Ganesha Purana — Kridakhanda — Chapter 116
GnP 2 116.116
अध्याय ११६ प्रारंभ :- क उवाच । जयं प्राप्ते मयूरेशे ययुस्तत्र मुनीश्वराः । शिवोऽपि गिरिजायुक्तो ययौ तं च निरीक्षितुम्१ औत्सुक्यात्पार्वती चैनं समालिंग्याब्रवीत्तदा । पार्वत्युवाच । अतिश्रान्तोऽसि दैत्यस्य कठिनस्य रणं सुत २ कोमलानि तवांगानि कथं शस्त्राणि सेहिरे । कृतान्तसदृशो दैत्यो मायावी बलवत्तरः ३ स कथं कोमलांगेन त्वया युधि विनिर्जितः । पारुदत्करुणं देवी धृत्वांगं निजबालकम् ४ ततो मुनिगणाः शम्भुर्वारयामास तां शिवाम् । शिव उवाच । न जानीषे मयूरेशं सर्वकारणकारणम् । अनादिनिधनं देवं वेदान्तागोचरं विभुम् । त्रयस्त्रिंशत्कोटिदेवैर्नुतं देवारिदारणम् ६ सृष्टिस्थितिज्ञानहेतुं लयहेतुमनामयम् । भूभारोत्तारणार्थाय नानारूपधरं परम् ७ ब्रह्माण्डव्याप्तरोमांकमेकानेकस्वरूपिणम् । तपोबलसमायुक्तं योगशास्त्रसमन्वितम् ८ मायाविभेदकं देवं मायिनामपि मायिनम् । बालभावेऽपि दैत्यानां हन्तारं किं न वेत्सि तम् ९ क उवाच । एवं स्तुतिं समाकर्ण्य दृष्टा सा पार्वती तदा । ततो दृष्टो मयूरेशो मुनीन्प्राह शिवं शिवाम २.११६.१० मयूरेश उवाच । न भयं वज्रहस्तान्मे अन्यस्मात्तत्कथं भवेत् । सर्वेषां नमनान्मातर्मुनीनामाशिषोऽपि च ११ शिवस्य वरदानेन सिन्धुदैत्यो जितो मया । स्कन्दादयो जिता येन युध्यन्ते न हि तेन ते १२ असंख्याता हता देवा दैत्यसेनाचरैर्नरैः । असृग्नद्यः संप्रवृत्ता वीरहर्षकरा बहु १३ रणे निपतितान्देवान्विचिन्वामो मुनीश्वराः । क उवाच । एवं मयूरेशवचो निशम्य प्राह धर्मवित् १४ वसिष्ठो मुनिवर्यस्तं यामः सर्वे चलन्तु वै । ततो ययौ रणे द्रष्टुं मुनिभिस्तैर्मयूरराट १५ मज्जारक्तवसागन्धो घ्रातुं यत्र न शक्यते । अतिभीषणकायां स्तांश्छिन्नभिन्नाननेकशः १६ दृष्ट्वा बीभत्सरूपांस्तान्प्रफुल्लान्किंशुकानिव । विकृतिं परियातानि मनांसि दानवद्विषाम् १७ पश्यतां वीरराशींस्तान्वीरोपरि प्रतिष्ठितान् । कांश्चिच्च जीवतः कांश्चिन्मूर्छिताञ्शस्त्रवाततः १८ कांश्चिच्च प्रविशीर्णांगान्देवान्देवा व्यकर्षयन् । सहसा न विदुर्देवा देवान्वा दानवानपि १९ अब्रुवंस्तत्र केचिच्च त्वदर्दं मृत्युमागताः । अन्ते ते दर्शनं प्राप्तमित्युक्त्वा व्यसृजन्नसून् २.११६.२० क उवाच । एवं श्रुत्वा तु तद्वाक्यं साश्रुकण्ठो मयूरराट् । भ्रमन्भ्रमन्ददर्शाग्रे मूर्छितं तु षडाननम् २१ पतदश्रुर्मयूरेशः स्नेहात्तं चाब्रवीदिति । उत्तिष्ठोतिष्ठ भद्रं ते किं शेषे प्राकृतो यथा २२ श्रान्तोऽसि दैत्यहननाद्यच्छालिंगनमद्य मे । प्रमार्जितस्तु हस्तेन ततः स प्रोदतिष्ठत २३ अपश्यन्निकटे देवपादपद्मं भयापहम् । उवाच च मयूरेशं दर्शनात्ते गतं मम २४ सर्वदुःखं श्रमश्चैव विश्रान्तश्चास्मि साम्प्रतम् । आलिलिंग मयूरेशं दोर्भिर्द्वाशभिस्तदा २५ उभौ यातौ रणं द्रष्टुं गृहीत्वा च परस्परम् । अपश्यतां पुरः सुप्तं वीरभद्रमिषुक्षतम् २६ नन्दिनं च शराघातैः पीडितं बलवत्तरम् । भूतराजं च पुरतो विभिन्नमस्तकं तदा २७ क्रन्दन्तं विकटं चैव पुष्पदन्तं भृशार्दितम् । ललाटे दृढविद्धं च हिरण्यगर्भमेव च २८ मृतप्रायं च चपलं मृतं श्यामलमेव च । लम्बकर्णो न चाज्ञासीद्भ्रान्त्या कंचन संगरे २९ उदानवायुनाक्रान्तः सुमुखस्तत्र चाभवत् । परमं खेदमापन्नः सोमश्च रक्तलोचनः २.११६.३० शेते स्म मूर्छयाः भृंगी पंचास्यश्च मुमूर्षया । शंखः प्रेतत्वमापन्नो भयकृत्सर्वयोधिनाम् ३१ एवं दृष्ट्वा सर्ववीरान्हतप्रायान्हतानपि । चिन्तया परयाविष्टो पप्रच्छ तं षडाननम् ३२ मयूरेश उवाच । असुराश्च स्वकीयाश्च महावीरा हता मृधे। निजधामगताः सर्वे जीवतामत्र का गतिः ३३ स्कन्द उवाच । अनन्तकोटिब्रह्माण्डनायकस्त्वं गुणेश्वर । चतुर्दशानां विद्यानां सर्वासां च स्वयं निधिः ३४ कलानां तत्र कि प्रश्नं करोषि त्वं ममान्तिके । नाहं मन्त्रं विजानामि वेत्थ त्वं हि न वै सुराः ३५ विवर्धयसि कीर्तिं त्वं नानादैत्यविभंजनात् । यथामति ब्रवीमि त्वामाज्ञया च स्मृतेर्बलात् ३६ पूर्वं तु त्रिपुरवधे शिवेन युद्धमद्भुतं । कृतं तत्र मृतान्देवान्द्रोणाद्रिवल्लिजं रसम् ३७ देवक्षतेषु संयोज्य जीवयामास तत्क्षणात् । क उवाच । श्रुत्वेत्थं वचनं देवो जगाद तं षडानम् ३८ इदानीं दैत्यकोट्यस्तु युद्धार्थं बलवत्तराः । आयास्यन्ति तदा कोऽत्र युद्धेत्ताभिः षडानन ३९ कश्चानेतुं व्रजेदद्रिं वल्लीरसमनुत्तमम् । एवं ब्रुवन्मयूरेशो मायामाविश्चकार ह २.११६.४० उज्जीवयामास तदा निजांगवायुमंगतः । ततस्ते हर्षसंपन्नाः प्रणेमुस्तं गुणेश्वरम् ४१ आलिलिंगुः पुनरुयुद्धं कर्तुं तं च विजिज्ञपुः । त्वद्दृष्टिविनिपातेन तेजो नो द्विगुणीकृतम् ४२ गुणेश्वर उवाच । ब्रह्मादयो देवगणाः स्तुवन्ति वः पराक्रमम । तारकासुरमुख्याश्च निहता दैत्यदानवाः ४३ क उवाच । ततस्तैः सहिता देवैर्मयूरेशः शिवं ययौ । नमस्कृत्य शिवं गौरीं युद्धाय गन्तुमुद्यतः ४४ आलिलिंग मुदा गौरी शिवस्तं च गुणेश्वरम् । ततः षडाननाद्यास्ते शिवमालिंगिरे मुदा ४५ वयं रणे निपतिताः पुनः संजीविता हर । मयूरेशांग संभूतवायुनाऽद्भूतकारिणा ४६ पुनर्युद्धाय यास्यामोऽनेन सार्द्धं शिवाधुना । प्रसादात्तव जेष्यामः सर्वानेवासुरान्युधि ४७ (५२७२)
adhyāya 116 prāraṃbha :- ka uvāca | jayaṃ prāpte mayūreśe yayustatra munīśvarāḥ | śivo'pi girijāyukto yayau taṃ ca nirīkṣitum1 autsukyātpārvatī cainaṃ samāliṃgyābravīttadā | pārvatyuvāca | atiśrānto'si daityasya kaṭhinasya raṇaṃ suta 2 komalāni tavāṃgāni kathaṃ śastrāṇi sehire | kṛtāntasadṛśo daityo māyāvī balavattaraḥ 3 sa kathaṃ komalāṃgena tvayā yudhi vinirjitaḥ | pārudatkaruṇaṃ devī dhṛtvāṃgaṃ nijabālakam 4 tato munigaṇāḥ śambhurvārayāmāsa tāṃ śivām | śiva uvāca | na jānīṣe mayūreśaṃ sarvakāraṇakāraṇam | anādinidhanaṃ devaṃ vedāntāgocaraṃ vibhum | trayastriṃśatkoṭidevairnutaṃ devāridāraṇam 6 sṛṣṭisthitijñānahetuṃ layahetumanāmayam | bhūbhārottāraṇārthāya nānārūpadharaṃ param 7 brahmāṇḍavyāptaromāṃkamekānekasvarūpiṇam | tapobalasamāyuktaṃ yogaśāstrasamanvitam 8 māyāvibhedakaṃ devaṃ māyināmapi māyinam | bālabhāve'pi daityānāṃ hantāraṃ kiṃ na vetsi tam 9 ka uvāca | evaṃ stutiṃ samākarṇya dṛṣṭā sā pārvatī tadā | tato dṛṣṭo mayūreśo munīnprāha śivaṃ śivāma 2.116.10 mayūreśa uvāca | na bhayaṃ vajrahastānme anyasmāttatkathaṃ bhavet | sarveṣāṃ namanānmātarmunīnāmāśiṣo'pi ca 11 śivasya varadānena sindhudaityo jito mayā | skandādayo jitā yena yudhyante na hi tena te 12 asaṃkhyātā hatā devā daityasenācarairnaraiḥ | asṛgnadyaḥ saṃpravṛttā vīraharṣakarā bahu 13 raṇe nipatitāndevānvicinvāmo munīśvarāḥ | ka uvāca | evaṃ mayūreśavaco niśamya prāha dharmavit 14 vasiṣṭho munivaryastaṃ yāmaḥ sarve calantu vai | tato yayau raṇe draṣṭuṃ munibhistairmayūrarāṭa 15 majjāraktavasāgandho ghrātuṃ yatra na śakyate | atibhīṣaṇakāyāṃ stāṃśchinnabhinnānanekaśaḥ 16 dṛṣṭvā bībhatsarūpāṃstānpraphullānkiṃśukāniva | vikṛtiṃ pariyātāni manāṃsi dānavadviṣām 17 paśyatāṃ vīrarāśīṃstānvīropari pratiṣṭhitān | kāṃścicca jīvataḥ kāṃścinmūrchitāñśastravātataḥ 18 kāṃścicca praviśīrṇāṃgāndevāndevā vyakarṣayan | sahasā na vidurdevā devānvā dānavānapi 19 abruvaṃstatra kecicca tvadardaṃ mṛtyumāgatāḥ | ante te darśanaṃ prāptamityuktvā vyasṛjannasūn 2.116.20 ka uvāca | evaṃ śrutvā tu tadvākyaṃ sāśrukaṇṭho mayūrarāṭ | bhramanbhramandadarśāgre mūrchitaṃ tu ṣaḍānanam 21 patadaśrurmayūreśaḥ snehāttaṃ cābravīditi | uttiṣṭhotiṣṭha bhadraṃ te kiṃ śeṣe prākṛto yathā 22 śrānto'si daityahananādyacchāliṃganamadya me | pramārjitastu hastena tataḥ sa prodatiṣṭhata 23 apaśyannikaṭe devapādapadmaṃ bhayāpaham | uvāca ca mayūreśaṃ darśanātte gataṃ mama 24 sarvaduḥkhaṃ śramaścaiva viśrāntaścāsmi sāmpratam | āliliṃga mayūreśaṃ dorbhirdvāśabhistadā 25 ubhau yātau raṇaṃ draṣṭuṃ gṛhītvā ca parasparam | apaśyatāṃ puraḥ suptaṃ vīrabhadramiṣukṣatam 26 nandinaṃ ca śarāghātaiḥ pīḍitaṃ balavattaram | bhūtarājaṃ ca purato vibhinnamastakaṃ tadā 27 krandantaṃ vikaṭaṃ caiva puṣpadantaṃ bhṛśārditam | lalāṭe dṛḍhaviddhaṃ ca hiraṇyagarbhameva ca 28 mṛtaprāyaṃ ca capalaṃ mṛtaṃ śyāmalameva ca | lambakarṇo na cājñāsīdbhrāntyā kaṃcana saṃgare 29 udānavāyunākrāntaḥ sumukhastatra cābhavat | paramaṃ khedamāpannaḥ somaśca raktalocanaḥ 2.116.30 śete sma mūrchayāḥ bhṛṃgī paṃcāsyaśca mumūrṣayā | śaṃkhaḥ pretatvamāpanno bhayakṛtsarvayodhinām 31 evaṃ dṛṣṭvā sarvavīrānhataprāyānhatānapi | cintayā parayāviṣṭo papraccha taṃ ṣaḍānanam 32 mayūreśa uvāca | asurāśca svakīyāśca mahāvīrā hatā mṛdhe| nijadhāmagatāḥ sarve jīvatāmatra kā gatiḥ 33 skanda uvāca | anantakoṭibrahmāṇḍanāyakastvaṃ guṇeśvara | caturdaśānāṃ vidyānāṃ sarvāsāṃ ca svayaṃ nidhiḥ 34 kalānāṃ tatra ki praśnaṃ karoṣi tvaṃ mamāntike | nāhaṃ mantraṃ vijānāmi vettha tvaṃ hi na vai surāḥ 35 vivardhayasi kīrtiṃ tvaṃ nānādaityavibhaṃjanāt | yathāmati bravīmi tvāmājñayā ca smṛterbalāt 36 pūrvaṃ tu tripuravadhe śivena yuddhamadbhutaṃ | kṛtaṃ tatra mṛtāndevāndroṇādrivallijaṃ rasam 37 devakṣateṣu saṃyojya jīvayāmāsa tatkṣaṇāt | ka uvāca | śrutvetthaṃ vacanaṃ devo jagāda taṃ ṣaḍānam 38 idānīṃ daityakoṭyastu yuddhārthaṃ balavattarāḥ | āyāsyanti tadā ko'tra yuddhettābhiḥ ṣaḍānana 39 kaścānetuṃ vrajedadriṃ vallīrasamanuttamam | evaṃ bruvanmayūreśo māyāmāviścakāra ha 2.116.40 ujjīvayāmāsa tadā nijāṃgavāyumaṃgataḥ | tataste harṣasaṃpannāḥ praṇemustaṃ guṇeśvaram 41 āliliṃguḥ punaruyuddhaṃ kartuṃ taṃ ca vijijñapuḥ | tvaddṛṣṭivinipātena tejo no dviguṇīkṛtam 42 guṇeśvara uvāca | brahmādayo devagaṇāḥ stuvanti vaḥ parākramama | tārakāsuramukhyāśca nihatā daityadānavāḥ 43 ka uvāca | tatastaiḥ sahitā devairmayūreśaḥ śivaṃ yayau | namaskṛtya śivaṃ gaurīṃ yuddhāya gantumudyataḥ 44 āliliṃga mudā gaurī śivastaṃ ca guṇeśvaram | tataḥ ṣaḍānanādyāste śivamāliṃgire mudā 45 vayaṃ raṇe nipatitāḥ punaḥ saṃjīvitā hara | mayūreśāṃga saṃbhūtavāyunā'dbhūtakāriṇā 46 punaryuddhāya yāsyāmo'nena sārddhaṃ śivādhunā | prasādāttava jeṣyāmaḥ sarvānevāsurānyudhi 47 (5272)
GnP 2 116.117
अध्याय ११७ प्रारंभ :--- क उवाच । सिन्धुस्तल्पगतश्चिन्तामवाप महतीं तदा । अग्निसंतप्तहृदयो विचार नान्वपद्यत १ निर्हर्षो म्लानवदनो निस्तेजः निष्कलोऽपि सः । तत उग्रात्मजा दुर्गा लावण्यलहरी शुभा २ चिन्ताशाविषदग्धं तं श्रुत्वाऽगान्मंचकस्थितम् । असंख्यभूषणं र्यास्स्यिाः कबरी भाति मस्तके ३ कस्तूरीतिलकं यस्या ललाटे भाति सुन्दरम् । कण्ठे हारं कटौ कांञ्चि बिभ्रतीं रत्नसंयुताम् ४ सर्वालंकारसंयुक्तां सर्वावयव सुन्दराम् । आगतां तु निरीक्ष्यैव मंचकाभ्याशमुत्सुकाम् ५ बहिस्तत्सेवका यातास्ततः सा पतिमब्रवीत् । दुर्गोवाच । किं चिन्तां कुरुषे स्वामिन्यद्भाव्यं तद्भविष्यति ६ ईश्वरस्य वशे लोको न स्वतन्त्रः कदाचन । सर्वेषां मानसं त्वं किमुद्वेजयसि मेऽपि च ७ को हेतुस्ते वद विभो ततो युक्तिं वदामि ते। क उवाच । प्रिया वाक्यं समाकर्ण्य गण्डकीनायकस्तदा । सावधानमना भूत्वा वृत्तान्तं तामथाब्रवीत् । सिन्धुरुवाच । किं वदामि प्रिये श्लाघ्ये मनःखेदकरं परम् ९ युध्ततो मे रणे कर्णौ मयूरेशेन सादितौ । सप्तकोटिमिता सेना निहता पौरुषेण ह २.११७.१० स्कन्दादयो महावीराः पतिताः शरवृष्टिभिः । अकस्मान्मे हतौ कर्णौ त्रिशूलं प्रेष्य शत्रुणा ११ आच्छाद्य मुखमायातो वाससा निजमन्दिरम् । येनोपायेन मे शत्रुवधः स्यात्तं वदस्व मे १२ दुर्गोवाच । वीरधर्मः कृतः सम्यङ्निहताः सर्वसैनिकाः । न यशः प्राप्यते स्वामिन्गोब्राह्मणसुरद्विषाम् १३ तद्द्वेषाच्चैव कल्याणं कस्यापि हि न जायते । सेवनाद्वन्दनाद्ध्यानात्स्मरणात्पूजनादपि १४ देवैरिन्द्रादिभिः स्थानान्याप्तानि च स्थिराणि च। यः समः सर्वभूतेषु शुभाशुभफलप्रदः १५ तत्सेवयाऽभिष्टसिद्धिः कामधेनोरिवाभवत् । अङ्कुरो जायते तादृग्यादृग्बीजं हि उप्यते १६ अशुभात्कर्मणो दुःखं सुखं स्याच्छुभकर्मणः । अतः सन्तः प्रकुर्वन्ति शुभम् कर्मं सदादरात् १७ हितं च सर्वजन्तूनां कायेन मनसा गिरा। भवता पुरुषार्थेन पीडितास्ते सुरर्षयः १८ पुरुषार्थः स विज्ञेयो यश्चतुर्णां हि साधकः । यन्मनोनार्थलुब्धं स्यात्परदारेषु न क्वचित् १९ स एव पुरुषार्थः स्याद्यश्चानिन्द्यं न निन्दति । शरणागतरक्षायां दृढो धर्मपरायणः २.११७.२० समः सर्वेषु भूतेषु पुरुषार्थः स गम्यते । स्वामिन्मे परमं वाक्यं शृणु ते हितकारकम् २१ अदुष्टवाक्सत्यशीलः स्वगुणानामकीर्तकः । परोपकरणे सक्तः परपैशून्यवर्जितः २२ तत्कुरुश्व महाभाग मम प्रीतिं यदीच्छसि । मोचयस्व सुरान्सर्वान्प्रबद्धाञ्शक्रसंयुतान् २३ प्रयास्यति मयूशोऽखिललोकप्रपालकः । वत्स्यावः सुसुखं स्वामिन्नान्यथा तु सुखं भवेत् २४ क उवाच । एवं वाक्यामृतं तस्यास्तदभूद्विषसन्निभम् । मुमूर्षोरौषधं यद्वद्ग्रहरोगाप्लुतस्य ह २५ क्रोधसंरक्तनयनो दुर्गां तां सिन्धुरब्रवीत् । न दध्रे हृदि तस्याः स उपदेशं हितावहम् २६ सिन्धुरुवाच । सम्यगुक्तं त्वया भद्रे लोकनिन्दाकरं वचः । चातुर्यं तव विज्ञातं कार्याकार्यंविदा मया २७ न शत्रुं भजते कोऽपि रिपुर्मानपरायणः । नारभेत्कृत्यमन्याय्यमारब्धं चेन्न तत्त्यजेत् २८ ततो दुःखं सुखं वा स्यादयशो यश एव च । लाभो वाप्यथवाऽलाभो जीवनं मृत्युरेव वा २९ पूर्वं भद्रे मया सन्धिः साम्ना तेन न वै कृतः । इदानीं भविता यद्यत्तद्भवत्येव सर्वथा २.११७.३० पूर्वमेव हि यज्जन्तोर्लिखितं साध्वसाधु वा । कश्चिन्न पुरुषार्थेन कर्तुं शक्तोऽन्यथा सति ३१ रणे मृतस्य स्वर्गोथ ख्यातिः स्याद्विष्टपत्रये । यातस्य शरणं शत्रारेयशो नरकेऽपि च ३२ पूर्वजैः सहितस्याशु जायते नात्र संशयः। जानामि तं मयूरेशं देवदेवं जगद्गुरुम् ३३ संभूतं मम नाशाय रावणे राघवं यथा। पातयिष्ये शिरोऽस्याहमिति मे निश्चिता मति ३४ । त्यजन्ति जीवितं शूरा नाभिमानं कदाचन । न मेऽस्ति गणना सुभ्रु कृतान्तस्यापि कर्हिचित् ३५ तत्र का गणनाऽन्येषां लज्जा मे कर्णतः कृता । क उवाच । एवमुक्त्वा भूषणानि वस्त्राणि च दधार सः ३६ केयूरं मुकुटं रत्नयुक्तं हारं च कुण्डले । तूणौ खड्गं च खेटं च चापं सज्जं च शस्त्रिकाम् ३७ आच्छाद्य कर्णौ रौक्मीयवस्त्रेणोष्णीषगेन च । आययावुपविष्ट: स भद्रासनमुत्तमम् ३८ (५३१०)
adhyāya 117 prāraṃbha :--- ka uvāca | sindhustalpagataścintāmavāpa mahatīṃ tadā | agnisaṃtaptahṛdayo vicāra nānvapadyata 1 nirharṣo mlānavadano nistejaḥ niṣkalo'pi saḥ | tata ugrātmajā durgā lāvaṇyalaharī śubhā 2 cintāśāviṣadagdhaṃ taṃ śrutvā'gānmaṃcakasthitam | asaṃkhyabhūṣaṇaṃ ryāssyiāḥ kabarī bhāti mastake 3 kastūrītilakaṃ yasyā lalāṭe bhāti sundaram | kaṇṭhe hāraṃ kaṭau kāṃñci bibhratīṃ ratnasaṃyutām 4 sarvālaṃkārasaṃyuktāṃ sarvāvayava sundarām | āgatāṃ tu nirīkṣyaiva maṃcakābhyāśamutsukām 5 bahistatsevakā yātāstataḥ sā patimabravīt | durgovāca | kiṃ cintāṃ kuruṣe svāminyadbhāvyaṃ tadbhaviṣyati 6 īśvarasya vaśe loko na svatantraḥ kadācana | sarveṣāṃ mānasaṃ tvaṃ kimudvejayasi me'pi ca 7 ko hetuste vada vibho tato yuktiṃ vadāmi te| ka uvāca | priyā vākyaṃ samākarṇya gaṇḍakīnāyakastadā | sāvadhānamanā bhūtvā vṛttāntaṃ tāmathābravīt | sindhuruvāca | kiṃ vadāmi priye ślāghye manaḥkhedakaraṃ param 9 yudhtato me raṇe karṇau mayūreśena sāditau | saptakoṭimitā senā nihatā pauruṣeṇa ha 2.117.10 skandādayo mahāvīrāḥ patitāḥ śaravṛṣṭibhiḥ | akasmānme hatau karṇau triśūlaṃ preṣya śatruṇā 11 ācchādya mukhamāyāto vāsasā nijamandiram | yenopāyena me śatruvadhaḥ syāttaṃ vadasva me 12 durgovāca | vīradharmaḥ kṛtaḥ samyaṅnihatāḥ sarvasainikāḥ | na yaśaḥ prāpyate svāmingobrāhmaṇasuradviṣām 13 taddveṣāccaiva kalyāṇaṃ kasyāpi hi na jāyate | sevanādvandanāddhyānātsmaraṇātpūjanādapi 14 devairindrādibhiḥ sthānānyāptāni ca sthirāṇi ca| yaḥ samaḥ sarvabhūteṣu śubhāśubhaphalapradaḥ 15 tatsevayā'bhiṣṭasiddhiḥ kāmadhenorivābhavat | aṅkuro jāyate tādṛgyādṛgbījaṃ hi upyate 16 aśubhātkarmaṇo duḥkhaṃ sukhaṃ syācchubhakarmaṇaḥ | ataḥ santaḥ prakurvanti śubham karmaṃ sadādarāt 17 hitaṃ ca sarvajantūnāṃ kāyena manasā girā| bhavatā puruṣārthena pīḍitāste surarṣayaḥ 18 puruṣārthaḥ sa vijñeyo yaścaturṇāṃ hi sādhakaḥ | yanmanonārthalubdhaṃ syātparadāreṣu na kvacit 19 sa eva puruṣārthaḥ syādyaścānindyaṃ na nindati | śaraṇāgatarakṣāyāṃ dṛḍho dharmaparāyaṇaḥ 2.117.20 samaḥ sarveṣu bhūteṣu puruṣārthaḥ sa gamyate | svāminme paramaṃ vākyaṃ śṛṇu te hitakārakam 21 aduṣṭavāksatyaśīlaḥ svaguṇānāmakīrtakaḥ | paropakaraṇe saktaḥ parapaiśūnyavarjitaḥ 22 tatkuruśva mahābhāga mama prītiṃ yadīcchasi | mocayasva surānsarvānprabaddhāñśakrasaṃyutān 23 prayāsyati mayūśo'khilalokaprapālakaḥ | vatsyāvaḥ susukhaṃ svāminnānyathā tu sukhaṃ bhavet 24 ka uvāca | evaṃ vākyāmṛtaṃ tasyāstadabhūdviṣasannibham | mumūrṣorauṣadhaṃ yadvadgraharogāplutasya ha 25 krodhasaṃraktanayano durgāṃ tāṃ sindhurabravīt | na dadhre hṛdi tasyāḥ sa upadeśaṃ hitāvaham 26 sindhuruvāca | samyaguktaṃ tvayā bhadre lokanindākaraṃ vacaḥ | cāturyaṃ tava vijñātaṃ kāryākāryaṃvidā mayā 27 na śatruṃ bhajate ko'pi ripurmānaparāyaṇaḥ | nārabhetkṛtyamanyāyyamārabdhaṃ cenna tattyajet 28 tato duḥkhaṃ sukhaṃ vā syādayaśo yaśa eva ca | lābho vāpyathavā'lābho jīvanaṃ mṛtyureva vā 29 pūrvaṃ bhadre mayā sandhiḥ sāmnā tena na vai kṛtaḥ | idānīṃ bhavitā yadyattadbhavatyeva sarvathā 2.117.30 pūrvameva hi yajjantorlikhitaṃ sādhvasādhu vā | kaścinna puruṣārthena kartuṃ śakto'nyathā sati 31 raṇe mṛtasya svargotha khyātiḥ syādviṣṭapatraye | yātasya śaraṇaṃ śatrāreyaśo narake'pi ca 32 pūrvajaiḥ sahitasyāśu jāyate nātra saṃśayaḥ| jānāmi taṃ mayūreśaṃ devadevaṃ jagadgurum 33 saṃbhūtaṃ mama nāśāya rāvaṇe rāghavaṃ yathā| pātayiṣye śiro'syāhamiti me niścitā mati 34 | tyajanti jīvitaṃ śūrā nābhimānaṃ kadācana | na me'sti gaṇanā subhru kṛtāntasyāpi karhicit 35 tatra kā gaṇanā'nyeṣāṃ lajjā me karṇataḥ kṛtā | ka uvāca | evamuktvā bhūṣaṇāni vastrāṇi ca dadhāra saḥ 36 keyūraṃ mukuṭaṃ ratnayuktaṃ hāraṃ ca kuṇḍale | tūṇau khaḍgaṃ ca kheṭaṃ ca cāpaṃ sajjaṃ ca śastrikām 37 ācchādya karṇau raukmīyavastreṇoṣṇīṣagena ca | āyayāvupaviṣṭa: sa bhadrāsanamuttamam 38 (5310)
GnP 2 116.118
अध्याय ११८ प्रारंभ :- क उवाच । युद्धावेशदुराधर्षः उपविष्टो महासने । स तदा वीरमुख्यांस्तानुपविष्टानथाब्रवीत् १ सिन्धुरुवाच । गतौ मम प्रधानौ तौ त्रैलोक्याकर्षणक्षमौ । न तादृशोऽस्ति वीरोऽत्र यो मे हन्याद्रिपुं बलात् २ नैतादृशौ बुद्धिमन्तौ पराक्रमजयैषिणौ । वीरा ऊचुस्ततः सिन्धुं मा चिन्तां कुरु सर्वथा ३ यावद्वयं प्राणवन्तो लघुकृत्य उपस्थिते । किमर्थं चिन्ताकुलतां तावद्व्रजसि दैत्यराट् ४ स्वापं कुरु महाभाग पर्यंके पुष्यसंस्तरे । कृतान्तस्ताडितो याभ्यां तयोः कस्माद्भयं भवेत्५ एवमुक्त्वा कलः सिन्धुं विकलश्च महाबलौ । शालकौ तस्य दैत्यस्य निर्यातौ युद्धदुर्मदौ ६ नानायुद्धेषु कुशलौ नानायुधधरावुभौ । नानाभूषणवस्त्राढ्यौ नानासेनासमन्वितौ ७ नानागर्जनतो व्योम चक्रतुर्नादसंयुतम् । देवकोटिनिहन्तारौ असंख्यवाहिनीयुतौ८ ययुस्तत्पुरतो वीराः सिन्दूरारुणमस्तकाः । अग्निशस्त्रधरा मुक्तकेशपाशाः सचन्दनाः ९ लसच्छस्त्रधराः सर्वे यममत्तुमिवोद्यताः। ततः करिघटा याता नानाधातुविचित्रिताः २.११८.१० अधिष्ठाता महामात्रैर्नानाभूषाविराजिताः । तीक्ष्णदन्ताः सिन्दुरिता घण्टानादनिनादिताः ११ ततोऽश्वसादिनो यातास्तनुत्राणविराजिता । धनुर्बाणधराः सर्वे लसच्छत्रविभूषिताः १२ अनेकयुद्धसम्भार रथा यातास्ततः परम् । अनेकवीरसंयुक्ता नानासूतविराजिताः १३ एवं तौ शालकौ यातौ रणस्थानं रुषान्वितौ । ददृशाते * मयूरेशमाशीविषभुजिःस्थितम् १४ षडाननादिभिर्वीरैरन्यैन्यश्च परिवारितम् । दृष्ट्वा तैस्तु तयोः सेना घोरा सा चतुरंगिणी १५ असंख्यातं बलं तस्य समायातं विचित्रिताम् । प्रेषितो देवप्रवरैर्दूतो नीतिविशारदः १६ ज्ञात्वा वृत्तान्तमायातः स जगाद सुरान्प्रति । दूत उवाच । कलश्च विकलश्चैव नानासेनासमायुतौ १७ जेतुं सुरान्समायातौ नानायुद्धविशारदौ । ताभ्यां युद्धाय संप्राप्तौ पुष्पदन्तवृषावुभौ १८ धनुषी सज्जतां नीत्वा षष्ट्या बाणैरविध्यताम् । दैत्यौ बाणान्निवार्येव तावुभौ बाणवृष्टिभिः १९ छादितौ शरघातेन घ्नतः स्म देवसैनिकान् । कलस्य खड्गं खड्गेन बिभेद स महावृषः २.११८.२० सैन्यमादाय तस्याशु खड्गं छित्त्वा न्यपातयत् । विकलस्य पुष्पदन्तो धनुश्चिच्छेद सायकैः २१ ततस्तौ मल्लयुद्धेन परस्परमयुध्यताम् । ते सेने युद्धतां तत्र नानाशस्त्रास्त्रपत्रिभिः २२ मायाभिर्विविधाभिश्च परस्परजयेच्छया। ततः पपाल दैत्यानां सेनाशस्त्रार्दितं भृशम् २३ केऽपि देवाः पृष्ठलग्ना मारयन्त्यसुरांश्च तान् । पादाघातेन निहता दैत्यसेनाचरा नराः २४ मृतासृक्प्रवहा तत्र वाहिनी भीरुभीतिदा । संप्रवृत्ता महाघोरा भूतपक्षिप्रमोदिनी २५ ततो वेगात्समुड्डीय कलश्च विकलश्च ह । शस्त्रवृष्टि महोग्रां तौ चक्रतुर्युद्धदुर्मदौ २६ तया हता देवसेना स्रवद्रक्ता पपाल ह । ततो वृषोऽहनत्सेनां शृंगाभ्यां च तयोर्भृशम् २७ लत्ताभिश्च जघानाशु फूत्कारेण न्यपातयत् । पुच्छाघातेन कांश्चिच्च चूर्णयामास दैत्यपान २८ एवं तेन हता सेना नानादैत्यसमाकुला । हाहाकारो महानासीद्दैत्यांना तत्र नश्यताम् २९ ततोऽतिबलिनौ वीरौ कलश्च विकलश्च ह । जगर्जतुरुभौ रोषाद् गर्जयन्तौ दिशो दश २.११८.३० निनिन्दतुस्तौ वृषभं किं त्वं युध्यसि नौ पुरः । तृणादनेषु शक्तस्त्वं तृणरूपोऽसि साम्प्रतम् ३१ दध्रात एवमुक्त्वा तौ तस्य शृंगे महाबलौ । विकृष्य निन्यतुरुभौ स्वसेनां चतुरंगिणीम् ३२ तं मोचितुं पुष्पदन्तोऽभिययौ सहसा जवात् । ततस्तं विकलो लत्ताप्रहारैः पातयन्भुवि ३३ ननर्द वाद्यघोषेण हर्षनिर्भरमानसः । स मूर्छितो मुहूर्तात्तु संज्ञां प्रापदनातुरः ३४ ततो योद्धुं समायातौ वीरभद्रषडाननौ । कलः पर्वतघातेन शतधा न्यपतद्भुवि ३५ वीरभद्रस्तु विकलं तलघातादपातयत् । दृष्ट्वा स्कन्देन निहतं कलं दैत्यं महाद्रिणा ३६ ततो ययुः स्वशिबिरं गणास्ते जयशालिनः । ततः शस्त्रहताः केचिज्जीवन्तो गण्डकीं ययुः ३७ शशंसुर्दैत्यराजाय नानासेनायुतः कलः । विकलश्च हतो रोषाद्वीरभद्रादिभिर्गणैः ३८ गतास्ते शिबिरं देवगणास्तु जयशालिनः ३९ (५३४९)
adhyāya 118 prāraṃbha :- ka uvāca | yuddhāveśadurādharṣaḥ upaviṣṭo mahāsane | sa tadā vīramukhyāṃstānupaviṣṭānathābravīt 1 sindhuruvāca | gatau mama pradhānau tau trailokyākarṣaṇakṣamau | na tādṛśo'sti vīro'tra yo me hanyādripuṃ balāt 2 naitādṛśau buddhimantau parākramajayaiṣiṇau | vīrā ūcustataḥ sindhuṃ mā cintāṃ kuru sarvathā 3 yāvadvayaṃ prāṇavanto laghukṛtya upasthite | kimarthaṃ cintākulatāṃ tāvadvrajasi daityarāṭ 4 svāpaṃ kuru mahābhāga paryaṃke puṣyasaṃstare | kṛtāntastāḍito yābhyāṃ tayoḥ kasmādbhayaṃ bhavet5 evamuktvā kalaḥ sindhuṃ vikalaśca mahābalau | śālakau tasya daityasya niryātau yuddhadurmadau 6 nānāyuddheṣu kuśalau nānāyudhadharāvubhau | nānābhūṣaṇavastrāḍhyau nānāsenāsamanvitau 7 nānāgarjanato vyoma cakraturnādasaṃyutam | devakoṭinihantārau asaṃkhyavāhinīyutau8 yayustatpurato vīrāḥ sindūrāruṇamastakāḥ | agniśastradharā muktakeśapāśāḥ sacandanāḥ 9 lasacchastradharāḥ sarve yamamattumivodyatāḥ| tataḥ karighaṭā yātā nānādhātuvicitritāḥ 2.118.10 adhiṣṭhātā mahāmātrairnānābhūṣāvirājitāḥ | tīkṣṇadantāḥ sinduritā ghaṇṭānādanināditāḥ 11 tato'śvasādino yātāstanutrāṇavirājitā | dhanurbāṇadharāḥ sarve lasacchatravibhūṣitāḥ 12 anekayuddhasambhāra rathā yātāstataḥ param | anekavīrasaṃyuktā nānāsūtavirājitāḥ 13 evaṃ tau śālakau yātau raṇasthānaṃ ruṣānvitau | dadṛśāte * mayūreśamāśīviṣabhujiḥsthitam 14 ṣaḍānanādibhirvīrairanyainyaśca parivāritam | dṛṣṭvā taistu tayoḥ senā ghorā sā caturaṃgiṇī 15 asaṃkhyātaṃ balaṃ tasya samāyātaṃ vicitritām | preṣito devapravarairdūto nītiviśāradaḥ 16 jñātvā vṛttāntamāyātaḥ sa jagāda surānprati | dūta uvāca | kalaśca vikalaścaiva nānāsenāsamāyutau 17 jetuṃ surānsamāyātau nānāyuddhaviśāradau | tābhyāṃ yuddhāya saṃprāptau puṣpadantavṛṣāvubhau 18 dhanuṣī sajjatāṃ nītvā ṣaṣṭyā bāṇairavidhyatām | daityau bāṇānnivāryeva tāvubhau bāṇavṛṣṭibhiḥ 19 chāditau śaraghātena ghnataḥ sma devasainikān | kalasya khaḍgaṃ khaḍgena bibheda sa mahāvṛṣaḥ 2.118.20 sainyamādāya tasyāśu khaḍgaṃ chittvā nyapātayat | vikalasya puṣpadanto dhanuściccheda sāyakaiḥ 21 tatastau mallayuddhena parasparamayudhyatām | te sene yuddhatāṃ tatra nānāśastrāstrapatribhiḥ 22 māyābhirvividhābhiśca parasparajayecchayā| tataḥ papāla daityānāṃ senāśastrārditaṃ bhṛśam 23 ke'pi devāḥ pṛṣṭhalagnā mārayantyasurāṃśca tān | pādāghātena nihatā daityasenācarā narāḥ 24 mṛtāsṛkpravahā tatra vāhinī bhīrubhītidā | saṃpravṛttā mahāghorā bhūtapakṣipramodinī 25 tato vegātsamuḍḍīya kalaśca vikalaśca ha | śastravṛṣṭi mahogrāṃ tau cakraturyuddhadurmadau 26 tayā hatā devasenā sravadraktā papāla ha | tato vṛṣo'hanatsenāṃ śṛṃgābhyāṃ ca tayorbhṛśam 27 lattābhiśca jaghānāśu phūtkāreṇa nyapātayat | pucchāghātena kāṃścicca cūrṇayāmāsa daityapāna 28 evaṃ tena hatā senā nānādaityasamākulā | hāhākāro mahānāsīddaityāṃnā tatra naśyatām 29 tato'tibalinau vīrau kalaśca vikalaśca ha | jagarjaturubhau roṣād garjayantau diśo daśa 2.118.30 ninindatustau vṛṣabhaṃ kiṃ tvaṃ yudhyasi nau puraḥ | tṛṇādaneṣu śaktastvaṃ tṛṇarūpo'si sāmpratam 31 dadhrāta evamuktvā tau tasya śṛṃge mahābalau | vikṛṣya ninyaturubhau svasenāṃ caturaṃgiṇīm 32 taṃ mocituṃ puṣpadanto'bhiyayau sahasā javāt | tatastaṃ vikalo lattāprahāraiḥ pātayanbhuvi 33 nanarda vādyaghoṣeṇa harṣanirbharamānasaḥ | sa mūrchito muhūrtāttu saṃjñāṃ prāpadanāturaḥ 34 tato yoddhuṃ samāyātau vīrabhadraṣaḍānanau | kalaḥ parvataghātena śatadhā nyapatadbhuvi 35 vīrabhadrastu vikalaṃ talaghātādapātayat | dṛṣṭvā skandena nihataṃ kalaṃ daityaṃ mahādriṇā 36 tato yayuḥ svaśibiraṃ gaṇāste jayaśālinaḥ | tataḥ śastrahatāḥ kecijjīvanto gaṇḍakīṃ yayuḥ 37 śaśaṃsurdaityarājāya nānāsenāyutaḥ kalaḥ | vikalaśca hato roṣādvīrabhadrādibhirgaṇaiḥ 38 gatāste śibiraṃ devagaṇāstu jayaśālinaḥ 39 (5349)
GnP 2 116.119
अध्याय ११९ प्रारंभ :- क उवाच । कलं च विकलं श्यालं देवसेनाविघातिनम । निहतं वीरभद्रेण पर्वतेन महासुरम् १ षडाननेन विकलं हतं तलप्रहारतः । श्रुत्वा भद्रासनगतो नानावीरसमन्वितः २ प्राप सिन्धुर्महाचिन्तां स्मरञ्शिवसुतं तदा । किं करिष्यति देवोऽसौ नाशमित्थं सुरद्विषाम् ३ इत्येवं चिंतयाविष्टो मूर्छामाप महत्तराम् । तावदाजग्मतुरुभौ पुत्रावस्य महाबलौ ४ धर्माधर्मौ भद्रपीठे जनकं वाक्यमाहतुः । कथं बिभेषि जनक शिवाया अर्भकाल्लघोः ५ नावाज्ञां देहि दैत्येंद्र हनिष्याव: क्षणादमुम् । संमुखे तौ हतौ वीरौ मातुलौ नौ दिवं गतौ ६ उत्तीर्णौ तौ स्वामिकार्ये कीर्तिं कृत्वा महात्तराम् । हत्वाऽनेकविधां सेनां नानावीरैः प्रपालिताम् ७ आवामपि प्रयुध्यावो यावो हत्वा रिपुं बलात् । अथवा मोक्षमायावो निहतौ तेन चेद्रणे८ यावदावां हि जीवावश्चिन्तां तावच्च मा कुरु। इंद्रादय सुरगणाः कारागारेऽधुना तव९ यदा त्वं विजिताः पूर्वं पितरस्तत्र केऽभवन् । आनीवो मस्तकं तस्य रिपोस्तव न संशयः२.११९.१० अन्यथा दर्शयिष्यावो मुख लोकेषु न क्वचित् । क उवाच । एवं तयोः समाकर्ण्य वचनं हर्षमाप्तवान्११ तावूचे परमं युद्धं प्राप्नुतं यश उत्तमम् । नाशयित्वा रिपुं घोरं यातं शीघ्रं ममान्तिकम् १२ एवमाकर्ण्य तद्वाक्यमीयतुर्युद्धलालसौ। नमस्कृत्य पितुः पादौ मातुर्गृह्य तदाशिषः १३ दशकोटिमितां सेना प्रत्येकं गृह्य सत्वरौ। रथाश्वहस्तिपादातैर्नानाशस्त्रधरैर्युताम् १४ पत्तयोऽपि ययुर्र््ष्टाः सिन्दूरारुणमस्तकाः । गजा नानागिरिनिभा नानाधातुध्वजान्विता: १५ अश्वाः सादिभिरारूढा नानाशस्त्रासिपाणिभिः । गर्जद्भिर्मेघसदृशं गर्जयद्भिर्दिशो दश १६ ततः सेनामध्यगतौ रेजतुर्भ्रातरावुभौ। नानालंकारसंयुक्तौ नानायुधधरावुभौ१७ रत्नकांचनसंयुक्तकुण्डलाभ्यां विराजितौ। किरीटाभ्यां सुतेजोभ्यां भ्राजमानौ महाबलौ१८ मुक्तामणिमयौ हारौ बिभ्रन्तौ युद्धदुर्मदौ। प्रापतू रणभूमिं तौ नानावादित्रनिस्वनैः १९ ददृशुर्वीरभद्राद्यास्तौ च तां वाहिनीमपि । निकटे तौ समालोक्य मयूरेशप्रचोदिताः २.११९.२० आज्ञयाऽभिययुर्वीरभद्रोऽसौ च षडाननः । हिरण्यगर्भः संक्रुद्धो भूतराजो विशालदृक् २१ असंख्यसेनया स्रार्द्धं ततो युद्धमवर्तत । परस्परमयुध्यन्त ततः सेनाचरा भृशम् २२ घ्नन्तः शिरांसि पादांश्च बाहूरूदरकन्दराः । निहताश्च निहन्यन्ते तमसाच्छादिते रवौ २३ केचिच्चक्राणि मुमुचुर्भिण्डिपालांस्तथाऽपरे । बाणवृष्टिं परे चापि नानाशस्त्राणि केचन २४ मल्लयुद्धं च तत्रासीत्सैनिकानां परस्परम् । एवं सा संहृता सेना मयूरेशप्रपालिता २५ पपाल तत्र शेषा या विह्वला तु दिशो दश । ततः षडाननः क्रुद्धो द्वादशायुधभूषितः २६ तैरायुधैर्जघानाशु सेनां तां दैत्यपालिताम् । केषाच्चिद्बाहवो भिन्नाः केऽपि मध्ये द्विधाकृताः २७ केषाचिन्मस्तका भिन्नाः केषांचिच्चरणा रणे । एवं सा नाशिता सेना हस्त्यश्वरथसंकुला २८ केऽपि स्वर्गं गताः केचिद्रूपं प्रापुः षडाननम् । निरीक्ष्य ये मयूरेशं जहुः प्राणान्प्रहारिताः २९ जग्मुस्ते तत्प्रसादेन निजधाम महाबलाः । तद्दृष्टिपातात्तदधं नष्टं सर्वं जनुःकृतम् २.११९.३० दृष्टवा विशाखविशिखैः सशिखैर्निहतां स्वकाम् । सेनां तस्य सुतौ वीरावधर्मो धर्म एव च ३१ युयुधाते बहुविधं शस्त्रैरस्त्रैः शरव्रजैः । चक्रतुर्मल्लयुद्धं तौ महासेनेन तत्क्षणात् ३२ तयोर्बलं निरीक्ष्यैव कार्तिकेयो महाबलः । शिखयोस्तौ दधाराशु षड्बाहुः षट्करैर्बलात् ३३ भ्रामयामास बहुधा पोथयामास भूतले । शतखण्डानि जातानि तयोस्तु पततोर्भुवि ३४ जयं प्राप्ते शिवसुते नेदुर्वाद्यानि सर्वशः। जय त्वं हि मयूरेश जगुः सर्वेऽपि सैनिकाः ३५ चत्वारस्ते ययुर्देवं मयूरेशं निजं प्रभुम् । आलिलिंगुर्मुदा ते तु परस्परमथाब्रुवन ३६ प्राप्ता इव पुनर्जन्म मुमुदुस्ते परस्परम् । शशंसुः सर्ववृत्तान्तं शिवायै च शिवाय च ३७ सेनां च निहतां सिन्धोः पुत्रौ च बलवत्तरौ ३८ (५३८७)
adhyāya 119 prāraṃbha :- ka uvāca | kalaṃ ca vikalaṃ śyālaṃ devasenāvighātinama | nihataṃ vīrabhadreṇa parvatena mahāsuram 1 ṣaḍānanena vikalaṃ hataṃ talaprahārataḥ | śrutvā bhadrāsanagato nānāvīrasamanvitaḥ 2 prāpa sindhurmahācintāṃ smarañśivasutaṃ tadā | kiṃ kariṣyati devo'sau nāśamitthaṃ suradviṣām 3 ityevaṃ ciṃtayāviṣṭo mūrchāmāpa mahattarām | tāvadājagmaturubhau putrāvasya mahābalau 4 dharmādharmau bhadrapīṭhe janakaṃ vākyamāhatuḥ | kathaṃ bibheṣi janaka śivāyā arbhakāllaghoḥ 5 nāvājñāṃ dehi daityeṃdra haniṣyāva: kṣaṇādamum | saṃmukhe tau hatau vīrau mātulau nau divaṃ gatau 6 uttīrṇau tau svāmikārye kīrtiṃ kṛtvā mahāttarām | hatvā'nekavidhāṃ senāṃ nānāvīraiḥ prapālitām 7 āvāmapi prayudhyāvo yāvo hatvā ripuṃ balāt | athavā mokṣamāyāvo nihatau tena cedraṇe8 yāvadāvāṃ hi jīvāvaścintāṃ tāvacca mā kuru| iṃdrādaya suragaṇāḥ kārāgāre'dhunā tava9 yadā tvaṃ vijitāḥ pūrvaṃ pitarastatra ke'bhavan | ānīvo mastakaṃ tasya ripostava na saṃśayaḥ2.119.10 anyathā darśayiṣyāvo mukha lokeṣu na kvacit | ka uvāca | evaṃ tayoḥ samākarṇya vacanaṃ harṣamāptavān11 tāvūce paramaṃ yuddhaṃ prāpnutaṃ yaśa uttamam | nāśayitvā ripuṃ ghoraṃ yātaṃ śīghraṃ mamāntikam 12 evamākarṇya tadvākyamīyaturyuddhalālasau| namaskṛtya pituḥ pādau māturgṛhya tadāśiṣaḥ 13 daśakoṭimitāṃ senā pratyekaṃ gṛhya satvarau| rathāśvahastipādātairnānāśastradharairyutām 14 pattayo'pi yayurrṣṭāḥ sindūrāruṇamastakāḥ | gajā nānāgirinibhā nānādhātudhvajānvitā: 15 aśvāḥ sādibhirārūḍhā nānāśastrāsipāṇibhiḥ | garjadbhirmeghasadṛśaṃ garjayadbhirdiśo daśa 16 tataḥ senāmadhyagatau rejaturbhrātarāvubhau| nānālaṃkārasaṃyuktau nānāyudhadharāvubhau17 ratnakāṃcanasaṃyuktakuṇḍalābhyāṃ virājitau| kirīṭābhyāṃ sutejobhyāṃ bhrājamānau mahābalau18 muktāmaṇimayau hārau bibhrantau yuddhadurmadau| prāpatū raṇabhūmiṃ tau nānāvāditranisvanaiḥ 19 dadṛśurvīrabhadrādyāstau ca tāṃ vāhinīmapi | nikaṭe tau samālokya mayūreśapracoditāḥ 2.119.20 ājñayā'bhiyayurvīrabhadro'sau ca ṣaḍānanaḥ | hiraṇyagarbhaḥ saṃkruddho bhūtarājo viśāladṛk 21 asaṃkhyasenayā srārddhaṃ tato yuddhamavartata | parasparamayudhyanta tataḥ senācarā bhṛśam 22 ghnantaḥ śirāṃsi pādāṃśca bāhūrūdarakandarāḥ | nihatāśca nihanyante tamasācchādite ravau 23 keciccakrāṇi mumucurbhiṇḍipālāṃstathā'pare | bāṇavṛṣṭiṃ pare cāpi nānāśastrāṇi kecana 24 mallayuddhaṃ ca tatrāsītsainikānāṃ parasparam | evaṃ sā saṃhṛtā senā mayūreśaprapālitā 25 papāla tatra śeṣā yā vihvalā tu diśo daśa | tataḥ ṣaḍānanaḥ kruddho dvādaśāyudhabhūṣitaḥ 26 tairāyudhairjaghānāśu senāṃ tāṃ daityapālitām | keṣāccidbāhavo bhinnāḥ ke'pi madhye dvidhākṛtāḥ 27 keṣācinmastakā bhinnāḥ keṣāṃciccaraṇā raṇe | evaṃ sā nāśitā senā hastyaśvarathasaṃkulā 28 ke'pi svargaṃ gatāḥ kecidrūpaṃ prāpuḥ ṣaḍānanam | nirīkṣya ye mayūreśaṃ jahuḥ prāṇānprahāritāḥ 29 jagmuste tatprasādena nijadhāma mahābalāḥ | taddṛṣṭipātāttadadhaṃ naṣṭaṃ sarvaṃ januḥkṛtam 2.119.30 dṛṣṭavā viśākhaviśikhaiḥ saśikhairnihatāṃ svakām | senāṃ tasya sutau vīrāvadharmo dharma eva ca 31 yuyudhāte bahuvidhaṃ śastrairastraiḥ śaravrajaiḥ | cakraturmallayuddhaṃ tau mahāsenena tatkṣaṇāt 32 tayorbalaṃ nirīkṣyaiva kārtikeyo mahābalaḥ | śikhayostau dadhārāśu ṣaḍbāhuḥ ṣaṭkarairbalāt 33 bhrāmayāmāsa bahudhā pothayāmāsa bhūtale | śatakhaṇḍāni jātāni tayostu patatorbhuvi 34 jayaṃ prāpte śivasute nedurvādyāni sarvaśaḥ| jaya tvaṃ hi mayūreśa jaguḥ sarve'pi sainikāḥ 35 catvāraste yayurdevaṃ mayūreśaṃ nijaṃ prabhum | āliliṃgurmudā te tu parasparamathābruvana 36 prāptā iva punarjanma mumuduste parasparam | śaśaṃsuḥ sarvavṛttāntaṃ śivāyai ca śivāya ca 37 senāṃ ca nihatāṃ sindhoḥ putrau ca balavattarau 38 (5387)
GnP 2 116.120
अध्याय १२० प्रारंभ :- क उवाच । हतशिष्टाः केऽपि वीरा: स्रवद्रक्ता सुदुःखिता । सिन्धुं सभागतं चेत्थं भीत भीता अथाब्रुवन १ वीरा ऊचुः । धनुर्धर निबोधेदमतिदुःखकरं वचः । धर्माधर्मौ तव सुतौ कृत्वा युद्धं महत्तरम् २ निन्यतुर्देवसेनां तौ हत्वा हत्वा यमक्षयम् । ततः कोऽपि महावीरो मुखैः षड्भिर्विराजितः ३ सोऽपि ताभ्यां रणे घोरे पातितो धरणीतले । पुनस्तेन धृतौ वीरौ शिखायां तावुभावपि ४ भ्रामयित्वा बहुतरं पातितौ तौ धरातले । शतधा शीर्णदेहौ तौ गतौ तौ स्वर्गमुत्तमम् ५ क उवाच । एवमाकर्ण्य तद्वाक्यं न्यपतद्दैत्यपुंगवः । शोकसागरमग्नोऽभूद्वज्राहत इवाचल: ६ धावमानैः सुहृद्वर्गैः स आशूत्थापितो बलात् । मुहूर्तात्प्रकृतिं यातः शुशोच बहुदुःखितः ७ सिन्धुरुवाच । शक्रादयो लोकपाला जिता याभ्यां रणे पुरा । तौ हतौ न कथं वीरौ षडास्येन महाबलौ ८ विहाय मृत्युलोके मां कथं स्वर्गं गतावुभौ । सुरसेनानिहन्तारौ कृतान्तस्यान्तकावुभौ ९ नानेष्ये शत्रुमूर्द्धानं तदाऽस्यं दर्शये न च । गमनावसरे प्रोक्तं तत्सत्यं कि कृतं त्वया २.१२०.१० अथ दुर्गा सखीभिस्तु वृत्तान्तोऽन्तपुरे तदा । कथितो विस्तरेणैव रुदतीभिः सुदुःखतः ११ सख्युवाच । भर्ता रोदिति ते सुभ्रु धर्माधर्मौ मृताविति । साथ पर्यंकसुगता न्यपतत्पृथिवीतले १२ रम्भेव वातनिहता कोमलारुणपल्लवा। सखीदुष्टवचोभिः सा बाणैरिव हृदि क्षता । विस्रस्तकेशाभरणा साप्यरोदीत्तदा भृशम् १३ विस्रस्तवस्त्रा विकसद्बिल्वचारुपयोधरा । अश्रुश्यामलगण्डा सा शोकानलहतप्रभा १४ जघ्ने मुखं सा पाणिभ्यां दन्तासृक्सिक्तभूतला । निरस्तदेहभावा सा विकला विगतत्रपा १५ सभांगणगता लुण्ठद्धठकृद्बालको यथा। सर्वे ततः सभ्यवरा रुरुदुर्दुःखकर्षिताः १६ प्रस्रवन्नेत्रसलिलाः प्राब्रवीत्तान्त्सभासदः । राज्ञी उवाच। कथं सर्वेषु वीरेषु जीवत्सुतौ सुतौ मम १७ प्रेषितौ रणभूमिं तौ मामपृष्ट्वा तु कोमलौ । मयाशीश्चेन्नियुक्ता स्यान्न तयोर्मरणं भवेत् १८ न हि मे वचनं धाता मिथ्या कर्तुं समीहते । याभ्यां जिता देवगणास्तौ कथं निधनं गतौ १९ क्व द्रक्ष्याम्यहमेतौ यौ जिग्यतुर्मदनं रुचा। बुद्धीना यौ सरस्वन्तौ तौ मां त्यक्त्वा कथं गतौ २.१२०.२० तयोः शोकाग्निना दग्धा मरिष्याम्यहमद्य वै । इत्युक्त्वा न्यपतद्भूमौ निघ्नती हृदये मुहुः २१ ततः सख्यो नागराश्च बोधयामासुरंजसा । न मातः कोऽपि शोकेन यो मृतः पुनरागतः २२ मृत्युलोके चिरं स्थाता नेक्षितो न श्रुतोऽपि च । विहाय हनुमन्तं च कृपं शारद्वतं बलिम् २३ व्यासं परशुरामं च विभीषणमथापि च । द्रौणिं नान्यश्चिरं स्थायी न भूतो न भविष्यति २४ ब्रह्मादीनां भवेन्मृत्युः का तत्र गणनात्मनः । रोदनं तेन कर्तव्यं न स्यान्मृत्युः कदाऽस्य चेत् २५ क्षीणे ऋणानुबन्धे च स्त्री पुत्रः पशुरेव च । न तिष्ठति ध्रुवं तत्र कृतः शोको वृथा भवेत् २६ यथा काष्ठं काष्ठगतं पुरे स्याच्च वियुज्यते । तद्वज्जन्तुर्वियोगं च योगं च प्राप्नुते वशः २७ नानापक्षिगणा रात्रावेकवृक्षागता यथा । प्रातर्दशदिशो यान्ति तत्र कि परिवेदनम् । क उवाच । एवं प्रबोधिता दुर्गा सिन्धुश्च जन एव च २८ हठाच्छोकं निगृह्यासावासने संविवेश ह । उपहासं करिष्यन्ति सपत्ना रुदतामिति २९ दुर्गा धृत्वा बलाल्लोका निन्युरन्तःपुरं हि ताम् । निश्वसन्ती पपातासौ पर्यङ्के शोककर्शिता २.१२०.३० स सिन्धुः क्रोधसंयुक्तो जग्राह शस्त्रसंचयम् । पुत्रयोर्निष्कृतिं कर्तुं हयारूढो ययौ रणम् ३१ याते तस्मिन्महासैन्यं चतुरंग रणोत्सुकम् । उड्डीयोड्डीय धावन्तो ययुः पूर्वं पदातयः ३२ नानावर्णा एकरूपा नानाशस्त्रास्त्रपाणयः । ततो वारणसङ्घाता नानाधातुविचित्रिताः ३३ घण्टाभरणशोभाढ्या दानोदकप्रवर्षिणः । चीत्कारभीषितपरा महारावभयंकराः ३४ ततोऽश्वा प्रागमन्सादियुक्ता वायुजवा रणम् । खुराघाताद्विस्फुलिंगा निपतन्तो धरातले ३५ शुशुभुः सादिनस्तत्र खेटकुन्तासिपाणयः। चन्दनागरुलिप्तांगा नानामालाविभूषिताः ३६ तनुत्राणभृतः सर्वे कंटभ्राजिमस्तकाः। ग्रसन्त इव चाकाशं नादयन्तो दिशो दश ३७ रथास्ततोऽगमन्नानामहावीरैरधिष्ठिताः । नानाशस्त्रास्त्रसंपूर्णा धनुस्तूणीरसंयुताः ३८ तन्मध्ये शुशुभे सिन्धुर्महामुकुटकुण्डलः । नानाशस्त्रधनुष्पाणिस्तूणीरकृतभूषणः ३९ वीरकंकणशोभाढयः कटिसूत्रांगदप्रभः । क्रोधसंरक्तनयनो लोकत्रयबुभुक्षया २.१२०.४० वाद्यस्तु सर्ववाद्येषु बन्दिषु च स्तुवत्स्तु च । यावद्याति महावेगात्तावद्दूतस्तमब्रवीत् ४१ पिता ते याति दैत्येश तं प्रतीक्षस्व सुव्रत । परावृत्येक्षते यावत्तावदश्वगतं सुतम् ४२ अपश्यदभ्याशगतं नमश्चक्रे स चापि तम् । ददौ पिता तत्र सुतं दुर्गं कृत्वा चमूचरैः ४३ उपदेशं च कृतवान्सुखायामुत्र चेह च । चक्रपाणिरुवाच । गर्वेण वर्तसे पुत्र श्रिया मत्तो न बुध्यसे ४४ अर्थज्ञाने महावृद्धाः प्रष्टव्या भूतिमिच्छता । अग्रे शुभेच्छया पूर्वमशुभं न समाचरेत् ४५ अल्पेन कर्मणा नाशं पुण्यमेत्य शुभेन ह । अणुरग्निर्दहेत्सर्वं पुण्यं दोषस्तथा सुत ४६ न लाभो दृश्यते पुत्र बद्धेषु तेषु ते क्वचित् । स एव पुत्रो यो मातृपितृवाक्यकरोऽनिशम् ४७ तस्य चोल्लङघने पुण्यं नाशमेति च जायते । दोषजालं मोहजालं नानानिरयदं सुत ४८ अतः शृणु हितं वाक्यं मोचयाशु सुरान्सुत । मुक्तेषु तु भवेन्मित्रं मयूरेशोऽखिलार्थदः ४९ न चेह द्वेषतः कश्चित्सुखं प्राप्तो धरातले। विनाशं प्रापिता देवैर्हिरण्याक्षादयोऽसुराः २.१२०.५० क उवाच । इति पितृवचः श्रुत्वा चुकोपातितरां सुतः । धिक्कृत्य पितरं प्राह मम भ्रान्तिरभूत्पुरा ५१ चतुरस्त्वं पिता मे वै ज्ञानं सम्यक्प्रकाशितम् । भाषसे मूढवत्तात कृत्वा श्यामं मुखं व्रज ५२ येन मे निहता सेना परार्थगणिता पितः । तेनेदानीं कथं साम कर्तव्यमयशस्करम् ५३ कुशाक्षमालाधरणं राजधर्मे हि नेष्यते। तस्माद्दया नरेन्द्रेण न कार्या शत्रुसंचये ५४ निर्दयत्वमरावेव स्मृतं नीत्यामये यथा । एवमुक्त्वा नमस्कृत्य पितरं सिन्धुदैत्यराट् ५५ परावृत्य बलात्तं स ययौ योद्धुं रणोत्सुकः ५६ (५४४२)
adhyāya 120 prāraṃbha :- ka uvāca | hataśiṣṭāḥ ke'pi vīrā: sravadraktā suduḥkhitā | sindhuṃ sabhāgataṃ cetthaṃ bhīta bhītā athābruvana 1 vīrā ūcuḥ | dhanurdhara nibodhedamatiduḥkhakaraṃ vacaḥ | dharmādharmau tava sutau kṛtvā yuddhaṃ mahattaram 2 ninyaturdevasenāṃ tau hatvā hatvā yamakṣayam | tataḥ ko'pi mahāvīro mukhaiḥ ṣaḍbhirvirājitaḥ 3 so'pi tābhyāṃ raṇe ghore pātito dharaṇītale | punastena dhṛtau vīrau śikhāyāṃ tāvubhāvapi 4 bhrāmayitvā bahutaraṃ pātitau tau dharātale | śatadhā śīrṇadehau tau gatau tau svargamuttamam 5 ka uvāca | evamākarṇya tadvākyaṃ nyapataddaityapuṃgavaḥ | śokasāgaramagno'bhūdvajrāhata ivācala: 6 dhāvamānaiḥ suhṛdvargaiḥ sa āśūtthāpito balāt | muhūrtātprakṛtiṃ yātaḥ śuśoca bahuduḥkhitaḥ 7 sindhuruvāca | śakrādayo lokapālā jitā yābhyāṃ raṇe purā | tau hatau na kathaṃ vīrau ṣaḍāsyena mahābalau 8 vihāya mṛtyuloke māṃ kathaṃ svargaṃ gatāvubhau | surasenānihantārau kṛtāntasyāntakāvubhau 9 nāneṣye śatrumūrddhānaṃ tadā'syaṃ darśaye na ca | gamanāvasare proktaṃ tatsatyaṃ ki kṛtaṃ tvayā 2.120.10 atha durgā sakhībhistu vṛttānto'ntapure tadā | kathito vistareṇaiva rudatībhiḥ suduḥkhataḥ 11 sakhyuvāca | bhartā roditi te subhru dharmādharmau mṛtāviti | sātha paryaṃkasugatā nyapatatpṛthivītale 12 rambheva vātanihatā komalāruṇapallavā| sakhīduṣṭavacobhiḥ sā bāṇairiva hṛdi kṣatā | visrastakeśābharaṇā sāpyarodīttadā bhṛśam 13 visrastavastrā vikasadbilvacārupayodharā | aśruśyāmalagaṇḍā sā śokānalahataprabhā 14 jaghne mukhaṃ sā pāṇibhyāṃ dantāsṛksiktabhūtalā | nirastadehabhāvā sā vikalā vigatatrapā 15 sabhāṃgaṇagatā luṇṭhaddhaṭhakṛdbālako yathā| sarve tataḥ sabhyavarā rurudurduḥkhakarṣitāḥ 16 prasravannetrasalilāḥ prābravīttāntsabhāsadaḥ | rājñī uvāca| kathaṃ sarveṣu vīreṣu jīvatsutau sutau mama 17 preṣitau raṇabhūmiṃ tau māmapṛṣṭvā tu komalau | mayāśīścenniyuktā syānna tayormaraṇaṃ bhavet 18 na hi me vacanaṃ dhātā mithyā kartuṃ samīhate | yābhyāṃ jitā devagaṇāstau kathaṃ nidhanaṃ gatau 19 kva drakṣyāmyahametau yau jigyaturmadanaṃ rucā| buddhīnā yau sarasvantau tau māṃ tyaktvā kathaṃ gatau 2.120.20 tayoḥ śokāgninā dagdhā mariṣyāmyahamadya vai | ityuktvā nyapatadbhūmau nighnatī hṛdaye muhuḥ 21 tataḥ sakhyo nāgarāśca bodhayāmāsuraṃjasā | na mātaḥ ko'pi śokena yo mṛtaḥ punarāgataḥ 22 mṛtyuloke ciraṃ sthātā nekṣito na śruto'pi ca | vihāya hanumantaṃ ca kṛpaṃ śāradvataṃ balim 23 vyāsaṃ paraśurāmaṃ ca vibhīṣaṇamathāpi ca | drauṇiṃ nānyaściraṃ sthāyī na bhūto na bhaviṣyati 24 brahmādīnāṃ bhavenmṛtyuḥ kā tatra gaṇanātmanaḥ | rodanaṃ tena kartavyaṃ na syānmṛtyuḥ kadā'sya cet 25 kṣīṇe ṛṇānubandhe ca strī putraḥ paśureva ca | na tiṣṭhati dhruvaṃ tatra kṛtaḥ śoko vṛthā bhavet 26 yathā kāṣṭhaṃ kāṣṭhagataṃ pure syācca viyujyate | tadvajjanturviyogaṃ ca yogaṃ ca prāpnute vaśaḥ 27 nānāpakṣigaṇā rātrāvekavṛkṣāgatā yathā | prātardaśadiśo yānti tatra ki parivedanam | ka uvāca | evaṃ prabodhitā durgā sindhuśca jana eva ca 28 haṭhācchokaṃ nigṛhyāsāvāsane saṃviveśa ha | upahāsaṃ kariṣyanti sapatnā rudatāmiti 29 durgā dhṛtvā balāllokā ninyurantaḥpuraṃ hi tām | niśvasantī papātāsau paryaṅke śokakarśitā 2.120.30 sa sindhuḥ krodhasaṃyukto jagrāha śastrasaṃcayam | putrayorniṣkṛtiṃ kartuṃ hayārūḍho yayau raṇam 31 yāte tasminmahāsainyaṃ caturaṃga raṇotsukam | uḍḍīyoḍḍīya dhāvanto yayuḥ pūrvaṃ padātayaḥ 32 nānāvarṇā ekarūpā nānāśastrāstrapāṇayaḥ | tato vāraṇasaṅghātā nānādhātuvicitritāḥ 33 ghaṇṭābharaṇaśobhāḍhyā dānodakapravarṣiṇaḥ | cītkārabhīṣitaparā mahārāvabhayaṃkarāḥ 34 tato'śvā prāgamansādiyuktā vāyujavā raṇam | khurāghātādvisphuliṃgā nipatanto dharātale 35 śuśubhuḥ sādinastatra kheṭakuntāsipāṇayaḥ| candanāgaruliptāṃgā nānāmālāvibhūṣitāḥ 36 tanutrāṇabhṛtaḥ sarve kaṃṭabhrājimastakāḥ| grasanta iva cākāśaṃ nādayanto diśo daśa 37 rathāstato'gamannānāmahāvīrairadhiṣṭhitāḥ | nānāśastrāstrasaṃpūrṇā dhanustūṇīrasaṃyutāḥ 38 tanmadhye śuśubhe sindhurmahāmukuṭakuṇḍalaḥ | nānāśastradhanuṣpāṇistūṇīrakṛtabhūṣaṇaḥ 39 vīrakaṃkaṇaśobhāḍhayaḥ kaṭisūtrāṃgadaprabhaḥ | krodhasaṃraktanayano lokatrayabubhukṣayā 2.120.40 vādyastu sarvavādyeṣu bandiṣu ca stuvatstu ca | yāvadyāti mahāvegāttāvaddūtastamabravīt 41 pitā te yāti daityeśa taṃ pratīkṣasva suvrata | parāvṛtyekṣate yāvattāvadaśvagataṃ sutam 42 apaśyadabhyāśagataṃ namaścakre sa cāpi tam | dadau pitā tatra sutaṃ durgaṃ kṛtvā camūcaraiḥ 43 upadeśaṃ ca kṛtavānsukhāyāmutra ceha ca | cakrapāṇiruvāca | garveṇa vartase putra śriyā matto na budhyase 44 arthajñāne mahāvṛddhāḥ praṣṭavyā bhūtimicchatā | agre śubhecchayā pūrvamaśubhaṃ na samācaret 45 alpena karmaṇā nāśaṃ puṇyametya śubhena ha | aṇuragnirdahetsarvaṃ puṇyaṃ doṣastathā suta 46 na lābho dṛśyate putra baddheṣu teṣu te kvacit | sa eva putro yo mātṛpitṛvākyakaro'niśam 47 tasya collaṅaghane puṇyaṃ nāśameti ca jāyate | doṣajālaṃ mohajālaṃ nānānirayadaṃ suta 48 ataḥ śṛṇu hitaṃ vākyaṃ mocayāśu surānsuta | mukteṣu tu bhavenmitraṃ mayūreśo'khilārthadaḥ 49 na ceha dveṣataḥ kaścitsukhaṃ prāpto dharātale| vināśaṃ prāpitā devairhiraṇyākṣādayo'surāḥ 2.120.50 ka uvāca | iti pitṛvacaḥ śrutvā cukopātitarāṃ sutaḥ | dhikkṛtya pitaraṃ prāha mama bhrāntirabhūtpurā 51 caturastvaṃ pitā me vai jñānaṃ samyakprakāśitam | bhāṣase mūḍhavattāta kṛtvā śyāmaṃ mukhaṃ vraja 52 yena me nihatā senā parārthagaṇitā pitaḥ | tenedānīṃ kathaṃ sāma kartavyamayaśaskaram 53 kuśākṣamālādharaṇaṃ rājadharme hi neṣyate| tasmāddayā narendreṇa na kāryā śatrusaṃcaye 54 nirdayatvamarāveva smṛtaṃ nītyāmaye yathā | evamuktvā namaskṛtya pitaraṃ sindhudaityarāṭ 55 parāvṛtya balāttaṃ sa yayau yoddhuṃ raṇotsukaḥ 56 (5442)