Ganesha Purana — Kridakhanda — Chapter 111
GnP 2 111.11
क उवाच । प्रायात्सभां महारम्यां द्वारपालनिवेदितः । नन्दी ननन्द तं दृष्ट्वा दैत्यं सिन्धुं सभागतम् १ महावीरैः परिवृतं नानाशस्त्रेषु पाणिभिः । वारांगनानृत्यरतं वीज्यमानं नृभिर्मुदा २ वाद्यत्सु सर्ववाद्येषु नादनादित दिक्षु च। दृष्ट्वा तं नन्दिनं केचिन्मेनिरे रविमागतम् ३ महाकायं महावीरं वीक्ष्य केचिच्चकम्पिरे । जगर्जुरपरे तत्र भीषयन्तो बलादमुम् ४ न बिभेति महाधैर्यान्नन्दी स्वबलगर्वितः । करसंज्ञार्पितं नन्दी भेजे आसनमुत्तमम् ५ सर्वे तटस्थता याताश्चित्रमा इव पुत्तला । बुद्ध्वा तदिंगितं प्राह नन्दी वाचस्पतिः परः ६ नानासभा दृष्टपूर्वां नेदृशास्तासु मूढकाः । यूयं सर्वेतिबलिनः श्रिया परमशोभिताः ७ सुन्दराः कामसदृशा बुद्ध्या हीना वृका इव । सभायामागतः साधुरसाधु- र्दुर्बलो बली ८ प्रष्टव्यो माननीयश्च नीतिरेषा सनातनी । न सा दृष्टा सभामध्ये अतो मे विस्मितं मनः ९ वृथा सभासदः सर्वे वृथाऽमात्याश्च नागराः । नायं धर्मो राज्ञ एव सभ्यानां कृत्यमेव तत् २.१११.१० क उवाच । इति तद्वचनं श्रुत्वा सिन्धुः प्रोवाच नन्दिनम् । पद्मयोनेरिव तव मतिर्दृष्टा गुणाकर ११ कस्य त्वं कुत आयातः किमर्थं वा वृषेश्वर । तेजसा वह्निसदृशः पंचास्य इव विक्रमे १२ नन्द्युवाच । सुरभेः कामरूपाया अपत्यं नन्दिनामकम् । विद्धि मां गिरिजानाथवाहं ब्रह्माण्डभेदिनम् १३ मयूरेशो धराभारहरो दुष्टनिबर्हण । अवतीर्णः शिवगृहे बाल्यात्प्रभृति दैत्यहा १४ शेषो मूकोऽभवत्तस्य प्रतापवर्णनेऽब्जजः । समुद्रमथनाद्यद्वद्रत्नजातं बहिर्ययौ १५ तद्वन्नीतिं विमथ्याद्य कार्यसिद्धिं विचारय । आज्ञां शृणु मयूरेशप्रेषितां बलवत्तराम् १६ आज्ञाभंगे तस्य भवेद्विनाशो यस्य कस्यचित् । यतः स सृजते विश्वं पाति हन्ति चराचरम् १७ त्वया विनिहिता कारागृहे देवगणा बलात् । पदानि तेषां लब्धानि भाग्यं स्यात्किमतः परम् १८ इदानीं वैरनिर्मोकं विचार्य कर्तुमर्हसि । मोचयाशु सुरान्सर्वानाज्ञया स्वामिनो मम १९ त्रिपुरेण कृतं वैरं शिवेन सह तत्क्षणात् । हिरण्यकशिपुं स्तम्भेऽवतीर्य हतवान्हरिः २.१११.२० तारकेण जिता देवा अतिष्ठत्तत्पदे स्वयम् । स्कन्देन निहतो युद्धे क्षणेन तारको बलात् २१ अतो दत्त्वा सुरान्मत्द्यं? तिष्ठ स्थाने सुखं चिरम् । क उवाच । एवं नन्दिवचः श्रुत्वा चुक्रोध सिन्धुदैत्यराट् २२ उवाच रक्तनयनो वमन्निव हुताशनम् । सिन्धुरुवाच । चातुर्यं बहुधा दृष्टं त्वदीयं वृषनन्दन २२ प्रसंगं नैव जानासि यतो वाचस्पतेरपि । अज्ञानात्प्रकृतार्थस्य वचो याति वृथार्थताम् २४ बालस्य तव वाक्येन स्वामिनस्तेऽपि वाक्यतः । मोचयेयं कथं देवान्यावत्सोऽपि न निर्जितः २५ प्रमाणं किन्तु ते वाक्यं तृणादवनचारिण । क्व ते गिरीशस्तत्पुत्रो वृथा भीतिः प्रवर्षते २६ लांगले योजयाम्यद्य दौत्येन नागतो यदि । यदि मे वक्रतां यायाद्भ्रुकुठी क्रोधतो वृष २७ तदा त्रिभुवनं नश्येत्का तत्र गणना तयोः । रुष्टः सृगालः किं कुर्यादप्रियं सिंहनागयोः २८ क उवाच । एवं शब्दशरैर्विद्धो नन्दी क्रोधादथाब्रवीत् । नन्द्युवाच । विपरीतां मतिं तेऽद्य लक्षयाम्य सुरा धम २९ सन्निपातीव विकलं वल्गसे मरणोन्मुखः । पूर्वं साम प्रयोक्तव्यमिति तेनाहमीरितः२.१११.३० त्वयि नीतिर्वृथा जाता उपदेशो यथा खले । यदि निन्दा प्रयुक्ता ते मयूरेशे शिवेऽपि च ३१ क्षीयमायुस्तया तेऽद्य न युद्धे जयमेष्यसि । इदानीं हन्मि त्वां मूढ नाज्ञास्ति स्वामिनो मम ३२ नायकेन न हन्तव्यो दूतस्तेनापि नायकः । इत्युक्त्वा पातयन्दैत्यान्नन्दी निश्वासवायुना ३३ क्रोधेन तमपृष्ट्वैव प्रतस्थे हर्षनिर्भरः । सान्निध्यं प्राप्य देवस्य मयूरेशस्य तत्क्षणात् ३४ दूराद्ददर्श देवोऽपि प्राह नन्दी समागतः । प्रणिपत्याब्रवीद्देवं वृत्तान्तं सर्वमादितः ३५ नन्द्युवाच । बहुधा बोधितो दैत्यो न स्वीचक्रे वचो मम । निर्भर्त्सितो बहुविधं तेनाहं च मया च सः ३६ न्युब्जे घटे यथा बिन्दुस्तस्मिन्सर्वं वृथा भवेत् । क उवाच । इति तद्वचनं श्रुत्वा प्रयातस्य यथागतम् ३७ जहर्ष स मयूरेशो दैत्यमर्दनलालसः । आज्ञापयत्स युद्धाय प्रमथादीन्गणांस्तथा ३८ इदानीं सिन्धुनगरे युद्धं कर्तुं समुत्सुकाः । गर्जन्तु वीरशब्दैश्च मोचितुं बन्धनात्सुरान् ३९ हत्वा सिन्धुं च सबलं मोचितुं चाखिलान्सुरान् । मुनीनां त्वरमाणानां गन्तुं स्वाश्रममण्डलम् २.१११.४० ( ५०३६)
ka uvāca | prāyātsabhāṃ mahāramyāṃ dvārapālaniveditaḥ | nandī nananda taṃ dṛṣṭvā daityaṃ sindhuṃ sabhāgatam 1 mahāvīraiḥ parivṛtaṃ nānāśastreṣu pāṇibhiḥ | vārāṃganānṛtyarataṃ vījyamānaṃ nṛbhirmudā 2 vādyatsu sarvavādyeṣu nādanādita dikṣu ca| dṛṣṭvā taṃ nandinaṃ kecinmenire ravimāgatam 3 mahākāyaṃ mahāvīraṃ vīkṣya keciccakampire | jagarjurapare tatra bhīṣayanto balādamum 4 na bibheti mahādhairyānnandī svabalagarvitaḥ | karasaṃjñārpitaṃ nandī bheje āsanamuttamam 5 sarve taṭasthatā yātāścitramā iva puttalā | buddhvā tadiṃgitaṃ prāha nandī vācaspatiḥ paraḥ 6 nānāsabhā dṛṣṭapūrvāṃ nedṛśāstāsu mūḍhakāḥ | yūyaṃ sarvetibalinaḥ śriyā paramaśobhitāḥ 7 sundarāḥ kāmasadṛśā buddhyā hīnā vṛkā iva | sabhāyāmāgataḥ sādhurasādhu- rdurbalo balī 8 praṣṭavyo mānanīyaśca nītireṣā sanātanī | na sā dṛṣṭā sabhāmadhye ato me vismitaṃ manaḥ 9 vṛthā sabhāsadaḥ sarve vṛthā'mātyāśca nāgarāḥ | nāyaṃ dharmo rājña eva sabhyānāṃ kṛtyameva tat 2.111.10 ka uvāca | iti tadvacanaṃ śrutvā sindhuḥ provāca nandinam | padmayoneriva tava matirdṛṣṭā guṇākara 11 kasya tvaṃ kuta āyātaḥ kimarthaṃ vā vṛṣeśvara | tejasā vahnisadṛśaḥ paṃcāsya iva vikrame 12 nandyuvāca | surabheḥ kāmarūpāyā apatyaṃ nandināmakam | viddhi māṃ girijānāthavāhaṃ brahmāṇḍabhedinam 13 mayūreśo dharābhāraharo duṣṭanibarhaṇa | avatīrṇaḥ śivagṛhe bālyātprabhṛti daityahā 14 śeṣo mūko'bhavattasya pratāpavarṇane'bjajaḥ | samudramathanādyadvadratnajātaṃ bahiryayau 15 tadvannītiṃ vimathyādya kāryasiddhiṃ vicāraya | ājñāṃ śṛṇu mayūreśapreṣitāṃ balavattarām 16 ājñābhaṃge tasya bhavedvināśo yasya kasyacit | yataḥ sa sṛjate viśvaṃ pāti hanti carācaram 17 tvayā vinihitā kārāgṛhe devagaṇā balāt | padāni teṣāṃ labdhāni bhāgyaṃ syātkimataḥ param 18 idānīṃ vairanirmokaṃ vicārya kartumarhasi | mocayāśu surānsarvānājñayā svāmino mama 19 tripureṇa kṛtaṃ vairaṃ śivena saha tatkṣaṇāt | hiraṇyakaśipuṃ stambhe'vatīrya hatavānhariḥ 2.111.20 tārakeṇa jitā devā atiṣṭhattatpade svayam | skandena nihato yuddhe kṣaṇena tārako balāt 21 ato dattvā surānmatdyaṃ? tiṣṭha sthāne sukhaṃ ciram | ka uvāca | evaṃ nandivacaḥ śrutvā cukrodha sindhudaityarāṭ 22 uvāca raktanayano vamanniva hutāśanam | sindhuruvāca | cāturyaṃ bahudhā dṛṣṭaṃ tvadīyaṃ vṛṣanandana 22 prasaṃgaṃ naiva jānāsi yato vācaspaterapi | ajñānātprakṛtārthasya vaco yāti vṛthārthatām 24 bālasya tava vākyena svāminaste'pi vākyataḥ | mocayeyaṃ kathaṃ devānyāvatso'pi na nirjitaḥ 25 pramāṇaṃ kintu te vākyaṃ tṛṇādavanacāriṇa | kva te girīśastatputro vṛthā bhītiḥ pravarṣate 26 lāṃgale yojayāmyadya dautyena nāgato yadi | yadi me vakratāṃ yāyādbhrukuṭhī krodhato vṛṣa 27 tadā tribhuvanaṃ naśyetkā tatra gaṇanā tayoḥ | ruṣṭaḥ sṛgālaḥ kiṃ kuryādapriyaṃ siṃhanāgayoḥ 28 ka uvāca | evaṃ śabdaśarairviddho nandī krodhādathābravīt | nandyuvāca | viparītāṃ matiṃ te'dya lakṣayāmya surā dhama 29 sannipātīva vikalaṃ valgase maraṇonmukhaḥ | pūrvaṃ sāma prayoktavyamiti tenāhamīritaḥ2.111.30 tvayi nītirvṛthā jātā upadeśo yathā khale | yadi nindā prayuktā te mayūreśe śive'pi ca 31 kṣīyamāyustayā te'dya na yuddhe jayameṣyasi | idānīṃ hanmi tvāṃ mūḍha nājñāsti svāmino mama 32 nāyakena na hantavyo dūtastenāpi nāyakaḥ | ityuktvā pātayandaityānnandī niśvāsavāyunā 33 krodhena tamapṛṣṭvaiva pratasthe harṣanirbharaḥ | sānnidhyaṃ prāpya devasya mayūreśasya tatkṣaṇāt 34 dūrāddadarśa devo'pi prāha nandī samāgataḥ | praṇipatyābravīddevaṃ vṛttāntaṃ sarvamāditaḥ 35 nandyuvāca | bahudhā bodhito daityo na svīcakre vaco mama | nirbhartsito bahuvidhaṃ tenāhaṃ ca mayā ca saḥ 36 nyubje ghaṭe yathā bindustasminsarvaṃ vṛthā bhavet | ka uvāca | iti tadvacanaṃ śrutvā prayātasya yathāgatam 37 jaharṣa sa mayūreśo daityamardanalālasaḥ | ājñāpayatsa yuddhāya pramathādīngaṇāṃstathā 38 idānīṃ sindhunagare yuddhaṃ kartuṃ samutsukāḥ | garjantu vīraśabdaiśca mocituṃ bandhanātsurān 39 hatvā sindhuṃ ca sabalaṃ mocituṃ cākhilānsurān | munīnāṃ tvaramāṇānāṃ gantuṃ svāśramamaṇḍalam 2.111.40 ( 5036)
GnP 2 111.49
अध्याय ११५ प्रारंभ :- क उवाच । श्रुत्वा सेनाजयं दैत्यौ ययौ चिन्तां महत्तराम् । अत्यन्तम्लानवदनो निमग्नो दुःखसागरे १ मनसा परितुष्टेन चिन्तयामास दैत्यराट् । सिन्धुरुवाच । विपरीतमिदं कस्माज्जातं न ज्ञायते मया २ पिपीलिका ग्रसेत्किं न ब्रह्मांडं लोकसंकुलम् । यस्याग्रे मशका देवा आसन्निन्द्रादयो मम ३ शिवार्भकेन तस्याद्य कथं सेना विनिर्जिता । क उवाच । इत्युक्त्वा हयमारुह्य धनुर्बाणासिचर्मभृत् ४ अहत्वा तं मयूरेशं दर्शयिष्ये मुखं न च । इत्युक्त्वाऽभिययौ सिन्धू रणभूमौ पतंगवत् ५ सज्जं चकार च धनुर्नादयन्गगनं दिशः । व्यसृजद्बाणजालानि तीक्ष्णान्यग्निमुखानि सः ६ चकम्पे पृथिवी सर्वा मूर्छिता जन्तवोऽखिलाः । प्राक्षिपद्देवसेनायामसंख्याताश्च पत्रिणः ७ छिन्ना भिन्नाः सुराः पेतुस्तच्छस्त्राघातपीडिताः । पलायन्तः सुराः पेतुस्तेऽपि पृष्ठे शरैर्हताः ८ ततः सर्वा मयूरेशवाहिनी व्यग्रतामियात् । द्विधाभूता जानुपादाः केषांचिन्मस्तका अपि ९ शरवृष्ट्या सिन्धुहस्तमुक्तया रणमूर्धनि । अभवत्तुमुलं युद्धमनिवार्य भयावहम् २.११५.१० सिन्धोश्चैव गणेशस्य सेनयोरुभयोरपि । कोलाहले महाघोरे ध्वान्ते गाढे रजःकृते ११ पुरोगां जघ्निरे सर्वे परान्स्वानपि ते तदा। शस्त्राघातैर्हता सेना देवसेनाचरैः परा. १२ ततः सिन्धुर्हयात्तस्मादवरुह्य पदेऽग्रहीत् । पातयामास सहसा वीरभद्रं च वेगतः १३ अहनन्मस्तके सोऽथ नन्दिनं बलवत्तरम । भूतराजं च खड्गेन मारयन्सहसा कटौ १४ पुष्पदन्तस्योदरं च बिभेद बलवत्तरम् । शिखामाक्रम्य प्राकर्षद्धिरण्यगर्भमोजसा १५ श्यामलस्य ललाटं स बिभेद शरघाततः । चपलस्य हनू रोषाज्जघान विकटं रणे १६ लम्बकर्णस्य कण्ठं स बिभेद बाणसंचयैः । धृत्वा तु चरणौ रक्तलोचनं च न्यपातयत् १७ हस्तान्निस्तीर्य सहसा समुखः प्रापलज्जवात् । सोमं लत्ताप्रहारेण रणभूमावपातयत् १८ जठरं दारयामास भृंगिणोऽसिप्रहारतः । दानवानलस्य च शिरो भेदयामास सायकैः १९ पंचाननस्य पृष्ठे सोऽवधीच्च चपलो युधि । एवं सर्वे महावीरा निहता रणमूर्धनि २.११५.२० द्रुतं पलायिताश्चान्ये ततः सिन्धुः पुरो यरौ । जगर्ज घनवद्घोरं नादयन्भुवनत्रयम् २१ स विव्याध मयूरेशं शरजालैरनेकधा । तस्य देहं समालोक्य विकरालं भयानकम् २२ विरूपाक्षादयः सर्वे पलायनमकुर्वत । मुनियुक्तो गणेशश्च युयुधे संयुगे तदा २३ स चकम्पे करिशिशुः सिंहस्येवास्य दर्शनात् । ततोऽब्रवीद्रोषवशात्सिन्धुस्तं तु गुणेश्वरम् २४ सिन्धुरुवाच। दूरात्तेऽश्रावि बहुशः पुरुषार्थः शिवार्भक । प्रत्यक्षं दृश्यसे रे त्वं जम्बूक इव दुर्बलः २५ कथं मे सहसे मूढ तलाघातं शिलाभिदम्। त्वया मातुः स्तनं पीत्वा नर्तव्यं हि गृहांगणे २६ शक्रादयो जिता येन तस्य ते गणनाऽत्र का। निवारयति मां मूढ कृपा त्वां हन्तुमुत्सुकम् २७ कथं ते कोमलांगेषु विध्ये तीक्ष्णतराञ्शरान् । देव उवाच । किमर्थं वल्गसे मूढभावेनाधम पामर २८ नावतारं गृहीष्येऽहं यदि जानेऽल्पकं वपुः। तवेदानीं हनिष्यामि क्षणेन देहमल्पकम् २९ सूर्यदत्ताद्वराद्दुष्ट दुष्कर्मनिरतो भवान्। इदानीं स गतः कालो मृत्युकाल उपस्थिते २.११५.३० वल्गनाकुशलस्त्वं किं युद्धमद्य करिष्यसि । त्वा हन्तुं मोचितुं देवान्धृतं रूपमिदं मया ३१ अन्तकाले सन्निहिते पुरुषार्थो वृथा भवेत् । मया हते महास्थानं मम प्राप्स्यसि दुर्लभम् ३२ सिन्धुरुवाच । यावन्न च्छेद्मि ते मूढ कोमलं देहमुत्तमम् । तावद्वल्गसि यो यस्य भक्तः स्यात्स मृतो व्रजेत् ३३ तस्य लोकं वृथा हि त्वं न प्रशंसां वदात्मनः । क उवाच । एवमुक्त्वा महादैत्यः सायकं परभेदिनम् ३४ न कदाचित्प्रकटितमतितीक्ष्णं जयावहम। स्मृत्वा सूर्यं धनुर्गृह्य सज्जं कृत्वा न्ययोजयत् ३५ टणत्कारेण धनुषो नादितं भुवनत्रयम् । मुमोच बाणं तं देवे मयूरेशे बलात्खलः ३६ स जज्वाल दिशः सर्वा गगनं विदिशोऽपि च । तं दृष्ट्वा स मयूरेशस्तत्याज परशुं निजम् ३७ वज्रात्सारतरं सर्ववैरिदर्पहरं परम् । अदहत्सोपि त्रींल्लोकान्प्रलयानलसन्निभः ३८ परशुः खण्डयामास नभस्येव च तं शरम् । धरायां पात्य शतधा दैत्यहस्तमथाच्छिनत् ३९ धनुर्भारसहं घोरं नभस्यैव गतं करात् । ततः क्रोधेन दैत्यः स चक्रं तत्याज शत्रवे २.११५.४० शतहूदेव तच्छब्दं चकार गर्जयन्दिशः । दृष्ट्वा तत्र मयूरेशः शूलमुग्रं मुमोच ह ४१ ददाह भुवनं तच्च पपात दैत्यमस्तके । मुकुटं कुण्डले कर्णौ खण्डयित्वा ययौ पुनः ४२ मयूरेशकरं शीघ्रं यथा न त्याजितं तथा । ततः क्रोधादुवाचैनं छिन्नकर्णो महासुरः ४३ पौरुषं दर्शितं तेऽद्य दर्शयिष्ये तवापि च । इदानीं शरघातेन छिनद्मि नासिकां तव ४४ इत्युक्त्वा खड्गहस्तोऽसौ तं जगाम गुणेश्वरम् । मयूरेशस्तदा चक्रे नानारूपाणि सर्वतः ४५ आयुधानि च चत्वारि बिभ्रन्करचतुष्टये । ततः स विस्मयाविष्टो दशदिक्षु व्यलोकयत् ४६ ददर्श तत्र तं देवं चतुरायुधभूषितम् । ततः स लज्जितो गेहं निजं गन्तुं मनोदधे ४७ तथापि पुरतोऽपश्यन्मयूरेशं तथाविधम् । आच्छाद्य नेत्रे स ययौ हृद्येनं समलोकयन् ४८ उन्मील्य नेत्रे सोऽपश्यत्पुर एनं शिखण्डिनि । ततो दैत्यो बुबोधैनं स्वान्ते रविप्रसादत
adhyāya 115 prāraṃbha :- ka uvāca | śrutvā senājayaṃ daityau yayau cintāṃ mahattarām | atyantamlānavadano nimagno duḥkhasāgare 1 manasā parituṣṭena cintayāmāsa daityarāṭ | sindhuruvāca | viparītamidaṃ kasmājjātaṃ na jñāyate mayā 2 pipīlikā grasetkiṃ na brahmāṃḍaṃ lokasaṃkulam | yasyāgre maśakā devā āsannindrādayo mama 3 śivārbhakena tasyādya kathaṃ senā vinirjitā | ka uvāca | ityuktvā hayamāruhya dhanurbāṇāsicarmabhṛt 4 ahatvā taṃ mayūreśaṃ darśayiṣye mukhaṃ na ca | ityuktvā'bhiyayau sindhū raṇabhūmau pataṃgavat 5 sajjaṃ cakāra ca dhanurnādayangaganaṃ diśaḥ | vyasṛjadbāṇajālāni tīkṣṇānyagnimukhāni saḥ 6 cakampe pṛthivī sarvā mūrchitā jantavo'khilāḥ | prākṣipaddevasenāyāmasaṃkhyātāśca patriṇaḥ 7 chinnā bhinnāḥ surāḥ petustacchastrāghātapīḍitāḥ | palāyantaḥ surāḥ petuste'pi pṛṣṭhe śarairhatāḥ 8 tataḥ sarvā mayūreśavāhinī vyagratāmiyāt | dvidhābhūtā jānupādāḥ keṣāṃcinmastakā api 9 śaravṛṣṭyā sindhuhastamuktayā raṇamūrdhani | abhavattumulaṃ yuddhamanivārya bhayāvaham 2.115.10 sindhoścaiva gaṇeśasya senayorubhayorapi | kolāhale mahāghore dhvānte gāḍhe rajaḥkṛte 11 purogāṃ jaghnire sarve parānsvānapi te tadā| śastrāghātairhatā senā devasenācaraiḥ parā. 12 tataḥ sindhurhayāttasmādavaruhya pade'grahīt | pātayāmāsa sahasā vīrabhadraṃ ca vegataḥ 13 ahananmastake so'tha nandinaṃ balavattarama | bhūtarājaṃ ca khaḍgena mārayansahasā kaṭau 14 puṣpadantasyodaraṃ ca bibheda balavattaram | śikhāmākramya prākarṣaddhiraṇyagarbhamojasā 15 śyāmalasya lalāṭaṃ sa bibheda śaraghātataḥ | capalasya hanū roṣājjaghāna vikaṭaṃ raṇe 16 lambakarṇasya kaṇṭhaṃ sa bibheda bāṇasaṃcayaiḥ | dhṛtvā tu caraṇau raktalocanaṃ ca nyapātayat 17 hastānnistīrya sahasā samukhaḥ prāpalajjavāt | somaṃ lattāprahāreṇa raṇabhūmāvapātayat 18 jaṭharaṃ dārayāmāsa bhṛṃgiṇo'siprahārataḥ | dānavānalasya ca śiro bhedayāmāsa sāyakaiḥ 19 paṃcānanasya pṛṣṭhe so'vadhīcca capalo yudhi | evaṃ sarve mahāvīrā nihatā raṇamūrdhani 2.115.20 drutaṃ palāyitāścānye tataḥ sindhuḥ puro yarau | jagarja ghanavadghoraṃ nādayanbhuvanatrayam 21 sa vivyādha mayūreśaṃ śarajālairanekadhā | tasya dehaṃ samālokya vikarālaṃ bhayānakam 22 virūpākṣādayaḥ sarve palāyanamakurvata | muniyukto gaṇeśaśca yuyudhe saṃyuge tadā 23 sa cakampe kariśiśuḥ siṃhasyevāsya darśanāt | tato'bravīdroṣavaśātsindhustaṃ tu guṇeśvaram 24 sindhuruvāca| dūrātte'śrāvi bahuśaḥ puruṣārthaḥ śivārbhaka | pratyakṣaṃ dṛśyase re tvaṃ jambūka iva durbalaḥ 25 kathaṃ me sahase mūḍha talāghātaṃ śilābhidam| tvayā mātuḥ stanaṃ pītvā nartavyaṃ hi gṛhāṃgaṇe 26 śakrādayo jitā yena tasya te gaṇanā'tra kā| nivārayati māṃ mūḍha kṛpā tvāṃ hantumutsukam 27 kathaṃ te komalāṃgeṣu vidhye tīkṣṇatarāñśarān | deva uvāca | kimarthaṃ valgase mūḍhabhāvenādhama pāmara 28 nāvatāraṃ gṛhīṣye'haṃ yadi jāne'lpakaṃ vapuḥ| tavedānīṃ haniṣyāmi kṣaṇena dehamalpakam 29 sūryadattādvarādduṣṭa duṣkarmanirato bhavān| idānīṃ sa gataḥ kālo mṛtyukāla upasthite 2.115.30 valganākuśalastvaṃ kiṃ yuddhamadya kariṣyasi | tvā hantuṃ mocituṃ devāndhṛtaṃ rūpamidaṃ mayā 31 antakāle sannihite puruṣārtho vṛthā bhavet | mayā hate mahāsthānaṃ mama prāpsyasi durlabham 32 sindhuruvāca | yāvanna cchedmi te mūḍha komalaṃ dehamuttamam | tāvadvalgasi yo yasya bhaktaḥ syātsa mṛto vrajet 33 tasya lokaṃ vṛthā hi tvaṃ na praśaṃsāṃ vadātmanaḥ | ka uvāca | evamuktvā mahādaityaḥ sāyakaṃ parabhedinam 34 na kadācitprakaṭitamatitīkṣṇaṃ jayāvahama| smṛtvā sūryaṃ dhanurgṛhya sajjaṃ kṛtvā nyayojayat 35 ṭaṇatkāreṇa dhanuṣo nāditaṃ bhuvanatrayam | mumoca bāṇaṃ taṃ deve mayūreśe balātkhalaḥ 36 sa jajvāla diśaḥ sarvā gaganaṃ vidiśo'pi ca | taṃ dṛṣṭvā sa mayūreśastatyāja paraśuṃ nijam 37 vajrātsārataraṃ sarvavairidarpaharaṃ param | adahatsopi trīṃllokānpralayānalasannibhaḥ 38 paraśuḥ khaṇḍayāmāsa nabhasyeva ca taṃ śaram | dharāyāṃ pātya śatadhā daityahastamathācchinat 39 dhanurbhārasahaṃ ghoraṃ nabhasyaiva gataṃ karāt | tataḥ krodhena daityaḥ sa cakraṃ tatyāja śatrave 2.115.40 śatahūdeva tacchabdaṃ cakāra garjayandiśaḥ | dṛṣṭvā tatra mayūreśaḥ śūlamugraṃ mumoca ha 41 dadāha bhuvanaṃ tacca papāta daityamastake | mukuṭaṃ kuṇḍale karṇau khaṇḍayitvā yayau punaḥ 42 mayūreśakaraṃ śīghraṃ yathā na tyājitaṃ tathā | tataḥ krodhāduvācainaṃ chinnakarṇo mahāsuraḥ 43 pauruṣaṃ darśitaṃ te'dya darśayiṣye tavāpi ca | idānīṃ śaraghātena chinadmi nāsikāṃ tava 44 ityuktvā khaḍgahasto'sau taṃ jagāma guṇeśvaram | mayūreśastadā cakre nānārūpāṇi sarvataḥ 45 āyudhāni ca catvāri bibhrankaracatuṣṭaye | tataḥ sa vismayāviṣṭo daśadikṣu vyalokayat 46 dadarśa tatra taṃ devaṃ caturāyudhabhūṣitam | tataḥ sa lajjito gehaṃ nijaṃ gantuṃ manodadhe 47 tathāpi purato'paśyanmayūreśaṃ tathāvidham | ācchādya netre sa yayau hṛdyenaṃ samalokayan 48 unmīlya netre so'paśyatpura enaṃ śikhaṇḍini | tato daityo bubodhainaṃ svānte raviprasādata
GnP 2 111.112
१।। अध्याय ११२ प्रारंभ :- क उवाच । शिखण्डिनं समारुह्य मयूरेशः परे दिने । आयुधानि च चत्वारि प्रगृह्य करपंकजे १ जगर्ज घनवद्घोरं ययौ रणचिकीर्षया । शिवोऽपि गर्जयन्सहसा वृषारूढो ययौ तदा २ सप्तकोटिगणाः पश्चात्सन्नद्धा ययुरोजसा । ततो नन्दी प्राह तत्र न गन्तुं सहसाऽर्हथ ३ गणानां नायके वीरभद्रे च मयि तिष्ठति । प्रमथ वा विद्यमाने शक्ते हन्तुं सुरद्विषाम् ४ पश्यन्तु सेवकमहस्ततो यान्तु सुसंयुगम् । क उवाच । भारतीमेवमाकर्ण्य देवो नन्दीरितां तदा ५ उवाच परमप्रीतः साधु साधु त्वयोदितम् । पराक्रमवतः सिन्धोर्द्रष्टवस्तु पराक्रमः ६ इति यामि पुरो नन्दिन्यूयं यान्तु सहैव नः । ततस्तु भूतराजोऽथ पुष्पदन्तोऽपि वीर्यवान् ७ ईयतुः पुरतस्तस्य कोटिसंख्यायुता गणाः । वीर्यश्रिया दीप्यमानाः सर्वे वीरा मदान्विताः ८ आक्रमन्तो दिगन्तान्वै गर्जन्तो धनवद्भृशम् । भारेण शेषशीर्षाणि नामयन्तो धरामपि ९ क्रोधानलं वमन्तस्ते प्रापुस्तां गण्डकीं पुरीम् । दैत्यगुल्मे निपेतुस्ते दशकोट्यसुरैर्युते २.११२.१० ततस्तत्राभवद्युद्धं तुमुलं रोमहर्षणम् । शस्त्रास्त्रैर्बाणनिचयैर्भिण्डिपालपरश्वधैः ११ केषांचिन्मस्तका भिन्नाः पादा हस्तास्तथोरवः । जानुजंघाश्च गुल्फाश्च भग्नाः केऽपि गतासवः १२ निपत्य पुनरुत्थाय प्रायुध्यन्स्वपरैः सह । एवं निपतिता दैत्या असंख्याता गतासवः १३ पलाय्य निर्गताः केचिदाचख्युः सिन्धवेऽखिलम् । सभामध्ये वीरगणैरुपविष्टाय केचन १४ शस्त्राघातैः स्रवद्रक्ताः पुष्पिता इव किंशुकाः । तत्रागत्य मृताः केचित्केचिद्धैर्यात्तमब्रुवन् १५ नगरद्वारगुल्मे तु दशकोटिनिशाचराः । निवृत्ताः शस्त्रसंघातैर्युद्धं कृत्वा परस्परम्१६ यदा शैलभिदो युद्धमभूत्तत्र जयोऽभवत् । उपविष्टोऽसि किं तूष्णीं सिन्धो स्वहितमाचर १७ आरामा रिपुभिर्दग्धा गृहाणि च प्रतोलिकाः । अन्धकारे धूलिकृते प्रापलन्वह्नितेजसा १८ भुंजन्तो निद्रिताः केचिन्निर्ययुर्नगराद्बहिः । बालानादाय पपलुस्त्यक्त्वा भोगं च केचन १९ विस्रस्तवसनाः केचिद्ध्यानस्था वह्निना हुताः । तत्रापि निधनं जग्मुर्नानाशस्त्रप्रहारतः २.११२.२० धनंजयं सर्वदिक्षु वीक्ष्य पौरा भयातुराः । मेनिरे प्रलयं प्राप्तं दह्यते सकला पुरी २१ क उवाच। एवं दूतमुखाच्छ्रुत्वा सिन्धुर्जृम्भामथाकरोत् । खादन्निव मृगान्सिंहः पर्वतेन्द्रविनिर्गतः २२ उवाच दुर्धरा सेना दृश्यते किं भविष्यति । दिदीपे क्रोधानलतो ग्रसन्निव त्रिविष्टपम २३ सिंहस्याग्रे किं शशकः करिष्यति पराक्रमम् । मेरोः किं शलभः कुर्याच्चलनं जम्बुकोऽपि वा २४ कालस्य मम किं कुर्याद्बालोऽयं मयूरराट् । इत्युक्त्वा श्वेडितेनासौ नादयन्विदिशो दिशः २५ चिन्तातुरः क्षणं तस्थौ मुनिर्मौनमिवास्थितः । ततो वीरा सिन्धुदैत्यं प्राब्रुवन्क्रोधमूर्छिताः २६ आज्ञां देहि मयूरेशं जेष्यामः क्षणमात्रतः । तव प्रतापात्त्रैलोक्यं वशं नेष्याम साम्प्रतम २७ सिन्धुरुवाच । सम्यगुक्तं महावीरा ममापि रिपुदर्शने । मन उत्कण्ठितं यस्मात्सैन्येन युद्ध्यतामिह २८ ततः सर्वे पुरो याता गर्जन्तो वीरसत्तमाः । असंख्याताः शस्त्रधराश्चतुरंगबलान्विताः २९ हयारूढः सिन्धुदैत्यः क्रोधहर्षसमन्वितः । वमन्क्रोधानलं वक्त्रान्नेत्राभ्यां रणदुर्मदः २.११२.३० ययावश्वं पुरोधाय मनोवेगं महाधनम् ३१ (५०६७)
1|| adhyāya 112 prāraṃbha :- ka uvāca | śikhaṇḍinaṃ samāruhya mayūreśaḥ pare dine | āyudhāni ca catvāri pragṛhya karapaṃkaje 1 jagarja ghanavadghoraṃ yayau raṇacikīrṣayā | śivo'pi garjayansahasā vṛṣārūḍho yayau tadā 2 saptakoṭigaṇāḥ paścātsannaddhā yayurojasā | tato nandī prāha tatra na gantuṃ sahasā'rhatha 3 gaṇānāṃ nāyake vīrabhadre ca mayi tiṣṭhati | pramatha vā vidyamāne śakte hantuṃ suradviṣām 4 paśyantu sevakamahastato yāntu susaṃyugam | ka uvāca | bhāratīmevamākarṇya devo nandīritāṃ tadā 5 uvāca paramaprītaḥ sādhu sādhu tvayoditam | parākramavataḥ sindhordraṣṭavastu parākramaḥ 6 iti yāmi puro nandinyūyaṃ yāntu sahaiva naḥ | tatastu bhūtarājo'tha puṣpadanto'pi vīryavān 7 īyatuḥ puratastasya koṭisaṃkhyāyutā gaṇāḥ | vīryaśriyā dīpyamānāḥ sarve vīrā madānvitāḥ 8 ākramanto digantānvai garjanto dhanavadbhṛśam | bhāreṇa śeṣaśīrṣāṇi nāmayanto dharāmapi 9 krodhānalaṃ vamantaste prāpustāṃ gaṇḍakīṃ purīm | daityagulme nipetuste daśakoṭyasurairyute 2.112.10 tatastatrābhavadyuddhaṃ tumulaṃ romaharṣaṇam | śastrāstrairbāṇanicayairbhiṇḍipālaparaśvadhaiḥ 11 keṣāṃcinmastakā bhinnāḥ pādā hastāstathoravaḥ | jānujaṃghāśca gulphāśca bhagnāḥ ke'pi gatāsavaḥ 12 nipatya punarutthāya prāyudhyansvaparaiḥ saha | evaṃ nipatitā daityā asaṃkhyātā gatāsavaḥ 13 palāyya nirgatāḥ kecidācakhyuḥ sindhave'khilam | sabhāmadhye vīragaṇairupaviṣṭāya kecana 14 śastrāghātaiḥ sravadraktāḥ puṣpitā iva kiṃśukāḥ | tatrāgatya mṛtāḥ kecitkeciddhairyāttamabruvan 15 nagaradvāragulme tu daśakoṭiniśācarāḥ | nivṛttāḥ śastrasaṃghātairyuddhaṃ kṛtvā parasparam16 yadā śailabhido yuddhamabhūttatra jayo'bhavat | upaviṣṭo'si kiṃ tūṣṇīṃ sindho svahitamācara 17 ārāmā ripubhirdagdhā gṛhāṇi ca pratolikāḥ | andhakāre dhūlikṛte prāpalanvahnitejasā 18 bhuṃjanto nidritāḥ kecinniryayurnagarādbahiḥ | bālānādāya papalustyaktvā bhogaṃ ca kecana 19 visrastavasanāḥ keciddhyānasthā vahninā hutāḥ | tatrāpi nidhanaṃ jagmurnānāśastraprahārataḥ 2.112.20 dhanaṃjayaṃ sarvadikṣu vīkṣya paurā bhayāturāḥ | menire pralayaṃ prāptaṃ dahyate sakalā purī 21 ka uvāca| evaṃ dūtamukhācchrutvā sindhurjṛmbhāmathākarot | khādanniva mṛgānsiṃhaḥ parvatendravinirgataḥ 22 uvāca durdharā senā dṛśyate kiṃ bhaviṣyati | didīpe krodhānalato grasanniva triviṣṭapama 23 siṃhasyāgre kiṃ śaśakaḥ kariṣyati parākramam | meroḥ kiṃ śalabhaḥ kuryāccalanaṃ jambuko'pi vā 24 kālasya mama kiṃ kuryādbālo'yaṃ mayūrarāṭ | ityuktvā śveḍitenāsau nādayanvidiśo diśaḥ 25 cintāturaḥ kṣaṇaṃ tasthau munirmaunamivāsthitaḥ | tato vīrā sindhudaityaṃ prābruvankrodhamūrchitāḥ 26 ājñāṃ dehi mayūreśaṃ jeṣyāmaḥ kṣaṇamātrataḥ | tava pratāpāttrailokyaṃ vaśaṃ neṣyāma sāmpratama 27 sindhuruvāca | samyaguktaṃ mahāvīrā mamāpi ripudarśane | mana utkaṇṭhitaṃ yasmātsainyena yuddhyatāmiha 28 tataḥ sarve puro yātā garjanto vīrasattamāḥ | asaṃkhyātāḥ śastradharāścaturaṃgabalānvitāḥ 29 hayārūḍhaḥ sindhudaityaḥ krodhaharṣasamanvitaḥ | vamankrodhānalaṃ vaktrānnetrābhyāṃ raṇadurmadaḥ 2.112.30 yayāvaśvaṃ purodhāya manovegaṃ mahādhanam 31 (5067)
GnP 2 111.113
अध्याय ११३ प्रारंभ :- क उवाच । पदातयः पुरो यान्ति कम्पयन्तो वसुन्धराम् । विकरालमुखा वीराः सिन्दूरारुणमस्तकाः १ केचिन्निबद्धकवचा मुक्तकेशाः सुदारुणाः । केचिन्निबद्धकटयः केचिच्चन्दनचर्चिताः २ नानाशस्त्रप्रहरणा नानायुद्धविशारदाः । पुरो यान्ति गजा मत्ता धातुचित्रा इवाद्रयः ३ दीर्घदन्ता विभान्ति स्म भूषणैर्विविधैरपि । घण्टानादैर्जनं सर्वं बधिरं चक्रुरंजसा४ चूर्णयन्तो गिरीन्वक्षान्ययुः शुण्डागनंप्रहारतः । लसत्कुम्भाः पताकाढयाश्चित्रध्वजविराजिताः५ ततोऽश्वाश्च खुराघातैश्चूर्णयन्तो वसुन्धराम् । हेषितैर्नादयन्तो वै गगनं च दिशो दश ६ सुवर्णरत्नमुक्ताभिर्भूषिता व्योमचारिणः । अधिष्ठिता महायोधैस्तनुत्राणप्रशोभिभिः ७ नानाशस्त्रधरैर्वीरैः परसेनाविमर्दिभिः । ततस्तु रथिनो जग्मुः शस्त्रास्त्रै रिपुघातिनः ८ सहिता युद्धमार्गज्ञैर्वरैः सारथिभिर्मृधे । मुक्तामणिमया माला वहन्तो गन्धमालिनः ९ धनुस्कन्धास्तूणभृतो भल्लहस्ताः सखड्गकाः । शस्त्रप्रभाभिर्नेत्राणि छान्दयन्तो जनस्य ह २.११३.१० एवं सेना समायाता गर्जयन्ती दिशो दश । भूतराजेन सा दृष्टा पुष्पदन्तेन वाहिनी ११ मयूरेशमुभौ यातौ ततो भीत्या पलायितौ । तावूचतुः । तवाज्ञया पुरो यातावावाभ्यां निहता चमू: १२ गुल्मस्था नगरद्वारि दग्धं च नगरं बहु । प्रतापं नौ समाकर्ण्य सिन्धुः स्वयमुपागतः १३ चतुरंगां चमूं गृहय नानाशस्त्रास्त्रधारिणीम् । ततो भीत्या भवन्तं च समायातौ महाबल १४ क उवाच । सिन्धुसैन्यसमुद्रोऽथ वदतोरेवमेतयोः । ददृशे पूर्वादिग्भागे दुस्तरः शस्त्रयोधिभिः १५ ततो हर्षयुतो ज्ञात्वा दैत्यवृत्तं समासतः । नीलकण्ठं समारुह्य मयूरेशो ययौ पुरः १६ आयुधानि च चत्वारि चतुर्दोषु प्रगृहय सः । सन्नद्धा गणकोट्यस्ता धनुर्बाणासिपाणयः १७ परिवार्य स्थिता देवं नीलकण्ठं वृषस्थितम् । मुनीश्वराः स्तुवन्ति स्म ददुराशीर्वचोऽपि तम् १८ उभयोः सेनयोर्वाद्यघोषकोलाहलो महान् । परस्परं संपदं तां वीक्ष्य सेने सुविस्मिते १९ असंख्यातं बलं वीक्ष्य तुतोष स मयूरराट् । यदुक्तं नन्दिना पूर्वं तद्दृष्टं सर्वमेव हि २.११३.२० ततो नन्दी मयूरेशं नत्वा गर्जन्मुहुर्ययौ । नभोमार्गेण सैन्येषु चिच्छेद वीरमस्तकान् २१ शृंगाघातेन महता हयमस्याहनद्दृढम् । शीघ्रमुड्डीय च ययौ मयूरेशं यथाऽक्षतः २२ आश्चर्यं चक्रिरे सर्वे गणाः साध्विति शंसिरे । छत्रं च पातयामास नन्दी शृंगप्रहारतः २३ पतितेऽश्वे च छत्रे च सिन्धुरश्वान्तरे गतः । धारयामास च तदा छत्रमन्यन्महाधनम् २४ आश्चर्यं परमं मेने नन्दिनः कर्मणाऽसुरः । चुक्रोध स महावीरान्क्व गतो वः पराक्रमः २५ एवमाकर्ण्य तद्वाक्यं कौस्तुभो मैत्र एव च । अमात्यौ तं नमस्कृत्य सेनया चतुरंगया २६ मा चिन्तां कुरु सिन्धो त्वं विघास्यावो रिपूक्षयम् । अन्यथा न मुखं नाथ दर्शयावः कथंचन २७ एवमुक्त्वा प्रचलितौ परसैन्यनिबर्हणौ । पदातीनां गणा याता ब्रह्माण्डस्फोटतत्पराः २८ न्युब्जतामिच्छवो नेतुं भूगोलं रणदुर्मदाः । कौस्तुभोऽथ मयूरेशं यातो मैत्रश्च पातितुम २९ शरवर्षैः परिच्छाद्य यातावस्यान्तिकं यदा। वीरभद्रस्तदायातो योद्धुं स च षडाननः २.११३.३० असंख्यसेनया युक्तौ गर्जयन्तौ दिशो दश । निजघ्नतुरुभौ रोषात्सिन्धुं नानाप्रहारतः ३१ कौस्तुभोप्यथ मैत्रश्च जघ्नतुस्तौ परस्परम् । सहस्व मारयस्वेति व्याहरन्तः परस्परम् ३२ शस्त्रैरस्त्रैरनेकैश्च ताभ्यां युद्धमकुर्वताम् । शरव्रातैर्भिण्डिपालैः परिघैर्मुसलैरपि ३३ नानासेनाचरा जघ्नुः परस्परवधेप्सवः । नष्टेषु सर्वशस्त्रेषु शरेषु च परस्परम् ३४ मल्लयुद्धं प्रचक्रुस्ते जीवग्राहममारयन् । व्यसवः पतिताः केचिद्वेमू रक्तं मुखाद्बहु ३५ पादं पादेन जघ्नुस्ते स्कन्धं स्कन्धेन त्तापरे । पृष्ठं पृष्ठेन केचिच्च हस्तं हस्तेन चापरे ३६ मस्तकं मस्तकेनैव कूर्परं कूर्परेण च । पतिताः पात्यमानश्च मृता भग्नाश्च चूर्णिताः ३७ छिन्नकण्ठा भिन्नभुजा भग्नजङ्घोरुबाहवः । एवं नष्टेषु सैन्येषु सिन्धुसेना जयं ययौ ३८ जयशब्दैः स्तूयमानैर्बन्दिभिर्वाद्यनिस्वनैः । सिन्धुदैत्येश्वरं यातौ अमात्यौ मित्रकौस्तुभौ ३९ मयूरेशं समायातौ वीरभद्रषडाननौ। ततोऽस्तमगमत्सूर्यस्ततो युद्धमुपारमत् २.११३.४० अपरे निश्चयुध्यन्त देवसैन्येन दानवाः। पलायमानां तां सेनां निजघ्नुः शरसंचयैः ४१ पुनरावेशमापन्नौ वीरभद्रषडाननौ। गर्जन्तौ गर्जयन्तौ च गगनं च दिशो दश ४२ निघ्नन्तौ रिपुसेनां तां निदर्हन्तौ कृतान्तवत् । अन्धकारे महाघोरे न प्राज्ञायत किंचन ४३ स्वान्परानपि जघ्नुस्ते युध्यमाना महाबलाः । भग्नायां सिन्धुसेनायां चक्रतुर्जयनिस्वनम् ४४ दैत्यामात्यौ पुनर्यातौ मरणे कृतनिश्चयौ । प्रेरयामासतुरुभौ निजाश्वौ परवाहिनीम् ४५ किरन्तौ शरजालानि जघ्नतुः करवालतः । ततः षडाननो दृष्ट्वा तयोरतिपराक्रमम् । मुष्टिघातेन तौ हत्वा निजसेनामगाज्जवात ४६ मित्रस्तु भूमिमगमद्वमन्रक्तं मुखाद्बहु । तथाविधं च तं दृष्ट्वा कौस्तुभो योद्धुमागतः ४७ षडाननमथो रोषान्निजघ्ने करवालतः । तस्मिन्मूर्च्छामवाहे तु वीरभद्रोप्ययुध्यत ४८ कौस्तुभः प्राहनद्रोषाच्छराघातैरनकशः। सोऽपि तं प्राहनद्मुष्ट्या भूमौ चैनमघातयत् ४९ हते तस्मिन्ननंदासौ वीरभद्रो महाबलः । पपाल दैत्यसेना सा हते मित्रे च कौस्तुभे २.११३.५० तमुदंतं शस्त्रहताः स्रवंतो रुधिरं बहू । न्यवेदयन्दैत्यराजसिंधवे देवशत्रवे ५१ वाचा विस्पष्टया दुःखाच्छस्त्राघातकृताद्भृषम् । जयमाकांक्षते नित्यं मित्रकौस्तुभयोर्भृशम् ५२ ( ५११९ )
adhyāya 113 prāraṃbha :- ka uvāca | padātayaḥ puro yānti kampayanto vasundharām | vikarālamukhā vīrāḥ sindūrāruṇamastakāḥ 1 kecinnibaddhakavacā muktakeśāḥ sudāruṇāḥ | kecinnibaddhakaṭayaḥ keciccandanacarcitāḥ 2 nānāśastrapraharaṇā nānāyuddhaviśāradāḥ | puro yānti gajā mattā dhātucitrā ivādrayaḥ 3 dīrghadantā vibhānti sma bhūṣaṇairvividhairapi | ghaṇṭānādairjanaṃ sarvaṃ badhiraṃ cakruraṃjasā4 cūrṇayanto girīnvakṣānyayuḥ śuṇḍāganaṃprahārataḥ | lasatkumbhāḥ patākāḍhayāścitradhvajavirājitāḥ5 tato'śvāśca khurāghātaiścūrṇayanto vasundharām | heṣitairnādayanto vai gaganaṃ ca diśo daśa 6 suvarṇaratnamuktābhirbhūṣitā vyomacāriṇaḥ | adhiṣṭhitā mahāyodhaistanutrāṇapraśobhibhiḥ 7 nānāśastradharairvīraiḥ parasenāvimardibhiḥ | tatastu rathino jagmuḥ śastrāstrai ripughātinaḥ 8 sahitā yuddhamārgajñairvaraiḥ sārathibhirmṛdhe | muktāmaṇimayā mālā vahanto gandhamālinaḥ 9 dhanuskandhāstūṇabhṛto bhallahastāḥ sakhaḍgakāḥ | śastraprabhābhirnetrāṇi chāndayanto janasya ha 2.113.10 evaṃ senā samāyātā garjayantī diśo daśa | bhūtarājena sā dṛṣṭā puṣpadantena vāhinī 11 mayūreśamubhau yātau tato bhītyā palāyitau | tāvūcatuḥ | tavājñayā puro yātāvāvābhyāṃ nihatā camū: 12 gulmasthā nagaradvāri dagdhaṃ ca nagaraṃ bahu | pratāpaṃ nau samākarṇya sindhuḥ svayamupāgataḥ 13 caturaṃgāṃ camūṃ gṛhaya nānāśastrāstradhāriṇīm | tato bhītyā bhavantaṃ ca samāyātau mahābala 14 ka uvāca | sindhusainyasamudro'tha vadatorevametayoḥ | dadṛśe pūrvādigbhāge dustaraḥ śastrayodhibhiḥ 15 tato harṣayuto jñātvā daityavṛttaṃ samāsataḥ | nīlakaṇṭhaṃ samāruhya mayūreśo yayau puraḥ 16 āyudhāni ca catvāri caturdoṣu pragṛhaya saḥ | sannaddhā gaṇakoṭyastā dhanurbāṇāsipāṇayaḥ 17 parivārya sthitā devaṃ nīlakaṇṭhaṃ vṛṣasthitam | munīśvarāḥ stuvanti sma dadurāśīrvaco'pi tam 18 ubhayoḥ senayorvādyaghoṣakolāhalo mahān | parasparaṃ saṃpadaṃ tāṃ vīkṣya sene suvismite 19 asaṃkhyātaṃ balaṃ vīkṣya tutoṣa sa mayūrarāṭ | yaduktaṃ nandinā pūrvaṃ taddṛṣṭaṃ sarvameva hi 2.113.20 tato nandī mayūreśaṃ natvā garjanmuhuryayau | nabhomārgeṇa sainyeṣu ciccheda vīramastakān 21 śṛṃgāghātena mahatā hayamasyāhanaddṛḍham | śīghramuḍḍīya ca yayau mayūreśaṃ yathā'kṣataḥ 22 āścaryaṃ cakrire sarve gaṇāḥ sādhviti śaṃsire | chatraṃ ca pātayāmāsa nandī śṛṃgaprahārataḥ 23 patite'śve ca chatre ca sindhuraśvāntare gataḥ | dhārayāmāsa ca tadā chatramanyanmahādhanam 24 āścaryaṃ paramaṃ mene nandinaḥ karmaṇā'suraḥ | cukrodha sa mahāvīrānkva gato vaḥ parākramaḥ 25 evamākarṇya tadvākyaṃ kaustubho maitra eva ca | amātyau taṃ namaskṛtya senayā caturaṃgayā 26 mā cintāṃ kuru sindho tvaṃ vighāsyāvo ripūkṣayam | anyathā na mukhaṃ nātha darśayāvaḥ kathaṃcana 27 evamuktvā pracalitau parasainyanibarhaṇau | padātīnāṃ gaṇā yātā brahmāṇḍasphoṭatatparāḥ 28 nyubjatāmicchavo netuṃ bhūgolaṃ raṇadurmadāḥ | kaustubho'tha mayūreśaṃ yāto maitraśca pātituma 29 śaravarṣaiḥ paricchādya yātāvasyāntikaṃ yadā| vīrabhadrastadāyāto yoddhuṃ sa ca ṣaḍānanaḥ 2.113.30 asaṃkhyasenayā yuktau garjayantau diśo daśa | nijaghnaturubhau roṣātsindhuṃ nānāprahārataḥ 31 kaustubhopyatha maitraśca jaghnatustau parasparam | sahasva mārayasveti vyāharantaḥ parasparam 32 śastrairastrairanekaiśca tābhyāṃ yuddhamakurvatām | śaravrātairbhiṇḍipālaiḥ parighairmusalairapi 33 nānāsenācarā jaghnuḥ parasparavadhepsavaḥ | naṣṭeṣu sarvaśastreṣu śareṣu ca parasparam 34 mallayuddhaṃ pracakruste jīvagrāhamamārayan | vyasavaḥ patitāḥ kecidvemū raktaṃ mukhādbahu 35 pādaṃ pādena jaghnuste skandhaṃ skandhena ttāpare | pṛṣṭhaṃ pṛṣṭhena kecicca hastaṃ hastena cāpare 36 mastakaṃ mastakenaiva kūrparaṃ kūrpareṇa ca | patitāḥ pātyamānaśca mṛtā bhagnāśca cūrṇitāḥ 37 chinnakaṇṭhā bhinnabhujā bhagnajaṅghorubāhavaḥ | evaṃ naṣṭeṣu sainyeṣu sindhusenā jayaṃ yayau 38 jayaśabdaiḥ stūyamānairbandibhirvādyanisvanaiḥ | sindhudaityeśvaraṃ yātau amātyau mitrakaustubhau 39 mayūreśaṃ samāyātau vīrabhadraṣaḍānanau| tato'stamagamatsūryastato yuddhamupāramat 2.113.40 apare niścayudhyanta devasainyena dānavāḥ| palāyamānāṃ tāṃ senāṃ nijaghnuḥ śarasaṃcayaiḥ 41 punarāveśamāpannau vīrabhadraṣaḍānanau| garjantau garjayantau ca gaganaṃ ca diśo daśa 42 nighnantau ripusenāṃ tāṃ nidarhantau kṛtāntavat | andhakāre mahāghore na prājñāyata kiṃcana 43 svānparānapi jaghnuste yudhyamānā mahābalāḥ | bhagnāyāṃ sindhusenāyāṃ cakraturjayanisvanam 44 daityāmātyau punaryātau maraṇe kṛtaniścayau | prerayāmāsaturubhau nijāśvau paravāhinīm 45 kirantau śarajālāni jaghnatuḥ karavālataḥ | tataḥ ṣaḍānano dṛṣṭvā tayoratiparākramam | muṣṭighātena tau hatvā nijasenāmagājjavāta 46 mitrastu bhūmimagamadvamanraktaṃ mukhādbahu | tathāvidhaṃ ca taṃ dṛṣṭvā kaustubho yoddhumāgataḥ 47 ṣaḍānanamatho roṣānnijaghne karavālataḥ | tasminmūrcchāmavāhe tu vīrabhadropyayudhyata 48 kaustubhaḥ prāhanadroṣāccharāghātairanakaśaḥ| so'pi taṃ prāhanadmuṣṭyā bhūmau cainamaghātayat 49 hate tasminnanaṃdāsau vīrabhadro mahābalaḥ | papāla daityasenā sā hate mitre ca kaustubhe 2.113.50 tamudaṃtaṃ śastrahatāḥ sravaṃto rudhiraṃ bahū | nyavedayandaityarājasiṃdhave devaśatrave 51 vācā vispaṣṭayā duḥkhācchastrāghātakṛtādbhṛṣam | jayamākāṃkṣate nityaṃ mitrakaustubhayorbhṛśam 52 ( 5119 )
GnP 2 111.114
अध्याय ११४ प्रारंभ :- वीरा ऊचुः । नानाशस्त्रप्रहरणौ मृतौ तौ मित्रकौस्तुभौ । असंख्याता हता सेना ताभ्यां निशि दिवापि च १ ततो रिपुबलाद्दृष्टौ वीरौ द्वौ समुपस्थितौ । ताभ्यां बलिभ्यां निहता निजसेना विमर्दिता २ ययोः करप्रहाराभ्यां गतौ सौ यमसादनम् । दृष्टा नानाविधा सेना न दृष्टौ तादृशौ सुरौ ३ सिन्धुरुवाच । यौ दृष्ट्वा स बिभेति स्म कृतान्तो भूतहारकः । तौ कथं शरघातेन मृतौ शंसथ सैनिकाः ४ पराक्रममिदानीं मे पश्यन्तु सर्वसैनिकाः । रणभूमौ नर्तयिष्ये शिरः शत्रोर्न संशयः ५ चक्रयुद्धं करिष्यामि चक्रपाणेर्यतः सुतः।। इत्युक्त्वा हयमारुह्य मयूरेशं ययौ खलः ६ असंख्यकोट्यो दैत्यानां पुरो याता महाबलाः । योद्धुकामाः सुरेन्द्रेण शिवपुत्रेण दुर्धराः ७ ततो नन्दीपुष्पदन्तौ योद्धुं यातौ महाबलौ । भूतराजश्च विकटो दशलक्षैश्च योधिभिः ८ चपलोप्यर्धलक्षेण योद्धुकामोऽभिनिर्ययौ । षडाननो वीरभद्रोऽसंख्यसेनासमायुतौ ९ ईयतुर्युद्धबलिनौ नानाशस्त्रधरावुभौ । सप्तव्यूहान्समालोक्य प्राव्यूहन्दैत्यसैनिकाः २.११४.१० गन्धासुरोऽथ मदनकान्तो वीहो ध्वजस्तथा । महाकायश्च शार्दूलो धूर्तनामाथ सप्तमः ११ सप्तव्यूहान्पुरस्कृत्य युयुधुस्तान्समागतान् । बाणवृष्ट्या समाच्छाद्य भल्लाग्रैस्तान्निजघ्निरे १२ भिण्डिपालहताः केचिन्निपेतुर्धरणीतले । षडाननेन युयुधे बलाद्गन्धासुरो बली १३ वीरभद्रेण मदनकान्तोऽपि युयुधे रणे । नन्दी च वीरराजश्च युयुधाते परस्परम् १४ ध्वजासुरपुष्पदन्तौ शस्त्रास्त्रेर्बाणसंचयैः । भूतराजो महाकायो युयुधाते परस्परम् १५ धूर्तश्च विकटश्चैव द्वन्द्वयुद्धमकुर्वतान् । चपलेन हतो रोषाच्छार्दूलो न्यपतद्भुवि १६ पुनः संज्ञामवाप्यैनं सोपि खड्गेन चाहनत्। मूर्च्छामवाप महतीं चपलश्चपलो युधि १७ प्रवृत्ते द्वन्द्वयुद्धे तु युयुधाते बले उभे । जघ्नतुः शस्त्रसंघातैर्बाणजालैः परस्परम् १८ सहस्व जहि मा भैस्त्वं हतः स्वर्गं समेष्यसि । क्षीणेषु शस्त्रबाणेषु लत्ताभिर्मुष्टिभिः पुनः १९ युयुधुः सर्वसैन्यानि नाशयन्ति परस्परम् । कश्चिच्च चरणौ धृत्वा पोथयामास वैरिणम् २.११४.२० कश्चिदुड्डीय न्यपतच्चूर्णयामास वै परम् । कश्चिच्चिच्छेद च शिरः कश्चिद्बाहुं रिपो रणे २१ कश्चित्पादौ जानुनी च गुल्फौ चिच्छेद चापरः। शरवृष्टिं परे केचित्परस्परमवासृजन् २२ स्रवद्रक्तः शस्त्रहतो मरणावध्ययुध्यत । कबन्धा युयुधुस्तत्र जघ्नुः स्वांश्च परानपि २३ अपरे सहसा पेतुर्विदीर्णवक्षसो नराः । परस्पराघातहतौ मृतौ केचिद्रणाजिरे २४ एकाप्सरः प्राप्तिकृते स्वर्गं युद्धमकुर्वताम् । असृग्नद्यभवत्तत्र केशशैवलसंयुता २५ खड्ग मत्स्यवती खेटमहाकूर्मा दुरत्यया । प्रेतकाष्ठवहा घोरा चामरतूणसंयुता २६ कञ्चुकग्राहशोभाढ्या महाकटकभेकिका। शूरमोदकरा भीरूमहाभयविवर्धिनी २७ मेदोजला दुःखतरा मांसकर्दमशालिनी । ततोऽस्तमित आदित्ये न प्राज्ञायत किंचन २८ न हन्तव्या वयं दैत्यवाहिनीचारिणः सुराः। न हन्तव्या वयं देववाहिनीचारिणोऽसुराः २९ एवं कोलाहलैस्तत्र प्रायुध्यन्त परस्परम् । आशिषोऽथ ददुस्तत्र श्वापदा भूतराक्षसाः २.११४.३० सृगालाः पतगाः श्येनास्तृप्ता पार्वतिनन्दनम् । दिनत्रयमभूदेवं दिवारात्रौ महारणः ३१ वाद्यशब्दैर्जयं रात्रौ घोषयन्तः परस्परम् । एवं गन्धासुरोऽयुध्यत्सेनान्या बहुविस्तरम् ३२ मद्यपानेन मत्तोऽसौ त्यक्त्वा शस्त्राणि वेगवान् । अहनन्मुष्टिघातेन सहसा तं षडाननम् ३३ न्यपतत्स तदा भूमौ वज्राहत इवाचलः । अधावत्सोऽपि लब्ध्वाशु सपक्ष इव पर्वतः ३४ संज्ञां द्वादशभिर्हस्तैरविध्यत्तं महासुरम् । शरजालान्यनेकानि विसृजन्षड्धनुर्वरैः ३५ निवार्य शरजालानि छादयामास तं शरैः । गन्धासुरो महावेगात्षडाननमनामयम् ३६ तन्निवार्य दधारैनं चरणे स षडाननः । अकस्माद्भ्रामयित्वैनं पातयामास भूतले ३७ तस्यांग शतधा जातं गतासोर्दृढघाततः । तस्मिन्हते तस्य सेना ययौ व्यग्रा दिशो दश ३८ पृष्ठलग्नो निन्दति स्म सेनां तां स षडाननः । सेनश्च क्रोधनश्चैव शतघ्नीं योद्धुमाययुः ३९ येषां शब्दो महानासीद्घनानामिव गर्जताम् । ऊचुः षडाननं दुष्ट सेना नो निहना बहु २.११४.४० इदानीं याहि भवनं हतो रविसुतस्य ह । तत आच्छादयामासुर्युगपत्ते षडाननम् ४१ ग्रामसिंहा यथा सिंहं बहवो बलवत्तराः । षड्धनुर्मोचितैर्बाणैर्न्यहनत्तान्षडाननः ४२ ततस्ते मूर्छिताः पेतुर्मुहूर्तादुत्थिता पुनः । पाशं क्षिप्त्वा स्कन्दगले निन्युस्तं पशुवत्त्रयः ४३ ज्ञात्वा नीतं षण्युखं तमाधावंस्ते त्रयो जवात् । हिरण्यगर्भो बलवांश्यामलो रक्तलोचनः ४४ त्रिभिस्ते मुष्टिघातेन हताः पेतुर्धरातले। ततो मदनकान्तोऽपि वीरभद्रो महाबलम् ४५ न्यहनच्छस्त्रघातेन स मूर्छा महतीं ययो। त्यक्त्वा मूर्छा वीरभद्रो दण्डघातान्न्यपाययत् ४६ मृतं मदनकान्तं तं वीरराजो महाबलः । ज्ञात्वा प्रायान्निहन्तुं तांस्त्रीन्सुरान्बलवत्तरान् ४७ ततस्तान्न्यहनद्रोषाच्छृंगाभ्यां नन्दिकेश्वरः । अस्रवद्रुधिरं वक्त्राच्छतधा भूतलेऽपतत् ४८ तं हतं तु विलोक्याशु चत्वारोऽसुरसत्तमाः । आययुर्नन्दिनं हन्तुं शार्दूलोऽथ ध्वजासुरः ४९ महाकायो धृतश्चैव सर्वदेवजितो रणे । नानाशस्त्रैर्निजघ्नुस्ते नन्दिनं बलवत्तरम् २.११४.५० पतिते नन्दिनि ततश्चत्वारो युद्धदुर्मदाः । पुष्पदन्तो भूतराजो विकटश्चपलोऽपि च ५१ ते तु शैलान्समादाय तोलयित्वा निचिक्षिपुः । सर्वेषां मस्तका भिन्नाश्चूर्णीभूताश्च केचन ५२ शराघातेन ते सर्वे धरायां पतिता रणे । केचिच्च सिन्धुमगमंशस्त्रघातप्रपीडिताः ५३ पराजयं स्वसैन्यानां प्राहुर्देवजयं तथा । जयं प्राप्ता देवसेना बहुवाद्यान्यवादयत् ५४ मयूरेश मयूरेश जय त्वं जय सर्वदा । इत्यब्रवीद्धर्षयुता स्वानन्देन ननर्त च ५५ ( ५१७४ )
adhyāya 114 prāraṃbha :- vīrā ūcuḥ | nānāśastrapraharaṇau mṛtau tau mitrakaustubhau | asaṃkhyātā hatā senā tābhyāṃ niśi divāpi ca 1 tato ripubalāddṛṣṭau vīrau dvau samupasthitau | tābhyāṃ balibhyāṃ nihatā nijasenā vimarditā 2 yayoḥ karaprahārābhyāṃ gatau sau yamasādanam | dṛṣṭā nānāvidhā senā na dṛṣṭau tādṛśau surau 3 sindhuruvāca | yau dṛṣṭvā sa bibheti sma kṛtānto bhūtahārakaḥ | tau kathaṃ śaraghātena mṛtau śaṃsatha sainikāḥ 4 parākramamidānīṃ me paśyantu sarvasainikāḥ | raṇabhūmau nartayiṣye śiraḥ śatrorna saṃśayaḥ 5 cakrayuddhaṃ kariṣyāmi cakrapāṇeryataḥ sutaḥ|| ityuktvā hayamāruhya mayūreśaṃ yayau khalaḥ 6 asaṃkhyakoṭyo daityānāṃ puro yātā mahābalāḥ | yoddhukāmāḥ surendreṇa śivaputreṇa durdharāḥ 7 tato nandīpuṣpadantau yoddhuṃ yātau mahābalau | bhūtarājaśca vikaṭo daśalakṣaiśca yodhibhiḥ 8 capalopyardhalakṣeṇa yoddhukāmo'bhiniryayau | ṣaḍānano vīrabhadro'saṃkhyasenāsamāyutau 9 īyaturyuddhabalinau nānāśastradharāvubhau | saptavyūhānsamālokya prāvyūhandaityasainikāḥ 2.114.10 gandhāsuro'tha madanakānto vīho dhvajastathā | mahākāyaśca śārdūlo dhūrtanāmātha saptamaḥ 11 saptavyūhānpuraskṛtya yuyudhustānsamāgatān | bāṇavṛṣṭyā samācchādya bhallāgraistānnijaghnire 12 bhiṇḍipālahatāḥ kecinnipeturdharaṇītale | ṣaḍānanena yuyudhe balādgandhāsuro balī 13 vīrabhadreṇa madanakānto'pi yuyudhe raṇe | nandī ca vīrarājaśca yuyudhāte parasparam 14 dhvajāsurapuṣpadantau śastrāstrerbāṇasaṃcayaiḥ | bhūtarājo mahākāyo yuyudhāte parasparam 15 dhūrtaśca vikaṭaścaiva dvandvayuddhamakurvatān | capalena hato roṣācchārdūlo nyapatadbhuvi 16 punaḥ saṃjñāmavāpyainaṃ sopi khaḍgena cāhanat| mūrcchāmavāpa mahatīṃ capalaścapalo yudhi 17 pravṛtte dvandvayuddhe tu yuyudhāte bale ubhe | jaghnatuḥ śastrasaṃghātairbāṇajālaiḥ parasparam 18 sahasva jahi mā bhaistvaṃ hataḥ svargaṃ sameṣyasi | kṣīṇeṣu śastrabāṇeṣu lattābhirmuṣṭibhiḥ punaḥ 19 yuyudhuḥ sarvasainyāni nāśayanti parasparam | kaścicca caraṇau dhṛtvā pothayāmāsa vairiṇam 2.114.20 kaściduḍḍīya nyapataccūrṇayāmāsa vai param | kaścicciccheda ca śiraḥ kaścidbāhuṃ ripo raṇe 21 kaścitpādau jānunī ca gulphau ciccheda cāparaḥ| śaravṛṣṭiṃ pare kecitparasparamavāsṛjan 22 sravadraktaḥ śastrahato maraṇāvadhyayudhyata | kabandhā yuyudhustatra jaghnuḥ svāṃśca parānapi 23 apare sahasā peturvidīrṇavakṣaso narāḥ | parasparāghātahatau mṛtau kecidraṇājire 24 ekāpsaraḥ prāptikṛte svargaṃ yuddhamakurvatām | asṛgnadyabhavattatra keśaśaivalasaṃyutā 25 khaḍga matsyavatī kheṭamahākūrmā duratyayā | pretakāṣṭhavahā ghorā cāmaratūṇasaṃyutā 26 kañcukagrāhaśobhāḍhyā mahākaṭakabhekikā| śūramodakarā bhīrūmahābhayavivardhinī 27 medojalā duḥkhatarā māṃsakardamaśālinī | tato'stamita āditye na prājñāyata kiṃcana 28 na hantavyā vayaṃ daityavāhinīcāriṇaḥ surāḥ| na hantavyā vayaṃ devavāhinīcāriṇo'surāḥ 29 evaṃ kolāhalaistatra prāyudhyanta parasparam | āśiṣo'tha dadustatra śvāpadā bhūtarākṣasāḥ 2.114.30 sṛgālāḥ patagāḥ śyenāstṛptā pārvatinandanam | dinatrayamabhūdevaṃ divārātrau mahāraṇaḥ 31 vādyaśabdairjayaṃ rātrau ghoṣayantaḥ parasparam | evaṃ gandhāsuro'yudhyatsenānyā bahuvistaram 32 madyapānena matto'sau tyaktvā śastrāṇi vegavān | ahananmuṣṭighātena sahasā taṃ ṣaḍānanam 33 nyapatatsa tadā bhūmau vajrāhata ivācalaḥ | adhāvatso'pi labdhvāśu sapakṣa iva parvataḥ 34 saṃjñāṃ dvādaśabhirhastairavidhyattaṃ mahāsuram | śarajālānyanekāni visṛjanṣaḍdhanurvaraiḥ 35 nivārya śarajālāni chādayāmāsa taṃ śaraiḥ | gandhāsuro mahāvegātṣaḍānanamanāmayam 36 tannivārya dadhārainaṃ caraṇe sa ṣaḍānanaḥ | akasmādbhrāmayitvainaṃ pātayāmāsa bhūtale 37 tasyāṃga śatadhā jātaṃ gatāsordṛḍhaghātataḥ | tasminhate tasya senā yayau vyagrā diśo daśa 38 pṛṣṭhalagno nindati sma senāṃ tāṃ sa ṣaḍānanaḥ | senaśca krodhanaścaiva śataghnīṃ yoddhumāyayuḥ 39 yeṣāṃ śabdo mahānāsīdghanānāmiva garjatām | ūcuḥ ṣaḍānanaṃ duṣṭa senā no nihanā bahu 2.114.40 idānīṃ yāhi bhavanaṃ hato ravisutasya ha | tata ācchādayāmāsuryugapatte ṣaḍānanam 41 grāmasiṃhā yathā siṃhaṃ bahavo balavattarāḥ | ṣaḍdhanurmocitairbāṇairnyahanattānṣaḍānanaḥ 42 tataste mūrchitāḥ peturmuhūrtādutthitā punaḥ | pāśaṃ kṣiptvā skandagale ninyustaṃ paśuvattrayaḥ 43 jñātvā nītaṃ ṣaṇyukhaṃ tamādhāvaṃste trayo javāt | hiraṇyagarbho balavāṃśyāmalo raktalocanaḥ 44 tribhiste muṣṭighātena hatāḥ peturdharātale| tato madanakānto'pi vīrabhadro mahābalam 45 nyahanacchastraghātena sa mūrchā mahatīṃ yayo| tyaktvā mūrchā vīrabhadro daṇḍaghātānnyapāyayat 46 mṛtaṃ madanakāntaṃ taṃ vīrarājo mahābalaḥ | jñātvā prāyānnihantuṃ tāṃstrīnsurānbalavattarān 47 tatastānnyahanadroṣācchṛṃgābhyāṃ nandikeśvaraḥ | asravadrudhiraṃ vaktrācchatadhā bhūtale'patat 48 taṃ hataṃ tu vilokyāśu catvāro'surasattamāḥ | āyayurnandinaṃ hantuṃ śārdūlo'tha dhvajāsuraḥ 49 mahākāyo dhṛtaścaiva sarvadevajito raṇe | nānāśastrairnijaghnuste nandinaṃ balavattaram 2.114.50 patite nandini tataścatvāro yuddhadurmadāḥ | puṣpadanto bhūtarājo vikaṭaścapalo'pi ca 51 te tu śailānsamādāya tolayitvā nicikṣipuḥ | sarveṣāṃ mastakā bhinnāścūrṇībhūtāśca kecana 52 śarāghātena te sarve dharāyāṃ patitā raṇe | kecicca sindhumagamaṃśastraghātaprapīḍitāḥ 53 parājayaṃ svasainyānāṃ prāhurdevajayaṃ tathā | jayaṃ prāptā devasenā bahuvādyānyavādayat 54 mayūreśa mayūreśa jaya tvaṃ jaya sarvadā | ityabravīddharṣayutā svānandena nanarta ca 55 ( 5174 )
GnP 2 111.115
रणस्थलातत्पुरीं यात आच्छाद्य वदनाम्बुजम्। हतशेषैश्च वीरैश्च तादृशैः परिवारितः२.११५.५० पर्यंके न्यपतच्चिन्तापर्याकुलितमानसः । विरास्ते स्वगृहयाताश्चिन्ताव्याकुलचेतसः५१ (५२२५)
raṇasthalātatpurīṃ yāta ācchādya vadanāmbujam| hataśeṣaiśca vīraiśca tādṛśaiḥ parivāritaḥ2.115.50 paryaṃke nyapataccintāparyākulitamānasaḥ | virāste svagṛhayātāścintāvyākulacetasaḥ51 (5225)
(49–50) He went from the battlefield to his city, covering his lotus-face, surrounded by the surviving heroes of like kind. (51) He threw himself upon his couch, his mind confounded by anxiety; and the heroes too went to their own houses, their minds distracted with anxiety.
AI translation rendered from the Sanskrit, not a published edition