← Ganesha Purana — Kridakhanda

Ganesha Purana — Kridakhanda — Chapter 124

GnP 2 124.1

उदक्शिराः प्रसुष्वाप काश्चित्तत्राशुभावहः । जानुनोर्मस्तकं न्यस्य तस्थौ तूष्णीं चलन्निव ३ ॥ हनौ पाणितलं न्यस्य तस्थौ काचिन्मुदं विना । एतस्मिन्नन्तरे दूता यमदूता इवाययुः ४ ॥ अतिम्लानमुखा दीना नाब्रुवन्मूकतां गताः । पृष्टास्ते प्राहुर- परे वृत्तान्तं रणभूगतम् ५ ॥ दूता ऊचुः । असंख्यातान्महावीरान्हत्वा सिन्धुर्दिवं गतः । बालानस्मान्परित्यज्य तेन हीना रुदामहे ६ ॥ निरीक्ष्य देवान्निहतान्क्रुद्धोऽगाद्गिरिजासुतः।॥ अस्त्रैरस्त्राणि संवार्य मुमोच परशुं शितम् ७ ॥ तेन सिन्धुर्मृतस्तत्र पतितो धरणीतले ।॥ मुमूर्छुस्तत्र सर्वेऽपि तदीया नागराश्च ह ८ ॥ श्रुत्वा वार्तां दूतमुखाद्रुरुदुः सर्व एव ते।॥ विललापाथ दुर्गा सा जघान शिर उत्कटम् ९ ॥ मुक्तकेशा मुहुर्वक्त्रं निघ्नती गतभूषणा । उग्रा च जननी चास्य चक्रपाणिः पिता तदा २.१२४.१० ॥ पौराश्च रुरुदुस्तत्र निघ्नन्तः पाणिना मुखम् ।॥ अवनौ शिर आस्फाल्य लुलण्ठुर्घोरनिस्वनाः ११ ॥ कश्चिद्धूलिं निचिक्षेप मुखे शिरसि दुःखितः । हस्तपृष्ठं ददंशान्यास्ताभ्यां भूमिमथाहनत् १२ ॥ अशपन्गिरिजापुत्रं स्त्रियो भङ्क्त्वा करांगुलीः । उग्रोवाच । नानायत्नैस्तपसा सूर्यतुष्ट्या नत्या स्तुत्या लङघनैः सर्वदानैः । प्रातःकालान्महतस्त्वं कथंचिच्छूरो मानी केन नीतोऽसि रे त्वम् १३ ॥ त्रिलोकनायकेनाहं श्लाघ्या त्रैलो- क्यमंडले । शपिष्यन्ति च मां लोका हतभाग्यासि सांप्रतम् १४ ॥ जिताः कृतान्तः पूर्वं ते कथं तेन समागमः । प्राप्तस्त्वया कथं पुत्र न जितः पुनरेव सः १५ ॥ सकामो गिरिजापुत्रस्त्वयि याते दिवं सुत । मामपृष्ट्वा कथं यातः स्वर्ग लोकं सुखावहम् १६ ॥ दुःखितायां मयि सुत कथं सन्तोषमेष्यसि । गर्जन्ति नैव जीमूतास्त्वयि गर्जति पुत्रक १७ ॥ निःशब्दः स कथं पुत्र पतितस्त्वं रणांगणे । दुर्गोवाच । देहैक्यं कृतवान्धाता दम्पत्योर्वेददर्शनात् १८ ॥ प्राणैक्यं न कृतं तस्माद्ब्रह्मणा मूढबुद्धिना । नाहं शचीं च सावित्रीं सौभाग्यमदगर्विता १९ ॥ गणयामि न चान्याश्च सा कथं विधवाऽभवम् । स्वहस्तेन च कस्तूरीं चन्दनं च यदा भवान् २.१२४.२० ॥ चर्चति स्म तदांगानि शीतलानि ममाभवन् । इदानीं दह्यमानानि शोकेन तानि निर्वप २१ ॥ न भक्षयसि पूर्वं त्वं मद्विना विषमण्वपि । स कथं मां विना स्वर्गसुखं भोक्ष्यसि तादृशम् २२ ॥ अपराधं विना भृत्ये नोदासीना भवन्ति हि । साधवः समशीलाश्च तत्कथं मामुपेक्षसे २३ ॥ उपाधिरहितं प्रेम कृतं नानाविधं पुरा । अनिर्वाच्यं कथं त्यक्त्वा तद्गतोऽसि सुरान्तक २४ ॥ क उवाच । तपोवृद्धा ज्ञानवृद्धाः प्राब्रुवन्निष्ठुरं वचः । न रोदनं प्रशंसन्ति धर्मशास्त्रविदो जनाः २५ ॥ यदश्रु सुहृदामास्ये प्रेतस्य तत्पतेद्ध्रु - - ॥ तस्मात्तस्य हितं यत्स्यात्तत्कर्तव्यं दयावता २६ ॥ विचार्यमाणे तस्यापि मोक्षोऽदायि कृपावता । निर्गुणेन चिदानन्दघनेन ब्रह्मरूपिणा २७ ॥ दयापरवशाज्जन्मबिभ्रता लोकशंकृता । मयूरेशेन संग्रामे निघ्नता संमुखं च तम् २८ ॥ आत्मनो नैव मरणं नोत्पत्तिः क्वापि विद्यते । अनादित्वान्निर्गुणत्वान्नित्यत्वाद्वेदनिश्चयात् २९ ॥ स्वार्थे हि रोदते जन्तुर्हितं प्रेतस्य नेहते । असख्य भारवाड्देवी न भारं सहते धरा २.१२४.३० ॥ प्रेतस्य शेषः कमठो वराहोऽसौ धराधरः । इत्युक्त्वा ते तदा शोकं विजहरुर्बुद्धवाक्यतः ३१ ॥ उग्रा च चक्रपाणिश्च दुर्गा च सखिभिः सह । नागराश्चापि शोचन्तो ययुः संग्राममण्डलम् ३२ ॥ ददृशुः सेवकैः सिन्धुं वीज्यमानं रणांगणे । पतितं वक्त्रकमलं व्यादाय सितलोचनम् ३३ ॥ असृक्स्रवन्तं दुर्गन्धं पक्षिश्वापदसङ्कुलम् । उपविष्टास्तु परितः शोचन्तो भृशदुःखिताः ३४ ॥ अंके कृत्वा शिरस्तस्य दुर्गाऽशोचत्खरस्वना । पादसंवाहनं नाथ हस्ताभ्यां पूर्वमाचरभ् ३५ ॥ जनमध्ये न तच्छक्यमुत्तिष्ठ प्राणनायक । शत्रौ जीवति निद्रां त्वं कथं विराधिगच्छसि ३६ ॥ तन्मुखे स्थापयित्वास्यं हाहाकारं च साऽकरोत् । न्यषेधन्वृद्धविज्ञास्तां तत उग्राऽब्रवीद्वचः ३७ ॥ चक्रपाणिः पिता चास्यं क्षालयन्तौ शुशोच तम् । उत्तिष्ठ वत्स किं शेषे शेषे रिपुगणे सति ३८ ॥ वज्री वज्राहत इव पतितो धरणीतले । इदानीं बालयुद्धे त्वं कथं निपतितो भुवि ३९ ॥ जितः कृतान्तो भ्रूक्षेपात्तद्वशं कथमागतः । किंचिद्वाक्यं वद विभो हृदयानन्दकारकम् २.१२४.४० ॥ यस्य शब्देन त्रैलोक्यं कम्पते स्म पुराऽनघ । कथं स्ववचनं नाद्य वदसे मन्दविक्रम ४१ ॥ नावाभ्यामपराद्धं ते येन मौनं त्वमाश्रितः । न भाषसे रोषवशात्सेनाशेषसमन्त्रित ४२ ॥ कथं विह्वलतां यात कामेभ्यो जितवान्रुचा । ततो विज्ञाश्च वृद्धाश्च नानादृष्टान्तदर्शनैः ४३ ॥ समादध्युः प्ररुदतो मृतानुमरणं न हि । रामो दाशरथि किं नु लोकान्तरगतो न हि ४४ ॥ विक्रमेण रिपूं जित्वा गतः किं न रघूत्तमः । अन्येऽपि शतशो भूपास्त्वत्कृते मरणं गताः । कीर्तिं नानाविधां कृत्वा स्वर्गस्था सुखमश्नुते ४५ ॥ क उवाच । ततस्ते संस्कृतिं चक्रुर्बिल्वचन्दनदारुभिः । दुर्गा सहैव सयाता पातिव्रत्यगुणान्विता ४६ ॥ ततो ययौ मयूरेशं चक्रपाणिः सनागर । नमस्कृत्य प्रतुष्टाव बद्धांजलिपुटः शनैः ७ ॥ राजोवाच । निर्गुणत्वं परात्मासि चराचरगतिर्विभो । त्रयीगम्यो गुणाध्यक्षो विरजो विश्वनायक ४८ ॥ तवैव मायया देवा मोहितस्त्वां न ते विदुः । अहं धन्यो नागरिका धन्यास्त्वद्दर्शनाद्विभो ४९ ॥ क उवाच । एवं तेन स्तुतो देवः करुणाब्धिर्मयूरराट् । उवाच परमप्रीतः सर्वशास्त्रार्थतत्त्ववित् २.१२४.५० ॥ देव उवाच । वरं वरय मत्तस्त्वं चक्रपाणे हतार्भक । राजोवाच । यदि तुष्टोऽसि देवेश यदि देयो वरो मम ५१ ॥ तदा गृहानुपागच्छ पुनीहि नगरीमिमां। क उवाच । एवमाकर्ण्य तद्वाक्यं बर्हिणं स समारुहत् ५२ ॥ ययौ स नगरं पश्चात्त्र्यम्बको गिरिजायुत । अग्रतस्ते गणाः सर्वे मुनयो हर्षनिर्भराः ५३ ॥ वाद्यत्सु सर्ववाद्येषु युयुस्ते गण्डकीं पुरीम् । नानाध्वजपताकाभिर्युतां सैसिक्तपद्धतिम् ५४ (५६७४) ॥

udakśirāḥ prasuṣvāpa kāścittatrāśubhāvahaḥ | jānunormastakaṃ nyasya tasthau tūṣṇīṃ calanniva 3 || hanau pāṇitalaṃ nyasya tasthau kācinmudaṃ vinā | etasminnantare dūtā yamadūtā ivāyayuḥ 4 || atimlānamukhā dīnā nābruvanmūkatāṃ gatāḥ | pṛṣṭāste prāhura- pare vṛttāntaṃ raṇabhūgatam 5 || dūtā ūcuḥ | asaṃkhyātānmahāvīrānhatvā sindhurdivaṃ gataḥ | bālānasmānparityajya tena hīnā rudāmahe 6 || nirīkṣya devānnihatānkruddho'gādgirijāsutaḥ||| astrairastrāṇi saṃvārya mumoca paraśuṃ śitam 7 || tena sindhurmṛtastatra patito dharaṇītale ||| mumūrchustatra sarve'pi tadīyā nāgarāśca ha 8 || śrutvā vārtāṃ dūtamukhādruruduḥ sarva eva te||| vilalāpātha durgā sā jaghāna śira utkaṭam 9 || muktakeśā muhurvaktraṃ nighnatī gatabhūṣaṇā | ugrā ca jananī cāsya cakrapāṇiḥ pitā tadā 2.124.10 || paurāśca rurudustatra nighnantaḥ pāṇinā mukham ||| avanau śira āsphālya lulaṇṭhurghoranisvanāḥ 11 || kaściddhūliṃ nicikṣepa mukhe śirasi duḥkhitaḥ | hastapṛṣṭhaṃ dadaṃśānyāstābhyāṃ bhūmimathāhanat 12 || aśapangirijāputraṃ striyo bhaṅktvā karāṃgulīḥ | ugrovāca | nānāyatnaistapasā sūryatuṣṭyā natyā stutyā laṅaghanaiḥ sarvadānaiḥ | prātaḥkālānmahatastvaṃ kathaṃcicchūro mānī kena nīto'si re tvam 13 || trilokanāyakenāhaṃ ślāghyā trailo- kyamaṃḍale | śapiṣyanti ca māṃ lokā hatabhāgyāsi sāṃpratam 14 || jitāḥ kṛtāntaḥ pūrvaṃ te kathaṃ tena samāgamaḥ | prāptastvayā kathaṃ putra na jitaḥ punareva saḥ 15 || sakāmo girijāputrastvayi yāte divaṃ suta | māmapṛṣṭvā kathaṃ yātaḥ svarga lokaṃ sukhāvaham 16 || duḥkhitāyāṃ mayi suta kathaṃ santoṣameṣyasi | garjanti naiva jīmūtāstvayi garjati putraka 17 || niḥśabdaḥ sa kathaṃ putra patitastvaṃ raṇāṃgaṇe | durgovāca | dehaikyaṃ kṛtavāndhātā dampatyorvedadarśanāt 18 || prāṇaikyaṃ na kṛtaṃ tasmādbrahmaṇā mūḍhabuddhinā | nāhaṃ śacīṃ ca sāvitrīṃ saubhāgyamadagarvitā 19 || gaṇayāmi na cānyāśca sā kathaṃ vidhavā'bhavam | svahastena ca kastūrīṃ candanaṃ ca yadā bhavān 2.124.20 || carcati sma tadāṃgāni śītalāni mamābhavan | idānīṃ dahyamānāni śokena tāni nirvapa 21 || na bhakṣayasi pūrvaṃ tvaṃ madvinā viṣamaṇvapi | sa kathaṃ māṃ vinā svargasukhaṃ bhokṣyasi tādṛśam 22 || aparādhaṃ vinā bhṛtye nodāsīnā bhavanti hi | sādhavaḥ samaśīlāśca tatkathaṃ māmupekṣase 23 || upādhirahitaṃ prema kṛtaṃ nānāvidhaṃ purā | anirvācyaṃ kathaṃ tyaktvā tadgato'si surāntaka 24 || ka uvāca | tapovṛddhā jñānavṛddhāḥ prābruvanniṣṭhuraṃ vacaḥ | na rodanaṃ praśaṃsanti dharmaśāstravido janāḥ 25 || yadaśru suhṛdāmāsye pretasya tatpateddhru - - || tasmāttasya hitaṃ yatsyāttatkartavyaṃ dayāvatā 26 || vicāryamāṇe tasyāpi mokṣo'dāyi kṛpāvatā | nirguṇena cidānandaghanena brahmarūpiṇā 27 || dayāparavaśājjanmabibhratā lokaśaṃkṛtā | mayūreśena saṃgrāme nighnatā saṃmukhaṃ ca tam 28 || ātmano naiva maraṇaṃ notpattiḥ kvāpi vidyate | anāditvānnirguṇatvānnityatvādvedaniścayāt 29 || svārthe hi rodate janturhitaṃ pretasya nehate | asakhya bhāravāḍdevī na bhāraṃ sahate dharā 2.124.30 || pretasya śeṣaḥ kamaṭho varāho'sau dharādharaḥ | ityuktvā te tadā śokaṃ vijaharurbuddhavākyataḥ 31 || ugrā ca cakrapāṇiśca durgā ca sakhibhiḥ saha | nāgarāścāpi śocanto yayuḥ saṃgrāmamaṇḍalam 32 || dadṛśuḥ sevakaiḥ sindhuṃ vījyamānaṃ raṇāṃgaṇe | patitaṃ vaktrakamalaṃ vyādāya sitalocanam 33 || asṛksravantaṃ durgandhaṃ pakṣiśvāpadasaṅkulam | upaviṣṭāstu paritaḥ śocanto bhṛśaduḥkhitāḥ 34 || aṃke kṛtvā śirastasya durgā'śocatkharasvanā | pādasaṃvāhanaṃ nātha hastābhyāṃ pūrvamācarabh 35 || janamadhye na tacchakyamuttiṣṭha prāṇanāyaka | śatrau jīvati nidrāṃ tvaṃ kathaṃ virādhigacchasi 36 || tanmukhe sthāpayitvāsyaṃ hāhākāraṃ ca sā'karot | nyaṣedhanvṛddhavijñāstāṃ tata ugrā'bravīdvacaḥ 37 || cakrapāṇiḥ pitā cāsyaṃ kṣālayantau śuśoca tam | uttiṣṭha vatsa kiṃ śeṣe śeṣe ripugaṇe sati 38 || vajrī vajrāhata iva patito dharaṇītale | idānīṃ bālayuddhe tvaṃ kathaṃ nipatito bhuvi 39 || jitaḥ kṛtānto bhrūkṣepāttadvaśaṃ kathamāgataḥ | kiṃcidvākyaṃ vada vibho hṛdayānandakārakam 2.124.40 || yasya śabdena trailokyaṃ kampate sma purā'nagha | kathaṃ svavacanaṃ nādya vadase mandavikrama 41 || nāvābhyāmaparāddhaṃ te yena maunaṃ tvamāśritaḥ | na bhāṣase roṣavaśātsenāśeṣasamantrita 42 || kathaṃ vihvalatāṃ yāta kāmebhyo jitavānrucā | tato vijñāśca vṛddhāśca nānādṛṣṭāntadarśanaiḥ 43 || samādadhyuḥ prarudato mṛtānumaraṇaṃ na hi | rāmo dāśarathi kiṃ nu lokāntaragato na hi 44 || vikrameṇa ripūṃ jitvā gataḥ kiṃ na raghūttamaḥ | anye'pi śataśo bhūpāstvatkṛte maraṇaṃ gatāḥ | kīrtiṃ nānāvidhāṃ kṛtvā svargasthā sukhamaśnute 45 || ka uvāca | tataste saṃskṛtiṃ cakrurbilvacandanadārubhiḥ | durgā sahaiva sayātā pātivratyaguṇānvitā 46 || tato yayau mayūreśaṃ cakrapāṇiḥ sanāgara | namaskṛtya pratuṣṭāva baddhāṃjalipuṭaḥ śanaiḥ 7 || rājovāca | nirguṇatvaṃ parātmāsi carācaragatirvibho | trayīgamyo guṇādhyakṣo virajo viśvanāyaka 48 || tavaiva māyayā devā mohitastvāṃ na te viduḥ | ahaṃ dhanyo nāgarikā dhanyāstvaddarśanādvibho 49 || ka uvāca | evaṃ tena stuto devaḥ karuṇābdhirmayūrarāṭ | uvāca paramaprītaḥ sarvaśāstrārthatattvavit 2.124.50 || deva uvāca | varaṃ varaya mattastvaṃ cakrapāṇe hatārbhaka | rājovāca | yadi tuṣṭo'si deveśa yadi deyo varo mama 51 || tadā gṛhānupāgaccha punīhi nagarīmimāṃ| ka uvāca | evamākarṇya tadvākyaṃ barhiṇaṃ sa samāruhat 52 || yayau sa nagaraṃ paścāttryambako girijāyuta | agrataste gaṇāḥ sarve munayo harṣanirbharāḥ 53 || vādyatsu sarvavādyeṣu yuyuste gaṇḍakīṃ purīm | nānādhvajapatākābhiryutāṃ saisiktapaddhatim 54 (5674) ||

GnP 2 124.2

क उवाच । पतिते सिन्धुदैत्ये तु हतशेषा रणे स्थिताः । आययुर्गण्डकीं यावत्तावत्ते चिन्तया युताः १ ॥ उग्रा दुर्गा चक्रपाणिरतिष्ठन्विह्वला भृशम् । तावत्तेषां दुष्टचिह्नं बभूव विविधं तदा

ka uvāca | patite sindhudaitye tu hataśeṣā raṇe sthitāḥ | āyayurgaṇḍakīṃ yāvattāvatte cintayā yutāḥ 1 || ugrā durgā cakrapāṇiratiṣṭhanvihvalā bhṛśam | tāvatteṣāṃ duṣṭacihnaṃ babhūva vividhaṃ tadā

Kaḥ said: (1) When the daitya Sindhu had fallen, those who survived stood upon the field; and while they were going to (the city on) the Gaṇḍakī, they were overcome with anxiety. (2) Ugrā, Durgā and Cakrapāṇi stood exceedingly distraught; and meanwhile various evil omens appeared to them.

AI translation rendered from the Sanskrit, not a published edition

GnP 2 124.125

२४।। अध्याय १२५ प्रारंभ – त उवाच। सभां संवारयामास चक्रपाणिः पुरो गतः । परार्ध्यास्तरणैर्वस्त्रैः पताकाध्वजचामरैः १ ॥ नानारत्नेषु दीप्तेषु भूमिस्तम्भगतेषु च । अनन्तो दृश्यते यत्र संक्रान्तप्रतिमो नरः २ ॥ ददर्श नगरीं देवो नानाध्वजविराजिताम् । प्रासादशिखरारूढाः पश्यन्ति स्मासुरस्त्रियः ३ ॥ ततो मुक्ताः सुरास्ते तं संमुखं चक्रपाणिना । आययुर्माधवः शक्रोऽनल ऐलविलोऽपि च ४ ॥ मरुद्रविः शची चान्ये वाद्यघोषेण सत्वरम् । स्वस्ववाहात्समुत्तीर्य प्रणेमुः सर्व एव तम् ५ ॥ आलिलिंगुर्मयूरेशं देवाः पौराश्च सादरम् । माधवश्च मयूरेशं दृष्ट्वा हर्षसमन्वितः ६ ॥ प्रशशंसुः सिन्धुवधात्सर्वे हर्यादयः सुराः । देवा ऊचुः । आक्रान्तं विष्टपं येन सहितः क्षणमात्रतः ७ ॥ दत्तानि स्वपदान्याशु नेदृग्दृष्टो न वा श्रुतः । अत्र ये वैष्णवाः शैवाः शाक्ताः सौराश्च तेऽप्यमुम् ८ ॥ तत्तद्रूपं निरीक्ष्यैव पुपूजुः परया मुदा । मयूरेश जयस्वेति श्रुत्वा वाचः सुविस्मिताः ९ ॥ बालकाश्च सुसंपन्ना मुग्धाः प्रौढाश्च योषितः । पुपूजुर्मनसा देवं वृद्धाश्च तरुणास्तदा २.१२५.१० ॥ चक्रपाणिगृहे देवो मध्ये सिंहासने शुभे ११ ॥ उपविष्टो मयूरेशो विबुधाश्च समन्ततः । मुनयश्च गणाः सर्वे सप्तकोटिमिता मुने १२ ॥ नुनुवुर्बंदिनः सर्वै धन्या देवा नृपास्तथा । ननृतुश्चाप्सरःसङ्घा जगुस्ते नारदादयः १३ ॥ चक्रपाणिस्ततः सर्वान्संपूज्य विधिवत्तदा । उवाच च सभामध्ये धन्यं मे जन्म कर्म च १४ ॥ इन्द्रादयो लोकपालाः समितौ यस्य मेऽधुना । शतजन्मार्जितैः पुण्यैर्मयूरेशो निरीक्षितः १५ ॥ क उवाच । इन्द्रो दृष्ट्वा मयूरेशं प्रथमं पूजितं रुषा । अब्रवीत्सहसा भ्रान्तो मायया जगदीशितुः १६ ॥ शक्र उवाच ।।॥ चतुर्मुखोऽपि लक्ष्मीशो जगदुत्पत्तिकारकः । मूढोऽसि चक्रपाणे त्वमर्भकस्य प्रपूजनात् १७ ॥ अस्मान्धिक्कृत्य यन्मोहात्पूजितो बालकस्त्वया । जनकं सर्वलोकानां त्यज्य संहारकारकम् १८ ॥ त्रैलोक्यजननीमम्बां सृष्टिस्थित्यन्तकारिणीम् । रविं त्रैलोक्यनेतारं त्रयीकर्मप्रवर्तकम् १९ ॥ हित्वा संपूजितो बालो नेदं सम्यक्कृतं त्वया २.१२५.२० ॥ क उवाच । एवं वदति देवेन्द्रे चक्रपाणिस्तदाऽब्रवीत् । रुद्रात्सूर्यात्कुबेराच्च शकाच्च मरुतोनलात् २१ ॥ दृष्टः पराक्रमोऽतीव सिन्धुदैत्यविनाशनात् । मोक्षात्सर्वसुराणां च कारागाराद्गुणेश्वर २२ ॥ योऽवतीर्णो भुवो भारं हर्तुं शिवनिवेशने । परमात्मानन्तशक्तिर्नानादैत्यविभंजनः २३ ॥ क उवाच । एवं वदति तस्मिंस्तु श्रुतः शब्दः सुरैर्महान् । मूर्छिताः पतिताः केचिदब्रह्माण्डस्फोटशंकया २४ ॥ चकम्पे धरणी सर्वा न प्राज्ञायत किंचन । कोटिसूर्यप्रकाशेन सहसाच्छादितं जगत् २५ ॥ ततस्तैस्त्रिदशैस्तत्र दृष्टो देवोऽतिसुन्दरः । नानालंकारसंयुक्तो दशबाहुर्गजाननः २६ ॥ एवं दृष्ट्वा स्वरूपं ते विस्मितास्त्रिदशास्तदा । पुनस्तमेव ददृशुः पंचरूपिणमीश्वरम् २७ ॥ पद्मासनगतं मध्यं वक्रतुण्डं शिवं पुनः । आग्नेय्यां नैर्ऋते सूर्यं पार्वतीं मारुतेऽपि च २८ ॥ नारायणं तथेशाने ततो भ्रममिताः सुराः। ततस्ते शुश्रुवुर्व्योमवाणीं भ्रमनिवारिकाम् २९ ॥ आराध्योऽयंसर्वजनैरेको जातः स पंचधा । अनादिनिधनो देवो जगद्व्यापी गजाननः २.१२५.३० ॥ अयमेव सदा पूज्यः सर्वविघ्नविनाशनः । देवैर्मनुष्यैर्यक्षैश्च नागै रक्षोभिरेव च ३१ ॥ एतास्मिन्पूजिते पंचपूजनं च भविष्यति । न बुद्धिभेदं तनुयादेतस्मिन्नरकाय सा ३२ ॥ क उवाच । श्रुत्वैवं ते मयूरेशं शुण्डादण्डविराजितम् । ददृशुर्वज्रिमुख्यास्ते आद्यमोंकाररूपिणम् ३३ ॥ ततः प्रबुद्धास्ते देवास्त्यक्त्वा भ्रान्तिं स्मयं च तम्। पुपूजुर्जयशब्दैस्तं सर्वान्तर्यामिणं विभुम् ३४ ॥ ततः पुपूजे हर्षेण चक्रपाणिर्गुणेश्वरम् । पंचामृतैः शुद्धजलैर्दिव्यवस्त्रैश्च भूषणैः ३५ ॥ पुष्पैर्धूपैश्च दीपैश्च नैवेद्यैर्विविधैरपि । फलताम्बूलनिचयैर्दक्षिणाभिरनेकशः ३६ ॥ नीराजनैर्मन्त्रपुष्पैर्नतिभिः स्तुतिभिस्तदा । तथैव पूजयामास भक्त्या सर्वसुरानपि ३७ ॥ उवाच तान्नृपवरो धन्योऽहं च प्रपूजनात् । यतो नैतादृशः क्वापि जातः सर्वसमागमः ३८ ॥ ततस्तत्राब्रवीद्हृष्टो नारदश्चतुराननम् । नारद उवाच । सिद्धबुद्धिर्विवाहार्थमाज्ञया तेऽब्जसंभव ३९ ॥ शिवं शिवां च विज्ञाप्य निश्चयः प्राङ्मया कृतः । मयूरेशाय सम्यक्ते दातव्ये बहुलक्षणे २.१२५.४० ॥ ततः सर्वे सुरा देवं ब्रह्माणं मन्मथातुराः । प्रत्येकं ते अयाचन्त मम देहीति सादरम् ४१ ॥ ततो ब्रह्मा तयोर्हस्ते मालां दत्त्वाऽब्रवीदिदम् । क उवाच । त्रयस्त्रिंशत्कोटिसुरेष्वेको यो भासते ह्रदि ४२ ॥ तमेव वृणुतं देव्यौ मालाभ्यां मत्समक्षतः । त्यक्त्वा सर्वान्सुरांस्ते तु सिद्धिबुद्धी उभे अपि ४३ ॥ मयूरेशगले माले निक्षिपेतां मुदा तदा । विमनस्कास्ततो देवा असृजञ्श्वासामारुतम्॥ ताभ्यां जानुगताभ्यां तु शुशुभे स मयूरराट् । ब्रह्मा यथाविधि तयोर्विवाहमकरोत्तदा ४५ ॥ उवाच च सभामध्ये मया लब्धं हृदि स्थितम् । न्यवेदयत्तं देवेशं मयूरेशं विधानतः ४६ ॥ अद्ययावन्मयैते वै पालिते बहुयत्नतः । इदानीं ते मया दत्ते रक्षस्व बहुयत्नतः ४७ ॥ तत इन्द्रादयो देवा मयूरेशं व्यजिज्ञपुः । तव प्रसादाद्देवेश मुक्ताः कारागृहात्ततः ४८ ॥ ततः सिन्धुर्गतो मोक्षं स्वस्थानं कृपया तव । यास्यामो देह्यनुज्ञां नो मुनिभिर्गोतमादिभिः ४९ ॥ क उवाच । ददावाज्ञां मयूरेशो यातुकामान्मुदा तदा। पार्वती च स्नुषे चोभे स्वांकमारोप्य सादरम् २.१२५.५० ॥ मयूरेशं च परमं हर्षमाप शिवान्विता । ददौ दानान्यनेकानि वासांस्याभरणानि च ५१ ॥ य इदं शृणुतान्मर्त्यो विवाहं च वधं शुभम् । सिंधोर्जयं गणेशस्य सर्वकामाँल्लभेन्नरः ५२ (५७२६) ॥

24|| adhyāya 125 prāraṃbha – ta uvāca| sabhāṃ saṃvārayāmāsa cakrapāṇiḥ puro gataḥ | parārdhyāstaraṇairvastraiḥ patākādhvajacāmaraiḥ 1 || nānāratneṣu dīpteṣu bhūmistambhagateṣu ca | ananto dṛśyate yatra saṃkrāntapratimo naraḥ 2 || dadarśa nagarīṃ devo nānādhvajavirājitām | prāsādaśikharārūḍhāḥ paśyanti smāsurastriyaḥ 3 || tato muktāḥ surāste taṃ saṃmukhaṃ cakrapāṇinā | āyayurmādhavaḥ śakro'nala ailavilo'pi ca 4 || marudraviḥ śacī cānye vādyaghoṣeṇa satvaram | svasvavāhātsamuttīrya praṇemuḥ sarva eva tam 5 || āliliṃgurmayūreśaṃ devāḥ paurāśca sādaram | mādhavaśca mayūreśaṃ dṛṣṭvā harṣasamanvitaḥ 6 || praśaśaṃsuḥ sindhuvadhātsarve haryādayaḥ surāḥ | devā ūcuḥ | ākrāntaṃ viṣṭapaṃ yena sahitaḥ kṣaṇamātrataḥ 7 || dattāni svapadānyāśu nedṛgdṛṣṭo na vā śrutaḥ | atra ye vaiṣṇavāḥ śaivāḥ śāktāḥ saurāśca te'pyamum 8 || tattadrūpaṃ nirīkṣyaiva pupūjuḥ parayā mudā | mayūreśa jayasveti śrutvā vācaḥ suvismitāḥ 9 || bālakāśca susaṃpannā mugdhāḥ prauḍhāśca yoṣitaḥ | pupūjurmanasā devaṃ vṛddhāśca taruṇāstadā 2.125.10 || cakrapāṇigṛhe devo madhye siṃhāsane śubhe 11 || upaviṣṭo mayūreśo vibudhāśca samantataḥ | munayaśca gaṇāḥ sarve saptakoṭimitā mune 12 || nunuvurbaṃdinaḥ sarvai dhanyā devā nṛpāstathā | nanṛtuścāpsaraḥsaṅghā jaguste nāradādayaḥ 13 || cakrapāṇistataḥ sarvānsaṃpūjya vidhivattadā | uvāca ca sabhāmadhye dhanyaṃ me janma karma ca 14 || indrādayo lokapālāḥ samitau yasya me'dhunā | śatajanmārjitaiḥ puṇyairmayūreśo nirīkṣitaḥ 15 || ka uvāca | indro dṛṣṭvā mayūreśaṃ prathamaṃ pūjitaṃ ruṣā | abravītsahasā bhrānto māyayā jagadīśituḥ 16 || śakra uvāca |||| caturmukho'pi lakṣmīśo jagadutpattikārakaḥ | mūḍho'si cakrapāṇe tvamarbhakasya prapūjanāt 17 || asmāndhikkṛtya yanmohātpūjito bālakastvayā | janakaṃ sarvalokānāṃ tyajya saṃhārakārakam 18 || trailokyajananīmambāṃ sṛṣṭisthityantakāriṇīm | raviṃ trailokyanetāraṃ trayīkarmapravartakam 19 || hitvā saṃpūjito bālo nedaṃ samyakkṛtaṃ tvayā 2.125.20 || ka uvāca | evaṃ vadati devendre cakrapāṇistadā'bravīt | rudrātsūryātkuberācca śakācca marutonalāt 21 || dṛṣṭaḥ parākramo'tīva sindhudaityavināśanāt | mokṣātsarvasurāṇāṃ ca kārāgārādguṇeśvara 22 || yo'vatīrṇo bhuvo bhāraṃ hartuṃ śivaniveśane | paramātmānantaśaktirnānādaityavibhaṃjanaḥ 23 || ka uvāca | evaṃ vadati tasmiṃstu śrutaḥ śabdaḥ surairmahān | mūrchitāḥ patitāḥ kecidabrahmāṇḍasphoṭaśaṃkayā 24 || cakampe dharaṇī sarvā na prājñāyata kiṃcana | koṭisūryaprakāśena sahasācchāditaṃ jagat 25 || tatastaistridaśaistatra dṛṣṭo devo'tisundaraḥ | nānālaṃkārasaṃyukto daśabāhurgajānanaḥ 26 || evaṃ dṛṣṭvā svarūpaṃ te vismitāstridaśāstadā | punastameva dadṛśuḥ paṃcarūpiṇamīśvaram 27 || padmāsanagataṃ madhyaṃ vakratuṇḍaṃ śivaṃ punaḥ | āgneyyāṃ nairṛte sūryaṃ pārvatīṃ mārute'pi ca 28 || nārāyaṇaṃ tatheśāne tato bhramamitāḥ surāḥ| tataste śuśruvurvyomavāṇīṃ bhramanivārikām 29 || ārādhyo'yaṃsarvajanaireko jātaḥ sa paṃcadhā | anādinidhano devo jagadvyāpī gajānanaḥ 2.125.30 || ayameva sadā pūjyaḥ sarvavighnavināśanaḥ | devairmanuṣyairyakṣaiśca nāgai rakṣobhireva ca 31 || etāsminpūjite paṃcapūjanaṃ ca bhaviṣyati | na buddhibhedaṃ tanuyādetasminnarakāya sā 32 || ka uvāca | śrutvaivaṃ te mayūreśaṃ śuṇḍādaṇḍavirājitam | dadṛśurvajrimukhyāste ādyamoṃkārarūpiṇam 33 || tataḥ prabuddhāste devāstyaktvā bhrāntiṃ smayaṃ ca tam| pupūjurjayaśabdaistaṃ sarvāntaryāmiṇaṃ vibhum 34 || tataḥ pupūje harṣeṇa cakrapāṇirguṇeśvaram | paṃcāmṛtaiḥ śuddhajalairdivyavastraiśca bhūṣaṇaiḥ 35 || puṣpairdhūpaiśca dīpaiśca naivedyairvividhairapi | phalatāmbūlanicayairdakṣiṇābhiranekaśaḥ 36 || nīrājanairmantrapuṣpairnatibhiḥ stutibhistadā | tathaiva pūjayāmāsa bhaktyā sarvasurānapi 37 || uvāca tānnṛpavaro dhanyo'haṃ ca prapūjanāt | yato naitādṛśaḥ kvāpi jātaḥ sarvasamāgamaḥ 38 || tatastatrābravīdhṛṣṭo nāradaścaturānanam | nārada uvāca | siddhabuddhirvivāhārthamājñayā te'bjasaṃbhava 39 || śivaṃ śivāṃ ca vijñāpya niścayaḥ prāṅmayā kṛtaḥ | mayūreśāya samyakte dātavye bahulakṣaṇe 2.125.40 || tataḥ sarve surā devaṃ brahmāṇaṃ manmathāturāḥ | pratyekaṃ te ayācanta mama dehīti sādaram 41 || tato brahmā tayorhaste mālāṃ dattvā'bravīdidam | ka uvāca | trayastriṃśatkoṭisureṣveko yo bhāsate hradi 42 || tameva vṛṇutaṃ devyau mālābhyāṃ matsamakṣataḥ | tyaktvā sarvānsurāṃste tu siddhibuddhī ubhe api 43 || mayūreśagale māle nikṣipetāṃ mudā tadā | vimanaskāstato devā asṛjañśvāsāmārutam|| tābhyāṃ jānugatābhyāṃ tu śuśubhe sa mayūrarāṭ | brahmā yathāvidhi tayorvivāhamakarottadā 45 || uvāca ca sabhāmadhye mayā labdhaṃ hṛdi sthitam | nyavedayattaṃ deveśaṃ mayūreśaṃ vidhānataḥ 46 || adyayāvanmayaite vai pālite bahuyatnataḥ | idānīṃ te mayā datte rakṣasva bahuyatnataḥ 47 || tata indrādayo devā mayūreśaṃ vyajijñapuḥ | tava prasādāddeveśa muktāḥ kārāgṛhāttataḥ 48 || tataḥ sindhurgato mokṣaṃ svasthānaṃ kṛpayā tava | yāsyāmo dehyanujñāṃ no munibhirgotamādibhiḥ 49 || ka uvāca | dadāvājñāṃ mayūreśo yātukāmānmudā tadā| pārvatī ca snuṣe cobhe svāṃkamāropya sādaram 2.125.50 || mayūreśaṃ ca paramaṃ harṣamāpa śivānvitā | dadau dānānyanekāni vāsāṃsyābharaṇāni ca 51 || ya idaṃ śṛṇutānmartyo vivāhaṃ ca vadhaṃ śubham | siṃdhorjayaṃ gaṇeśasya sarvakāmā~llabhennaraḥ 52 (5726) ||