्कुलः ३६॥ दैत्योऽपि पृष्ठतो याति शापमाकर्ण्य मन्युमान् । स्वेदेनार्द्रं तनुर्दुष्टो दृष्ट्वा दृष्ट्वा पुरो व्रजन् ३७॥ धरिष्यामि पदेन्यस्मिन्निति दैत्योऽभ्यधावत । वैकुण्ठमगमद्ब्रह्मा कम्पमांनस्त्वरान्वितः ३८ (५८३३)॥
dvāpare yatkṛtaṃ tena caritaṃ śṛṇu sāmpratam | yathā gajānano devo raktavarṇaścaturbhujaḥ 6|| gajānanaścākhuvāhastatsarvaṃ kathayāmi te | kadācid brahmabhuvanaṃ yātaḥ śaṃbhuryadṛcchayā 7|| utthāpayāmāsa tadā prasuptaṃ kamalāsanam | sa utthito mahājṛmbhā cakāra krodhasaṃyutaḥ 8|| tata eko mahāghoraḥ puruṣaḥ samapadyata | sa ca cakre mahāghoraṃ śabdaṃ sarvabhayaṃkaram 9|| cakampe pṛthivī tena sābdhidvīpā saparvatā| dikpālāścakitāḥ sarve śeṣaḥ kṣubdho'sṛjadviṣam 2.127.10|| viśīrṇā girayaḥ sarve bhūtānyākulatāṃ yayuḥ | kalpānta iva tatrāsīttrailokyavāsināṃ nṛṇām 11|| brahmāṇḍaṃ mastakenāsau sphoṭayanniva tasthivān | yaddehataścārugandho vyānaśe bhuvanatrayam 12 japākusumadehasya prabhayāruṇitā diśaḥ | ayaṃ kiṃ madano jāto dvitīyo brahmasaṃbhavaḥ 13|| kāmastu lajjitastasya sadyo rūpanirīkṣaṇāt | purastaṃ sannirīkṣyainaṃ vismitaḥ kamalāsanaḥ 14|| kasya tvaṃ kuta utpannaḥ kiṃ cikīrṣasi tadvada | puruṣa uvāca | anekāni sureśa tvaṃ brahmāṇḍāni sṛjasyapi 15|| vibhrānta iva kasmānmāṃ sarvajñaḥ sanhi pṛcchasi | jambhāyāste samutpannaṃ kathaṃ māṃ nāvabudhyase 16|| anugṛhṇīṣva putraṃ mā dehi nāma yathāmati | sthānaṃ ca dehi me nātha bhakṣyaṃ kāryaṃ ca me vada 17|| ityākarṇya vacastasya provāca caturānanaḥ| raktaṃ vapuryataste'sti sindūrākhyo bhaviṣyasi 18|| sāmarthyaṃ ca mahatte syāttrailokyākarṣaṇakṣamam | krodhādāliṃgase yaṃ tvaṃ śatadhā sa bhaviṣyati 19|| paṃcabhyo'pi ca bhūte'bhyo na bhayaṃ te kadācana | devadānavayakṣebhyo mānuṣebhyo bhayaṃ na te 2.127.20|| indrādilokapālebhyaḥ kālādapi bhayaṃ na te | na nāgebhyo na rakṣobhyo nāhorātre bhayaṃ na te 21|| sajīvānna ca nirjīvādbhayaṃ sindūra te bhavet | vasa yatra manaste syātsthātuṃ tribhuvaneṣvapi 22|| tataḥ sa varadānena tutoṣa caturāsyajaḥ | cakranda kampayañśabdaistrailokyaṃ sacarācaram 23|| cukṣubhuḥ sāgarāḥ sarve lokapālāśca dudruvuḥ | uvāca sa tadā devaṃ namaskṛtya pitāmaham 24|| sindūra uvāca | tava vākyāmṛtenāhaṃ prīto brahmāṇḍanāyaka | tvameva viśvaṃ sṛjasi pāsi haṃsi guṇaistridhā 25|| tvayi supte jagatsuptamandhakāraśca jāyate | mahatbhāgyaṃ mama vibho tapodānavratairvinā 26|| putrasnehātprasannastvaṃ nānyathā te prasannatā | kalpakoṭitatobhistvaṃ prasanno jāyase vibhau 27|| ka uvāca | ityuktvā taṃ praṇamyāsau kṛtvāpi ca pradakṣiṇam | jagāma manasā bhūmiṃ mārge tarkamathākarot 28|| na me tapo vā dhyānaṃ vā japaḥ svādhyāya eva ca | kathaṃ tena varā dattāḥ satyā uta vṛthā nu te 29|| gatvā drakṣyāmi pitaramityuktvā'gātpitāmaham | tulayitvā tu dordaṇḍau jagarja sa bhayānakaḥ 2.127.30|| tamevāliṃgituṃ caicchattata ūce pitāmahaḥ | putrasnehānmayā dattā varā anyasya durlabhāḥ 31|| duṣṭabhāvānmamaiva tvamapakartumihāgataḥ 32|| bhujagasya payo dattaṃ viṣameva hi jāyate | duṣṭabhāvaṃ gato yasmāttasmāddaityo bhaviṣyasi 33|| paramātmā'vatīryāśu haniṣyati gajānanaḥ | tavāṃgaṃ surabhiṃ jñātvā svāṃge tanmardayiṣyati 34|| sindūrāruṇadehaśca sindūrapriya eva ca | bhaviṣyati sa devo'pi sindūravadha eva ca 35|| evamuktvā papālāśu bhayena kamalāsanaḥ | manovāyumahāvegā niśvāsaśvāsasaṅkulaḥ 36|| daityo'pi pṛṣṭhato yāti śāpamākarṇya manyumān | svedenārdraṃ tanurduṣṭo dṛṣṭvā dṛṣṭvā puro vrajan 37|| dhariṣyāmi padenyasminniti daityo'bhyadhāvata | vaikuṇṭhamagamadbrahmā kampamāṃnastvarānvitaḥ 38 (5833)||
GnP 2 126.128
अध्याय १२८ प्रारंभ:- क उवाच । स ददर्श समासीनं नारायणमनामयम् । रत्नकाञ्चनविलत्पद्मासनगतं विभुम् १॥ सोऽपि तं पुरतो वीक्ष्य विवर्णवदनं तदा । तत्पृष्ठतो महादैत्यं गगनस्पर्धिमस्तकम् २॥ उदतिष्ठत वेगेन दयालुः कमलापतिः । धृत्वा करं समालिङ्ग्य स्वासने कं न्यवेशयत् ३॥ संपूज्य परिपप्रच्छ किं ते कार्यमुपस्थितम् । कथं च म्लानवदनः श्वासवांश्च हतप्रभः ४॥ मम खेदः समुत्पन्नो द्रष्ट्वैव त्वां पितामह । इति तद्वचनं श्रुत्वा जगाद कमलासनः ५॥ क उवाच । प्रबोधितः शिवेनाहं प्रतिसुप्तो निजालये। ततो मे जृम्भतो वक्त्रान्निर्गतः पुरुषो महान् ६॥ पतन्ति भूतले भानि यन्मस्तकविधानतः । तस्य सौरभगन्धेन सर्व देवा विसिस्मिरे ७॥ यस्य लावण्यमीक्ष्यैव लज्जितो मदनोऽभवत् । यस्य क्रन्दितशब्देन चकम्पे भुवनत्रयम् ८॥ स नमस्कृत्य मां देव विनीतः पुरतः स्थितः । ततस्तस्मै वरा दत्ताः पुत्रस्नेहेन माधव ९॥ यं यं त्वमालिङ्ग्यसी स स मृत्युमुपैष्यति । कालोऽपि न रणे स्थातुं तव शक्तो भविष्यति २.१२८.१०॥ स्थानं च स्वेच्छया तस्य दत्तं देव मया ततः । नमस्कृत्य गतो दूरं वितर्कात्पुनरागतः ११ मामेवालिङ्गितुं यातोऽपलमस्माद्भयादहम। हंसमारुह्य सहसा वेगेन त्वामुपागतः १२ दृष्ट्वा दृष्ट्वा पृष्ठगतं कम्पः श्वासश्च मेऽभवत्। विना त्वां शरणं कं वा यामि सर्वेश्वरेश्वर १३॥ ततोऽब्रवीन्महाविष्णुर्ब्रह्माणं शरणागतम् । देव उवाच । पूर्वं दत्वा वरान्देव सङ्कटं प्राप्य बुद्धितः१४ इदानीं चिन्तया किं स्याद्यद्भाव्यं तद्भविष्यति । स पीडां त्रिषु लोकेषु विधातुमुद्यतोऽभवत् १५ क उवाच। यावत्तौ चिन्तयाविष्टौ स्थितौ ब्रह्महरी तदा । तावत्स पुरतोऽतिष्ठद्दृष्ट्वा ताभ्यां महासुरः १६॥ जगर्ज गर्जयामास त्रैलोक्यं बलवत्तरम् । ब्रह्मांडं कम्पयामास ब्रह्माणं च तदा खलः १७॥ सोऽवदद्रक्ष रक्षेति विष्णुं त्रैलोक्यरक्षकम् । ततो विष्णुर्जगौ दैत्यं वाचा मधुरया तदा १८ हरिरुवाच । न त्वया वरदानेन मत्तेन यौद्धुमुत्सहे । अहं सत्त्वगुणोपेतः पालने निरतः सदा १९॥ अयं च ब्राह्मणो ब्रह्मा तेन योद्धुं न चार्हसि । तव युद्धप्रदो देवः ख्यातोऽसौ मदनान्तकः २.१२८.२०॥ तेन युद्ध्यस्व ते कीर्तिर्महती स्यात्त्रिलोकगा। क उवाच । इत्याकर्ण्य वचस्तस्य जहृषे दैत्यपुङ्गवः २१॥ उड्डीय प्रययौ सद्यः कम्पयन्भुवनत्रयम् । पातयन्पर्वतान्वृक्षांश्चूर्णयन्सहसा बहून् २२ दिग्गजाश्चलिता सर्वे संजग्मुर्विदिशो दिशः । एवमुपत्यकां यातः कैलासस्य महागिरेः २३॥ ददर्शाधित्यकायां स ध्यानस्थं गिरिशं खलः । नन्दिभृङ्गिगणाकीर्णं पार्वत्या सेवितं विभुम् २४॥ व्याघ्रचर्मपरीधानमर्धचन्द्रविभूषणम् । भस्माङ्गरागशोभाढ्यं करिचर्मोत्तरीयकम् २५॥ दृष्ट्वा देवं तदा दैत्यो निनिद्र सहसा हरम् । अनेन किं मया युद्धं कर्तव्यं तापसेन ह २६॥ एतस्य सुन्दरी भार्यां नीत्वा यामि यदृच्छया। एवं निश्चित्य मनसा गौरीमन्तिकमाययौ २७॥ तदा चकम्पे गिरिजा कल्पान्ते जगती यथा। निमील्य नयने मूर्छामापाशु भयविह्वला २८॥ दधार तां केशपाशे स दैत्यो दुष्टमानसः । उड्डीय चलितो वेगाच्छुशोच गिरिजा तदा२९॥ रावणेन नीयमाना यथा सा धरणीसुता। गिरिजोवाच । औदासीन्यं कथं यातो मयि देवोऽखिलार्थवित् २.१२८.३०॥ ध्यानं कथं गतोऽस्यर्धे हीयमाणे त्वदङ्गके । नाकारि दास्यं न्यूनं ते येन काठिन्यमागतः ३१॥ कः सखा मोचयेन्मां हि प्राणदाता भवेच्च कः। पुनर्मे शंकरं को नु दर्शयेद्बलवत्तरः ३२॥ क उवाच । ततः शोकाकुलां वीक्ष्य तां गणाः प्राब्रुवंस्तदा । अनेन योद्धुं शक्तिर्नो त्रैलोक्यनाशिनाऽधुना ३३॥ शिवश्च ध्याननिष्ठोभूद्दैवादस्यानुकूलता। नीता नो जननी विश्वसृष्टिस्थित्यन्तकारिणी ३४॥ मोहिनी सर्वदेवानां सर्वदुःखविनाशनी। लावण्यलहरी नीता सर्वयोषिद्वरा शुभा३५॥ रत्नभूता कथं नीता कथं सा पुनरेष्यति । ध्यानस्थे शंकरे सर्वनाशने नेत्रवह्नितः ३६॥ तस्मिन्यास्यति लोभेन पुत्रानिव जनन्यथ । एवं शोकं प्रकुर्वत्सु हाहाकारै रुदत्सु च.३७॥ गणेषु विससर्जाशु ध्यानं क्रोधान्महेश्वरः । क्रोधानलेन ब्रह्माण्डं दहन्निव दिशो दश ३८॥ पप्रच्छ तान्गणाञ्शम्भुः सङ्कटं किमुपस्थितम् । भस्मसात्तं करिष्यामि येन वः कदनं कृतम् ३९॥ इति तद्वचनं श्रुत्वा प्रोचुस्तं ते गणास्तदा। त्वयि ध्यानस्थिते देव मन्दराचलसन्निभः २.१२८.४०॥ कृतान्तसमरूपः सन्नागतो दैत्यपुङ्गवः । यस्य श्वासानिलहता अचलाश्चलतां गताः ४१॥ संमोहं प्रापिता देवा दर्शनादेव शंकर। ततः स गिरिजां धृत्वा केशापाशे महाबलः ४२॥ निनाय सत्वरं व्योममार्गेण जननीं हि नः। नीयमाना शिवा प्राह धावधावेति सत्वरम् ४३॥ मूर्छिताः पतिता भूमौ वयं सर्वे विमूर्छिताः । तथाविधां समादाय ययौ स दुष्टमानसः ४४॥ श्रुत्वा तेषां वचः शंभुर्जज्वाल परमं रुषा । कुर्वन्भस्मेव लोकानामारुरोह वृषं निजम् ४५॥ त्रिशूलादीनि शस्त्राणि दधानो दशभिर्भुजैः । नभोमार्गेण प्रययौ गर्जयन्विदिशो दिशः ४६॥ यत्रासीत्सिन्दुरोदैत्यस्तं देशमगमत्क्षणात्। अहनत्पृष्ठदेशे तं तस्थौ स संमुखं तदा ४७॥ मुंच भार्यां महादुष्ट ह्रष्ट: सन्क्व गमिष्यसि । इत्युक्तः स रुषाविष्टस्त्रिलोकीं भस्मतां नयन् ४८॥ बाहुभ्यां मारयन्नेव प्रययौ शिवसन्निधौ । उवाच च महादैत्यो गर्वेण परिमोहितः ४९॥ नाहं मशकवाक्येन बिभेमि भुवनाधिपः । यस्य श्वासानिलेनाशु कम्पते मेरुपर्वतः २.१२८.५०॥ तस्य मे गणना नास्ति मुखं मां मा प्रदर्शय । यदि शक्तिर्मया सार्धं युद्धं कर्तुं तदा कुरु ५१॥ नो चेदन्यां पाणिय ततः सौख्यमवाप्स्यसि । किं मया सह यौद्धव्यं मशकेन त्वया लघो ५२॥ एवमुक्त्वा बाहुयुद्धं कर्तुं शंकरमाययौ । दुर्गा देवी तु सस्मार मयूरेशं स्वचेतसि ५३॥ द्विजरूपधरो देवो मयूरेशस्ततस्तयोः । अन्तराले प्रादुरासीत्कोटिसूर्यनिभः क्षणात् ५४॥ सर्वाङ्गसुन्दरो नानाभूषणैरुपशोभितः । परशुं मध्यतः कृत्वा वारयामास दैत्यपम् ५५॥ उवाच श्लक्ष्णया वाचा सिन्दूरं तं द्विजोत्तमः । त्रैलोक्यजननीं गौरीं स्थापयाशु ममान्तिके ५६॥ युध्यस्व शंकरेण त्वं यावज्जयपराजयौ । जयो यस्य भवेत्तेन ग्राह्येति नान्यथा वचः ५७॥ क उवाच । द्विजवाक्यं समाकर्ण्य सिन्दूरो ह्रष्टमानसः । स्थापयामास गिरिजां युद्धाय बहुलालसः५८ तयोस्तु पश्यतोरेव तावुभावप्य युध्यताम। सिन्दूरश्च महेशश्च नानायुद्धविशारदौ ५९॥ क्रोधसंरक्तनयनौ तुल्यतेजःपराक्रमौ । बाहुभ्यां वेष्टितुं यावदियेष सोऽसुरो हरम् २.१२८.६०॥ अदृश्य एवं परशुरस्य जघ्ने बलादुरः। क्षीणशक्तिं ततो दैत्यं त्रिशूलेनाहनद्धरः ६१॥ ततोऽशक्तं द्विजवरो वदति स्म हितं वचः। त्रैलोक्यनायकेन त्वं न युद्धं कर्तुमर्हसि ६२॥ गिरिजाशां विहायाशु व्रजस्व निजमन्दिरम् । नो चेदयं शिवो भस्म करिष्यति तवाधुना ६३ एवमुक्तो द्विजेनाऽसौ वाञ्छां त्यक्त्वा भुवं ययौ। ततः सा पार्वती प्राह द्विजं प्राप्ते जयं शिवे६४ कोऽसि त्वं मुनिशार्दूल येनाहं मोचिता खलात । निजं मे दर्शय स्वीयं रूपं नेदं स्वभावजम्६५ ममप्राणाधिकोऽसि त्वं सखा प्राणप्रदो यतः। न भवेदुपकारस्ते प्राणे त्यक्ते द्विजोत्तम ६६॥ एवमाश्रुत्य तां वाचमुवाच स मुनीश्वरः। न च मातर्मयाऽकारि किञ्चिदत्र महेश्वरः ६७॥ अजयत्सिन्दुरं दैत्यं मोचिता त्वं शिवेन ह । इत्युक्त्वा पूर्वरूपं स आविष्चक्रे विनायकः ६८॥ दशदोर्दण्डरुचिरं कर्णकुण्डलमण्डितम् । कस्तूरीतिलकं रत्नमुक्तामाविभूषितम् ६९॥ नानालंकार रुचिरं शेषकण्ठमणिप्रभम् । दृष्टवैवं परमात्मानं ननन्द गिरिजा तदा २.१२८.७०॥ ननाम पादयोस्तस्य स उत्थाप्य च तां जगौ । विनायक उवाच । त्रेतायुगे प्राब्रुवं त्वां दास्यामि दर्शनं पुनः ७१॥ अवतीर्य द्वापरे ते गृहे नाम्ना गजाननः । भविष्यामि हनिष्यामि सिन्दूरं दैत्यमोजसा । क उवाच । मुनिरूपधरो देव उक्त्वावान्तरधीयत । ततः शुशोच गिरिजा मूर्छां सा परमां ययौ ७३॥ तत ऊचे विश्वनाथो मनः स्वस्थं कुरु प्रिये। पश्य त्वं ह्रदि तं देवं विनायकमनामयम् ७४॥ न मिथ्या भाषितम् तस्य यदुक्तं तत्करिष्यति । एवमुक्त्वा महादेवो वृषारूढस्तया सह ७५॥ आययौ परमं प्रीतः कैलासं पर्वतेश्वरम् ७६ (९०९)॥
adhyāya 128 prāraṃbha:- ka uvāca | sa dadarśa samāsīnaṃ nārāyaṇamanāmayam | ratnakāñcanavilatpadmāsanagataṃ vibhum 1|| so'pi taṃ purato vīkṣya vivarṇavadanaṃ tadā | tatpṛṣṭhato mahādaityaṃ gaganaspardhimastakam 2|| udatiṣṭhata vegena dayāluḥ kamalāpatiḥ | dhṛtvā karaṃ samāliṅgya svāsane kaṃ nyaveśayat 3|| saṃpūjya paripapraccha kiṃ te kāryamupasthitam | kathaṃ ca mlānavadanaḥ śvāsavāṃśca hataprabhaḥ 4|| mama khedaḥ samutpanno draṣṭvaiva tvāṃ pitāmaha | iti tadvacanaṃ śrutvā jagāda kamalāsanaḥ 5|| ka uvāca | prabodhitaḥ śivenāhaṃ pratisupto nijālaye| tato me jṛmbhato vaktrānnirgataḥ puruṣo mahān 6|| patanti bhūtale bhāni yanmastakavidhānataḥ | tasya saurabhagandhena sarva devā visismire 7|| yasya lāvaṇyamīkṣyaiva lajjito madano'bhavat | yasya kranditaśabdena cakampe bhuvanatrayam 8|| sa namaskṛtya māṃ deva vinītaḥ purataḥ sthitaḥ | tatastasmai varā dattāḥ putrasnehena mādhava 9|| yaṃ yaṃ tvamāliṅgyasī sa sa mṛtyumupaiṣyati | kālo'pi na raṇe sthātuṃ tava śakto bhaviṣyati 2.128.10|| sthānaṃ ca svecchayā tasya dattaṃ deva mayā tataḥ | namaskṛtya gato dūraṃ vitarkātpunarāgataḥ 11 māmevāliṅgituṃ yāto'palamasmādbhayādahama| haṃsamāruhya sahasā vegena tvāmupāgataḥ 12 dṛṣṭvā dṛṣṭvā pṛṣṭhagataṃ kampaḥ śvāsaśca me'bhavat| vinā tvāṃ śaraṇaṃ kaṃ vā yāmi sarveśvareśvara 13|| tato'bravīnmahāviṣṇurbrahmāṇaṃ śaraṇāgatam | deva uvāca | pūrvaṃ datvā varāndeva saṅkaṭaṃ prāpya buddhitaḥ14 idānīṃ cintayā kiṃ syādyadbhāvyaṃ tadbhaviṣyati | sa pīḍāṃ triṣu lokeṣu vidhātumudyato'bhavat 15 ka uvāca| yāvattau cintayāviṣṭau sthitau brahmaharī tadā | tāvatsa purato'tiṣṭhaddṛṣṭvā tābhyāṃ mahāsuraḥ 16|| jagarja garjayāmāsa trailokyaṃ balavattaram | brahmāṃḍaṃ kampayāmāsa brahmāṇaṃ ca tadā khalaḥ 17|| so'vadadrakṣa rakṣeti viṣṇuṃ trailokyarakṣakam | tato viṣṇurjagau daityaṃ vācā madhurayā tadā 18 hariruvāca | na tvayā varadānena mattena yauddhumutsahe | ahaṃ sattvaguṇopetaḥ pālane nirataḥ sadā 19|| ayaṃ ca brāhmaṇo brahmā tena yoddhuṃ na cārhasi | tava yuddhaprado devaḥ khyāto'sau madanāntakaḥ 2.128.20|| tena yuddhyasva te kīrtirmahatī syāttrilokagā| ka uvāca | ityākarṇya vacastasya jahṛṣe daityapuṅgavaḥ 21|| uḍḍīya prayayau sadyaḥ kampayanbhuvanatrayam | pātayanparvatānvṛkṣāṃścūrṇayansahasā bahūn 22 diggajāścalitā sarve saṃjagmurvidiśo diśaḥ | evamupatyakāṃ yātaḥ kailāsasya mahāgireḥ 23|| dadarśādhityakāyāṃ sa dhyānasthaṃ giriśaṃ khalaḥ | nandibhṛṅgigaṇākīrṇaṃ pārvatyā sevitaṃ vibhum 24|| vyāghracarmaparīdhānamardhacandravibhūṣaṇam | bhasmāṅgarāgaśobhāḍhyaṃ karicarmottarīyakam 25|| dṛṣṭvā devaṃ tadā daityo ninidra sahasā haram | anena kiṃ mayā yuddhaṃ kartavyaṃ tāpasena ha 26|| etasya sundarī bhāryāṃ nītvā yāmi yadṛcchayā| evaṃ niścitya manasā gaurīmantikamāyayau 27|| tadā cakampe girijā kalpānte jagatī yathā| nimīlya nayane mūrchāmāpāśu bhayavihvalā 28|| dadhāra tāṃ keśapāśe sa daityo duṣṭamānasaḥ | uḍḍīya calito vegācchuśoca girijā tadā29|| rāvaṇena nīyamānā yathā sā dharaṇīsutā| girijovāca | audāsīnyaṃ kathaṃ yāto mayi devo'khilārthavit 2.128.30|| dhyānaṃ kathaṃ gato'syardhe hīyamāṇe tvadaṅgake | nākāri dāsyaṃ nyūnaṃ te yena kāṭhinyamāgataḥ 31|| kaḥ sakhā mocayenmāṃ hi prāṇadātā bhavecca kaḥ| punarme śaṃkaraṃ ko nu darśayedbalavattaraḥ 32|| ka uvāca | tataḥ śokākulāṃ vīkṣya tāṃ gaṇāḥ prābruvaṃstadā | anena yoddhuṃ śaktirno trailokyanāśinā'dhunā 33|| śivaśca dhyānaniṣṭhobhūddaivādasyānukūlatā| nītā no jananī viśvasṛṣṭisthityantakāriṇī 34|| mohinī sarvadevānāṃ sarvaduḥkhavināśanī| lāvaṇyalaharī nītā sarvayoṣidvarā śubhā35|| ratnabhūtā kathaṃ nītā kathaṃ sā punareṣyati | dhyānasthe śaṃkare sarvanāśane netravahnitaḥ 36|| tasminyāsyati lobhena putrāniva jananyatha | evaṃ śokaṃ prakurvatsu hāhākārai rudatsu ca.37|| gaṇeṣu visasarjāśu dhyānaṃ krodhānmaheśvaraḥ | krodhānalena brahmāṇḍaṃ dahanniva diśo daśa 38|| papraccha tāngaṇāñśambhuḥ saṅkaṭaṃ kimupasthitam | bhasmasāttaṃ kariṣyāmi yena vaḥ kadanaṃ kṛtam 39|| iti tadvacanaṃ śrutvā procustaṃ te gaṇāstadā| tvayi dhyānasthite deva mandarācalasannibhaḥ 2.128.40|| kṛtāntasamarūpaḥ sannāgato daityapuṅgavaḥ | yasya śvāsānilahatā acalāścalatāṃ gatāḥ 41|| saṃmohaṃ prāpitā devā darśanādeva śaṃkara| tataḥ sa girijāṃ dhṛtvā keśāpāśe mahābalaḥ 42|| nināya satvaraṃ vyomamārgeṇa jananīṃ hi naḥ| nīyamānā śivā prāha dhāvadhāveti satvaram 43|| mūrchitāḥ patitā bhūmau vayaṃ sarve vimūrchitāḥ | tathāvidhāṃ samādāya yayau sa duṣṭamānasaḥ 44|| śrutvā teṣāṃ vacaḥ śaṃbhurjajvāla paramaṃ ruṣā | kurvanbhasmeva lokānāmāruroha vṛṣaṃ nijam 45|| triśūlādīni śastrāṇi dadhāno daśabhirbhujaiḥ | nabhomārgeṇa prayayau garjayanvidiśo diśaḥ 46|| yatrāsītsindurodaityastaṃ deśamagamatkṣaṇāt| ahanatpṛṣṭhadeśe taṃ tasthau sa saṃmukhaṃ tadā 47|| muṃca bhāryāṃ mahāduṣṭa hraṣṭa: sankva gamiṣyasi | ityuktaḥ sa ruṣāviṣṭastrilokīṃ bhasmatāṃ nayan 48|| bāhubhyāṃ mārayanneva prayayau śivasannidhau | uvāca ca mahādaityo garveṇa parimohitaḥ 49|| nāhaṃ maśakavākyena bibhemi bhuvanādhipaḥ | yasya śvāsānilenāśu kampate meruparvataḥ 2.128.50|| tasya me gaṇanā nāsti mukhaṃ māṃ mā pradarśaya | yadi śaktirmayā sārdhaṃ yuddhaṃ kartuṃ tadā kuru 51|| no cedanyāṃ pāṇiya tataḥ saukhyamavāpsyasi | kiṃ mayā saha yauddhavyaṃ maśakena tvayā lagho 52|| evamuktvā bāhuyuddhaṃ kartuṃ śaṃkaramāyayau | durgā devī tu sasmāra mayūreśaṃ svacetasi 53|| dvijarūpadharo devo mayūreśastatastayoḥ | antarāle prādurāsītkoṭisūryanibhaḥ kṣaṇāt 54|| sarvāṅgasundaro nānābhūṣaṇairupaśobhitaḥ | paraśuṃ madhyataḥ kṛtvā vārayāmāsa daityapam 55|| uvāca ślakṣṇayā vācā sindūraṃ taṃ dvijottamaḥ | trailokyajananīṃ gaurīṃ sthāpayāśu mamāntike 56|| yudhyasva śaṃkareṇa tvaṃ yāvajjayaparājayau | jayo yasya bhavettena grāhyeti nānyathā vacaḥ 57|| ka uvāca | dvijavākyaṃ samākarṇya sindūro hraṣṭamānasaḥ | sthāpayāmāsa girijāṃ yuddhāya bahulālasaḥ58 tayostu paśyatoreva tāvubhāvapya yudhyatāma| sindūraśca maheśaśca nānāyuddhaviśāradau 59|| krodhasaṃraktanayanau tulyatejaḥparākramau | bāhubhyāṃ veṣṭituṃ yāvadiyeṣa so'suro haram 2.128.60|| adṛśya evaṃ paraśurasya jaghne balāduraḥ| kṣīṇaśaktiṃ tato daityaṃ triśūlenāhanaddharaḥ 61|| tato'śaktaṃ dvijavaro vadati sma hitaṃ vacaḥ| trailokyanāyakena tvaṃ na yuddhaṃ kartumarhasi 62|| girijāśāṃ vihāyāśu vrajasva nijamandiram | no cedayaṃ śivo bhasma kariṣyati tavādhunā 63 evamukto dvijenā'sau vāñchāṃ tyaktvā bhuvaṃ yayau| tataḥ sā pārvatī prāha dvijaṃ prāpte jayaṃ śive64 ko'si tvaṃ muniśārdūla yenāhaṃ mocitā khalāta | nijaṃ me darśaya svīyaṃ rūpaṃ nedaṃ svabhāvajam65 mamaprāṇādhiko'si tvaṃ sakhā prāṇaprado yataḥ| na bhavedupakāraste prāṇe tyakte dvijottama 66|| evamāśrutya tāṃ vācamuvāca sa munīśvaraḥ| na ca mātarmayā'kāri kiñcidatra maheśvaraḥ 67|| ajayatsinduraṃ daityaṃ mocitā tvaṃ śivena ha | ityuktvā pūrvarūpaṃ sa āviṣcakre vināyakaḥ 68|| daśadordaṇḍaruciraṃ karṇakuṇḍalamaṇḍitam | kastūrītilakaṃ ratnamuktāmāvibhūṣitam 69|| nānālaṃkāra ruciraṃ śeṣakaṇṭhamaṇiprabham | dṛṣṭavaivaṃ paramātmānaṃ nananda girijā tadā 2.128.70|| nanāma pādayostasya sa utthāpya ca tāṃ jagau | vināyaka uvāca | tretāyuge prābruvaṃ tvāṃ dāsyāmi darśanaṃ punaḥ 71|| avatīrya dvāpare te gṛhe nāmnā gajānanaḥ | bhaviṣyāmi haniṣyāmi sindūraṃ daityamojasā | ka uvāca | munirūpadharo deva uktvāvāntaradhīyata | tataḥ śuśoca girijā mūrchāṃ sā paramāṃ yayau 73|| tata ūce viśvanātho manaḥ svasthaṃ kuru priye| paśya tvaṃ hradi taṃ devaṃ vināyakamanāmayam 74|| na mithyā bhāṣitam tasya yaduktaṃ tatkariṣyati | evamuktvā mahādevo vṛṣārūḍhastayā saha 75|| āyayau paramaṃ prītaḥ kailāsaṃ parvateśvaram 76 (909)||
GnP 2 126.129
अध्याय १२९ प्रारंभ :- क उवाच । ततो दैत्यो मृत्युलोकं गतो गर्वादगर्जत। कम्पितः पर्वताः सर्वे वृक्षा निपतिता भुवि१॥ पक्षिसिंहाः श्वापदानि बभ्रमुः कानने तदा । ततो जिगाय नृपतीन्सर्वान्वीरांश्च दानवः २॥ ब्रह्मादयो जिता येन तेनायुध्यन्कथं नृपाः। केचिद्द्विधा कृतास्तेन केचिन्नभसि बभ्रमुः ३॥ केचिच्च सम्मुखे युद्धं कृत्वा स्वर्गं गता नृपाः । केचिच्च शरणं याता: सेवकत्वमुपागताः४॥ केचिद्भ्रष्टपदा जग्मुरभिमानेन काननम्। एवं जित्वा नृपान्सर्वान्मुनीनामाक्रमे मतिम५ अकरोद्दुष्ट बुद्धिःस बबन्ध सहसा च तान् । तदा केचिन्मुनिगणास्त्यक्त्वा देहं दिवं गताः ६॥ केचिच्च मेरुकन्दर्यां न्यवसन्विगतज्वराः । केचिच्च निहतास्तेन केचिच्च ताडिता भृशम् ७॥ प्रासादाः सकलास्तेन विध्वस्ता देवता अपि । एवं तु प्रलये जाते लुप्यन्क्रियाश्च वैदिकाः ८॥ स्वाहास्वधावषट्कारा हाहाकारोऽप्यजायत । देवा गिरिगुहास्थास्ते मुनयो यक्षकिन्नराः ९॥ न्यमन्त्रयन्त कार्यार्थं तत्र प्राह बृहस्पतिः । विद्यमानेभ्यो देवेभ्यस्तेभ्यः सर्वेभ्य एव च २.१२९.१०॥ न भयं विद्यते तस्य तस्माद्देवं विनायकम् । प्रार्थयध्वं यदा विप्राः प्रादुर्भावं शिवालये ११॥ गजाननेति नाम्ना स करिष्यति च साम्प्रतम् । हनिष्यति बलाद्दैत्यं सिन्दूरं नात्र संशयः १२॥ निराबाधं जगत्सर्वं भविष्यति तदा सुराः । एवमुक्तास्तु जीवेन तं तु देवादयोऽखिला । भक्त्या परमया युक्तास्तुष्टुवुस्तं विनायकम् १३॥ देवा ऊचुः । जगतः कारणं योऽसौ रविनक्षत्रसंभवः । सिद्धसाध्यगणाः सर्वे यत एव च सिन्धवः १४॥ गन्धर्वाः किन्नरा यक्षा मनुष्योरगराक्षसाः । यतश्चराचरं विश्वं तं नमामि विनायकम् १५॥ यतो ब्रह्मादयो देवा मुनयश्च महर्षयः । यतो गुणास्त्रयो जातास्तं नमामि विनायकम् १६॥ यतो नानावताराश्च यश्च सर्वहृदि स्थितः । यं स्तोतुं नैव शक्नोति शेषस्तं गणपं भजेत् १७॥ सिन्दूरो निर्मितः केन विश्वसंहारकारकः । तेनातिप्रापितं विश्वं त्वयि स्वामिनि जाग्रति १८॥ अन्यं कं शरणं यामः को नु पास्यति नोऽखिलान् । जह्येनं दुष्टबुद्धिं त्वमवतीर्य शिवालये १९॥ इत्युक्त्वा परितेपुस्ते नानानुष्ठानतत्परा: । निराहारा यताहाराः प्राणायामपरायणाः २.१२९.२०॥ एकपादस्थिताः केचिज्जलमध्ये स्थिताः परे २१॥ ऊर्ध्वबाहुतया केचित्केचिच्च योगमास्थिताः । केचिच्चकर्तुःस्वान्देहान्केचिच्च मस्तकानपि २२॥ एवं तेषां निरीक्ष्यैव तपांसि गणराट्तदा । आविरासीत्कोटिसूर्यप्रलयानलसन्निभः २३॥ दृष्ट्वा तेजोमयं रूपं जह्रषुस्ते सुरास्तदा । यश्चिन्तितः स एवायमाविर्भूतोऽखिलेश्वरः २४॥ अपनेष्यति नो दुःखं नात्र कार्या विचारणा । तत ऊचे स भगवांस्तान्सुरांश्चिन्तया युतान् २५॥ हनिष्ये सिन्दुरं देवा मा चिन्तां कर्तुमर्हथ । दुःखप्रशमनं नाम स्तोत्रं वः ख्यातिमेष्यति २६॥ अतो दुःखविनाशो वा जातोऽस्मान्मदनुग्रहात् । एककालं द्विकालं वा त्रिकालं वापि यः पठेत् २७ कदाचिन्न भवेदस्य दुःखं त्रिविधमण्वपि। अहं तु सांप्रतं देवा अवतीर्य शिवालये २८ नाम्ना गजानन इति ख्यातः सर्वार्थसाधकः । भविष्यामि हनिष्यामि सिन्दूरादीन्महासुरान् २९ करिष्यामि शिवादास्यं कौतुकानि प्रदर्शयन्। क उवाच। एवमुक्त्वा ततो देवांस्तत्रैवान्तर धीयत २.१२९.३० ततोऽकस्माद्धैमवती शिवानुग्रहतो दधौ । गर्भं स ववृधेऽत्यन्तं दिने दिने यथाशशी३१ ततस्तत्तेजसा तप्ता नानादोहदकांक्षिणी। उवाच शंकरं गौरी संतप्ता गर्भतेजसा३२ अतिशीतस्थलं यत्र तत्र मां नय शंकर। तत्रोऽसौ वृषभारूढः पृष्ठे तामुपवेश्य ह३३ भासयन्तीं महातेजःपुंजेन विदिशो दिशः । वाद्यत्सु सर्ववाद्येषु ययौ स क्षितिमण्डलम् ३४॥ नानागणैः समायुक्तो बभ्राम काननानि सः । भ्रमता तेन दृष्टं हि पर्यलीकाननं महत् ३५॥ तत्र विश्रान्तिमकरोत्पार्वत्यानुमते तदा । नानापुष्पसमाकीर्णं नानाद्रुमफलान्वितम् ३६॥ सरोवापीयुतं सान्द्रतरुच्छायं मनोरमम् । यत्रोस्त्राणां न प्रवेशः कैलासशिखरोपमम् ३७॥ नन्दनादधिशोभं तद्वनं चैत्ररथादपि । तद्वीक्ष्य गिरिजा प्रोच इच्छया सदृशं शिव ३८॥ वनं प्राप्तं महादेव क्रीडावोऽत्र चिरं विभो । गणानामपि सर्वेषां प्रीतिस्तत्र ह्यभूत्तदा ३९॥ ततो गणा मण्डपं ते चक्रुस्तत्प्रियकाम्यया । नानावेदीगृहयुतं नानोपस्करसंयुतम् २.१२९.४०॥ तत ऊचे शिवो देवीं वसात्र त्वं गणैर्युता । यद्यत्ते प्रार्थितं तत्ते दास्यन्ति मदनुग्रहात् ४१॥ ततः स्वयं जगामाशु ध्यानस्थोऽभूद्धिमालये। सखीभिः पार्वती तत्र चिक्रीडे सा यथारुचि ४२॥ अरक्षंस्तां कोटिगणाः समन्तादावृतस्तदा । तदाज्ञावशगाः सर्वे कन्दमूलफलाशिनः ४३ (५९५२)॥
adhyāya 129 prāraṃbha :- ka uvāca | tato daityo mṛtyulokaṃ gato garvādagarjata| kampitaḥ parvatāḥ sarve vṛkṣā nipatitā bhuvi1|| pakṣisiṃhāḥ śvāpadāni babhramuḥ kānane tadā | tato jigāya nṛpatīnsarvānvīrāṃśca dānavaḥ 2|| brahmādayo jitā yena tenāyudhyankathaṃ nṛpāḥ| keciddvidhā kṛtāstena kecinnabhasi babhramuḥ 3|| kecicca sammukhe yuddhaṃ kṛtvā svargaṃ gatā nṛpāḥ | kecicca śaraṇaṃ yātā: sevakatvamupāgatāḥ4|| kecidbhraṣṭapadā jagmurabhimānena kānanam| evaṃ jitvā nṛpānsarvānmunīnāmākrame matima5 akarodduṣṭa buddhiḥsa babandha sahasā ca tān | tadā kecinmunigaṇāstyaktvā dehaṃ divaṃ gatāḥ 6|| kecicca merukandaryāṃ nyavasanvigatajvarāḥ | kecicca nihatāstena kecicca tāḍitā bhṛśam 7|| prāsādāḥ sakalāstena vidhvastā devatā api | evaṃ tu pralaye jāte lupyankriyāśca vaidikāḥ 8|| svāhāsvadhāvaṣaṭkārā hāhākāro'pyajāyata | devā giriguhāsthāste munayo yakṣakinnarāḥ 9|| nyamantrayanta kāryārthaṃ tatra prāha bṛhaspatiḥ | vidyamānebhyo devebhyastebhyaḥ sarvebhya eva ca 2.129.10|| na bhayaṃ vidyate tasya tasmāddevaṃ vināyakam | prārthayadhvaṃ yadā viprāḥ prādurbhāvaṃ śivālaye 11|| gajānaneti nāmnā sa kariṣyati ca sāmpratam | haniṣyati balāddaityaṃ sindūraṃ nātra saṃśayaḥ 12|| nirābādhaṃ jagatsarvaṃ bhaviṣyati tadā surāḥ | evamuktāstu jīvena taṃ tu devādayo'khilā | bhaktyā paramayā yuktāstuṣṭuvustaṃ vināyakam 13|| devā ūcuḥ | jagataḥ kāraṇaṃ yo'sau ravinakṣatrasaṃbhavaḥ | siddhasādhyagaṇāḥ sarve yata eva ca sindhavaḥ 14|| gandharvāḥ kinnarā yakṣā manuṣyoragarākṣasāḥ | yataścarācaraṃ viśvaṃ taṃ namāmi vināyakam 15|| yato brahmādayo devā munayaśca maharṣayaḥ | yato guṇāstrayo jātāstaṃ namāmi vināyakam 16|| yato nānāvatārāśca yaśca sarvahṛdi sthitaḥ | yaṃ stotuṃ naiva śaknoti śeṣastaṃ gaṇapaṃ bhajet 17|| sindūro nirmitaḥ kena viśvasaṃhārakārakaḥ | tenātiprāpitaṃ viśvaṃ tvayi svāmini jāgrati 18|| anyaṃ kaṃ śaraṇaṃ yāmaḥ ko nu pāsyati no'khilān | jahyenaṃ duṣṭabuddhiṃ tvamavatīrya śivālaye 19|| ityuktvā paritepuste nānānuṣṭhānatatparā: | nirāhārā yatāhārāḥ prāṇāyāmaparāyaṇāḥ 2.129.20|| ekapādasthitāḥ kecijjalamadhye sthitāḥ pare 21|| ūrdhvabāhutayā kecitkecicca yogamāsthitāḥ | keciccakartuḥsvāndehānkecicca mastakānapi 22|| evaṃ teṣāṃ nirīkṣyaiva tapāṃsi gaṇarāṭtadā | āvirāsītkoṭisūryapralayānalasannibhaḥ 23|| dṛṣṭvā tejomayaṃ rūpaṃ jahraṣuste surāstadā | yaścintitaḥ sa evāyamāvirbhūto'khileśvaraḥ 24|| apaneṣyati no duḥkhaṃ nātra kāryā vicāraṇā | tata ūce sa bhagavāṃstānsurāṃścintayā yutān 25|| haniṣye sinduraṃ devā mā cintāṃ kartumarhatha | duḥkhapraśamanaṃ nāma stotraṃ vaḥ khyātimeṣyati 26|| ato duḥkhavināśo vā jāto'smānmadanugrahāt | ekakālaṃ dvikālaṃ vā trikālaṃ vāpi yaḥ paṭhet 27 kadācinna bhavedasya duḥkhaṃ trividhamaṇvapi| ahaṃ tu sāṃprataṃ devā avatīrya śivālaye 28 nāmnā gajānana iti khyātaḥ sarvārthasādhakaḥ | bhaviṣyāmi haniṣyāmi sindūrādīnmahāsurān 29 kariṣyāmi śivādāsyaṃ kautukāni pradarśayan| ka uvāca| evamuktvā tato devāṃstatraivāntara dhīyata 2.129.30 tato'kasmāddhaimavatī śivānugrahato dadhau | garbhaṃ sa vavṛdhe'tyantaṃ dine dine yathāśaśī31 tatastattejasā taptā nānādohadakāṃkṣiṇī| uvāca śaṃkaraṃ gaurī saṃtaptā garbhatejasā32 atiśītasthalaṃ yatra tatra māṃ naya śaṃkara| tatro'sau vṛṣabhārūḍhaḥ pṛṣṭhe tāmupaveśya ha33 bhāsayantīṃ mahātejaḥpuṃjena vidiśo diśaḥ | vādyatsu sarvavādyeṣu yayau sa kṣitimaṇḍalam 34|| nānāgaṇaiḥ samāyukto babhrāma kānanāni saḥ | bhramatā tena dṛṣṭaṃ hi paryalīkānanaṃ mahat 35|| tatra viśrāntimakarotpārvatyānumate tadā | nānāpuṣpasamākīrṇaṃ nānādrumaphalānvitam 36|| sarovāpīyutaṃ sāndratarucchāyaṃ manoramam | yatrostrāṇāṃ na praveśaḥ kailāsaśikharopamam 37|| nandanādadhiśobhaṃ tadvanaṃ caitrarathādapi | tadvīkṣya girijā proca icchayā sadṛśaṃ śiva 38|| vanaṃ prāptaṃ mahādeva krīḍāvo'tra ciraṃ vibho | gaṇānāmapi sarveṣāṃ prītistatra hyabhūttadā 39|| tato gaṇā maṇḍapaṃ te cakrustatpriyakāmyayā | nānāvedīgṛhayutaṃ nānopaskarasaṃyutam 2.129.40|| tata ūce śivo devīṃ vasātra tvaṃ gaṇairyutā | yadyatte prārthitaṃ tatte dāsyanti madanugrahāt 41|| tataḥ svayaṃ jagāmāśu dhyānastho'bhūddhimālaye| sakhībhiḥ pārvatī tatra cikrīḍe sā yathāruci 42|| arakṣaṃstāṃ koṭigaṇāḥ samantādāvṛtastadā | tadājñāvaśagāḥ sarve kandamūlaphalāśinaḥ 43 (5952)||
GnP 2 126.130
अध्याय १३० प्रारंभ :- क उवाच। ततस्तु नवमे मासि पूर्णे साऽसूत बालकम। चारुचन्द्राननं पद्मशोभाजिन्नयनं शुभम्१॥ किरीटकेयूरधरं कोटिसूर्यसमप्रभम् । प्रवालाधरशोभाढ्यं चतुर्बाहुर्विराजितम् २॥ मुक्ताहारधरं चारुकंकणैरुपशोभितम् । परशुं कमलं माला मोदकांश्च करैर्दधत् ३॥ ध्वजांकुशाब्जविलसत्पादपद्मसमन्वितम् । किंकिणीजालविलसच्चारुगुल्फयुतं शुभम् ४॥ भालचन्द्रं कोटिचन्द्रनिभं वह्निसमप्रभम् । एवं दृष्ट्वा स्वरूपं सा चकम्पे हर्षनिर्भरा ५॥ किमिदं तेज उदितं नयनाच्छादकं महत् । कोऽसि त्वं वद मे चेतो नन्दयस्व कृपां कुरु ६॥ इत्युक्त्वा तं नमश्चक्रे स्मरन्ती पूर्वकं वचः । तत ऊचे महोमूर्तिर्मा मातर्विमना भव ७॥ गुणेशोऽहमनेकानां ब्रह्माण्डानां विधायकः । असंख्याता मेऽवतारा न ज्ञायंते ऽमरैरपि ८॥ इच्छया सृष्टिसंहारपालनानि करोम्यहम्। त्रिधा रूपं विधायाहं विश्वस्य शिवनन्दिनि ९॥ त्रेतायुगेऽवतीर्याहं त्वद्गृहे लीलया पुरा । अनेकानि चरित्राणि कृतानि सिन्धुनाशनम् २.१३०.१०॥ मयूरेश्वरनामाहं षड्रभुजोऽर्जुनवर्णकः । तदा मया वचो दत्तं द्वापरे ते सुतः पुनः ११॥ भवेयं सेवकश्चाहं सिन्दूरान्मोचिता मया । द्विजरूपेण सहसा स्मर सर्वं शुचिस्मिते १२॥ तदापि तनयस्तेऽहं भविष्यामीत्यथाब्रुवम् । तदिदं सत्यवचनं मया संपादि पार्वति १३॥ भूभारं च हरिष्यामि सिन्दूरं च महाबलम् । सेवनं च करिष्यामि तव मातर्गजाननः १४॥ विख्यातोऽहं भविष्यामि भक्तानां कामपूरकः । क उवाच । एवं श्रुत्वा वचो गौरी स्मृत्वा सर्वं पुरातनम् १५॥ नत्वा तुष्टाव देवेशं विश्वेशं विघ्ननाशकम् । गौर्युवाच । निर्विकल्पचिदानन्दघनं ब्रह्मस्वरूपिणम् १६॥ भक्तप्रियं निराकारं साकारं गुणभेदत । नमाम्यहमतिस्थूलमणुभ्योऽणुतरं विभुम् १७॥ अव्यक्तं व्यक्तिमापन्नं रजःसत्त्वतमोगुणम् । मायाविनं मायिनं च सर्वमायाविदं प्रभुम् १८॥ सर्वान्तर्यामिणं नित्यं सर्वाधारं परात्परम् । चतुर्णामपि देवानां मानसस्याप्यगोचरम् १९॥ महद्भाग्यं मम विभो स त्वं मे पुत्रतां गतः। प्रतीक्षन्त्या मम विभो प्रत्यक्षं दर्शनं गतः । इदानीं त्वद्वियोगो मे न स्याद्देव तथा कुरु २.१३०.२०॥ एवं वदन्त्या तस्यां तु देवो रूपान्तरं दधौ । चतुर्भुजं भालचन्द्रं शुण्डादण्डविराजितम् २१॥ अनेकभूषणयुतं चिन्तामणियुतं ह्रदि । दिव्याम्बरं दिव्यगन्धं सिद्धिबुद्धियुतं तदा २२॥ रुरोद बालवच्चाज्ञो ददृशे गिरिजा तु तम् । शुशोच बहुधा तन्वी निधिः केन हुतो मम २३॥ न बालस्त्रिषु लोकेषु दृष्टः शुण्डाविराजितः । ब्रह्मादयो हसिष्यन्ति लोकाश्चेक्ष्येदृशं शिशुम् २४॥ एवं बहुविधं शोकं श्रुत्वाऽगाच्छंकरो गृहम् । सगणस्तं शिशुं गृहय प्राह तां शृणु मे प्रिये २५॥ अनादिनिधनो देवः शुण्डादण्ड विराजितः । यत्र कुण्ठाश्चतुर्वेदाः शास्त्राणि मुनयोऽवराः २६॥ प्रपञ्चे गुम्फिता येन नाना कार्यवता प्रिये । सर्वान्तर्याम्यनेकानां ब्रह्माण्डानां च कारकः २७॥ चत्वार्यस्य च रूपाणि चतुर्षु च युगेषु च । कृते दशभुजो नाम्ना विनायक इति श्रुतः २८॥ त्रेतायुगे शुक्लवर्णः षड्भुजो ऽसौ मयूरराट् । सिन्धुं हत्वाऽपालयत्सोऽवतीर्य स्वालये प्रिये २९॥ स एवायं रक्तवर्णश्चतुर्बाहुविराजितः । अवतीर्णो गृहे नौ हि सिन्दूरं निहनिष्यति २.१३०.३०॥ आरुह्य मूषकं देवो भूभारं च हरिष्यति । नाम्ना गजानन इति त्रैलोक्ये ख्यातिमेष्यति ३१ अयं कलियुगे देवि धूम्रकेतुरिति प्रथाम् । चतुर्बाहुश्चारुनेत्रो यास्यते रुचिरां भुवि ३२॥ निशम्य शिववाक्यं स उवाच बालकः स्फुटम् । बाल उवाच । सम्यग्बुद्धं स्वरूपं मे सम्यगुक्तं त्वया शिव ३३॥ अवतीर्णस्तव गृहे सेवा कर्तुं च सिन्दुरम् । निहन्तुं च निहंतारं देवानां सर्वभुभूजाम् ३४॥ मर्दनं भूधराणां च त्रैलोक्यजयशालिनम् । हत्वा तं विश्वसंतोषं करिष्यामि च शंकर ३५॥ भक्तानां कामपूरश्च वेदकर्मप्रवर्तकः । भविष्यामि वरेण्यस्य वरदो ज्ञानदायकः ३६॥ अयि भक्तिर्भवेत्तस्य मम ध्यानपरायणः । देवद्विजातिथीनां च पूजकः पंचयज्ञकृत् ३७॥ पुराणश्रवणे सक्तः स्वाचारः सत्यवांशुचिः । पुष्पिका नाम यस्यापि पत्नी धर्मपरायणा ३८॥ पतिव्रता पतिप्राणा पतिवाक्यपरायणा । ताभ्यां द्वादशवर्षाणि तपस्तप्तं सुदारुणम् ३९॥ तयोर्मया वरो दत्त एष्ये वां पुत्रतां ध्रुवम् । पुष्पिकायां प्रसूतायामद्यैव राक्षसैः शिशुः २.१३०.४०॥ नीतश्च त्यक्ष्यते प्राणांस्तस्मान्मां नय तत्र ह । एवमाकर्ण्य तद्वाक्यं शिवो हर्षसमन्वितः ४१॥ नानावाङ्मयपुष्पैस्तं पूजयामास भक्तितः ४२ (५९९४ )॥
adhyāya 130 prāraṃbha :- ka uvāca| tatastu navame māsi pūrṇe sā'sūta bālakama| cārucandrānanaṃ padmaśobhājinnayanaṃ śubham1|| kirīṭakeyūradharaṃ koṭisūryasamaprabham | pravālādharaśobhāḍhyaṃ caturbāhurvirājitam 2|| muktāhāradharaṃ cārukaṃkaṇairupaśobhitam | paraśuṃ kamalaṃ mālā modakāṃśca karairdadhat 3|| dhvajāṃkuśābjavilasatpādapadmasamanvitam | kiṃkiṇījālavilasaccārugulphayutaṃ śubham 4|| bhālacandraṃ koṭicandranibhaṃ vahnisamaprabham | evaṃ dṛṣṭvā svarūpaṃ sā cakampe harṣanirbharā 5|| kimidaṃ teja uditaṃ nayanācchādakaṃ mahat | ko'si tvaṃ vada me ceto nandayasva kṛpāṃ kuru 6|| ityuktvā taṃ namaścakre smarantī pūrvakaṃ vacaḥ | tata ūce mahomūrtirmā mātarvimanā bhava 7|| guṇeśo'hamanekānāṃ brahmāṇḍānāṃ vidhāyakaḥ | asaṃkhyātā me'vatārā na jñāyaṃte 'marairapi 8|| icchayā sṛṣṭisaṃhārapālanāni karomyaham| tridhā rūpaṃ vidhāyāhaṃ viśvasya śivanandini 9|| tretāyuge'vatīryāhaṃ tvadgṛhe līlayā purā | anekāni caritrāṇi kṛtāni sindhunāśanam 2.130.10|| mayūreśvaranāmāhaṃ ṣaḍrabhujo'rjunavarṇakaḥ | tadā mayā vaco dattaṃ dvāpare te sutaḥ punaḥ 11|| bhaveyaṃ sevakaścāhaṃ sindūrānmocitā mayā | dvijarūpeṇa sahasā smara sarvaṃ śucismite 12|| tadāpi tanayaste'haṃ bhaviṣyāmītyathābruvam | tadidaṃ satyavacanaṃ mayā saṃpādi pārvati 13|| bhūbhāraṃ ca hariṣyāmi sindūraṃ ca mahābalam | sevanaṃ ca kariṣyāmi tava mātargajānanaḥ 14|| vikhyāto'haṃ bhaviṣyāmi bhaktānāṃ kāmapūrakaḥ | ka uvāca | evaṃ śrutvā vaco gaurī smṛtvā sarvaṃ purātanam 15|| natvā tuṣṭāva deveśaṃ viśveśaṃ vighnanāśakam | gauryuvāca | nirvikalpacidānandaghanaṃ brahmasvarūpiṇam 16|| bhaktapriyaṃ nirākāraṃ sākāraṃ guṇabhedata | namāmyahamatisthūlamaṇubhyo'ṇutaraṃ vibhum 17|| avyaktaṃ vyaktimāpannaṃ rajaḥsattvatamoguṇam | māyāvinaṃ māyinaṃ ca sarvamāyāvidaṃ prabhum 18|| sarvāntaryāmiṇaṃ nityaṃ sarvādhāraṃ parātparam | caturṇāmapi devānāṃ mānasasyāpyagocaram 19|| mahadbhāgyaṃ mama vibho sa tvaṃ me putratāṃ gataḥ| pratīkṣantyā mama vibho pratyakṣaṃ darśanaṃ gataḥ | idānīṃ tvadviyogo me na syāddeva tathā kuru 2.130.20|| evaṃ vadantyā tasyāṃ tu devo rūpāntaraṃ dadhau | caturbhujaṃ bhālacandraṃ śuṇḍādaṇḍavirājitam 21|| anekabhūṣaṇayutaṃ cintāmaṇiyutaṃ hradi | divyāmbaraṃ divyagandhaṃ siddhibuddhiyutaṃ tadā 22|| ruroda bālavaccājño dadṛśe girijā tu tam | śuśoca bahudhā tanvī nidhiḥ kena huto mama 23|| na bālastriṣu lokeṣu dṛṣṭaḥ śuṇḍāvirājitaḥ | brahmādayo hasiṣyanti lokāścekṣyedṛśaṃ śiśum 24|| evaṃ bahuvidhaṃ śokaṃ śrutvā'gācchaṃkaro gṛham | sagaṇastaṃ śiśuṃ gṛhaya prāha tāṃ śṛṇu me priye 25|| anādinidhano devaḥ śuṇḍādaṇḍa virājitaḥ | yatra kuṇṭhāścaturvedāḥ śāstrāṇi munayo'varāḥ 26|| prapañce gumphitā yena nānā kāryavatā priye | sarvāntaryāmyanekānāṃ brahmāṇḍānāṃ ca kārakaḥ 27|| catvāryasya ca rūpāṇi caturṣu ca yugeṣu ca | kṛte daśabhujo nāmnā vināyaka iti śrutaḥ 28|| tretāyuge śuklavarṇaḥ ṣaḍbhujo 'sau mayūrarāṭ | sindhuṃ hatvā'pālayatso'vatīrya svālaye priye 29|| sa evāyaṃ raktavarṇaścaturbāhuvirājitaḥ | avatīrṇo gṛhe nau hi sindūraṃ nihaniṣyati 2.130.30|| āruhya mūṣakaṃ devo bhūbhāraṃ ca hariṣyati | nāmnā gajānana iti trailokye khyātimeṣyati 31 ayaṃ kaliyuge devi dhūmraketuriti prathām | caturbāhuścārunetro yāsyate rucirāṃ bhuvi 32|| niśamya śivavākyaṃ sa uvāca bālakaḥ sphuṭam | bāla uvāca | samyagbuddhaṃ svarūpaṃ me samyaguktaṃ tvayā śiva 33|| avatīrṇastava gṛhe sevā kartuṃ ca sinduram | nihantuṃ ca nihaṃtāraṃ devānāṃ sarvabhubhūjām 34|| mardanaṃ bhūdharāṇāṃ ca trailokyajayaśālinam | hatvā taṃ viśvasaṃtoṣaṃ kariṣyāmi ca śaṃkara 35|| bhaktānāṃ kāmapūraśca vedakarmapravartakaḥ | bhaviṣyāmi vareṇyasya varado jñānadāyakaḥ 36|| ayi bhaktirbhavettasya mama dhyānaparāyaṇaḥ | devadvijātithīnāṃ ca pūjakaḥ paṃcayajñakṛt 37|| purāṇaśravaṇe saktaḥ svācāraḥ satyavāṃśuciḥ | puṣpikā nāma yasyāpi patnī dharmaparāyaṇā 38|| pativratā patiprāṇā pativākyaparāyaṇā | tābhyāṃ dvādaśavarṣāṇi tapastaptaṃ sudāruṇam 39|| tayormayā varo datta eṣye vāṃ putratāṃ dhruvam | puṣpikāyāṃ prasūtāyāmadyaiva rākṣasaiḥ śiśuḥ 2.130.40|| nītaśca tyakṣyate prāṇāṃstasmānmāṃ naya tatra ha | evamākarṇya tadvākyaṃ śivo harṣasamanvitaḥ 41|| nānāvāṅmayapuṣpaistaṃ pūjayāmāsa bhaktitaḥ 42 (5994 )||