← Ganesha Purana — Kridakhanda

Ganesha Purana — Kridakhanda — Chapter 106

GnP 2 106.1

अध्याय १०६प्रारंभ :- क उवाच । ततस्त्रयोदशे वर्षे नमस्कृत्य महेश्वरम् । भस्मांगरागरुचिरं पंचास्यं दिग्भुजं शुभम्

adhyāya 106prāraṃbha :- ka uvāca | tatastrayodaśe varṣe namaskṛtya maheśvaram | bhasmāṃgarāgaruciraṃ paṃcāsyaṃ digbhujaṃ śubham

Chapter 106 begins. Kaḥ said: Then, in the thirteenth year, having bowed to Maheśvara — lovely with the ash smeared on his limbs, five-faced, ten-armed, auspicious —

AI translation rendered from the Sanskrit, not a published edition

GnP 2 106.21

रुण्डमालाधरं सुप्तं चन्द्रशेखरमच्युतम् । मयूरेशोऽथ जग्राह शशिनं तच्छिरोगतम् २ क्रीडन्बहिः समायातो बालकैः परिवारितः । सुहृद्भिः परिनृत्यद्भिर्वदद्भिश्च परस्परम् ३ एतस्मिन्नन्तरे तत्र दैत्यो मंगलसंज्ञकः । करालवदनः क्रोडीविजेता मरमाद्भुतः ४ वराहरूपो बलवान्दन्तच्छिन्नमहिरुहः । वज्रसारसटाभिः स भिन्दन्व्योम पदैर्धराम५ अंजनाद्रिरिव श्यामो वह्निकुण्डनिभेक्षणः । दृष्ट्वा तं विद्रुता बाला वर्षाघननिभस्वनः ६ न दृष्टः सूकरः क्वापीदृश इत्यब्रुवंश्च ते । यावन्मारयते बालांस्तावद्देवो मयूरराट् ७ दधार दन्तयोर्दुष्टं तदा सूकरदानवम् । अथापरेण हस्तेन दधाराधरपोत्रकम् ८ पाटयामास सहसा वंशखण्डमिवार्भकः । पूर्वदेहं समास्थाय दशयोजनविस्तृतम् ९ पतितश्चूर्णयन्वृक्षान्दारयन्धरणीतलम् । ततस्तमब्रुवन्बाला धन्योऽयं पार्वतीसुतः २.१०६.१० क्षणेन नाशितो दैत्यो लीलयाऽसौ महाबलः । अस्य दर्शनतस्त्रस्ता वयं याता दिशो दश ११ पतमानेन येनेह चूर्णितानि गृहाणि च । क उवाच । ततः शिवो ललाटे स्वे नापश्यच्छशिनं यदा १२ क्रोधासंरक्तनयनो विष्टपं प्रदहन्निव । गणानूचे रुषाविष्टो रक्षणं क्रियते कथम् १३ केन दैत्येन नीतो मे ललाटस्थोऽमलः शशी। क उवाच । ततो लीना गणाः सर्वे कम्पमाना भयातुराः १४ अपरे धैर्यमालम्ब्य वदन्ति स्म शिवं प्रति । उमाकान्त भवत्पुत्रो मयूरेश्वरसंज्ञक: १५ क्रीडितुं बहिरायातस्तस्य हस्ते विलोकितः । चन्द्रस्तेन कदा नीतो न जानीमो वयं विभो १६ इति तद्वचनं श्रुत्वा प्रोचे रुष्टो महेश्वरः । कथं नु क्रियते रक्षा भवद्भिर्भक्ष्यतत्परैः १७ चन्द्रो वा चन्द्रहर्ता वा यद्यानीतस्तदा शुभम् । नो चेद्भस्मीकरिष्यामि सर्वेषां नात्र संशयः १८ ततस्ते क्षुब्धमनसो धावमानास्त्वरान्विताः। मयूरेशं समभेत्य प्राभणन्रुष्टचेतसः १९ याहि दुष्टं शिवं देवं चन्द्रं वा यच्छ तस्कर । गणवाक्यं परिश्रुत्य चुकोप गणनायक: २.१०६.२० न मेऽस्ति गणना कापि भवतां तस्य वा गणाः । जगत्त्रयजनन्या मे तनयस्य प्रभाविणः

ruṇḍamālādharaṃ suptaṃ candraśekharamacyutam | mayūreśo'tha jagrāha śaśinaṃ tacchirogatam 2 krīḍanbahiḥ samāyāto bālakaiḥ parivāritaḥ | suhṛdbhiḥ parinṛtyadbhirvadadbhiśca parasparam 3 etasminnantare tatra daityo maṃgalasaṃjñakaḥ | karālavadanaḥ kroḍīvijetā maramādbhutaḥ 4 varāharūpo balavāndantacchinnamahiruhaḥ | vajrasārasaṭābhiḥ sa bhindanvyoma padairdharāma5 aṃjanādririva śyāmo vahnikuṇḍanibhekṣaṇaḥ | dṛṣṭvā taṃ vidrutā bālā varṣāghananibhasvanaḥ 6 na dṛṣṭaḥ sūkaraḥ kvāpīdṛśa ityabruvaṃśca te | yāvanmārayate bālāṃstāvaddevo mayūrarāṭ 7 dadhāra dantayorduṣṭaṃ tadā sūkaradānavam | athāpareṇa hastena dadhārādharapotrakam 8 pāṭayāmāsa sahasā vaṃśakhaṇḍamivārbhakaḥ | pūrvadehaṃ samāsthāya daśayojanavistṛtam 9 patitaścūrṇayanvṛkṣāndārayandharaṇītalam | tatastamabruvanbālā dhanyo'yaṃ pārvatīsutaḥ 2.106.10 kṣaṇena nāśito daityo līlayā'sau mahābalaḥ | asya darśanatastrastā vayaṃ yātā diśo daśa 11 patamānena yeneha cūrṇitāni gṛhāṇi ca | ka uvāca | tataḥ śivo lalāṭe sve nāpaśyacchaśinaṃ yadā 12 krodhāsaṃraktanayano viṣṭapaṃ pradahanniva | gaṇānūce ruṣāviṣṭo rakṣaṇaṃ kriyate katham 13 kena daityena nīto me lalāṭastho'malaḥ śaśī| ka uvāca | tato līnā gaṇāḥ sarve kampamānā bhayāturāḥ 14 apare dhairyamālambya vadanti sma śivaṃ prati | umākānta bhavatputro mayūreśvarasaṃjñaka: 15 krīḍituṃ bahirāyātastasya haste vilokitaḥ | candrastena kadā nīto na jānīmo vayaṃ vibho 16 iti tadvacanaṃ śrutvā proce ruṣṭo maheśvaraḥ | kathaṃ nu kriyate rakṣā bhavadbhirbhakṣyatatparaiḥ 17 candro vā candrahartā vā yadyānītastadā śubham | no cedbhasmīkariṣyāmi sarveṣāṃ nātra saṃśayaḥ 18 tataste kṣubdhamanaso dhāvamānāstvarānvitāḥ| mayūreśaṃ samabhetya prābhaṇanruṣṭacetasaḥ 19 yāhi duṣṭaṃ śivaṃ devaṃ candraṃ vā yaccha taskara | gaṇavākyaṃ pariśrutya cukopa gaṇanāyaka: 2.106.20 na me'sti gaṇanā kāpi bhavatāṃ tasya vā gaṇāḥ | jagattrayajananyā me tanayasya prabhāviṇaḥ

GnP 2 106.106

क उवाच । तस्य श्वासेन सर्वे ते वात्या पत्रमिवोद्धृताः । पेतुः शिवस्य पुरतो गणा दीनास्तदाऽखिलाः २२ अतिरोषान्महादेवः प्रमथादीनथाब्रवीत् । आनीयतां स दुष्टात्मा बद्ध्वोमातनयो लघुः २३ ते तु शीघ्रतरं याता यत्र क्रीडारतः शिशुः । ददृशुस्तं शिशुगतं क्रीडन्तमकुतोभयम् २४ वेष्टितुं तान्समायातान्मोहयित्वा विनायकः । अन्तर्हितश्चतुर्दिक्षु गणास्ते तं व्यलोकयन् २५ गृहे गृहे काननेषु नापश्यस्ते विनायकम् । क्वचिदृष्ट्वा तु तं प्राहुरस्मदग्रे कथं भवान् २६ गन्तुं शक्तो ब्रह्मलोके स्थितं नेष्याम तं शिवम् । एवमन्तर्हितो दृश्यो वारंवारं बभूव सः २७ ततः खिन्नान्गणान्दृष्ट्वा परमात्मा कृपान्वितः । तस्थौ तत्पुरतः सम्यग्दृष्ट्वा तं हर्षनिर्भराः २८ बबन्धुर्गिरिजासूनुं निन्युस्ते शंकरं प्रति । पृथिवीभारसदृशमुपविष्टं तु ते गणाः २९ न शेकुरुत्थापयितुं ततो विस्मितमानसाः । हतोद्यमा गणाः सर्वे शिवमेत्य समूचिरे २.१०६.३० सर्वे वयं समानेतुमेकं शक्ता न शंकर । आज्ञापयामास शिवो नन्दिनं पुरतः स्थितम् ३१ झटित्यानय गच्छ त्वं मयूरेशं तु तस्करम् । नन्द्युवाच । शेषं सूर्यं शशांकं च हनिष्येऽहं तवाज्ञया ३२ कनीयसो न मे काचिद्गणनास्ति महेश्वर । क उवाच । इत्युक्त्वाऽगाद्वायुवेगो भंजन्वृक्षांश्च पर्वतान् ३३ क्रोधसंरक्तनयनस्तीक्ष्णशृंगोग्रसन्दिवम् । उवाच तं मयूरेशं याहि रे त्वं शिवं प्रति ३४ नो चेदध नयिष्यामि न समो हि गणैरहम्। एवं वदति तस्मिंस्तु मयूरेशो रुषान्वितः ३५ शवासचक्रेऽक्षिपत्तं तु गमनागमसंकुले। तत्याज तं दृढं श्वासादतिखिन्नं शिवान्तिके ३६ वमन्तं धिरं वक्त्रात्पृथिव्यां पतितं तु तम् । ब्रुवन्तं पौरुषं नाना मूर्छितं द्विमुहूर्ततः३७ अपश्यच्च मयूरेशं जानुभागे स्थितं शिवः । देदीप्यमानं वपुषा दिव्यभूषासमन्वितम् ३८ गणा ऊचुः शिवं दृष्ट्वा भालचन्द्रं यथा पुरा। ललाटे ते शशी देव वृथाज्ञप्ता वयं शव ३९ मयूरेशं गणांश्चाह शशिनं वीक्ष्य मस्तके । शिव उवाच । श्रान्तास्ते च गणास्त्वं च नन्दी चापि ममाज्ञया २.१०६.४० चन्द्र स्थिते ललाटे मे वृथा युद्धमभूद्धि वः । प्रमथा ऊचुः । अद्यप्रभृति देवेश स्वामी नोऽस्तु मयूरराट् ४१ क उवाच । तथेति शिव ऊचे तान्गणराजोऽभवत्तु सः : नत्वा शिवं गणेशं च गणेशजननीमपि ४२ प्रशंसयित्वा देवेशं मयूरेशं तथाविधम् । गर्जन्तोऽथ गणा जग्मुर्मुदा स्वं स्वं निवेशनम् ४३ (४८४५)

ka uvāca | tasya śvāsena sarve te vātyā patramivoddhṛtāḥ | petuḥ śivasya purato gaṇā dīnāstadā'khilāḥ 22 atiroṣānmahādevaḥ pramathādīnathābravīt | ānīyatāṃ sa duṣṭātmā baddhvomātanayo laghuḥ 23 te tu śīghrataraṃ yātā yatra krīḍārataḥ śiśuḥ | dadṛśustaṃ śiśugataṃ krīḍantamakutobhayam 24 veṣṭituṃ tānsamāyātānmohayitvā vināyakaḥ | antarhitaścaturdikṣu gaṇāste taṃ vyalokayan 25 gṛhe gṛhe kānaneṣu nāpaśyaste vināyakam | kvacidṛṣṭvā tu taṃ prāhurasmadagre kathaṃ bhavān 26 gantuṃ śakto brahmaloke sthitaṃ neṣyāma taṃ śivam | evamantarhito dṛśyo vāraṃvāraṃ babhūva saḥ 27 tataḥ khinnāngaṇāndṛṣṭvā paramātmā kṛpānvitaḥ | tasthau tatpurataḥ samyagdṛṣṭvā taṃ harṣanirbharāḥ 28 babandhurgirijāsūnuṃ ninyuste śaṃkaraṃ prati | pṛthivībhārasadṛśamupaviṣṭaṃ tu te gaṇāḥ 29 na śekurutthāpayituṃ tato vismitamānasāḥ | hatodyamā gaṇāḥ sarve śivametya samūcire 2.106.30 sarve vayaṃ samānetumekaṃ śaktā na śaṃkara | ājñāpayāmāsa śivo nandinaṃ purataḥ sthitam 31 jhaṭityānaya gaccha tvaṃ mayūreśaṃ tu taskaram | nandyuvāca | śeṣaṃ sūryaṃ śaśāṃkaṃ ca haniṣye'haṃ tavājñayā 32 kanīyaso na me kācidgaṇanāsti maheśvara | ka uvāca | ityuktvā'gādvāyuvego bhaṃjanvṛkṣāṃśca parvatān 33 krodhasaṃraktanayanastīkṣṇaśṛṃgograsandivam | uvāca taṃ mayūreśaṃ yāhi re tvaṃ śivaṃ prati 34 no cedadha nayiṣyāmi na samo hi gaṇairaham| evaṃ vadati tasmiṃstu mayūreśo ruṣānvitaḥ 35 śavāsacakre'kṣipattaṃ tu gamanāgamasaṃkule| tatyāja taṃ dṛḍhaṃ śvāsādatikhinnaṃ śivāntike 36 vamantaṃ dhiraṃ vaktrātpṛthivyāṃ patitaṃ tu tam | bruvantaṃ pauruṣaṃ nānā mūrchitaṃ dvimuhūrtataḥ37 apaśyacca mayūreśaṃ jānubhāge sthitaṃ śivaḥ | dedīpyamānaṃ vapuṣā divyabhūṣāsamanvitam 38 gaṇā ūcuḥ śivaṃ dṛṣṭvā bhālacandraṃ yathā purā| lalāṭe te śaśī deva vṛthājñaptā vayaṃ śava 39 mayūreśaṃ gaṇāṃścāha śaśinaṃ vīkṣya mastake | śiva uvāca | śrāntāste ca gaṇāstvaṃ ca nandī cāpi mamājñayā 2.106.40 candra sthite lalāṭe me vṛthā yuddhamabhūddhi vaḥ | pramathā ūcuḥ | adyaprabhṛti deveśa svāmī no'stu mayūrarāṭ 41 ka uvāca | tatheti śiva ūce tāngaṇarājo'bhavattu saḥ : natvā śivaṃ gaṇeśaṃ ca gaṇeśajananīmapi 42 praśaṃsayitvā deveśaṃ mayūreśaṃ tathāvidham | garjanto'tha gaṇā jagmurmudā svaṃ svaṃ niveśanam 43 (4845)

GnP 2 106.107

अध्याय १०७ प्रारंभ :- क उवाच । ततश्चतुर्दशे वर्षे गौतमाद्याः सुरर्षयः । आययुर्गिरिजागेहं नानागणयुतं शिवम् १ नमस्कृत्य च तानम्बा नानासनगतान्पुरः । पूजयित्वा विधानेन प्रोवाच हृद्गतं वचः २ विघ्नभीत्या परित्यक्तं त्रिसन्ध्याक्षेत्रमुत्तमम् । अस्य बालस्य मे विघ्ना अत्रापि बहवोऽभवन् ३ दिशन्तु विघ्नरहितं कर्म वा स्थानमुत्तमम् । मुनय ऊचुः । इन्द्रयागे कृते देवि सर्वविघ्नं हरिष्यति ४ क उवाच । तदेव कारयामास मण्डपं बहुविस्तरम् । संभारान्कारयामास शक्रसंतोषकारकान् ५ आज्ञां गृहीत्वा शम्भोः सा पार्वती हर्षनिर्भरा। कारयामास विधिवदिन्द्रयागं महर्षिभिः ६ ध्यानमावाहनं चक्रुरिन्द्रस्यैते महर्षयः । पूपूजुर्गिरिजादेशात्सांगमिन्द्रं गणानपि ७ कुण्डे वह्निं प्रतिष्ठाप्य मन्त्रैरेव द्विजर्षभाः । जपानां तद्दशांशेन जुहुवुस्तिलपायसम् ८ प्रणवाद्यैर्नमोन्तैश्च स्वाहान्तैर्मन्त्रसंचयैः । शान्तिपाठान्पठन्ति स्म चतुर्वेदभवान्द्विजा: ९ एतस्मिन्नन्तरे बालः क्रीडित्वा बालकैः सह। यज्ञवाटमुखो याति दैत्यौ तु कलविंकलौ २.१०७.१० तावत्संमुखतां यातौ माहिषं रूपमास्थितौ । महारवौ महाशृंगौ भीषयन्तौ जगत्त्रयम् ११ सटाभिन्नघनौ पुच्छाद्दारयन्तौ गिरीनथ । नासानिरोधपवनाच्चूर्णयन्तौ द्रुमानपि १२ उमासुतं हन्तुकामौ यातौ शीघ्रं तदन्तिकम् । प्रायुध्येतां तदा द्वौ तौ मत्ताविव महागजौ १३ तयोः शब्देन गगनं गर्जति स्म यथा घनः । जयं भंगं क्रमेणोभौ प्रापतू रुधिरोक्षितौ१४ विद्रुता मुनिबालास्ते ताभ्यां भीता वृकादिव । दूराद्ददर्श गिरिजासुतस्तौ दैत्यपुंगवौ १५ कथमेतौ महादुष्टौ हनिष्यामीति चिन्तयन् । पश्यत्सु तेषु बालेषु चिक्षेप गगने च तौ १६ पुच्छे गृहीत्वाऽतिबलौ भ्रामयित्वा पुनः पुनः । मुहूर्तात्पतितौ पृथ्व्यां तान्विदार्य द्रुमानपि १७ शतधा देहखण्डानि तयोरादन्वृकादयः । ततस्ते मुनिबालास्तं ययुर्भक्त्या प्रतुष्टुवुः १८ यस्य तत्त्वं न जानन्ति ब्रह्माद्या मुनयोपि च । सर्वान्तर्यामिणस्ते तु कथं विद्यामहे वयम् १९ बाल्यात्यभृति दैत्यास्ते नाशिताः कोटिशस्त्वया । एतौ महिषरूपेण हन्तुं त्वां समुपागतौ २.१०७.२० मूषकाविव संत्यक्तौ पुच्छे धृत्वा स्वलीलया। ययोः श्वासेन चलिताः पर्वताश्च द्रुमाधराः २१ क उवाच । मयूरेशस्ततः प्रायाद्यज्ञवाटं रमन्रमन् । ददर्शेन्द्रमखं रुष्टो ध्वंसयामास तत्क्षणात् २२ दूरे क्षिप्त्वा शक्रमूर्तिं प्रोचे सर्वान्मुनीश्वरान् । वृतो मुनिसुतैः सर्वैः किं कर्म क्रियतेऽमला: २३ किं तुष्टेन प्रदातव्यं वासवेनाखिलार्थिना । अजाप्रार्थनया किं नु कामधेनुफलं लभेत् २४ स आदच्छेषसामग्री कृत्वा शान्त हुताशनम् । मुनयो विस्मितहृदो वीक्ष्य चापल्यमस्य तत् २५ उमानिविष्टहृदया नाशकत्तं गुणेश्वरम् । उपालब्धुं शिक्षितुं वा वक्तुं क्रोधेन किंचन २६ उमायै सर्वमाख्याय जग्मुः स्वं स्वं निवेशनम् । श्रुत्वेन्द्रे क्षुब्धह्दये यत्स्यात्तच्च भवत्विति २७ स्वापमाने परिज्ञाते शक्रश्चुक्रोध वै भृशम् । क्रोधसंरक्तनयनो दहन्निव जगत्त्रयम् २८ आकार्य देवनिचयानुवाच वाक्यमुत्तमम् । इन्द्र उवाच । मम यागो मुनिगणैरारब्ध परमादरात् २९ स विध्वस्तो गुणेशेन तस्य द्रक्ष्येऽद्य पौरुषम् । रुष्टे मयि भवेन्नष्टं त्रैलोक्यं सचराचरम् २.१०७.३० देवा ऊचुः । तवाज्ञा चेन्मयूरेशं बद्ध्वानीमः क्षणेन ह । शक्र उवाच ! मयूरेशपुरे वह्नेः स्थानं मास्तु क्वचित्तव ३१ सर्वेषां जाठरोऽपि त्वं लीनो भव ममाज्ञया । क उवाच । इति श्रुत्वा वचस्तस्य शक्रस्य रुषितात्मनः ३२ वह्निरन्तर्हितस्त्वत्र पुरेऽपि जठरेऽपि च । नापश्यन्मुनयो वह्निं ममन्थुर्होमहेतवे ३३ नायातीति परिज्ञाय तेऽपक्वं जक्षुरादरात् । न च तत्पच्यते तेन व्यथा भवति दुर्धरा ३४ ततस्ते मुनयो जग्मुर्मयूरेशं कृपाकरम् । नमस्कृत्याब्रुवन्सर्वे शक्राहूतो गतोऽनल: ३५ जाठरोऽपि गतो वह्निरिन्द्रयागे हते त्वया । इत्याकर्ण्य वचस्तेषां प्रत्येकं जठरेऽनलः ३६ सोऽभवत्क्षुधयाविष्ठाः सर्वे जातास्तु तत्क्षणात् । महानसेषु कुण्डेषु तथैव ज्वलितोऽभवत् ३७ ततो वायुं निनायाशु शक्रः क्रुद्धो महाबलः । प्रेतभूता पुरी सर्वा पंचप्राणे गतेऽभवत् ३८ पंचप्राणमयो देवस्ततस्तान्समजीवयत् । तत इन्द्रोऽब्रवीत्सूर्यं तापयैनां पुरीं बहु ३९ ततः सूर्योऽतपत्सर्वं द्वादशादित्यरूपवान् । वापीकूपतडागेषु नद्यां जलमशोषयत् २.१०७.४० जज्वाल पृथिवी सर्वा पुरग्रामवनाकरा । ततः शीघ्रं मयूरेशो मेघो भूत्वा ववर्ष ह ४१ शमयामास तं वह्निं मृतांश्च समजीवयत् । ततो हर्षयुता लोकाः साधु साध्वित्यपूजयन् ४२ क उवाच । प्रतिकूलं कृतं यद्यत्ततत्सर्वं निराकृतम् । ज्ञात्वा शक्रो ययौ देवं मयूरेशं ननाम च ४३ बद्धांजलिपुटो भूत्वा स्तोतुं सवेश्वरं विभुम् । शक्र उवाच । न वेदा नर्षयो जग्मुर्ब्रह्माद्यास्ते गतिं विभो ४४ सर्वान्तर्यामिणः सर्वरूपस्य ब्रह्मरूपिणः। ब्रह्मादीनां विश्वसृजां कारणानां च कारणम् ४५ अपराधान्क्षमस्वाद्य त्वामहं शरणं गतः । मस्तकं पादयोर्न्यस्य प्रार्थयामास सादरम् ४६ क उवाच । निर्विकल्पं मनन्तस्य ज्ञात्वा प्राह गुणेश्वरः । उत्तिष्ठोत्तिष्ठ भद्रं ते पदे तिष्ठ सुखं स्वके ४७ ततः संपूज्य तं देवं नमस्कृत्य शचीपतिः । प्रदक्षिणीकृत्य ययौ हष्टः सन्नमरावतीम् ४८ (४८९३)

adhyāya 107 prāraṃbha :- ka uvāca | tataścaturdaśe varṣe gautamādyāḥ surarṣayaḥ | āyayurgirijāgehaṃ nānāgaṇayutaṃ śivam 1 namaskṛtya ca tānambā nānāsanagatānpuraḥ | pūjayitvā vidhānena provāca hṛdgataṃ vacaḥ 2 vighnabhītyā parityaktaṃ trisandhyākṣetramuttamam | asya bālasya me vighnā atrāpi bahavo'bhavan 3 diśantu vighnarahitaṃ karma vā sthānamuttamam | munaya ūcuḥ | indrayāge kṛte devi sarvavighnaṃ hariṣyati 4 ka uvāca | tadeva kārayāmāsa maṇḍapaṃ bahuvistaram | saṃbhārānkārayāmāsa śakrasaṃtoṣakārakān 5 ājñāṃ gṛhītvā śambhoḥ sā pārvatī harṣanirbharā| kārayāmāsa vidhivadindrayāgaṃ maharṣibhiḥ 6 dhyānamāvāhanaṃ cakrurindrasyaite maharṣayaḥ | pūpūjurgirijādeśātsāṃgamindraṃ gaṇānapi 7 kuṇḍe vahniṃ pratiṣṭhāpya mantraireva dvijarṣabhāḥ | japānāṃ taddaśāṃśena juhuvustilapāyasam 8 praṇavādyairnamontaiśca svāhāntairmantrasaṃcayaiḥ | śāntipāṭhānpaṭhanti sma caturvedabhavāndvijā: 9 etasminnantare bālaḥ krīḍitvā bālakaiḥ saha| yajñavāṭamukho yāti daityau tu kalaviṃkalau 2.107.10 tāvatsaṃmukhatāṃ yātau māhiṣaṃ rūpamāsthitau | mahāravau mahāśṛṃgau bhīṣayantau jagattrayam 11 saṭābhinnaghanau pucchāddārayantau girīnatha | nāsānirodhapavanāccūrṇayantau drumānapi 12 umāsutaṃ hantukāmau yātau śīghraṃ tadantikam | prāyudhyetāṃ tadā dvau tau mattāviva mahāgajau 13 tayoḥ śabdena gaganaṃ garjati sma yathā ghanaḥ | jayaṃ bhaṃgaṃ krameṇobhau prāpatū rudhirokṣitau14 vidrutā munibālāste tābhyāṃ bhītā vṛkādiva | dūrāddadarśa girijāsutastau daityapuṃgavau 15 kathametau mahāduṣṭau haniṣyāmīti cintayan | paśyatsu teṣu bāleṣu cikṣepa gagane ca tau 16 pucche gṛhītvā'tibalau bhrāmayitvā punaḥ punaḥ | muhūrtātpatitau pṛthvyāṃ tānvidārya drumānapi 17 śatadhā dehakhaṇḍāni tayorādanvṛkādayaḥ | tataste munibālāstaṃ yayurbhaktyā pratuṣṭuvuḥ 18 yasya tattvaṃ na jānanti brahmādyā munayopi ca | sarvāntaryāmiṇaste tu kathaṃ vidyāmahe vayam 19 bālyātyabhṛti daityāste nāśitāḥ koṭiśastvayā | etau mahiṣarūpeṇa hantuṃ tvāṃ samupāgatau 2.107.20 mūṣakāviva saṃtyaktau pucche dhṛtvā svalīlayā| yayoḥ śvāsena calitāḥ parvatāśca drumādharāḥ 21 ka uvāca | mayūreśastataḥ prāyādyajñavāṭaṃ ramanraman | dadarśendramakhaṃ ruṣṭo dhvaṃsayāmāsa tatkṣaṇāt 22 dūre kṣiptvā śakramūrtiṃ proce sarvānmunīśvarān | vṛto munisutaiḥ sarvaiḥ kiṃ karma kriyate'malā: 23 kiṃ tuṣṭena pradātavyaṃ vāsavenākhilārthinā | ajāprārthanayā kiṃ nu kāmadhenuphalaṃ labhet 24 sa ādaccheṣasāmagrī kṛtvā śānta hutāśanam | munayo vismitahṛdo vīkṣya cāpalyamasya tat 25 umāniviṣṭahṛdayā nāśakattaṃ guṇeśvaram | upālabdhuṃ śikṣituṃ vā vaktuṃ krodhena kiṃcana 26 umāyai sarvamākhyāya jagmuḥ svaṃ svaṃ niveśanam | śrutvendre kṣubdhahdaye yatsyāttacca bhavatviti 27 svāpamāne parijñāte śakraścukrodha vai bhṛśam | krodhasaṃraktanayano dahanniva jagattrayam 28 ākārya devanicayānuvāca vākyamuttamam | indra uvāca | mama yāgo munigaṇairārabdha paramādarāt 29 sa vidhvasto guṇeśena tasya drakṣye'dya pauruṣam | ruṣṭe mayi bhavennaṣṭaṃ trailokyaṃ sacarācaram 2.107.30 devā ūcuḥ | tavājñā cenmayūreśaṃ baddhvānīmaḥ kṣaṇena ha | śakra uvāca ! mayūreśapure vahneḥ sthānaṃ māstu kvacittava 31 sarveṣāṃ jāṭharo'pi tvaṃ līno bhava mamājñayā | ka uvāca | iti śrutvā vacastasya śakrasya ruṣitātmanaḥ 32 vahnirantarhitastvatra pure'pi jaṭhare'pi ca | nāpaśyanmunayo vahniṃ mamanthurhomahetave 33 nāyātīti parijñāya te'pakvaṃ jakṣurādarāt | na ca tatpacyate tena vyathā bhavati durdharā 34 tataste munayo jagmurmayūreśaṃ kṛpākaram | namaskṛtyābruvansarve śakrāhūto gato'nala: 35 jāṭharo'pi gato vahnirindrayāge hate tvayā | ityākarṇya vacasteṣāṃ pratyekaṃ jaṭhare'nalaḥ 36 so'bhavatkṣudhayāviṣṭhāḥ sarve jātāstu tatkṣaṇāt | mahānaseṣu kuṇḍeṣu tathaiva jvalito'bhavat 37 tato vāyuṃ nināyāśu śakraḥ kruddho mahābalaḥ | pretabhūtā purī sarvā paṃcaprāṇe gate'bhavat 38 paṃcaprāṇamayo devastatastānsamajīvayat | tata indro'bravītsūryaṃ tāpayaināṃ purīṃ bahu 39 tataḥ sūryo'tapatsarvaṃ dvādaśādityarūpavān | vāpīkūpataḍāgeṣu nadyāṃ jalamaśoṣayat 2.107.40 jajvāla pṛthivī sarvā puragrāmavanākarā | tataḥ śīghraṃ mayūreśo megho bhūtvā vavarṣa ha 41 śamayāmāsa taṃ vahniṃ mṛtāṃśca samajīvayat | tato harṣayutā lokāḥ sādhu sādhvityapūjayan 42 ka uvāca | pratikūlaṃ kṛtaṃ yadyattatatsarvaṃ nirākṛtam | jñātvā śakro yayau devaṃ mayūreśaṃ nanāma ca 43 baddhāṃjalipuṭo bhūtvā stotuṃ saveśvaraṃ vibhum | śakra uvāca | na vedā narṣayo jagmurbrahmādyāste gatiṃ vibho 44 sarvāntaryāmiṇaḥ sarvarūpasya brahmarūpiṇaḥ| brahmādīnāṃ viśvasṛjāṃ kāraṇānāṃ ca kāraṇam 45 aparādhānkṣamasvādya tvāmahaṃ śaraṇaṃ gataḥ | mastakaṃ pādayornyasya prārthayāmāsa sādaram 46 ka uvāca | nirvikalpaṃ manantasya jñātvā prāha guṇeśvaraḥ | uttiṣṭhottiṣṭha bhadraṃ te pade tiṣṭha sukhaṃ svake 47 tataḥ saṃpūjya taṃ devaṃ namaskṛtya śacīpatiḥ | pradakṣiṇīkṛtya yayau haṣṭaḥ sannamarāvatīm 48 (4893)