← Ganesha Purana — Kridakhanda

Ganesha Purana — Kridakhanda — Chapter 101

GnP 2 101.8

अध्याय १०२ प्रारंभ :- क उवाच । विनष्टे बहुधा सैन्ये रुरोहाश्वं स दैत्यराट् । खड्गपाणिर्ययौ योद्धुं मयूरेशं रुषान्वितः १ तं दृष्ट्वा तु मयूरेशो रुरोह स्वं शिखण्डिनम् । तं दृष्ट्वा शीघ्रमायान्तं पन्नगास्त्रं स दैत्यराट् २ जप्त्वा मन्त्रं च शतधा भार्गवादिष्टमादरात् । ससर्ज पन्नगास्त्रं तत्तेजसा जज्वलुर्दिशः ३ सर्पसैन्यैरवेष्ट्यन्त देवसेनाचरा नराः । मृताः केचिद्गताः केचित्पातिताश्चापरेऽवनौ ४ ननन्द देवस्तं दैत्यमतिवीर्य पराक्रमम् । साधु युध्यसि दैत्येन्द्र नेदृशः कोऽपि वीक्षितः ५ एवमुक्त्वा रिपुं देवो गरुडास्त्रमवासृजत् । ततः पलायिताः सर्पाः प्रोत्तिष्ठंश्च चमूचराः ६ चक्रास्त्रमसृजद्देवो दैत्यसेनानिबर्हणम् । तेन केचिन्मृता दैत्याः केचिच्छिन्नाङ्घ्रिमस्तकाः ७ विभिन्नजानुजङ्घाश्च छिन्नगुल्फाः परेऽपतन् । गर्जन्ति धाव धावेति पितर्मातः सुतेति च

adhyāya 102 prāraṃbha :- ka uvāca | vinaṣṭe bahudhā sainye rurohāśvaṃ sa daityarāṭ | khaḍgapāṇiryayau yoddhuṃ mayūreśaṃ ruṣānvitaḥ 1 taṃ dṛṣṭvā tu mayūreśo ruroha svaṃ śikhaṇḍinam | taṃ dṛṣṭvā śīghramāyāntaṃ pannagāstraṃ sa daityarāṭ 2 japtvā mantraṃ ca śatadhā bhārgavādiṣṭamādarāt | sasarja pannagāstraṃ tattejasā jajvalurdiśaḥ 3 sarpasainyairaveṣṭyanta devasenācarā narāḥ | mṛtāḥ kecidgatāḥ kecitpātitāścāpare'vanau 4 nananda devastaṃ daityamativīrya parākramam | sādhu yudhyasi daityendra nedṛśaḥ ko'pi vīkṣitaḥ 5 evamuktvā ripuṃ devo garuḍāstramavāsṛjat | tataḥ palāyitāḥ sarpāḥ prottiṣṭhaṃśca camūcarāḥ 6 cakrāstramasṛjaddevo daityasenānibarhaṇam | tena kecinmṛtā daityāḥ kecicchinnāṅghrimastakāḥ 7 vibhinnajānujaṅghāśca chinnagulphāḥ pare'patan | garjanti dhāva dhāveti pitarmātaḥ suteti ca

Chapter 102 begins. Kaḥ said: (1) When his army had been destroyed in many ways, that daitya-king mounted his horse and, sword in hand, went in fury to fight Mayūreśa. (2) Seeing him, Mayūreśa mounted his own peacock. Seeing him coming swiftly, that daitya-king (3) muttered the mantra a hundred times, reverently, as taught by Bhārgava, and released the serpent-weapon; by its blaze the quarters blazed. (4) The men of the god's army were enveloped by armies of serpents; some died, some fled, others were felled to the ground. (5) The god rejoiced at that daitya of surpassing might and valour: "Well do you fight, chief of daityas; no such one has been seen." (6) So saying, the god released the Garuḍa-weapon at his foe; then the serpents fled and the soldiers rose up. (7) The god released the discus-weapon, destroyer of the daitya host; by it some daityas died, some had heads and feet cut off; (8) others fell with knees and shanks shattered and ankles severed, roaring "Run, run!", "Father!", "Mother!", "Son!"

AI translation rendered from the Sanskrit, not a published edition

GnP 2 101.26

मुक्तिं याता मयूरेशं दृष्ट्वा प्राणां जहश्च ये । एवं सेना निरस्ताऽस्य ततो दैत्यो रुषाऽद्रवत् ९ खड्गपाणी रुषा गर्जन्वेगेनायाद्गजाननम् । तथाविधं रिपुं दृष्ट्वा परशुं जगृहे विभुः २.१०२.१० ययौ दैत्यं महावेगमसृजत्परशुं च तम् । स दहंस्तेजसा व्योम दिशः पक्षिगणानपि ११ अच्छिनद्दैत्यहस्तं च खड्गं च शतधा जवात् । स चापं सहसा गृह्य सज्यं कृत्वा शरान्बहून् १२ असंख्यातान्बलाद्विध्यंश्छादयामास सैनिकान् । गगनं च दिशः सर्वा जगर्ज घननिस्वनः १३ शराघातेन बलवान्निवार्य शरपंजरम् । अन्धकारे बाणमये नाज्ञासीत्कोपि कंचन १४ मयूरेशोऽथ शीघ्रं तदाश्वं भूमावपातयत् । ततोऽन्तरिक्षे तिष्ठन्त्स प्रोचे च गणनायकम् १५ अश्वो निपातितस्तस्य पश्य मे कौतुकं महत् । शिखण्डिनं हनिष्यामि पश्यतस्ते गुणेश्वर १६ उभयत्र निषंगस्थाञ्शरान्भूमौ व्यचिक्षिपत् । चापमाकृष्य कर्णान्तं चिक्षेप शरसंचयान् १७ मयूरेशस्य सेनायां मारयन्सर्वसैनिकान् । ववर्ष शरजालानि वर्षाकाले घना यथा १८ कियन्तो भिन्नसर्वागां केचित्प्राणां जहुः सुराः । एवं नश्यत्सु वीरेषु मयूरेषो रुषान्वितः १९ कमलासुरबाणैस्तु विद्धं त्यक्त्वा शिखण्डिनम् । पाशं करेण जग्राह तोलयित्वा स सादरम् २.१०२.२० जगर्ज नादयन्व्योम तत्याज महसा युतम् । स पातयन्दैत्यगणान्ददाह रिपुसैनिकान् २१ कण्ठे च न्यपतत्तस्य दैत्यसेनाधिपस्य ह । रुरोध श्वासमस्यासौ दैत्यो रूपान्तरं श्रितः २२ मूर्ध्ना संछादयामास तत्क्षणाद्रविमण्डलम् । अन्धकारे घोरतमे न प्रज्ञायत किंचन २३ उवाच समुखो भूत्वा मयूरेशं रुषान्वितः। मया कि युध्यसे बाल गच्छ मातः स्तनं पिब २४ रमस्व बालकैर्नो चेन्मरिष्यसि ममाग्रतः । मम चाक्रन्दनेनैव कम्पते भुवनत्रयम् २५ पादे भूमौ स्थाप्यमाने शेषोऽपि चलते ह्यधः । मम मुष्टिप्रहारेण चूर्णीभूता महाचलाः

muktiṃ yātā mayūreśaṃ dṛṣṭvā prāṇāṃ jahaśca ye | evaṃ senā nirastā'sya tato daityo ruṣā'dravat 9 khaḍgapāṇī ruṣā garjanvegenāyādgajānanam | tathāvidhaṃ ripuṃ dṛṣṭvā paraśuṃ jagṛhe vibhuḥ 2.102.10 yayau daityaṃ mahāvegamasṛjatparaśuṃ ca tam | sa dahaṃstejasā vyoma diśaḥ pakṣigaṇānapi 11 acchinaddaityahastaṃ ca khaḍgaṃ ca śatadhā javāt | sa cāpaṃ sahasā gṛhya sajyaṃ kṛtvā śarānbahūn 12 asaṃkhyātānbalādvidhyaṃśchādayāmāsa sainikān | gaganaṃ ca diśaḥ sarvā jagarja ghananisvanaḥ 13 śarāghātena balavānnivārya śarapaṃjaram | andhakāre bāṇamaye nājñāsītkopi kaṃcana 14 mayūreśo'tha śīghraṃ tadāśvaṃ bhūmāvapātayat | tato'ntarikṣe tiṣṭhantsa proce ca gaṇanāyakam 15 aśvo nipātitastasya paśya me kautukaṃ mahat | śikhaṇḍinaṃ haniṣyāmi paśyataste guṇeśvara 16 ubhayatra niṣaṃgasthāñśarānbhūmau vyacikṣipat | cāpamākṛṣya karṇāntaṃ cikṣepa śarasaṃcayān 17 mayūreśasya senāyāṃ mārayansarvasainikān | vavarṣa śarajālāni varṣākāle ghanā yathā 18 kiyanto bhinnasarvāgāṃ kecitprāṇāṃ jahuḥ surāḥ | evaṃ naśyatsu vīreṣu mayūreṣo ruṣānvitaḥ 19 kamalāsurabāṇaistu viddhaṃ tyaktvā śikhaṇḍinam | pāśaṃ kareṇa jagrāha tolayitvā sa sādaram 2.102.20 jagarja nādayanvyoma tatyāja mahasā yutam | sa pātayandaityagaṇāndadāha ripusainikān 21 kaṇṭhe ca nyapatattasya daityasenādhipasya ha | rurodha śvāsamasyāsau daityo rūpāntaraṃ śritaḥ 22 mūrdhnā saṃchādayāmāsa tatkṣaṇādravimaṇḍalam | andhakāre ghoratame na prajñāyata kiṃcana 23 uvāca samukho bhūtvā mayūreśaṃ ruṣānvitaḥ| mayā ki yudhyase bāla gaccha mātaḥ stanaṃ piba 24 ramasva bālakairno cenmariṣyasi mamāgrataḥ | mama cākrandanenaiva kampate bhuvanatrayam 25 pāde bhūmau sthāpyamāne śeṣo'pi calate hyadhaḥ | mama muṣṭiprahāreṇa cūrṇībhūtā mahācalāḥ

GnP 2 101.101

{{header | अध्याय १०१ प्रारंभ :- क उवाच । ततस्तु दशमे वर्षे सुखासीनं महेश्वरम् । गिरिजासहितं वामे सप्तकोटिगणान्वितम् १ नृत्यत्तं तं मयूरेशं पश्यन्तं स्वांगणे शिशुम् । आययुर्मुनयः सर्वे गौतमाद्याः प्रणम्य तम् २ ऊचुः प्रबुद्धमतयो महादेवं महौजसम् । यावत्कालं शिवात्र त्वं मयूरेशसमन्वितः ३ स्थितोऽसि तावद्दैत्यानामनन्तानां समागमः । वयं तेन प्रपीड्यामोऽन्यत्र याहि शिवाधुना ४ वयं वान्यत्र गच्छामो यद्याज्ञा ते भवेद्धर । शिव उवाच । भवत्संगेन च मया नववर्षाणि सौख्यतः ५ अतिक्रान्ताति विघ्नानि मयूरेशेन तानि च । भवतां गमनेऽस्माकं स्थित्वा किन्नु प्रयोजनम् ६ अहमेव प्रयास्यामि स्थलमन्यन्निराकुलम् । क उवाच । इति शम्भुवचः श्रुत्वा मुनयस्तं प्रणम्य ते ७ जय देव मयूरेशेत्युक्त्वा स्वस्थानमाययुः । शिवोऽपि गणसंयुक्तो वृषारूढोऽम्बिकायुतः ८ बर्ह्यारूढं मयूरेशं पुरस्कृत्वा मुदान्वितः । नानावादित्रनिर्घोषैर्नादयन्विष्टपं ततः ९ अन्वयुर्मुनयः सर्वे मयूरेशं शिवान्वितम् । पत्न्योऽपि बालकै सार्द्धं स्नेहगद्गदभाषिभिः २.१०१.१० रजसा व्योमनि तते न प्राज्ञायत किंचन। परावृत्य शिवः सर्वान्दक्षिणाभिमुखो ययौ ११ ददृशुर्मार्गमध्ये तं द्वादशाक्षौहिणीयुतम् । कमलासुरमायान्तं धूलिधूसरिताम्बरम् १२ गजाश्च पुरतो यान्ति रथाश्वपादचारिणः । न ज्ञायते रवेस्तेजः शस्त्रदीप्त्याथ किंचन १३ कोलाहलो महानासीद्गजाश्वरथपत्तिनः । नानाविधानां शस्त्राणां संघट्टस्वनमिश्रितः १४ ददृशुस्तं महादैत्यं शिवचाराः पुरो गताः । शंकासुरस्य तं बन्धुं नानाभूषाविराजितम् १५ नानायुधधरं प्रोचुरागत्य तु शिवं गणाः । पादाघातेन तस्याशु कम्पते कमठादयः १६ मुनयोऽग्रेचराः पेतुर्भयभीतास्तमब्रुवन् । मयूरेश महाभाग कथं रक्षसि नोऽखिलान् १७ क उवाच । इति तद्वचनं श्रुत्वा प्रावदत्स गुणेश्वरः । विद्यमाने शिवे चिन्ता न कार्या मुनिपुंगवा १८ मयूरेशो हरं प्राह नमस्कृत्य ततः पुनः । देव उवाच । महासेनायुतो दैत्यो नाम्नाऽसौ कमलासुरः १९ यदि तेऽनुग्रहो मे स्याद्युद्धायाशु व्रजाम्यहम् । शिव उवाच । सम्यगुक्तं त्वया पुत्र हृदयानन्दनं वचः २.१०१.२० द्वादशाक्षौहिणीसेनायुतोऽसौ दैत्यपुंगव । एकाकी कथमायासि सप्तकोटिगणैर्युतः २१ वज्र्याप्नुहि जयं शीघ्रं जहि शत्रुं महाबलम् । देव उवाच । तव प्रसादात्त्रैलोक्यं दहेयमिति मे मतिः २२ कियन्तो न हता दैत्या न ज्ञातास्ते त्वया नु किम् । अस्य का गणना स्वामिन्नायास्ये जयवानहम् २३ क उवाच । एवमाकर्ण्य तद्वाक्यं शम्भूरालिंग्य तं ददौ । त्रिशूलं पुत्रहस्ते तन्मूर्निना न्यस्य करं शुभम् २४ आज्ञां ददौ स्वपुत्राय गणयुक्ताय शंकरः । क्ष्वेडितैर्जयशब्दैश्च नादयन्स दिशो दश २५ प्रययौ प्रमथैर्युक्तो विघ्नहा युद्धलालसः । वृषारूढः शिवायुक्तो हरोऽपि द्रष्टुमन्वगात् २६ दृष्ट्वाऽपारां दैत्यसेनां मयूरेशः शरीरतः । निर्ममे बहुलां सेनां ततो युद्धमवर्तत २७ कालानुरूपास्ते वीरा ब्रह्माण्डाशनतत्पराः । मेरोरधिकमानास्ते शब्दतः शृंगपातिनः २८ परस्परं निजघ्नुस्ते तुमुले संयुगे ततः । अन्धकारो महानासीद्रजसाच्छादिता दिशः २९ विस्मयं चक्रिरे दैत्या इदानीमयमेकलः । अनेकतां कथं यातस्तस्मादेष परः पुमान् २.१०१.३० भूभारं हर्तुकामोऽयमवतीर्णः शिवालये । सोऽपि दीर्घतरं रूपं दधार सहसा विभुः ३१ दृष्ट्वा दीर्घं दैत्यरूपं योगमायासमावृतः । दशायुधधरो देवो दशहस्तो महाबलः ३२ मयूरेशश्च दैत्यश्च युध्यमानौ विरेजतुः। नानाशस्त्रप्रहरणैर्ना नायुद्धविशारदैः ३३ व्यस्ताव्यस्तमयुध्यन्त गणा: सेनाचराश्च ते। मुष्टिप्रहारैर्दन्तैश्च शस्त्रास्त्रैरितरेतरम्३४ केषांचिन्मस्तका भग्ना अपरेषां मुखानि च । जानुजंघाविरहिता निपेतुरपरे रणे३५ गर्जयन्तो दशदिशः शस्त्रास्त्रघातनिस्वनै । स्वामिस्वनामतो जघ्नुरन्धकारे रजस्कृते३६ कबन्धामारयंस्तत्र परान्स्वानपि संमुखम् । दैत्यसेनाचरा भग्ना दैत्यमेवान्वयुस्तदा ३७ असंख्यातान्मृतान्प्राहुर्नद्युस्तु रक्तसंभवाः । दैत्य उवाच । इन्द्रादयो लोकपाला ब्रह्माद्या देवतागणाः ३८ निर्जिता येन तेनेह को युद्धं कुर्तुमुत्सहेत् । भूगोलं न्युब्जतां नेतुं कोऽन्यः शक्तो भविष्यति ३९ क उवाच । इत्युक्त्वान्दोलयामास शस्त्रान्दोलनतो जगत् । क्रोधसंरक्तनयनो मारयामास दैत्यराट् २.१०१.४० मयूरेशगणान्सर्वान्नानावाहनहेतिकान्। शिरःपादान्कृती हस्तान्भित्त्वाऽपातयदाहवे ४१ उत्कर्षं तस्य तं दृष्ट्वा मयूरेषो ययु पुरः । स्वर्गं च गर्जयन्व्योम दशशस्त्रैर्द्विषोऽहनत् ४२ असंख्याता हता दैत्या मुक्तिं प्रापुः सुदुर्लभाम् ४३ (४६१२)

{{header | adhyāya 101 prāraṃbha :- ka uvāca | tatastu daśame varṣe sukhāsīnaṃ maheśvaram | girijāsahitaṃ vāme saptakoṭigaṇānvitam 1 nṛtyattaṃ taṃ mayūreśaṃ paśyantaṃ svāṃgaṇe śiśum | āyayurmunayaḥ sarve gautamādyāḥ praṇamya tam 2 ūcuḥ prabuddhamatayo mahādevaṃ mahaujasam | yāvatkālaṃ śivātra tvaṃ mayūreśasamanvitaḥ 3 sthito'si tāvaddaityānāmanantānāṃ samāgamaḥ | vayaṃ tena prapīḍyāmo'nyatra yāhi śivādhunā 4 vayaṃ vānyatra gacchāmo yadyājñā te bhaveddhara | śiva uvāca | bhavatsaṃgena ca mayā navavarṣāṇi saukhyataḥ 5 atikrāntāti vighnāni mayūreśena tāni ca | bhavatāṃ gamane'smākaṃ sthitvā kinnu prayojanam 6 ahameva prayāsyāmi sthalamanyannirākulam | ka uvāca | iti śambhuvacaḥ śrutvā munayastaṃ praṇamya te 7 jaya deva mayūreśetyuktvā svasthānamāyayuḥ | śivo'pi gaṇasaṃyukto vṛṣārūḍho'mbikāyutaḥ 8 barhyārūḍhaṃ mayūreśaṃ puraskṛtvā mudānvitaḥ | nānāvāditranirghoṣairnādayanviṣṭapaṃ tataḥ 9 anvayurmunayaḥ sarve mayūreśaṃ śivānvitam | patnyo'pi bālakai sārddhaṃ snehagadgadabhāṣibhiḥ 2.101.10 rajasā vyomani tate na prājñāyata kiṃcana| parāvṛtya śivaḥ sarvāndakṣiṇābhimukho yayau 11 dadṛśurmārgamadhye taṃ dvādaśākṣauhiṇīyutam | kamalāsuramāyāntaṃ dhūlidhūsaritāmbaram 12 gajāśca purato yānti rathāśvapādacāriṇaḥ | na jñāyate ravestejaḥ śastradīptyātha kiṃcana 13 kolāhalo mahānāsīdgajāśvarathapattinaḥ | nānāvidhānāṃ śastrāṇāṃ saṃghaṭṭasvanamiśritaḥ 14 dadṛśustaṃ mahādaityaṃ śivacārāḥ puro gatāḥ | śaṃkāsurasya taṃ bandhuṃ nānābhūṣāvirājitam 15 nānāyudhadharaṃ procurāgatya tu śivaṃ gaṇāḥ | pādāghātena tasyāśu kampate kamaṭhādayaḥ 16 munayo'grecarāḥ peturbhayabhītāstamabruvan | mayūreśa mahābhāga kathaṃ rakṣasi no'khilān 17 ka uvāca | iti tadvacanaṃ śrutvā prāvadatsa guṇeśvaraḥ | vidyamāne śive cintā na kāryā munipuṃgavā 18 mayūreśo haraṃ prāha namaskṛtya tataḥ punaḥ | deva uvāca | mahāsenāyuto daityo nāmnā'sau kamalāsuraḥ 19 yadi te'nugraho me syādyuddhāyāśu vrajāmyaham | śiva uvāca | samyaguktaṃ tvayā putra hṛdayānandanaṃ vacaḥ 2.101.20 dvādaśākṣauhiṇīsenāyuto'sau daityapuṃgava | ekākī kathamāyāsi saptakoṭigaṇairyutaḥ 21 vajryāpnuhi jayaṃ śīghraṃ jahi śatruṃ mahābalam | deva uvāca | tava prasādāttrailokyaṃ daheyamiti me matiḥ 22 kiyanto na hatā daityā na jñātāste tvayā nu kim | asya kā gaṇanā svāminnāyāsye jayavānaham 23 ka uvāca | evamākarṇya tadvākyaṃ śambhūrāliṃgya taṃ dadau | triśūlaṃ putrahaste tanmūrninā nyasya karaṃ śubham 24 ājñāṃ dadau svaputrāya gaṇayuktāya śaṃkaraḥ | kṣveḍitairjayaśabdaiśca nādayansa diśo daśa 25 prayayau pramathairyukto vighnahā yuddhalālasaḥ | vṛṣārūḍhaḥ śivāyukto haro'pi draṣṭumanvagāt 26 dṛṣṭvā'pārāṃ daityasenāṃ mayūreśaḥ śarīrataḥ | nirmame bahulāṃ senāṃ tato yuddhamavartata 27 kālānurūpāste vīrā brahmāṇḍāśanatatparāḥ | meroradhikamānāste śabdataḥ śṛṃgapātinaḥ 28 parasparaṃ nijaghnuste tumule saṃyuge tataḥ | andhakāro mahānāsīdrajasācchāditā diśaḥ 29 vismayaṃ cakrire daityā idānīmayamekalaḥ | anekatāṃ kathaṃ yātastasmādeṣa paraḥ pumān 2.101.30 bhūbhāraṃ hartukāmo'yamavatīrṇaḥ śivālaye | so'pi dīrghataraṃ rūpaṃ dadhāra sahasā vibhuḥ 31 dṛṣṭvā dīrghaṃ daityarūpaṃ yogamāyāsamāvṛtaḥ | daśāyudhadharo devo daśahasto mahābalaḥ 32 mayūreśaśca daityaśca yudhyamānau virejatuḥ| nānāśastrapraharaṇairnā nāyuddhaviśāradaiḥ 33 vyastāvyastamayudhyanta gaṇā: senācarāśca te| muṣṭiprahārairdantaiśca śastrāstrairitaretaram34 keṣāṃcinmastakā bhagnā apareṣāṃ mukhāni ca | jānujaṃghāvirahitā nipeturapare raṇe35 garjayanto daśadiśaḥ śastrāstraghātanisvanai | svāmisvanāmato jaghnurandhakāre rajaskṛte36 kabandhāmārayaṃstatra parānsvānapi saṃmukham | daityasenācarā bhagnā daityamevānvayustadā 37 asaṃkhyātānmṛtānprāhurnadyustu raktasaṃbhavāḥ | daitya uvāca | indrādayo lokapālā brahmādyā devatāgaṇāḥ 38 nirjitā yena teneha ko yuddhaṃ kurtumutsahet | bhūgolaṃ nyubjatāṃ netuṃ ko'nyaḥ śakto bhaviṣyati 39 ka uvāca | ityuktvāndolayāmāsa śastrāndolanato jagat | krodhasaṃraktanayano mārayāmāsa daityarāṭ 2.101.40 mayūreśagaṇānsarvānnānāvāhanahetikān| śiraḥpādānkṛtī hastānbhittvā'pātayadāhave 41 utkarṣaṃ tasya taṃ dṛṣṭvā mayūreṣo yayu puraḥ | svargaṃ ca garjayanvyoma daśaśastrairdviṣo'hanat 42 asaṃkhyātā hatā daityā muktiṃ prāpuḥ sudurlabhām 43 (4612)

GnP 2 101.102

नखाग्रेण शिरस्तेऽहं गमयिष्ये रसातलम। क उवाच । एवमाकर्ण्य दुबुद्धेर्वाक्यं प्रोचे गजाननः । पिशाचवन्मद्यपवत्किं वल्गसि ममाग्रतः २७ न जयं प्राप्नुते क्वापि देवद्विजविनिन्दकः । मम चेद्भविता क्रोधो ज्वालयेद्भुवनत्रयम् २८ यशस्ते ख्यापितुं लोके युद्ध्यापि हर्षनिर्भरः । नो चेद्हुंकरमात्रेण नीतः स्याद्यमसादनम् २९ क उवाच । एवमाकर्ण्य तद्वाक्यं दैत्यः क्रोधानलाकुलः । श्वेडितं प्रतिशब्देन नादयन्विदिशो दिशः २.१०२.३० तदा गर्भा निपतितास्तस्य शब्देन तत्क्षणात् । प्रमथाद्या गणाः केचिन्मूर्छिता धरणीं गताः ३१ आकर्णं धनुराकृष्य मुमोच कमलासुरः । शरवृष्टिं पुना रौद्रां मयूरेषे बलेऽपि च ३२ (४६४४)

nakhāgreṇa śiraste'haṃ gamayiṣye rasātalama| ka uvāca | evamākarṇya dubuddhervākyaṃ proce gajānanaḥ | piśācavanmadyapavatkiṃ valgasi mamāgrataḥ 27 na jayaṃ prāpnute kvāpi devadvijavinindakaḥ | mama cedbhavitā krodho jvālayedbhuvanatrayam 28 yaśaste khyāpituṃ loke yuddhyāpi harṣanirbharaḥ | no cedhuṃkaramātreṇa nītaḥ syādyamasādanam 29 ka uvāca | evamākarṇya tadvākyaṃ daityaḥ krodhānalākulaḥ | śveḍitaṃ pratiśabdena nādayanvidiśo diśaḥ 2.102.30 tadā garbhā nipatitāstasya śabdena tatkṣaṇāt | pramathādyā gaṇāḥ kecinmūrchitā dharaṇīṃ gatāḥ 31 ākarṇaṃ dhanurākṛṣya mumoca kamalāsuraḥ | śaravṛṣṭiṃ punā raudrāṃ mayūreṣe bale'pi ca 32 (4644)

(26) "With the tip of my nail I shall send your head to the nether world." Kaḥ said: Hearing the words of that fool, Gajānana said: "Why do you rant before me like a goblin, like a drunkard? (27) A reviler of gods and brahmins nowhere attains victory. If wrath should arise in me, it would set the three worlds ablaze. (28–29) To spread your fame in the world I too fight, full of joy; otherwise by a mere 'hum' you would have been brought to Yama's abode." Kaḥ said: Hearing that speech, the daitya, agitated by the fire of anger, (30) made the quarters and the intermediate quarters resound with his war-cry and its echo. At that moment, at his cry, embryos were cast down; (31) some of the hosts, Pramatha and the rest, fainted and lay upon the ground. (32) Drawing his bow to his ear, Kamalāsura again loosed a fierce rain of arrows upon Mayūreśa and upon his army too.

AI translation rendered from the Sanskrit, not a published edition

GnP 2 101.103

अध्याय १०३ प्रारंभ :- क उवाच । उत्कर्षं तस्य दैत्यस्य दृष्ट्वा देवस्त्वरान्वितः । आययौ पुरतो दैत्यं जघान शरवृष्टिभिः १ न्यवारयत दैत्योऽपि स्वशरैरतिवेगितैः । ततस्तुतोष भगवान्मयूरेशो गुणाग्रणी २ दर्शयामास तस्मै स विश्वरूपमनन्तकम् । दशदिक्षु मयूरेशं ददर्श कमलासुरः ३ विस्मितश्छाद्य नयने हृदि तं परिदृष्टवान् । ततः पलायनपरो यावद्गच्छति दैत्यराट् ४ . शिखामाक्रम्य देवोऽपि धृत्वा प्रोवाच तं पुनः । तिष्ठ युध्यस्व दैत्येन्द्र स्मर वाक्यानि तानि च ५ पुनर्ददर्श दैत्यस्तमेकमेव पुरः स्थितम् । अधावत्सहसा योद्धुं जगर्ज च महाबली ६ दशायुधधरो देवो बोधयामास तं तदा । बिभेदास्य शरीरं स विघ्नराट् शस्त्रघाततः ७ यत्रास्य न्यपतद्रक्तबिन्दुस्तत्रासुरोऽभवत् । तद्रूपस्तद्बलश्चैवमसंख्यातास्तदाऽसुराः ८ नानाशस्त्रैरथास्त्रैस्ते तं जघ्नुः शरवृष्टिभिः । ततः परावृतो देवो मयूरेशो रुषा ज्वलन् ९ सार्द्धकोटित्रयमितैः सिद्धिबुद्धी तदा बलैः । ईयतुः परमक्रुद्धे ततो युद्धमवर्ततत २.१०३.१० ऊचतुर्गणराजं ते देहि भक्ष्यं क्षुधापहम् । त ऊचे भक्षतं देवो दैत्यासृग्जनितान्बहून् ११ इत्युक्ते ते तदा तेन मयूरेशेन सत्वरम् । बभक्षतुर्भूतगणैस्तान्दैत्यानखिलानपि १२ देवो जघान खड्गेन तं दैत्यं कमलासुरम् । पुनश्च शतशो जाता दैत्यास्तद्रक्तसंभवाः १३ बभक्षुस्तानपि ततो पिबन्रक्तं समन्ततः । ततः खिन्नो मयूरेशः शूलमुद्यम्य वेगवान् १४ तत्याज सहसा दैत्ये ययौ स प्रदहन्दिशः। चूर्णयन्पर्वतान्व्योम नादयन्भानि पातयन् १५ वेगेन पतितो दैत्यदेहं भित्त्वा द्विधाऽकरोत् । मस्तकस्तस्य पतितो भीमाय दक्षिणे तटे १६ कृष्णाया उत्तरे तीरे तस्थौ तत्र गुणेश्वरः । सर्वे सन्तुष्टमनसो जयशब्दैस्तमब्रुवन् १७ जय देव मयूरेश कुरु दुष्टविनाशनम् । ततस्तत्राययौ गौरीपतिर्गणपरीवृतः १८ गौतमाद्यैश्च मुनिभिः पार्वत्या च समायुतः । वाद्यत्सु सर्ववाद्येषु पुष्पवृष्टिः पपात खात् १९ आलिंग्य पार्वती प्रादात्स्तनपानं मुदा तदा । मुनयस्तुष्टुवुश्चैनं मयूरेशं सुरेश्वरम् २.१०३.२० कमलाकान्तहृदयहृद्दयानन्दवर्धन । कमलाकान्तनमित कमलासुरनाशन २१ कमलासेवितपद जय त्वं कमलाप्रद। कमलासनवन्द्येश कमलाकरशीतल २२ कमलांकसुपादाब्ज कमलांकितसत्कर । कमलाबन्धुतिलक भक्तानां कमलाप्रद २३ कमलासूनुरिपुज कमलासूनुसुन्दर । कमलापितृरत्नानां मालया जय शोभित २४ कमलासुरबाणानां कमलेन निवारक । कमलाक्रान्तकमलकोशजित्करपंकज २५ कमलापतिहस्तस्थपद्मकोशनिभेक्षण। सर्वहृत्कमलानन्द जय सर्वाघनाशन २६ कमलाङकुशहस्ताब्ज जयविघ्नहराव्यय । त्वया विनिहतः पापः शक्रादिभयदो रिपुः २७ वज्रचक्राद्यभेद्यो यो मुनीनामपि भीतिदः । एवं स्तुत्वा पुपूजस्ते गौतमाद्या महर्षयः २८ दशभिर्दोर्भिरालिंग्य पुपूज गिरिशोऽपि तम् । ततस्ते मुनयः प्रोचुर्मयूरेशं च शंकरम् २९ अत्रत्वं सर्वदा तिष्ठ सर्वदेवगणैर्युतः। पूरयन्भक्तकार्याणि वारयन्विघ्नसंचयान २.१०३.३० क उवाच । एवं तैः प्रार्थितौ देवौ सर्वदेवगणैयुतौ । पूरयन्तौ भक्तकामान्हरन्तौ विघ्नसंचयान ३१ स्थितौ तत्र मयूरेशशंकरौ लोकशंकरौ। विश्वकर्मा व्यधात्तत्र मन्दिरं सुन्दरं ततः ३२ असंख्यशिखरद्वारमसंख्याश्चर्यसंयुतम् । तत्राभून्नगरं चारु सर्वलोकसमन्वितम् ३३ मयूरेशपुरं तस्य नाम चक्रुर्महर्षयः । तपस्तेपुर्मुनिगणा नानाभरणसंश्रिताः ३४ हरोऽपि च तपस्तेपे गिरिजागणसंयुतः । तस्य ध्यानं पूजनं च स्मरणं ते व्यधुर्द्विजाः ३५ मयूरेशः पुनर्बालैः क्रीडति स्म यथा पुरा ३६ (४६८०)

adhyāya 103 prāraṃbha :- ka uvāca | utkarṣaṃ tasya daityasya dṛṣṭvā devastvarānvitaḥ | āyayau purato daityaṃ jaghāna śaravṛṣṭibhiḥ 1 nyavārayata daityo'pi svaśarairativegitaiḥ | tatastutoṣa bhagavānmayūreśo guṇāgraṇī 2 darśayāmāsa tasmai sa viśvarūpamanantakam | daśadikṣu mayūreśaṃ dadarśa kamalāsuraḥ 3 vismitaśchādya nayane hṛdi taṃ paridṛṣṭavān | tataḥ palāyanaparo yāvadgacchati daityarāṭ 4 . śikhāmākramya devo'pi dhṛtvā provāca taṃ punaḥ | tiṣṭha yudhyasva daityendra smara vākyāni tāni ca 5 punardadarśa daityastamekameva puraḥ sthitam | adhāvatsahasā yoddhuṃ jagarja ca mahābalī 6 daśāyudhadharo devo bodhayāmāsa taṃ tadā | bibhedāsya śarīraṃ sa vighnarāṭ śastraghātataḥ 7 yatrāsya nyapatadraktabindustatrāsuro'bhavat | tadrūpastadbalaścaivamasaṃkhyātāstadā'surāḥ 8 nānāśastrairathāstraiste taṃ jaghnuḥ śaravṛṣṭibhiḥ | tataḥ parāvṛto devo mayūreśo ruṣā jvalan 9 sārddhakoṭitrayamitaiḥ siddhibuddhī tadā balaiḥ | īyatuḥ paramakruddhe tato yuddhamavartatata 2.103.10 ūcaturgaṇarājaṃ te dehi bhakṣyaṃ kṣudhāpaham | ta ūce bhakṣataṃ devo daityāsṛgjanitānbahūn 11 ityukte te tadā tena mayūreśena satvaram | babhakṣaturbhūtagaṇaistāndaityānakhilānapi 12 devo jaghāna khaḍgena taṃ daityaṃ kamalāsuram | punaśca śataśo jātā daityāstadraktasaṃbhavāḥ 13 babhakṣustānapi tato pibanraktaṃ samantataḥ | tataḥ khinno mayūreśaḥ śūlamudyamya vegavān 14 tatyāja sahasā daitye yayau sa pradahandiśaḥ| cūrṇayanparvatānvyoma nādayanbhāni pātayan 15 vegena patito daityadehaṃ bhittvā dvidhā'karot | mastakastasya patito bhīmāya dakṣiṇe taṭe 16 kṛṣṇāyā uttare tīre tasthau tatra guṇeśvaraḥ | sarve santuṣṭamanaso jayaśabdaistamabruvan 17 jaya deva mayūreśa kuru duṣṭavināśanam | tatastatrāyayau gaurīpatirgaṇaparīvṛtaḥ 18 gautamādyaiśca munibhiḥ pārvatyā ca samāyutaḥ | vādyatsu sarvavādyeṣu puṣpavṛṣṭiḥ papāta khāt 19 āliṃgya pārvatī prādātstanapānaṃ mudā tadā | munayastuṣṭuvuścainaṃ mayūreśaṃ sureśvaram 2.103.20 kamalākāntahṛdayahṛddayānandavardhana | kamalākāntanamita kamalāsuranāśana 21 kamalāsevitapada jaya tvaṃ kamalāprada| kamalāsanavandyeśa kamalākaraśītala 22 kamalāṃkasupādābja kamalāṃkitasatkara | kamalābandhutilaka bhaktānāṃ kamalāprada 23 kamalāsūnuripuja kamalāsūnusundara | kamalāpitṛratnānāṃ mālayā jaya śobhita 24 kamalāsurabāṇānāṃ kamalena nivāraka | kamalākrāntakamalakośajitkarapaṃkaja 25 kamalāpatihastasthapadmakośanibhekṣaṇa| sarvahṛtkamalānanda jaya sarvāghanāśana 26 kamalāṅakuśahastābja jayavighnaharāvyaya | tvayā vinihataḥ pāpaḥ śakrādibhayado ripuḥ 27 vajracakrādyabhedyo yo munīnāmapi bhītidaḥ | evaṃ stutvā pupūjaste gautamādyā maharṣayaḥ 28 daśabhirdorbhirāliṃgya pupūja giriśo'pi tam | tataste munayaḥ procurmayūreśaṃ ca śaṃkaram 29 atratvaṃ sarvadā tiṣṭha sarvadevagaṇairyutaḥ| pūrayanbhaktakāryāṇi vārayanvighnasaṃcayāna 2.103.30 ka uvāca | evaṃ taiḥ prārthitau devau sarvadevagaṇaiyutau | pūrayantau bhaktakāmānharantau vighnasaṃcayāna 31 sthitau tatra mayūreśaśaṃkarau lokaśaṃkarau| viśvakarmā vyadhāttatra mandiraṃ sundaraṃ tataḥ 32 asaṃkhyaśikharadvāramasaṃkhyāścaryasaṃyutam | tatrābhūnnagaraṃ cāru sarvalokasamanvitam 33 mayūreśapuraṃ tasya nāma cakrurmaharṣayaḥ | tapastepurmunigaṇā nānābharaṇasaṃśritāḥ 34 haro'pi ca tapastepe girijāgaṇasaṃyutaḥ | tasya dhyānaṃ pūjanaṃ ca smaraṇaṃ te vyadhurdvijāḥ 35 mayūreśaḥ punarbālaiḥ krīḍati sma yathā purā 36 (4680)