← Ganesha Purana — Kridakhanda

Ganesha Purana — Kridakhanda — Chapter 108

GnP 2 108.9

अध्याय १०९ प्रारंभ :- कदाचित्पार्वती प्राह सुखासीनं महेश्वरम् । गतानि तु महादेव वर्षाणि दश पंच च १ विवाहश्चिन्त्यतामस्य मयूरेशस्य साम्प्रतम् । सुशीला सुमुखी बाला मृगाक्षी हंसगामिनी २ पिकवाक् सुनसा तन्वी वधूः क्वापि विचार्यताम् । मन्मथातुलदेहस्य सर्वांगसुन्दरस्य ह ३ क उवाच । इति तद्वचनं श्रुत्वा साधु साध्वित्यभाषत । सोऽचिन्तयच्छुभा कन्यां मनसा नापकुत्रचित् ४ ततश्चिन्तां परां प्राप तावन्नारद आगतः । संपूज्य चोपवैश्येनमासने शम्भुरब्रवीत् ५ शम्भुरुवाच । आह्लादं परमं प्राप्तस्तवागमनतो मुने । चिरागतोऽसि च मुने दिनं स्थातुं त्वमर्हसि ६ अतिसुन्दरकायस्य तनयस्य ममानघ । गवेषय वधू विप्र यतस्त्रैलोक्यगो भवान् ७ क उवाच । तथैव पार्वती प्राह वधूं शीघ्रं विचारय । नारद उवाच । न स्थातुं शक्यरे स्वामिन्कर्मणा द्विमुहूर्तकम् ८ एतदर्थमहं प्राप्तो ब्रह्मणा प्रेषितः शिव । तव पुत्रप्रभावश्च लावण्यं वय एव च

adhyāya 109 prāraṃbha :- kadācitpārvatī prāha sukhāsīnaṃ maheśvaram | gatāni tu mahādeva varṣāṇi daśa paṃca ca 1 vivāhaścintyatāmasya mayūreśasya sāmpratam | suśīlā sumukhī bālā mṛgākṣī haṃsagāminī 2 pikavāk sunasā tanvī vadhūḥ kvāpi vicāryatām | manmathātuladehasya sarvāṃgasundarasya ha 3 ka uvāca | iti tadvacanaṃ śrutvā sādhu sādhvityabhāṣata | so'cintayacchubhā kanyāṃ manasā nāpakutracit 4 tataścintāṃ parāṃ prāpa tāvannārada āgataḥ | saṃpūjya copavaiśyenamāsane śambhurabravīt 5 śambhuruvāca | āhlādaṃ paramaṃ prāptastavāgamanato mune | cirāgato'si ca mune dinaṃ sthātuṃ tvamarhasi 6 atisundarakāyasya tanayasya mamānagha | gaveṣaya vadhū vipra yatastrailokyago bhavān 7 ka uvāca | tathaiva pārvatī prāha vadhūṃ śīghraṃ vicāraya | nārada uvāca | na sthātuṃ śakyare svāminkarmaṇā dvimuhūrtakam 8 etadarthamahaṃ prāpto brahmaṇā preṣitaḥ śiva | tava putraprabhāvaśca lāvaṇyaṃ vaya eva ca

Chapter 109 begins. (1) Once Pārvatī said to Maheśvara, who was seated at ease: "Lord of gods, fifteen years have now passed, O Mahādeva. (2) Let the marriage of this Mayūreśa now be considered. Let a bride be sought somewhere — of good character, fair-faced, youthful, doe-eyed, swan-gaited, (3) cuckoo-voiced, fine-nosed, slender — for one whose body is unequalled by Manmatha, beautiful in every limb." (4) Kaḥ said: Hearing her words he said, "Well said, well said." He pondered, but in his mind (found) no auspicious maiden anywhere. (5) Then he fell into great anxiety; meanwhile Nārada arrived. Having worshipped him and seated him, Śambhu said: (6) Śambhu said: "I have gained the highest delight from your coming, O sage; you have come after long, and you ought to stay a day. (7) For my son of exceedingly beautiful body, O sinless one, seek out a bride, O brahmin, since you range the three worlds." (8) Kaḥ said: Pārvatī likewise said: "Consider a bride quickly." Nārada said: "It is not possible for me to stay two hours, O lord, because of my task. (9) I have come for this very purpose, sent by Brahmā, O Śiva; and your son's power, beauty and age —"

AI translation rendered from the Sanskrit, not a published edition

GnP 2 108.11

क उवाच । जयशाली मयूरेशो यात्यग्रे हर्षनिर्भरः । पृष्ठतो यान्ति बालास्ते ततो वृषगतः शिवः १ गौतमाद्या मुनिगणा लग्नसिद्ध्यै ययुस्ततः । गर्जन्तो गर्जयन्तश्च दिशश्च विदिशोऽपि च २ योजनावधि गण्डक्या अवरुह्य शिख- ण्डिनः । अतिष्ठत्स मयूरेशो महार्घासनमुत्तमम् ३ ततः सर्वानुपावेश्य शिवं गणमुनिश्वरान् । वाद्यत्सु सर्ववाद्येषु तानाह स मयूरराट् ४ सिन्धुना निहिता कारागृहे शक्रादिदेवता । विना तन्मोचनं लग्नसिद्धिर्नैव भविष्यति ५ अतस्तन्मोचनार्थाय प्रेष्यातां सिन्धवे महान् । बुद्धिमान्स गृहीत्वा चेदागच्छेत्तान्सुरानथ ६ तदा साम्नैव सर्वेषां कुशलं हि भविष्यति । नो चेद्युद्धेन जेष्यामो रणे सिन्धुं महाबलम् ७ मोचयिष्याम तान्देवांस्ततो लग्नं भविष्यति । क उवाच। एवं तद्वचनं श्रुत्वा प्राहुः सर्वे गुणेश्वरम् ८ सम्यगुक्तं मयूरेश सुधिया सदृशं वचः बालभाऽवेपि ते बुद्धिर्बृहस्पतिसमा शुभा ९ पुष्पदन्तं महाबुद्धिं नीतिशास्त्रविशारदम् । प्रेष्यतां सिन्धुनिकटे देवमोचनहेतवे २.११०.१० वक्तारं बलिनं श्रेष्ठं स्तोत्रसंतोषितेश्वरम् । क उवाच । तत ऊचे पुष्पदन्तो मयूरेशं सुरेश्वरम् ११ महिमा ते मयूरेश मनोवाचामगोचरः । जानन्ति न जना मायामोहितास्तव नित्यदृक् १२ भूभारहरणार्थ त्वमवतीर्णः शिवालये । न मां प्रेषय तत्र त्वमन्यं प्रेषय साम्प्रतम् १३ अपारसेनया युक्तं सिन्धुदैत्यं महाबलम् । उद्धतं बलिनं द्रष्टुमहं शक्यामि न क्वचित् १४ युद्धमेव करिष्यामि ततो दोर्दण्डतेजसा । यदि साम्ना भवेत्कार्यं युद्धं तत्र वृथा मतम् १५ दानं भेदो वृथा दण्डो नीतिरेषा सनातनी । एवमाकर्ण्य तद्वाक्यमुवाच पार्वतीपतिः १६ सम्यगुक्तः पुष्पदन्त नीतिमार्गः पुरातनः । क्रोधवान्न क्षमः साम्नि केवलं बलवान्परः १७ धरिष्यति महादुष्टं प्रेषितश्चेत्षडाननः । प्रेषितो वीरभद्रश्चेत्क्रोधमेव करिष्यति १८ शृंगी चेत्प्रेषितस्तत्र संहारं स विधास्यति । प्रमथः प्रेषितो मत्तो न जाने किं करिष्यति १९ प्रेषितश्चेद्भूतराजो मेषयिष्यति तां सभाम् । स्त्रीसंभोगरतः स्यात्तु प्रेषितो रक्त- लोचनः २.११०.२० ततोऽब्रवीन्मयूरेशो निरस्तेषु च तेषु च । नन्दी समुद्रगम्भीरो धैर्ये पर्वतसन्निभः २१ बुद्ध्या बृहस्पतिसमो जम्भा- रिसदृशो बलं । धूर्तः पराशयज्ञाता प्रेष्यतां सामहेतवे २२ शिव उवाच । सम्यगुक्तं मयूरेश ज्ञातासि गुणदोषयोः । नन्दिने दीयतां वस्त्रं रत्नानि विविधानि च २३ ततो ददौ मयूरेशस्तानि तस्य शिवाज्ञया । आज्ञापयामास च तं गच्छ सिन्धुं महाबलम् २४ यथा देवा विमुच्यंते तथा नीतिर्विधीयताम् । स तु नत्वा मयूरेशं स शिवां शिवमेव च २५ गणान्सर्वान्महावाक्यैः स्तुत्वा तं च शिवं शिवाम् । उवाच बुद्धिसंपन्नो दिष्ट्योचितमिदं वचः २६ नन्द्युवाच । स महां जायते लोके यस्य वः स्यादनुग्रहः । अतोऽहं श्रेष्ठतां नीतः साधयिष्ये प्रयोजनम् २७ वः प्रसादेन भूगोलं विधास्ये न्युब्जमंजसा । शेषं सूर्यं वो निकटे आनयिष्ये न संशयः २८ क उवाच । एवमुक्त्वा ययौ नन्दी सिन्धुदैत्यं बलान्वितः । गतः स नगरद्वारं मनोवेगेन धैर्यवान् २९ ध्यायन्गणेशं शम्भुं च शिवां सर्वार्थसाधिकाम् । ऋतां कर्तुं प्रतिज्ञां तां प्रार्थयामास चेतसि २.११०.३० (४९९६)

ka uvāca | jayaśālī mayūreśo yātyagre harṣanirbharaḥ | pṛṣṭhato yānti bālāste tato vṛṣagataḥ śivaḥ 1 gautamādyā munigaṇā lagnasiddhyai yayustataḥ | garjanto garjayantaśca diśaśca vidiśo'pi ca 2 yojanāvadhi gaṇḍakyā avaruhya śikha- ṇḍinaḥ | atiṣṭhatsa mayūreśo mahārghāsanamuttamam 3 tataḥ sarvānupāveśya śivaṃ gaṇamuniśvarān | vādyatsu sarvavādyeṣu tānāha sa mayūrarāṭ 4 sindhunā nihitā kārāgṛhe śakrādidevatā | vinā tanmocanaṃ lagnasiddhirnaiva bhaviṣyati 5 atastanmocanārthāya preṣyātāṃ sindhave mahān | buddhimānsa gṛhītvā cedāgacchettānsurānatha 6 tadā sāmnaiva sarveṣāṃ kuśalaṃ hi bhaviṣyati | no cedyuddhena jeṣyāmo raṇe sindhuṃ mahābalam 7 mocayiṣyāma tāndevāṃstato lagnaṃ bhaviṣyati | ka uvāca| evaṃ tadvacanaṃ śrutvā prāhuḥ sarve guṇeśvaram 8 samyaguktaṃ mayūreśa sudhiyā sadṛśaṃ vacaḥ bālabhā'vepi te buddhirbṛhaspatisamā śubhā 9 puṣpadantaṃ mahābuddhiṃ nītiśāstraviśāradam | preṣyatāṃ sindhunikaṭe devamocanahetave 2.110.10 vaktāraṃ balinaṃ śreṣṭhaṃ stotrasaṃtoṣiteśvaram | ka uvāca | tata ūce puṣpadanto mayūreśaṃ sureśvaram 11 mahimā te mayūreśa manovācāmagocaraḥ | jānanti na janā māyāmohitāstava nityadṛk 12 bhūbhāraharaṇārtha tvamavatīrṇaḥ śivālaye | na māṃ preṣaya tatra tvamanyaṃ preṣaya sāmpratam 13 apārasenayā yuktaṃ sindhudaityaṃ mahābalam | uddhataṃ balinaṃ draṣṭumahaṃ śakyāmi na kvacit 14 yuddhameva kariṣyāmi tato dordaṇḍatejasā | yadi sāmnā bhavetkāryaṃ yuddhaṃ tatra vṛthā matam 15 dānaṃ bhedo vṛthā daṇḍo nītireṣā sanātanī | evamākarṇya tadvākyamuvāca pārvatīpatiḥ 16 samyaguktaḥ puṣpadanta nītimārgaḥ purātanaḥ | krodhavānna kṣamaḥ sāmni kevalaṃ balavānparaḥ 17 dhariṣyati mahāduṣṭaṃ preṣitaścetṣaḍānanaḥ | preṣito vīrabhadraścetkrodhameva kariṣyati 18 śṛṃgī cetpreṣitastatra saṃhāraṃ sa vidhāsyati | pramathaḥ preṣito matto na jāne kiṃ kariṣyati 19 preṣitaścedbhūtarājo meṣayiṣyati tāṃ sabhām | strīsaṃbhogarataḥ syāttu preṣito rakta- locanaḥ 2.110.20 tato'bravīnmayūreśo nirasteṣu ca teṣu ca | nandī samudragambhīro dhairye parvatasannibhaḥ 21 buddhyā bṛhaspatisamo jambhā- risadṛśo balaṃ | dhūrtaḥ parāśayajñātā preṣyatāṃ sāmahetave 22 śiva uvāca | samyaguktaṃ mayūreśa jñātāsi guṇadoṣayoḥ | nandine dīyatāṃ vastraṃ ratnāni vividhāni ca 23 tato dadau mayūreśastāni tasya śivājñayā | ājñāpayāmāsa ca taṃ gaccha sindhuṃ mahābalam 24 yathā devā vimucyaṃte tathā nītirvidhīyatām | sa tu natvā mayūreśaṃ sa śivāṃ śivameva ca 25 gaṇānsarvānmahāvākyaiḥ stutvā taṃ ca śivaṃ śivām | uvāca buddhisaṃpanno diṣṭyocitamidaṃ vacaḥ 26 nandyuvāca | sa mahāṃ jāyate loke yasya vaḥ syādanugrahaḥ | ato'haṃ śreṣṭhatāṃ nītaḥ sādhayiṣye prayojanam 27 vaḥ prasādena bhūgolaṃ vidhāsye nyubjamaṃjasā | śeṣaṃ sūryaṃ vo nikaṭe ānayiṣye na saṃśayaḥ 28 ka uvāca | evamuktvā yayau nandī sindhudaityaṃ balānvitaḥ | gataḥ sa nagaradvāraṃ manovegena dhairyavān 29 dhyāyangaṇeśaṃ śambhuṃ ca śivāṃ sarvārthasādhikām | ṛtāṃ kartuṃ pratijñāṃ tāṃ prārthayāmāsa cetasi 2.110.30 (4996)

GnP 2 108.13

ज्ञातं धात्रा सिद्धिबुद्धी तस्मै दातुमभीप्सता । अनसूया शची चापि तयो रूपेण लज्जिते २.१०९.१० संज्ञाऽभूद्दण्डकारण्ये शिलाऽहल्यापि सा ह्यभूत् । जालन्धरस्य या पत्नी वृन्दा माधवमोहिनी ११ सापि वृक्षत्वमापन्ना यद्रूपदर्शनाद्धर । अन्ये नानावरा गौरि नागता ब्रह्मणो हृदि १२ नैतादृशं क्वापि देवि सौन्दर्यं शौर्यमेव च । तयोर्योगेन च तवः सुतः शोभामवाप्नुयात्

jñātaṃ dhātrā siddhibuddhī tasmai dātumabhīpsatā | anasūyā śacī cāpi tayo rūpeṇa lajjite 2.109.10 saṃjñā'bhūddaṇḍakāraṇye śilā'halyāpi sā hyabhūt | jālandharasya yā patnī vṛndā mādhavamohinī 11 sāpi vṛkṣatvamāpannā yadrūpadarśanāddhara | anye nānāvarā gauri nāgatā brahmaṇo hṛdi 12 naitādṛśaṃ kvāpi devi saundaryaṃ śauryameva ca | tayoryogena ca tavaḥ sutaḥ śobhāmavāpnuyāt

(9) — this was known to the Creator, who wished to give him Siddhi and Buddhi. Anasūyā and Śacī too are put to shame by their beauty. (11) Saṃjñā was in the Daṇḍaka forest, and Ahalyā too became a stone; and Vṛndā, the wife of Jālandhara, who beguiled Mādhava — (11) she too attained the state of a tree, from the sight of whose beauty, O Hara... (12) Other various brides, O Gaurī, did not enter Brahmā's mind. (13) Nowhere, O goddess, is there such beauty and such valour (as theirs); and by union with those two your son would attain splendour.

AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain

GnP 2 108.108

क उवाच । ततः पंचदशे वर्षे मयूरेशोऽर्भकैः सह। गतः स्नातुं नदीं पुण्यां नाम्ना द्ब्रह्मकमण्डलुम् १ स्नात्वा नित्यं समाप्याशु मानसैः षोडशैः पृथक् । उपचारैः पुपूजस्ते ह्रदिस्थं गणनायकम् २ केचित्पद्मासनगतं केचिद्बर्हिगतं च तम् । दिव्यगन्धैर्दिव्यवस्त्रैर्दिव्यैः पुष्पैरपूजयन् ३ गार्ग्यो मुनिर्मन्दिरे तं ध्यात्वा रत्नान्वितेऽर्चयत् । एतस्मिन्नन्तरेऽकस्मात्पिदधे द्वारमस्य तत् ४ यावदुद्धाटयत्येव तावत्तद्दृढतामगात् । तत्र आक्रन्दनं चक्रे स च ते वालका अपि ५ बालका ऊचुः त्वमेव जननी तातः कथमभ्यन्तरे स्थितः । दत्त्वा कपाटं देवेश नोऽपराधान्क्षमस्व च ६ क उवाच । एतस्मिन्नन्तरे दैत्यो महाबलपराक्रमः । यस्य शब्देन महता कम्पते भुवनत्रयम् ७ सटाभिन्नघनो दुष्टो व्याघ्ररूपी समभ्यगात् । व्यादायं वदनं घोरं ग्रसन्निव जगत्त्रयम् ८ दृष्टवा तं दुद्रुवुर्बालाः क्रन्दन्तस्ते दिशो दश । स तु द्वारं विनिर्भिद्य मयूरेशं तमाययौ ९ शार्दूलसदृशं रूपं कृत्वाऽयात्सोऽपि तं क्षणात् । पपाल सहसा व्याघ्रः पृष्ठे लग्नो ययौ च सः २.१०८.१० भ्रमन्स तु वनं यातो निकुंजे लीय तस्थिवान् । देवो वृक्षं समारुह्य कुंजमध्ये पपात ह ११ उभाभ्यां वदनं तस्य कराभ्यां जगृहे दृढम् । अन्याभ्यां बहिरानीय ततः परशुनाऽच्छिनत् १२ नासिकां श्रवणे पादौ पुच्छमग्रभवावुभौ । न मुखं दर्शयेत्युक्त्वा विससर्ज गुणेश्वर १३ निजं रूपं समास्थाय तथैव विकृतोऽभवत् । एवमेव करिष्यामि त्वद्देहमित्युवाच तम् १४ ययौ निजालयं दैत्यो देवः स्वं धाम चाययौ । ततो मुनिसुता भ्रेमुः क्रन्दन्तः क्व मयूरराट् १५ अतिश्रान्ता द्रुमतले सुच्छाये प्रास्वपंस्तदा । अनेन यास्यति पथा द्रक्ष्यामस्तत्पदाम्बुजम् १६ पादौ दक्षिणतस्तेषां दृष्ट्वा चुक्रोध भानुजः । अत्यारक्तदृशी रोषाद्ब्रह्माण्डग्राससाहसः १७ बद्ध्वा तान्स्वस्थलं यातो मयूरेशस्ततोऽगमत् । नापश्यत्तत्तटे बालान्विस्मयं परमं ययौ १८ चिन्तां परमिकां प्राप्तो विना तैः स मयूरराट् । न सुखं क्वापि संप्रायात्ततो मुनिगणा ययुः १९ मुनय ऊचुः । क्वास्माकं बालका देव प्रातर्नीतास्त्वयाऽखिलाः । विना तैर्नो गमिष्यन्ति प्राणास्त्वय्यागतेऽधुना २.१०८.२० क उवाच । न किंचिदूचे तान्देवो मुंचन्नश्रु मुहुर्मुहुः । विचार्य भास्करीं यातः पुरीं दूतैर्निवेदितः २१ दूता ऊचुः । कोऽपि यातो योद्धुकामो लोकत्रयविनाशकृत् । उग्रारावो महाबाहुर्वार्यमाणो बलाद्यमः २२ यम उवाच । ब्रह्माण्डं चूर्णतां याति दण्डाघातेन यस्य मे । तस्य मे पुरतो युद्धं कथं बालो विधास्यसि २३ देव उवाच । त्वमात्मानं वर्णयसे रंकवद्भांसि मे यम । मम वक्रभुवा सर्वं ब्रह्माण्डं च विनश्यति २४ एवमुक्त्वा मयूरेशो यमस्कन्धं रुरोह सः। पातयामास महिषात्पपातोपरि तत्क्षणात् २५ पराक्रमं तस्य बुद्ध्वा बद्धाञ्जलिपुटो यमः । तुष्टाव परया भक्त्या मयूरेशं सुरेश्वरम २६ यम उवाच । न ते रूप विदुर्देवा ब्रह्माद्याः सनकादयः । नेति नेति च वेदास्त्वां वदन्ति परमेश्वरम् २७ स्रष्टारं पालकं सष्टेः संहर्तारं निजेच्छया । दैत्यानां सर्वदुष्टानां नाशकं सर्वरूपिणम् २८ अकस्मादपराधं नः कृतं क्षन्तु त्वमर्हसि । क उवाच । एवमुक्त्वा पुपूजासौ वस्त्रै रत्नैः फलैरमुम् २९ बालानानीय तद्धस्ते निवेद्य पुरतः स्थितः । आलिलिंगुर्मुदा सर्वे परस्परमथाब्रुवन २.१०८.३० बाला ऊचुः । श्रान्तास्त्वद्दर्शनार्थाय बद्ध्वा नीता यमेन ह । त्वद्दर्शनाद्बन्धमुक्ता यास्यामो निजमन्दिरम् ३१ क उवाच । ततस्ते स्वाश्रमं प्राप्ता मयूरेशपुरस्कृताः । मयूरेशपूरं याता नानावादित्रसंकुलम् ३२ नानाध्वजपताकाढयं पुष्पमालाविभूषितम। यमोऽपि पृष्ठतो याति द्रष्टुं तत्कौतुकं महत् ३३ संमुखं तस्य ते सर्वे मुनयोऽपि ययुस्तदा । पुपूजुस्तुष्टुवुर्देव लिलिंगुर्बालकानपि ३४ उवाच देवतान्सर्वान्मुनीन्पूर्वं प्रकुप्यतः। आनीता बालका लोकाद्यमस्य क्षणमात्रतः ३५ मुनय ऊचुः । सर्वत्र रक्षसे त्वं हि सर्वशक्तिः सदा च नः । क उवाच । इत्युक्त्वा तमनुज्ञाप्य स्वाश्रमान्मुनयो ययुः३६ यमोऽपि तं नमस्कृत्य स्वालयं मुदितोऽगमत् । देवोऽपि स्वालयं प्राप्य हर्षयामास सादरम् ३७ (४९३०)

ka uvāca | tataḥ paṃcadaśe varṣe mayūreśo'rbhakaiḥ saha| gataḥ snātuṃ nadīṃ puṇyāṃ nāmnā dbrahmakamaṇḍalum 1 snātvā nityaṃ samāpyāśu mānasaiḥ ṣoḍaśaiḥ pṛthak | upacāraiḥ pupūjaste hradisthaṃ gaṇanāyakam 2 kecitpadmāsanagataṃ kecidbarhigataṃ ca tam | divyagandhairdivyavastrairdivyaiḥ puṣpairapūjayan 3 gārgyo munirmandire taṃ dhyātvā ratnānvite'rcayat | etasminnantare'kasmātpidadhe dvāramasya tat 4 yāvaduddhāṭayatyeva tāvattaddṛḍhatāmagāt | tatra ākrandanaṃ cakre sa ca te vālakā api 5 bālakā ūcuḥ tvameva jananī tātaḥ kathamabhyantare sthitaḥ | dattvā kapāṭaṃ deveśa no'parādhānkṣamasva ca 6 ka uvāca | etasminnantare daityo mahābalaparākramaḥ | yasya śabdena mahatā kampate bhuvanatrayam 7 saṭābhinnaghano duṣṭo vyāghrarūpī samabhyagāt | vyādāyaṃ vadanaṃ ghoraṃ grasanniva jagattrayam 8 dṛṣṭavā taṃ dudruvurbālāḥ krandantaste diśo daśa | sa tu dvāraṃ vinirbhidya mayūreśaṃ tamāyayau 9 śārdūlasadṛśaṃ rūpaṃ kṛtvā'yātso'pi taṃ kṣaṇāt | papāla sahasā vyāghraḥ pṛṣṭhe lagno yayau ca saḥ 2.108.10 bhramansa tu vanaṃ yāto nikuṃje līya tasthivān | devo vṛkṣaṃ samāruhya kuṃjamadhye papāta ha 11 ubhābhyāṃ vadanaṃ tasya karābhyāṃ jagṛhe dṛḍham | anyābhyāṃ bahirānīya tataḥ paraśunā'cchinat 12 nāsikāṃ śravaṇe pādau pucchamagrabhavāvubhau | na mukhaṃ darśayetyuktvā visasarja guṇeśvara 13 nijaṃ rūpaṃ samāsthāya tathaiva vikṛto'bhavat | evameva kariṣyāmi tvaddehamityuvāca tam 14 yayau nijālayaṃ daityo devaḥ svaṃ dhāma cāyayau | tato munisutā bhremuḥ krandantaḥ kva mayūrarāṭ 15 atiśrāntā drumatale succhāye prāsvapaṃstadā | anena yāsyati pathā drakṣyāmastatpadāmbujam 16 pādau dakṣiṇatasteṣāṃ dṛṣṭvā cukrodha bhānujaḥ | atyāraktadṛśī roṣādbrahmāṇḍagrāsasāhasaḥ 17 baddhvā tānsvasthalaṃ yāto mayūreśastato'gamat | nāpaśyattattaṭe bālānvismayaṃ paramaṃ yayau 18 cintāṃ paramikāṃ prāpto vinā taiḥ sa mayūrarāṭ | na sukhaṃ kvāpi saṃprāyāttato munigaṇā yayuḥ 19 munaya ūcuḥ | kvāsmākaṃ bālakā deva prātarnītāstvayā'khilāḥ | vinā tairno gamiṣyanti prāṇāstvayyāgate'dhunā 2.108.20 ka uvāca | na kiṃcidūce tāndevo muṃcannaśru muhurmuhuḥ | vicārya bhāskarīṃ yātaḥ purīṃ dūtairniveditaḥ 21 dūtā ūcuḥ | ko'pi yāto yoddhukāmo lokatrayavināśakṛt | ugrārāvo mahābāhurvāryamāṇo balādyamaḥ 22 yama uvāca | brahmāṇḍaṃ cūrṇatāṃ yāti daṇḍāghātena yasya me | tasya me purato yuddhaṃ kathaṃ bālo vidhāsyasi 23 deva uvāca | tvamātmānaṃ varṇayase raṃkavadbhāṃsi me yama | mama vakrabhuvā sarvaṃ brahmāṇḍaṃ ca vinaśyati 24 evamuktvā mayūreśo yamaskandhaṃ ruroha saḥ| pātayāmāsa mahiṣātpapātopari tatkṣaṇāt 25 parākramaṃ tasya buddhvā baddhāñjalipuṭo yamaḥ | tuṣṭāva parayā bhaktyā mayūreśaṃ sureśvarama 26 yama uvāca | na te rūpa vidurdevā brahmādyāḥ sanakādayaḥ | neti neti ca vedāstvāṃ vadanti parameśvaram 27 sraṣṭāraṃ pālakaṃ saṣṭeḥ saṃhartāraṃ nijecchayā | daityānāṃ sarvaduṣṭānāṃ nāśakaṃ sarvarūpiṇam 28 akasmādaparādhaṃ naḥ kṛtaṃ kṣantu tvamarhasi | ka uvāca | evamuktvā pupūjāsau vastrai ratnaiḥ phalairamum 29 bālānānīya taddhaste nivedya purataḥ sthitaḥ | āliliṃgurmudā sarve parasparamathābruvana 2.108.30 bālā ūcuḥ | śrāntāstvaddarśanārthāya baddhvā nītā yamena ha | tvaddarśanādbandhamuktā yāsyāmo nijamandiram 31 ka uvāca | tataste svāśramaṃ prāptā mayūreśapuraskṛtāḥ | mayūreśapūraṃ yātā nānāvāditrasaṃkulam 32 nānādhvajapatākāḍhayaṃ puṣpamālāvibhūṣitama| yamo'pi pṛṣṭhato yāti draṣṭuṃ tatkautukaṃ mahat 33 saṃmukhaṃ tasya te sarve munayo'pi yayustadā | pupūjustuṣṭuvurdeva liliṃgurbālakānapi 34 uvāca devatānsarvānmunīnpūrvaṃ prakupyataḥ| ānītā bālakā lokādyamasya kṣaṇamātrataḥ 35 munaya ūcuḥ | sarvatra rakṣase tvaṃ hi sarvaśaktiḥ sadā ca naḥ | ka uvāca | ityuktvā tamanujñāpya svāśramānmunayo yayuḥ36 yamo'pi taṃ namaskṛtya svālayaṃ mudito'gamat | devo'pi svālayaṃ prāpya harṣayāmāsa sādaram 37 (4930)

GnP 2 108.109

रत्नकांचनयोर्यद्वद्यथा मुक्ताप्रवालयोः । क उवाच । एवं नारदवाक्येन स तुतोष हरः शिवा १४ शिव उवाच । सम्यगुक्तं मुने वाक्यं वांछितार्थकरं शुभम् । क उवाच । शिवोऽपि तत्क्षणादेव वृषारूढः समाह्वयत् १५ इन्द्रादिदेवनिचयान्गौतमादीन्मुनीनपि । अर्धांगे पार्वतीं गृहय ययौ हर्षसमन्वितः १६ शिखण्डिनं समारुह्य मयूरेशः पुरो ययौ । नारदस्तु तपोयोगादन्तरिक्षचरो ययौ १७ सप्तकोटिगणाः क्रीडां कुर्वन्तोऽभिययुस्तदा । नानायुधधरा हर्षाद्गर्जयन्तो दिशोदश १८ वाद्यत्सु सर्ववाद्येषु रजसाच्छादिते रवौ । अष्टाशीतिसहस्राणि मुनयोऽपि ययुर्मुदा १९ गण्डकीनगरं सर्वे गन्तुकामा व्यलोकयन् । गुल्वं मार्गे रक्षसां ते सप्तकोटिगणान्वितम् २.१०९.२० नभस्पर्शि मुखानां च सर्वदा कालधिक्कृताम् । निशाचराः शुश्रुवुस्ते सेनायास्तु रवं दृढम् २१ सुप्तोत्थिताश्च सन्नद्धा ययू रणविधित्सया। राक्षसा ऊचुः । कस्य यूयं कुतो याथ कृत आगमनं च वः २२ विज्ञानां न पुरे गन्तुं दास्यामः स्वामिनश्च नः । मयूरेश उवाच । स्वतन्त्रा अन्तका दैत्यरक्षसां साधुपालकाः २३ अतो यच्छन्तु नो मार्गं नो चेन्नाशं व्रजिष्यथ । क उवाच । एतस्मिन्नन्तरे प्राप्तो विकृतो हेमनामकः २४ असुरोऽथाब्रवीद्देवमेकाकि प्रहितः पुरा । इदानीं राक्षसैः सार्द्धमादास्ये जीवितं तव २५ उवाच राक्षसान्सोऽथ नानादैत्या हता बलात् । अहं च विकृतोऽनेन यतोऽहं हन्यते जवात् २६ क उवाच । इति तद्वचनं श्रुत्वा चुक्रोध स मयूरराट् । मुनिपुत्रान्समाज्ञाप्य युध्यध्वं मे ह्यनुग्रहात् २७ कुशानुद्यम्य ते हर्षाद् युद्धं कर्तुं समुद्यताः। उवाच पृष्ठतो देवो घ्नन्तुं बालाः कुशैरिमान २८ मन्त्रितास्ते कुषास्तेषां मस्तकानच्छिनन्बहून् । तेषां शस्त्राणि कुण्ठानि जातानि तदनुग्रहात् २९ जायन्ते तावदेते तान्कुशैर्जघ्नुस्तु राक्षसान् । खण्डशस्ते निपेतुर्वै छिन्नबाहुरुजानवः २.१०९.३० व्यस्मयन्त च रक्षांसि तृणैर्मृत्युव्रजन्ति किम्। एवं सर्वे हता बालैरखिला राक्षसास्तधा ३१ जगर्जुस्ते मयूरेशं प्रापुर्नत्वाप्यपूजयन्। बाला ऊचुः। आज्ञया निहताः सर्वे राक्षसास्त्वत्प्रसादतः । पुनराज्ञां नः प्रयच्छ करिष्यामो गुणेश्वर ३२ आश्चर्यं परमं जग्मुर्मुनयो ये समागताः। दृष्ट्वा बालहतान्त्सर्वान्राक्षसान्कुशसंचयैः ३३ पार्वती वृषभात्तस्मादवरुहयालिलिंग तम् । शिवोऽपि प्राब्रवीद्देवं दृष्टस्तेऽद्य पराक्रमः ३४ तव शस्त्रहताः पूर्वं निहता बालकैः कुशैः । ब्रह्मादीनामगम्यस्ते प्रभावो गिरिजासुत ३५ न ज्ञायते मया वापि किं किमग्रे करिष्यसि ३६ (४९६६)

ratnakāṃcanayoryadvadyathā muktāpravālayoḥ | ka uvāca | evaṃ nāradavākyena sa tutoṣa haraḥ śivā 14 śiva uvāca | samyaguktaṃ mune vākyaṃ vāṃchitārthakaraṃ śubham | ka uvāca | śivo'pi tatkṣaṇādeva vṛṣārūḍhaḥ samāhvayat 15 indrādidevanicayāngautamādīnmunīnapi | ardhāṃge pārvatīṃ gṛhaya yayau harṣasamanvitaḥ 16 śikhaṇḍinaṃ samāruhya mayūreśaḥ puro yayau | nāradastu tapoyogādantarikṣacaro yayau 17 saptakoṭigaṇāḥ krīḍāṃ kurvanto'bhiyayustadā | nānāyudhadharā harṣādgarjayanto diśodaśa 18 vādyatsu sarvavādyeṣu rajasācchādite ravau | aṣṭāśītisahasrāṇi munayo'pi yayurmudā 19 gaṇḍakīnagaraṃ sarve gantukāmā vyalokayan | gulvaṃ mārge rakṣasāṃ te saptakoṭigaṇānvitam 2.109.20 nabhasparśi mukhānāṃ ca sarvadā kāladhikkṛtām | niśācarāḥ śuśruvuste senāyāstu ravaṃ dṛḍham 21 suptotthitāśca sannaddhā yayū raṇavidhitsayā| rākṣasā ūcuḥ | kasya yūyaṃ kuto yātha kṛta āgamanaṃ ca vaḥ 22 vijñānāṃ na pure gantuṃ dāsyāmaḥ svāminaśca naḥ | mayūreśa uvāca | svatantrā antakā daityarakṣasāṃ sādhupālakāḥ 23 ato yacchantu no mārgaṃ no cennāśaṃ vrajiṣyatha | ka uvāca | etasminnantare prāpto vikṛto hemanāmakaḥ 24 asuro'thābravīddevamekāki prahitaḥ purā | idānīṃ rākṣasaiḥ sārddhamādāsye jīvitaṃ tava 25 uvāca rākṣasānso'tha nānādaityā hatā balāt | ahaṃ ca vikṛto'nena yato'haṃ hanyate javāt 26 ka uvāca | iti tadvacanaṃ śrutvā cukrodha sa mayūrarāṭ | muniputrānsamājñāpya yudhyadhvaṃ me hyanugrahāt 27 kuśānudyamya te harṣād yuddhaṃ kartuṃ samudyatāḥ| uvāca pṛṣṭhato devo ghnantuṃ bālāḥ kuśairimāna 28 mantritāste kuṣāsteṣāṃ mastakānacchinanbahūn | teṣāṃ śastrāṇi kuṇṭhāni jātāni tadanugrahāt 29 jāyante tāvadete tānkuśairjaghnustu rākṣasān | khaṇḍaśaste nipeturvai chinnabāhurujānavaḥ 2.109.30 vyasmayanta ca rakṣāṃsi tṛṇairmṛtyuvrajanti kim| evaṃ sarve hatā bālairakhilā rākṣasāstadhā 31 jagarjuste mayūreśaṃ prāpurnatvāpyapūjayan| bālā ūcuḥ| ājñayā nihatāḥ sarve rākṣasāstvatprasādataḥ | punarājñāṃ naḥ prayaccha kariṣyāmo guṇeśvara 32 āścaryaṃ paramaṃ jagmurmunayo ye samāgatāḥ| dṛṣṭvā bālahatāntsarvānrākṣasānkuśasaṃcayaiḥ 33 pārvatī vṛṣabhāttasmādavaruhayāliliṃga tam | śivo'pi prābravīddevaṃ dṛṣṭaste'dya parākramaḥ 34 tava śastrahatāḥ pūrvaṃ nihatā bālakaiḥ kuśaiḥ | brahmādīnāmagamyaste prabhāvo girijāsuta 35 na jñāyate mayā vāpi kiṃ kimagre kariṣyasi 36 (4966)