Agni Purana — Chapter 1
AgP 1.1
अग्निपुराणं । अथाग्निपुराणानुक्रमणिका । अध्याये विषयः पृष्ठे १ पुराणप्रश्नः १ २ मत्स्यावतारवर्णनम् ३ ३ कूर्मावतारवर्णनम् ५ ४ वराह-नृसिंह-वामन-परशुरामावतारवर्णनम् ८ ५ रामावतारवर्णनम् १० १२ हरिवंशकथनम् २८ १३ भारताख्यानम् ३३ १६ बुद्धकल्क्यवतारवर्णनम् ३९ १७ नवसर्गप्रदर्शनं ४० २१ आगमोक्तविष्ण्वादिदेवतासामान्यपूजा ५२ २२ स्नानविधिः ५५ २३ वासुदेवादिपूजाविधिः ५६ २४ कुण्डनिर्माणाद्यग्निकार्यकथनम् ५९ २५ वासुदेवादिमन्त्रनिरूपणम् ६५ २६ मुद्रालक्षणकथनम् ७० २७ सर्वदीक्षाकथनम् ७१ २८ आचार्याभिषेकः ७९ २९ सर्वतोभद्रमण्डलादिलक्षणम् ७९ ३० मण्डलविधिः ८४ ३१ कुशापामर्जनकथनम् ८७ ३२ दीक्षितसंस्कारः ९२ ३३ विष्णुपवित्रारोहणादिविधानम् ९३ ३७ सर्वदेवपवित्रारोहणविधिः १०७ ३८ देवालयनिर्माणफलम् १०९ ३९ भूमिपरिग्रहः ११४ ४० अर्घ्यदानविधिः ११६ ४१ शिलाविन्यासः ११९ ४२ प्रासादलक्षणकथनम् १२२ ४३ प्रासाददेवतास्थापनादिकथनम् १२५ ४४ वासुदेवादिप्रतिमालक्षणकथनम् १२८ ४५ पिण्डिकालक्षणम् १३२ ४६ शालग्रामादिमूर्तिलक्षणम् १३४ ४७ शालग्रामादिपूजा १३५ ४८ विष्णुचतुर्विंशतिमूर्तिस्तोत्रं १३७ ४९ मत्स्यादिप्रतिमालक्षणम् १३८ ५० देवीप्रतिमालक्षणम् १४५ ५१ सूर्यादिप्रतिमालक्षणम् १४५ ५२ योगिनीप्रतिमालक्षणम् १४७ ५३ लिङ्गलक्षणम् १५० ५४ व्यक्ताव्यक्तलिङ्गलक्षणम् १५२ ५५ लिङ्गपिण्डिकालक्षणम् १५७ ५६ दिक्पालयागकथनम् १५८ ५७ कलशाधिवासः १६१ ५८ देवस्नपनविधिः १६४ ५९ देवाधिवासनविधिः १६७ ६० वासुदेवप्रतिष्ठा १७३ ६१ द्वारप्रतिष्ठाध्वजारोहणादिकथनं १७७ ६२ लक्ष्मीप्रतिष्ठा १८२ ६३ सुदर्शनचक्रादिप्रतिष्ठा १८७ ६४ कूपादिप्रतिष्ठा १८३ ६५ सभागृहस्थापनम् १९१ ६६ साधारणप्रतिष्ठा १९४ ६७ जीर्णमूर्त्युद्धारः १९७ ६८ देवयात्रोत्सवः १९८ ६९ यज्ञावभृथस्नानं २०० ७० वृक्षारामादिप्रतिष्ठा २०२ ७१ विनायकपूजा २०३ ७२ विशेषस्नानादिकथनम् २०४ ७३ सूर्यार्चनं २०९ ७४ शिवपूजा २११ ७५ अग्निस्थापनादिकथनम् २२० ७६ चण्डपूजा २२७ ७७ कपिलादिपूजनम् २२८ ७८ पवित्राधिवासनविधिः २३१ ७९ पवित्रारोहणम् २३८ ८० दमनकारोहणविधिः २४२ ८१ समयदीक्षा २४४ ८२ संस्कारदीक्षा २५३ ८३ निर्वाणदीक्षाधिवासनं २५९ ८४ निर्वाणदीक्षा २६२ ८९ एकतत्त्वदीक्षा २८४ ९० निर्वाणदीक्षाङ्गीभूताभिषेककथनं २८५ ९१ नानामन्त्रकथनम् २८६ ९२ पातालशिलान्यासः २८८ ९३ वास्तुपूजा २९५ ९४ प्रासादशिलान्यासः ३०० ९५ शिवलिङ्गप्रतिष्ठासामग्री ३०२ ९६ शिवलिङ्गाधिवासनविधिः ३१० ९७ शिवलिङ्गप्रतिष्ठाविधिः ३२७ ९८ गौरीप्रतिष्ठाविधिः ३३९ ९९ सूर्यप्रतिष्ठाविधिः ३४१ १०० द्वारप्रतिष्ठा ३४२ १०१ प्रासादकृत्यप्रतिष्ठा ३४३ १०२ ध्वजारोहणम् ३४५ १०३ जीर्णशिवलिङ्गोद्धारः ३४९ १०४ प्रासादसामान्यलक्षणम् ३५२ १०५ गृहादिवास्तुकथनम् ३५६ १०६ नगरादिवास्तुकथनम् ३९२ १०७ स्वायम्भुवसर्गकथनम् ३६५ १०८ भुवनकोषवर्णनम् ३६७ १०९ तीर्थमाहात्म्यम् ३७१ ११० गङ्गामाहत्म्यम् ३७४ १११ प्रयागमाहत्म्यम् ३७५ ११२ वाराणसीमाहात्म्यकथनम् ३७७ ११३ नर्मदादिमाहात्म्यकथनम् ३७९ ११४ गयामाहात्म्यकथनम् ३८० ११५-११६ गयायात्रा १ ११० श्राद्धकल्पः १४ ११८ भारतवर्षवर्णनं २१ ११९ महाद्वीपादिवर्णनं २२ १२० भुवनकोषवर्णनं २६ १२१ ज्योतिःशास्त्रं ३० १२२ कालगणनं ३९ १२३ युद्धजयार्णवीयनानायोगाः ४२ १२४ युद्धजयार्णवीयज्योतिःशास्त्रसारः ४६ १२५ युद्धजयार्णवीयनानाचक्राणि ४८ १२६ युद्धजयार्णवीयनक्षत्रनिर्णयः ५५ १२७ युद्धजयार्णवीयनानाबलानि ५९ १२८ युद्धजयार्णवीयकोटचक्रं ६१ १२९ युद्धजयार्णवीयार्घ्यकाण्डं ६३ १३० युद्धजयार्णवीयमण्डलं ६४ १३१ युद्धजयार्णवीयचक्रादिः ६६ १३२ युद्धजयार्णवीयसेवाचक्रं ६८ १३३ युद्धजयार्णवीयनानाबलानि ७१ १३४ युद्धजयार्णवीयत्रैलोक्यविजयविद्या ७७ १३५ युद्धजयार्णवीयसङ्ग्रामविजयविद्या ७८ १३६ युद्धजयार्णवीयनक्षत्रचक्रं ८१ १३७ युद्धजयार्णवीयमहामारीविद्या ८२ १३८ युद्धजयार्णवीयषट्कर्माणि ८५ १३९ युद्धजयार्णवीयषष्टिसंवत्सराणि ८७ १४० युद्धजयार्णवीयषोडशपदका ८९ १४१ युद्धजयार्णवीयषट्विंशत्पदकज्ञानं ९१ १४२ युद्धजयार्णवीयमन्त्रौषधादयः ९३ १४३ युद्धजयार्णवीयकुब्जिकाक्रमपूजा ९५ १४४ युद्धजयार्णवीयकुब्जिकापूजा ९७ १४५ मालिनीमन्त्रादिन्यासः १०२ १४६ अष्टाष्टकदेवी १०५ १४७ त्वरितापूजादिः १०९ १४८ सङ्ग्रामविजयपूजा १११ १४९ अयुतलक्षकोटिहोमाः ११२ १५० मन्वन्तराणि ११४ १५१ वर्णेतरधर्माः ११७ १५२ गृहस्थवृत्तयः ११९ १५३ ब्रह्मचर्याश्रमः १२० १५४ विवाहः १२२ १५५ आचाराध्यायः १२४ १५६ द्रव्यशुद्धिः १२८ १५७ शावाशौचादिः १३० १५८ स्रावाद्यशौचं १३४ १५९ असंस्कृतादिशौचं १४१ १६० वानप्रस्थाश्रमः १४३ १६१ यतिधर्मः १४४ १६२ धर्मशास्त्रं १४८ १६३ श्राद्धकल्पः १५० १६४ नवग्रहहोमः १५४ १६५ नानाधर्माः १५६ १६६ वर्णधर्माः १५९ १६७ अयुतलक्षकोटिहोमाः १६३ १६५ महापातकादयः १६६ १६६-१७४ प्रायश्चित्तानि १७१ १७५ व्रतपरिभाषा १९२ १७६ प्रतिपद्व्रतानि १९९ १७७ द्वितीयाव्रतानि २०० १७८ तृतीयाव्रतानि २०२ १७९ चतुर्थीव्रतानि २०६ १८० पञ्चमीव्रतानि २०७ १८१ षष्ठीव्रतानि २०७ १८२ सप्तमीव्रतानि २०८ १८३-१८४ अष्टमीव्रतानि २०९ १८५ नवमीव्रतानि २१३ १८६ दशमीव्रतानि २१४ १८७ एकादशीव्रतानि २१६ १८८ द्वादशीव्रतानि २१७ १८९ श्रवणद्वादशीव्रतं २१९ १९० अखण्डद्वादशीव्रतं २२१ १९१ त्रयोदशीव्रतानि २२२ १९२ चतुर्दशीव्रतानि २२३ १९३ शिवरात्रिव्रतं २२५ १९४ अशोकपूर्णिमादिव्रतं २२६ १९५ वारव्रतानि २३० १९६ नक्षत्रव्रतानि २२८ १९७ दिवसव्रतानि २३१ १९८ मासव्रतानि २३३ १९९ नानाव्रतानि २३५ २०० दीपदानव्रतं २३६ २०१ नवव्यूहार्चनं २३८ २०२ पुष्पाध्यायः २४० २०३ नरकस्वरूपवर्णनं २४३ २०४ मासोपवासव्रतं २४६ २०५ भीष्मपञ्चकव्रतं २४८ २०६ अगस्त्यार्घ्यदानव्रतं २४९ २०७ कौमुदव्रतं २५२ २०८ व्रतदानादिसमुच्चयः २५३ २०९ दानपरिभाषा २५५ २१० महादानानि २६१ २११ नानादानानि २६५ २१२ भेरुदानानि २७० २१३ पृथ्वीदानानि २७६ २१४ मन्त्रमाहात्म्यं २७७ २१५ सन्ध्याविधिः २८२ २१६-२१७ गायत्रीनिर्वाणं २८७ २१८ राजाभिषेकः २९१ २१९ अभिषेकमन्त्राः २९४ २२० शत्रुविजयसहायसम्पत्तिः अनुजीविवृत्तञ्च ३०२ २२१ दुर्गसम्पत्तिः ३०६ २२२-२२६ राजधर्माः ३०९ २२७ युद्धयात्रा ३२९ २२८ स्वप्नाध्यायः ३३० २२९-२३०-२३१ शकुनफलं ३३३ २३२ यात्रामण्डलचिन्तादिः ३४३ २३३ षाड्गुण्यं ३४५ २३४ प्रात्यहिकराजकर्म ३४८ २३५ रणदीक्षा ३५० २३६ श्रीस्तोत्रं ३५७ २३७ रामोक्तनीतिः ३५९ २३८ राज्याङ्गानि ३६१ २३९ द्वादशराजमण्डलानि सन्धिविग्रहादयश् च ३६६ २४० सामाद्युपायाः ३७० २४१ राजनीतिः ३७६ २४२ पुरुषलक्षणं ३८४ २४३ स्त्रीलक्षणं ३८६ २४४ आयुधलक्षणं ३८७ २४५ रत्नपरीक्षा ३९० २४६ वास्तुलक्षणं ३९२ २४७ पुष्पादिपूजाफलं ३९५ २४८-२४९-२५०-२५१ धनुर्वेदाः ३९६ २५२-२५३ व्यवहाराः ४०७ २५४ दिव्यप्रमाणानि ४१६ २५५ दायविभागः ४२३ २५६ सीमाविवादादिनिर्णयः ४२५ २५७ वाक्पारुष्यादिप्रकरणं ४३० २५८ ऋग्विधानं ४३८ २५९ यजुर्विधानं ४४७ २६० सामविधानं ४५५ २६१ अथर्वविधानं ४५८ २६२ उत्पातशान्तिः ४६१ २६३ देवपूजावैश्वदेवादिबलिः ४६४ २६४ दिक्पालादिस्नानं ४६७ २६५ विनायकस्नानं ४६९ २६६ माहेश्वरस्नानलक्षकोटिहोमादयः ४७२ २६७ नारीजनाविधिः ४७४ २६८ छत्रादिमन्त्रादयः ४७८ २६९ विष्णुपञ्जरं १ २७० वेदशाखादयः ३ २७१ दानादिमाहात्म्यं ५ २७२ सूर्यवंशः ८ २७३ सोमवंशः १२ २७४ युदुवंशः १४ २७५ द्वादशसंग्रामाः १९ २७६ राजवंशः २२ २७७ पुरुवंशः २४ २७८ सिद्धौषधानि २८ २७९ सर्वरोगहराण्यौषधानि ३४ २८० रसादिलक्षणं ३९ २८१ वृक्षायुर्वेदः ४२ २८२ नानारोगहराण्यौषधानि ४४ २८३ मन्त्ररूपौषधानि ४९ २८४ मृतसञ्जीवनीकरसिद्धयोगः ५० २८५ कल्पसागरः ५८ २८६ गजचिकित्सा ६१ २८७ अश्ववाहनसारः ६४ २८८ अश्वचिकित्सा ७१ २८९ अश्वशान्तिः ७६ २९० गजशान्तिः ७७ २९१ शान्त्यायुर्वेदः ८० २९२ मन्त्रपरिभाषा ८४ २९३ नागलक्षणानि ८९ २९४ दष्टचिकित्सा ९३ २९५ पञ्चाङ्गरुद्रविधानं ९७ २९६ विषहृन्मन्त्रौषधं ९९ २९७ गोनसादिचिकित्सा १०१ २९८ बालग्रहहरबालतन्त्रं १०४ २९९ ग्रहहृन्मन्त्रादिकं १०९ ३०० मूर्यार्चनं ११२ ३०१ नानामन्त्राः ११४ ३०२ अङ्गाक्षरार्चनं ११७ ३०३ पञ्चाक्षरादिपूजामन्त्राः ११९ ३०४ पञ्चपञ्चाशद्विष्णुनामानि १२३ ३०५ नारसिंहादिमन्त्राः १२५ ३०६ त्रैलोक्यमोहनमन्त्राः १२७ ३०७ त्रैलोक्यमोहनीलक्ष्म्यादिपूजा १३१ ३०८ त्वरितापूजा १३४ ३०९ त्वरितामन्त्रादिः १३६ ३१० त्वरितामूलमन्त्रादिः १४० ३११ त्वरिताविद्या १४४ ३१२ नानामन्त्राः १४६ ३१३ त्वरिताज्ञानं १५० ३१४ स्तम्भनादिमन्त्राः १५२ ३१५ नानामन्त्राः १५४ ३१६ सकलादिमन्त्रोद्धारः १५५ ३१७ गणपूजा १५९ ३१८ वागीश्वरीपूजा १६१ ३१९ मण्डलानि १६२ ३२० अघोरास्त्रादिशान्तिकल्पः १६७ ३२१ पाशुपतशान्तिः १६९ ३२२ षडङ्गान्यधोरास्त्राणि १७१ ३२३ रुद्रशान्तिः १७४ ३२४ अंशकादिः १७७ ३२५ गौर्यादिपूजा १८० ३२६ देवालयमाहात्म्यं १८२ ३२७-३२८-३२९ छन्दःसारः १८४ ३३० छन्दोजातिनिरूपनं १८८ ३३१ विषमकथनं १९० ३३२ अर्धसमनिरूपणं १९१ ३३३ समवृत्तनिरूपणं १९२ ३३४ प्रस्तारनिरूपणं १९५ ३३५ शिक्षानिरूपणं १९६ ३३६ काव्यादिलक्षणं १९९ ३३७ नाटकनिरूपणं २०३ ३३८ शृङ्गारादिरसनिरूपणं २०५ ३३९ रीतिनिरूपणं २११ ३४० नृत्यादावङ्गकर्मनिरूपणं २१२ ३४१ अभिनयादिनिरूपणं २१४ ३४२ शब्दालङ्काराः २१८ ३४३ अर्थालङ्काराः २२४ ३४४ शब्दार्थालङ्काराः २२७ ३४५ काव्यगुणविवेकः २२९ ३४६ काव्यदोषविवेकः २३३ ३४७ एकाक्षराभिधानं २३६ ३४८ व्याकरणं २३९ ३४९ सन्धिसिद्धरूपं २४० ३५० पुंलिङ्गशब्दसिद्धरूपं २४१ ३५१ स्त्रीलिङ्गशब्दसिद्धरूपं २४८ ३५२ नपुंसकशब्दसिद्धरूपं २५० ३५३ कारकं २५१ ३५४ समासः २५३ ३५५ तद्धितं २५५ ३५६ उनादिसिद्धरूपं २५८ ३५७ तिङ्विभक्तिसिद्धरूपं २६० ३५८ कृत्सिद्धरूपं २६३ ३५९ स्वर्गपातालादिवर्गाः २६४ ३६० अव्ययवर्गाः २७२ ३६१ नानार्थवर्गाः २७६ ३६२ भूमिवनौषध्यादिवर्गाः २८० ३६३ नृवर्गाः २८७ ३६४ ब्रह्मवर्गाः २९० ३६५ क्षत्रबिठ्शूद्रवर्गाः २९१ ३६६ सामान्यनामलिङ्गानि २९६ ३६७ नित्यनैमित्तिकप्राकृतप्रलयाः २९९ ३६८ आत्यन्तिकलयगर्भोत्पत्त्यादयः ३०१ ३६९ शरीरावयवाः ३०६ ३७० नरकनिरूपनं ३१० ३७१ यमनियमाः ३१४ ३७२ आसनप्राणायामप्रत्याहाराः ३१८ ३७३ ध्यानं ३२० ३७४ धारणा ३२४ ३७५ समाधिः ३२६ ३७६ ब्रह्मज्ञानं ३२९ ३७७ समाधिः ३३३ ३७८ ब्रह्मज्ञानं ३३८ ३७९ अद्वैतब्रह्मज्ञानं ३३९ ३८० गीतासारः ३४५ ३८१ यमगीता ३५१ ३८२ आग्नेयपुराणमाहात्म्यं ३५५ ॐ नमो भगवते वासुदेवाय । अग्निपुराणम् । छप्तेर् {१} :श् अथ प्रथमो ऽध्यायः ग्रन्थप्रस्तावना श्रियं(१) सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् ब्रह्माणं वह्निमिन्द्रादीन् वासुदेवं नमाम्यहम्
agnipurāṇaṃ | athāgnipurāṇānukramaṇikā | adhyāye viṣayaḥ pṛṣṭhe 1 purāṇapraśnaḥ 1 2 matsyāvatāravarṇanam 3 3 kūrmāvatāravarṇanam 5 4 varāha-nṛsiṃha-vāmana-paraśurāmāvatāravarṇanam 8 5 rāmāvatāravarṇanam 10 12 harivaṃśakathanam 28 13 bhāratākhyānam 33 16 buddhakalkyavatāravarṇanam 39 17 navasargapradarśanaṃ 40 21 āgamoktaviṣṇvādidevatāsāmānyapūjā 52 22 snānavidhiḥ 55 23 vāsudevādipūjāvidhiḥ 56 24 kuṇḍanirmāṇādyagnikāryakathanam 59 25 vāsudevādimantranirūpaṇam 65 26 mudrālakṣaṇakathanam 70 27 sarvadīkṣākathanam 71 28 ācāryābhiṣekaḥ 79 29 sarvatobhadramaṇḍalādilakṣaṇam 79 30 maṇḍalavidhiḥ 84 31 kuśāpāmarjanakathanam 87 32 dīkṣitasaṃskāraḥ 92 33 viṣṇupavitrārohaṇādividhānam 93 37 sarvadevapavitrārohaṇavidhiḥ 107 38 devālayanirmāṇaphalam 109 39 bhūmiparigrahaḥ 114 40 arghyadānavidhiḥ 116 41 śilāvinyāsaḥ 119 42 prāsādalakṣaṇakathanam 122 43 prāsādadevatāsthāpanādikathanam 125 44 vāsudevādipratimālakṣaṇakathanam 128 45 piṇḍikālakṣaṇam 132 46 śālagrāmādimūrtilakṣaṇam 134 47 śālagrāmādipūjā 135 48 viṣṇucaturviṃśatimūrtistotraṃ 137 49 matsyādipratimālakṣaṇam 138 50 devīpratimālakṣaṇam 145 51 sūryādipratimālakṣaṇam 145 52 yoginīpratimālakṣaṇam 147 53 liṅgalakṣaṇam 150 54 vyaktāvyaktaliṅgalakṣaṇam 152 55 liṅgapiṇḍikālakṣaṇam 157 56 dikpālayāgakathanam 158 57 kalaśādhivāsaḥ 161 58 devasnapanavidhiḥ 164 59 devādhivāsanavidhiḥ 167 60 vāsudevapratiṣṭhā 173 61 dvārapratiṣṭhādhvajārohaṇādikathanaṃ 177 62 lakṣmīpratiṣṭhā 182 63 sudarśanacakrādipratiṣṭhā 187 64 kūpādipratiṣṭhā 183 65 sabhāgṛhasthāpanam 191 66 sādhāraṇapratiṣṭhā 194 67 jīrṇamūrtyuddhāraḥ 197 68 devayātrotsavaḥ 198 69 yajñāvabhṛthasnānaṃ 200 70 vṛkṣārāmādipratiṣṭhā 202 71 vināyakapūjā 203 72 viśeṣasnānādikathanam 204 73 sūryārcanaṃ 209 74 śivapūjā 211 75 agnisthāpanādikathanam 220 76 caṇḍapūjā 227 77 kapilādipūjanam 228 78 pavitrādhivāsanavidhiḥ 231 79 pavitrārohaṇam 238 80 damanakārohaṇavidhiḥ 242 81 samayadīkṣā 244 82 saṃskāradīkṣā 253 83 nirvāṇadīkṣādhivāsanaṃ 259 84 nirvāṇadīkṣā 262 89 ekatattvadīkṣā 284 90 nirvāṇadīkṣāṅgībhūtābhiṣekakathanaṃ 285 91 nānāmantrakathanam 286 92 pātālaśilānyāsaḥ 288 93 vāstupūjā 295 94 prāsādaśilānyāsaḥ 300 95 śivaliṅgapratiṣṭhāsāmagrī 302 96 śivaliṅgādhivāsanavidhiḥ 310 97 śivaliṅgapratiṣṭhāvidhiḥ 327 98 gaurīpratiṣṭhāvidhiḥ 339 99 sūryapratiṣṭhāvidhiḥ 341 100 dvārapratiṣṭhā 342 101 prāsādakṛtyapratiṣṭhā 343 102 dhvajārohaṇam 345 103 jīrṇaśivaliṅgoddhāraḥ 349 104 prāsādasāmānyalakṣaṇam 352 105 gṛhādivāstukathanam 356 106 nagarādivāstukathanam 392 107 svāyambhuvasargakathanam 365 108 bhuvanakoṣavarṇanam 367 109 tīrthamāhātmyam 371 110 gaṅgāmāhatmyam 374 111 prayāgamāhatmyam 375 112 vārāṇasīmāhātmyakathanam 377 113 narmadādimāhātmyakathanam 379 114 gayāmāhātmyakathanam 380 115-116 gayāyātrā 1 110 śrāddhakalpaḥ 14 118 bhāratavarṣavarṇanaṃ 21 119 mahādvīpādivarṇanaṃ 22 120 bhuvanakoṣavarṇanaṃ 26 121 jyotiḥśāstraṃ 30 122 kālagaṇanaṃ 39 123 yuddhajayārṇavīyanānāyogāḥ 42 124 yuddhajayārṇavīyajyotiḥśāstrasāraḥ 46 125 yuddhajayārṇavīyanānācakrāṇi 48 126 yuddhajayārṇavīyanakṣatranirṇayaḥ 55 127 yuddhajayārṇavīyanānābalāni 59 128 yuddhajayārṇavīyakoṭacakraṃ 61 129 yuddhajayārṇavīyārghyakāṇḍaṃ 63 130 yuddhajayārṇavīyamaṇḍalaṃ 64 131 yuddhajayārṇavīyacakrādiḥ 66 132 yuddhajayārṇavīyasevācakraṃ 68 133 yuddhajayārṇavīyanānābalāni 71 134 yuddhajayārṇavīyatrailokyavijayavidyā 77 135 yuddhajayārṇavīyasaṅgrāmavijayavidyā 78 136 yuddhajayārṇavīyanakṣatracakraṃ 81 137 yuddhajayārṇavīyamahāmārīvidyā 82 138 yuddhajayārṇavīyaṣaṭkarmāṇi 85 139 yuddhajayārṇavīyaṣaṣṭisaṃvatsarāṇi 87 140 yuddhajayārṇavīyaṣoḍaśapadakā 89 141 yuddhajayārṇavīyaṣaṭviṃśatpadakajñānaṃ 91 142 yuddhajayārṇavīyamantrauṣadhādayaḥ 93 143 yuddhajayārṇavīyakubjikākramapūjā 95 144 yuddhajayārṇavīyakubjikāpūjā 97 145 mālinīmantrādinyāsaḥ 102 146 aṣṭāṣṭakadevī 105 147 tvaritāpūjādiḥ 109 148 saṅgrāmavijayapūjā 111 149 ayutalakṣakoṭihomāḥ 112 150 manvantarāṇi 114 151 varṇetaradharmāḥ 117 152 gṛhasthavṛttayaḥ 119 153 brahmacaryāśramaḥ 120 154 vivāhaḥ 122 155 ācārādhyāyaḥ 124 156 dravyaśuddhiḥ 128 157 śāvāśaucādiḥ 130 158 srāvādyaśaucaṃ 134 159 asaṃskṛtādiśaucaṃ 141 160 vānaprasthāśramaḥ 143 161 yatidharmaḥ 144 162 dharmaśāstraṃ 148 163 śrāddhakalpaḥ 150 164 navagrahahomaḥ 154 165 nānādharmāḥ 156 166 varṇadharmāḥ 159 167 ayutalakṣakoṭihomāḥ 163 165 mahāpātakādayaḥ 166 166-174 prāyaścittāni 171 175 vrataparibhāṣā 192 176 pratipadvratāni 199 177 dvitīyāvratāni 200 178 tṛtīyāvratāni 202 179 caturthīvratāni 206 180 pañcamīvratāni 207 181 ṣaṣṭhīvratāni 207 182 saptamīvratāni 208 183-184 aṣṭamīvratāni 209 185 navamīvratāni 213 186 daśamīvratāni 214 187 ekādaśīvratāni 216 188 dvādaśīvratāni 217 189 śravaṇadvādaśīvrataṃ 219 190 akhaṇḍadvādaśīvrataṃ 221 191 trayodaśīvratāni 222 192 caturdaśīvratāni 223 193 śivarātrivrataṃ 225 194 aśokapūrṇimādivrataṃ 226 195 vāravratāni 230 196 nakṣatravratāni 228 197 divasavratāni 231 198 māsavratāni 233 199 nānāvratāni 235 200 dīpadānavrataṃ 236 201 navavyūhārcanaṃ 238 202 puṣpādhyāyaḥ 240 203 narakasvarūpavarṇanaṃ 243 204 māsopavāsavrataṃ 246 205 bhīṣmapañcakavrataṃ 248 206 agastyārghyadānavrataṃ 249 207 kaumudavrataṃ 252 208 vratadānādisamuccayaḥ 253 209 dānaparibhāṣā 255 210 mahādānāni 261 211 nānādānāni 265 212 bherudānāni 270 213 pṛthvīdānāni 276 214 mantramāhātmyaṃ 277 215 sandhyāvidhiḥ 282 216-217 gāyatrīnirvāṇaṃ 287 218 rājābhiṣekaḥ 291 219 abhiṣekamantrāḥ 294 220 śatruvijayasahāyasampattiḥ anujīvivṛttañca 302 221 durgasampattiḥ 306 222-226 rājadharmāḥ 309 227 yuddhayātrā 329 228 svapnādhyāyaḥ 330 229-230-231 śakunaphalaṃ 333 232 yātrāmaṇḍalacintādiḥ 343 233 ṣāḍguṇyaṃ 345 234 prātyahikarājakarma 348 235 raṇadīkṣā 350 236 śrīstotraṃ 357 237 rāmoktanītiḥ 359 238 rājyāṅgāni 361 239 dvādaśarājamaṇḍalāni sandhivigrahādayaś ca 366 240 sāmādyupāyāḥ 370 241 rājanītiḥ 376 242 puruṣalakṣaṇaṃ 384 243 strīlakṣaṇaṃ 386 244 āyudhalakṣaṇaṃ 387 245 ratnaparīkṣā 390 246 vāstulakṣaṇaṃ 392 247 puṣpādipūjāphalaṃ 395 248-249-250-251 dhanurvedāḥ 396 252-253 vyavahārāḥ 407 254 divyapramāṇāni 416 255 dāyavibhāgaḥ 423 256 sīmāvivādādinirṇayaḥ 425 257 vākpāruṣyādiprakaraṇaṃ 430 258 ṛgvidhānaṃ 438 259 yajurvidhānaṃ 447 260 sāmavidhānaṃ 455 261 atharvavidhānaṃ 458 262 utpātaśāntiḥ 461 263 devapūjāvaiśvadevādibaliḥ 464 264 dikpālādisnānaṃ 467 265 vināyakasnānaṃ 469 266 māheśvarasnānalakṣakoṭihomādayaḥ 472 267 nārījanāvidhiḥ 474 268 chatrādimantrādayaḥ 478 269 viṣṇupañjaraṃ 1 270 vedaśākhādayaḥ 3 271 dānādimāhātmyaṃ 5 272 sūryavaṃśaḥ 8 273 somavaṃśaḥ 12 274 yuduvaṃśaḥ 14 275 dvādaśasaṃgrāmāḥ 19 276 rājavaṃśaḥ 22 277 puruvaṃśaḥ 24 278 siddhauṣadhāni 28 279 sarvarogaharāṇyauṣadhāni 34 280 rasādilakṣaṇaṃ 39 281 vṛkṣāyurvedaḥ 42 282 nānārogaharāṇyauṣadhāni 44 283 mantrarūpauṣadhāni 49 284 mṛtasañjīvanīkarasiddhayogaḥ 50 285 kalpasāgaraḥ 58 286 gajacikitsā 61 287 aśvavāhanasāraḥ 64 288 aśvacikitsā 71 289 aśvaśāntiḥ 76 290 gajaśāntiḥ 77 291 śāntyāyurvedaḥ 80 292 mantraparibhāṣā 84 293 nāgalakṣaṇāni 89 294 daṣṭacikitsā 93 295 pañcāṅgarudravidhānaṃ 97 296 viṣahṛnmantrauṣadhaṃ 99 297 gonasādicikitsā 101 298 bālagrahaharabālatantraṃ 104 299 grahahṛnmantrādikaṃ 109 300 mūryārcanaṃ 112 301 nānāmantrāḥ 114 302 aṅgākṣarārcanaṃ 117 303 pañcākṣarādipūjāmantrāḥ 119 304 pañcapañcāśadviṣṇunāmāni 123 305 nārasiṃhādimantrāḥ 125 306 trailokyamohanamantrāḥ 127 307 trailokyamohanīlakṣmyādipūjā 131 308 tvaritāpūjā 134 309 tvaritāmantrādiḥ 136 310 tvaritāmūlamantrādiḥ 140 311 tvaritāvidyā 144 312 nānāmantrāḥ 146 313 tvaritājñānaṃ 150 314 stambhanādimantrāḥ 152 315 nānāmantrāḥ 154 316 sakalādimantroddhāraḥ 155 317 gaṇapūjā 159 318 vāgīśvarīpūjā 161 319 maṇḍalāni 162 320 aghorāstrādiśāntikalpaḥ 167 321 pāśupataśāntiḥ 169 322 ṣaḍaṅgānyadhorāstrāṇi 171 323 rudraśāntiḥ 174 324 aṃśakādiḥ 177 325 gauryādipūjā 180 326 devālayamāhātmyaṃ 182 327-328-329 chandaḥsāraḥ 184 330 chandojātinirūpanaṃ 188 331 viṣamakathanaṃ 190 332 ardhasamanirūpaṇaṃ 191 333 samavṛttanirūpaṇaṃ 192 334 prastāranirūpaṇaṃ 195 335 śikṣānirūpaṇaṃ 196 336 kāvyādilakṣaṇaṃ 199 337 nāṭakanirūpaṇaṃ 203 338 śṛṅgārādirasanirūpaṇaṃ 205 339 rītinirūpaṇaṃ 211 340 nṛtyādāvaṅgakarmanirūpaṇaṃ 212 341 abhinayādinirūpaṇaṃ 214 342 śabdālaṅkārāḥ 218 343 arthālaṅkārāḥ 224 344 śabdārthālaṅkārāḥ 227 345 kāvyaguṇavivekaḥ 229 346 kāvyadoṣavivekaḥ 233 347 ekākṣarābhidhānaṃ 236 348 vyākaraṇaṃ 239 349 sandhisiddharūpaṃ 240 350 puṃliṅgaśabdasiddharūpaṃ 241 351 strīliṅgaśabdasiddharūpaṃ 248 352 napuṃsakaśabdasiddharūpaṃ 250 353 kārakaṃ 251 354 samāsaḥ 253 355 taddhitaṃ 255 356 unādisiddharūpaṃ 258 357 tiṅvibhaktisiddharūpaṃ 260 358 kṛtsiddharūpaṃ 263 359 svargapātālādivargāḥ 264 360 avyayavargāḥ 272 361 nānārthavargāḥ 276 362 bhūmivanauṣadhyādivargāḥ 280 363 nṛvargāḥ 287 364 brahmavargāḥ 290 365 kṣatrabiṭhśūdravargāḥ 291 366 sāmānyanāmaliṅgāni 296 367 nityanaimittikaprākṛtapralayāḥ 299 368 ātyantikalayagarbhotpattyādayaḥ 301 369 śarīrāvayavāḥ 306 370 narakanirūpanaṃ 310 371 yamaniyamāḥ 314 372 āsanaprāṇāyāmapratyāhārāḥ 318 373 dhyānaṃ 320 374 dhāraṇā 324 375 samādhiḥ 326 376 brahmajñānaṃ 329 377 samādhiḥ 333 378 brahmajñānaṃ 338 379 advaitabrahmajñānaṃ 339 380 gītāsāraḥ 345 381 yamagītā 351 382 āgneyapurāṇamāhātmyaṃ 355 oṃ namo bhagavate vāsudevāya | agnipurāṇam | chapter {1} :ś atha prathamo 'dhyāyaḥ granthaprastāvanā śriyaṃ(1) sarasvatīṃ gaurīṃ gaṇeśaṃ skandamīśvaram brahmāṇaṃ vahnimindrādīn vāsudevaṃ namāmyaham
The Agni Purāṇa. Now the table of contents of the Agni Purāṇa. (Column headings:) chapter — subject — page. [The numbered list of chapter titles and page numbers follows: 1 The question about the Purāṇa, 2 Description of the Fish incarnation, 3 Description of the Tortoise incarnation, 4 Description of the Boar, Man-Lion, Dwarf and Paraśurāma incarnations, 5 Description of the Rāma incarnation, ... 382 The greatness of the Āgneya (Agni) Purāṇa.] Oṃ, homage to the Lord Vāsudeva. The Agni Purāṇa. Chapter 1: the introduction to the work. Śrī, Sarasvatī, Gaurī, Gaṇeśa, Skanda, Īśvara, Brahmā, Fire, Indra and the rest, (and) Vāsudeva — to (them) I bow.
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain
AgP 1.2
नैमिषे हरिमीजाना ऋषयः शौनकादयः तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन्
naimiṣe harimījānā ṛṣayaḥ śaunakādayaḥ tīrthayātrāprasaṅgena svāgataṃ sūtamabruvan
At Naimiṣa the sages, Śaunaka and the others, who were sacrificing to Hari, spoke a welcome to the Sūta, on the occasion of (his) pilgrimage to the holy places.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.3
ऋषय ऊचुः सूत त्वं पूजितो ऽस्माभिः सारात्सारं वदस्व नः येन विज्ञानमात्रेण(२) सर्वज्ञत्वं प्रजायते
ṛṣaya ūcuḥ sūta tvaṃ pūjito 'smābhiḥ sārātsāraṃ vadasva naḥ yena vijñānamātreṇa(2) sarvajñatvaṃ prajāyate
The sages said: Sūta, you have been honoured by us; tell us the essence of the essence, by the mere knowing of which omniscience arises.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.4
सूत उवाच सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः ब्रह्माहमस्मि तं ज्ञात्वा सर्वज्ञत्वं प्रजायते
sūta uvāca sārātsāro hi bhagavān viṣṇuḥ sargādikṛdvibhuḥ brahmāhamasmi taṃ jñātvā sarvajñatvaṃ prajāyate
The Sūta said: The essence of the essence is indeed the Lord Viṣṇu, the pervader, the maker of creation and the rest. Knowing him, (one knows) 'I am brahman' — and omniscience arises.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.5
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्(३) द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat(3) dve vidye veditavye hi iti cātharvaṇī śrutiḥ
Two brahmans are to be known: the brahman that is sound (the Veda) and that which is supreme. "For two knowledges are to be known" — such is the Atharvan scriptural text.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.6
अहं शुकश् च पैलाद्या गत्वा वदरिकाश्रमम् व्यासं नत्वा पृष्टवन्तः सो ऽस्मान् सारमथाब्रवीत्
ahaṃ śukaś ca pailādyā gatvā vadarikāśramam vyāsaṃ natvā pṛṣṭavantaḥ so 'smān sāramathābravīt
I and Śuka and Paila and the others went to the Badarikā hermitage and, having bowed to Vyāsa, asked (him); and he then told us the essence.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.7
व्यास उवाच शुकाद्यैः शृणु सूत त्वं वशिष्ठो मां यथाब्रवीत्(५) ब्रह्मसारं हि पृच्छन्तं मुनिभिश् च परात्परम्
vyāsa uvāca śukādyaiḥ śṛṇu sūta tvaṃ vaśiṣṭho māṃ yathābravīt(5) brahmasāraṃ hi pṛcchantaṃ munibhiś ca parātparam
Vyāsa said: Sūta, listen — with Śuka and the others — to how Vasiṣṭha spoke to me, when I asked about the essence of brahman, higher than the highest, together with the sages.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.8
:न् १ लक्ष्मीमिति घ, चिह्नितपुस्तकपाठः २ विज्ञातमात्रेण इति घ, चिह्नितपुस्तकपाठः ३ अपरञ्च परञ्च यदिति ख, चिह्नितपुस्तकपाठः ४ यदब्रवीदिति ख, घ, चिह्नितपुस्तकद्वयपाठः :प् १ वसिष्ठ उवाच द्वैविध्यं ब्रह्म(१) वक्ष्यामि शृणु व्यासाखिलानुगम्(२) यथाग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह
:n 1 lakṣmīmiti gha, cihnitapustakapāṭhaḥ 2 vijñātamātreṇa iti gha, cihnitapustakapāṭhaḥ 3 aparañca parañca yaditi kha, cihnitapustakapāṭhaḥ 4 yadabravīditi kha, gha, cihnitapustakadvayapāṭhaḥ :p 1 vasiṣṭha uvāca dvaividhyaṃ brahma(1) vakṣyāmi śṛṇu vyāsākhilānugam(2) yathāgnirmāṃ purā prāha munibhirdaivataiḥ saha
[Footnotes: 1. 'lakṣmīm' is the reading of manuscript marked gha. 2. 'vijñātamātreṇa' is the reading of manuscript gha. 3. 'aparañ ca parañ ca yat' is the reading of manuscript kha. 4. 'yad abravīt' is the reading of the two manuscripts marked kha and gha.] Page 1. Vasiṣṭha said: I shall declare the twofold brahman; listen, Vyāsa, (to that teaching) which follows upon everything, just as Agni formerly told it to me together with the sages and the gods.
AI translation rendered from the Sanskrit, not a published edition — the model flagged this verse as uncertain
AgP 1.9
पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम्(३)
purāṇaṃ paramāgneyaṃ brahmavidyākṣaraṃ param ṛgvedādyaparaṃ brahma sarvadevasukhāvaham(3)
The supreme Āgneya Purāṇa is the imperishable, supreme knowledge of brahman; the Ṛgveda and the rest are the lower brahman, bringing happiness to all the gods.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.10
अग्निनोक्तं पुराणम् यद् आग्नेयं ब्रह्मसम्मितम्(४) भुक्तिमुक्तिप्रदं दिव्यं(५) पठतां शृण्वतां नृणाम्
agninoktaṃ purāṇam yad āgneyaṃ brahmasammitam(4) bhuktimuktipradaṃ divyaṃ(5) paṭhatāṃ śṛṇvatāṃ nṛṇām
The Purāṇa that was spoken by Agni, the Āgneya, is equal to brahman; it is divine and bestows enjoyment and liberation on men who recite and hear it.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.11
कालाग्निरूपिणम् विष्णुं ज्योतिर्ब्रह्म परात्परम् मुनिभिः पृष्टवान् देवं पूजितं ज्ञानकर्मभिः
kālāgnirūpiṇam viṣṇuṃ jyotirbrahma parātparam munibhiḥ pṛṣṭavān devaṃ pūjitaṃ jñānakarmabhiḥ
The sages questioned Viṣṇu, who has the form of the fire of time, the light, brahman higher than the highest, the god worshipped by knowledge and by rites.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.12
वसिष्ठ उवाच संसारसागरोत्तार- नावं ब्रह्मेश्वरं वद विद्यासारं यद्विदित्वा(६) सर्वज्ञो जायते नरः
vasiṣṭha uvāca saṃsārasāgarottāra- nāvaṃ brahmeśvaraṃ vada vidyāsāraṃ yadviditvā(6) sarvajño jāyate naraḥ
Vasiṣṭha said: Declare the ship for crossing the ocean of transmigration, brahman the Lord, the essence of knowledge, by knowing which a man becomes omniscient.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.13
अग्निर् उवाच विष्णुः कालाग्निरुद्रो ऽहं(७) विद्यासारं वदामि ते विद्यासारं पुराणं(८) यत् सर्वं सर्वस्य कारणं
agnir uvāca viṣṇuḥ kālāgnirudro 'haṃ(7) vidyāsāraṃ vadāmi te vidyāsāraṃ purāṇaṃ(8) yat sarvaṃ sarvasya kāraṇaṃ
Agni said: I am Viṣṇu, I am Kālāgnirudra; I declare to you the essence of knowledge — that essence of knowledge which is the Purāṇa, which is everything, the cause of all.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.14
सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च वंशानुचरितादेश् च, मत्स्यकूर्मादिरूपधृक्
sargasya pratisargasya vaṃśamanvantarasya ca vaṃśānucaritādeś ca, matsyakūrmādirūpadhṛk
(It speaks) of creation, of re-creation, of lineage and of the manvantara, and of the deeds of the lineages and the rest; (and of him who) bears the forms of fish, tortoise and so on.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.15
द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह ऋग्यजुःसामाथर्वाख्या वेदाङ्गानि च षड् द्विज(९)
dve vidye bhagavān viṣṇuḥ parā caivāparā ca ha ṛgyajuḥsāmātharvākhyā vedāṅgāni ca ṣaḍ dvija(9)
The Lord Viṣṇu is the two knowledges, indeed the higher and the lower: (namely) those called Ṛg, Yajus, Sāma and Atharva, and the six limbs of the Veda, O twice-born one.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.16
:न् १ द्वे विद्ये ब्रह्म इति घ, चिह्नितपुस्तकपाठः २ अखिलात्मगमिति ख, चिह्नितपुस्तकपाठः ३ सर्ववेदमुखम् परमिति ख, चिह्नितपुस्तकपाठः ४ वेदसम्मितमिति ख, घ, चिह्नितपुस्तकद्वयपाठः ५ पुण्यमिति ख, चिह्नितपुस्तकपाठः ६ यद् गदित्वा इति ग, चिह्नितपुस्तकपाठः ७ ज्ञानसन्दीपनादेव इति ग, चिह्नितपुस्तकपाठः ८ ब्रह्माग्नेयं पुराणमिति ग, घ, चिह्नितपुस्तकद्वयपाठः ९ यद् द्विज इति ख, चिह्नितपुस्तकपाठः :प् २ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः छन्दो ऽभिधानं मीमांसा धर्मशास्त्रं पुराणकम्
:n 1 dve vidye brahma iti gha, cihnitapustakapāṭhaḥ 2 akhilātmagamiti kha, cihnitapustakapāṭhaḥ 3 sarvavedamukham paramiti kha, cihnitapustakapāṭhaḥ 4 vedasammitamiti kha, gha, cihnitapustakadvayapāṭhaḥ 5 puṇyamiti kha, cihnitapustakapāṭhaḥ 6 yad gaditvā iti ga, cihnitapustakapāṭhaḥ 7 jñānasandīpanādeva iti ga, cihnitapustakapāṭhaḥ 8 brahmāgneyaṃ purāṇamiti ga, gha, cihnitapustakadvayapāṭhaḥ 9 yad dvija iti kha, cihnitapustakapāṭhaḥ :p 2 śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṅgatiḥ chando 'bhidhānaṃ mīmāṃsā dharmaśāstraṃ purāṇakam
[Variant readings: (1) 'dve vidye brahma' is the reading of the manuscript marked gha; (2) 'akhilātmagam' is the reading of the manuscript marked kha; (3) 'sarvavedamukham param' is the reading of the manuscript marked kha; (4) 'vedasammitam' is the reading of the two manuscripts marked kha and gha; (5) 'puṇyam' is the reading of the manuscript marked kha; (6) 'yad gaditvā' is the reading of the manuscript marked ga; (7) 'jñānasandīpanād eva' is the reading of the manuscript marked ga; (8) 'brahmāgneyaṃ purāṇam' is the reading of the two manuscripts marked ga and gha; (9) 'yad dvija' is the reading of the manuscript marked kha.] Phonetics, ritual procedure, grammar, etymology, the movement of the heavenly bodies, metre, lexicography, Mīmāṃsā, the law-books, and Purāṇa;
AI translation rendered from the Sanskrit, not a published edition
AgP 1.17
न्यायवैद्यकगान्धर्वं धनुर्वेदो ऽर्थशास्त्रकम् अपरेयं परा विद्या यया ब्रह्माभिगम्यते(१)
nyāyavaidyakagāndharvaṃ dhanurvedo 'rthaśāstrakam apareyaṃ parā vidyā yayā brahmābhigamyate(1)
Logic, medicine, music, the science of archery, the science of statecraft — this is the lower (knowledge); the higher knowledge is that by which brahman is reached.
AI translation rendered from the Sanskrit, not a published edition
AgP 1.18
यत्तददृश्यमग्राह्यम् अगोत्रचरणम् ध्रुवम्(२) विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम्
yattadadṛśyamagrāhyam agotracaraṇam dhruvam(2) viṣṇunoktaṃ yathā mahyaṃ devebhyo brahmaṇā purā tathā te kathayiṣyāmi hetuṃ matsyādirūpiṇam
That which is invisible, ungraspable, without family or observance, and unchanging — as it was told to me by Viṣṇu, and formerly by Brahmā to the gods, so I shall relate to you the (first) cause, which takes the forms of the fish and the rest.
AI translation rendered from the Sanskrit, not a published edition